०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिर्ह वा᳘ ऽएष य᳘दᳫँ᳭शुः᳘॥
सो ऽस्यैष᳘ ऽआ᳘त्मै᳘वात्मा᳘ ह्ययं᳘[[!!]] प्रजा᳘पतिर्व्वा᳘गेवा᳘दाभ्यः स य᳘दᳫँ᳭शुं᳘ गृहीत्वा᳘ ऽदाभ्यं गृह्णा᳘त्यात्मा᳘नमे᳘वास्यैत᳘त्सᳫँ᳭स्कृ᳘त्य त᳘स्मिन्नेताम्वा᳘चम्प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
प्रजा᳘पतिर्ह वा᳘ ऽएष य᳘दᳫँ᳭शुः᳘॥
सो ऽस्यैष᳘ ऽआ᳘त्मै᳘वात्मा᳘ ह्ययं᳘[[!!]] प्रजा᳘पतिर्व्वा᳘गेवा᳘दाभ्यः स य᳘दᳫँ᳭शुं᳘ गृहीत्वा᳘ ऽदाभ्यं गृह्णा᳘त्यात्मा᳘नमे᳘वास्यैत᳘त्सᳫँ᳭स्कृ᳘त्य त᳘स्मिन्नेताम्वा᳘चम्प्र᳘तिष्ठापयति॥
मूलम् - Weber
प्रजा᳘पतिर्ह वा᳘ एष य᳘दंशुः᳟᳟॥
सोऽस्यैष᳘ आॗत्मैॗवात्मा ह्य᳘य᳘म् प्रजा᳘पतिर्वा᳘गेवा᳘दाभ्यः स य᳘दंशुः᳘ गृहीत्वा᳘दाभ्यं गृह्णा᳘त्यात्मा᳘नमेॗवास्यैत᳘त्संस्कृ᳘त्य त᳘स्मिन्नेतां वा᳘चम् प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
प्रजापतिर्ह वा एष, यदंशुः । सो ऽस्यैष आत्मैव । आत्मा ह्ययं प्रजापतिः । वागेवादाभ्यः । स यदंशुं गृहीत्वा ऽदाभ्यं गृह्णाति । आत्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचं प्रतिष्ठापयति ॥ १ ॥
सायणः
अथ अंश्वदाभ्याख्यौ सोमग्रहौ विधित्सुः तयोः आत्मवागादिरूपतया समुच्चित्यानुष्ठानं प्रतिपादयति- प्रजापतिर्ह वा इत्यादिना । अंश्वाख्यो ग्रह इति यदस्ति ‘एषः’ ‘प्रजापतिर्ह वै’ प्रजापतिरेव । ‘सः’ खलु प्रजापत्यात्मकः अंशुः ‘अस्य’ यज्ञस्य ‘एष आत्मैव’ मध्यमशरीरमेव । तत्समर्थयते- आत्मा ह्ययमिति । ‘हि’ यस्मात् एवं प्रजापतिरात्मा तस्मात् तदात्मकः अंशुरपि आत्मैवेत्यर्थः । एवं अंशुग्रहस्यात्मरूपतामुक्त्वा अदाभ्यस्य वाग्रूपतामाह- वागेवादाभ्य इति । यो ऽयम् अदाभ्याख्यो ग्रहो वक्ष्यमाणः एष वागिन्द्रियात्मकः । अनयोर्ग्रहणं विधत्ते- स यदंशुं गृहीत्वेति । अंश्वाख्यं ग्रहं प्रथमं ‘गृहीत्वा’ पश्चात् ‘अदाभ्यं’ ग्रहं ‘गृह्णाति’ इति यदस्ति ‘एतत्’ एतेन प्रथमं ‘आत्मानं’ शरीरमेव ‘संस्कृत्य’ ‘तस्मिन्’ शरीरे ‘एतां वाचं’ वागिन्द्रियं प्रतिष्ठापयति ॥ १ ॥
Eggeling
- Now, the Aṁśu (cup of Soma) 1, indeed, is no other than Prajāpati; and it is the body of this (sacrifice), for Prajāpati, indeed, is the body. And the Adābhya 2 (cup of Soma) is no other than speech. When he draws the Aṁśu-cup, and then the Adābhya-cup, he thereby constructs the body of this (sacrifice) and then establishes that speech therein.
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ म᳘नो ह वा᳘ ऽअᳫँ᳭शुः[[!!]]॥
(र्व्वा) व्वाग᳘दाभ्यः प्राण᳘ ऽए᳘वाᳫँ᳭शु᳘रुदानो᳘ ऽदाभ्यश्च᳘क्षुरे᳘वाᳫँ᳭शुः श्रो᳘त्रम᳘दाभ्यस्तद्य᳘देतौ ग्र᳘हौ गृह्ण᳘न्ति सर्व्वत्वा᳘यैव᳘ कृत्स्न᳘तायै॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ म᳘नो ह वा᳘ ऽअᳫँ᳭शुः[[!!]]॥
(र्व्वा) व्वाग᳘दाभ्यः प्राण᳘ ऽए᳘वाᳫँ᳭शु᳘रुदानो᳘ ऽदाभ्यश्च᳘क्षुरे᳘वाᳫँ᳭शुः श्रो᳘त्रम᳘दाभ्यस्तद्य᳘देतौ ग्र᳘हौ गृह्ण᳘न्ति सर्व्वत्वा᳘यैव᳘ कृत्स्न᳘तायै॥
मूलम् - Weber
अ᳘थ म᳘नो ह वा᳘ अंशुः᳟॥
वाग᳘दाभ्यः प्राण᳘ एॗवांशु᳘रुदानो᳘ऽदाभ्यश्च᳘क्षुरेॗवांशुः श्रो᳘त्रम᳘दाभ्यस्तद्य᳘देतौ ग्र᳘हौ गृह्ण᳘न्ति सर्वत्वा᳘यैव᳘ कृत्स्न᳘तायै॥
मूलम् - विस्वरम्
अथ मनो ह वा अंशुः, वागदाभ्यः । प्राण एवांशुः, उदानो ऽदाभ्यः । चक्षुरेवांशुः, श्रोत्रमदाभ्यः । तद्यदेतौ ग्रहौ गृह्णंति, सर्वत्वायैव कृत्स्नायै ॥ २ ॥
सायणः
एतौ ग्रहौ सह प्रयोक्तव्यौ न पृथक् इत्यनेनाभिप्रायेण मनोवागादिरूपतया च स्तौति- अथ मनो ह वा इति । मनःप्राणचक्षुरात्मकः अंशुग्रहः । वागुदानश्रोत्रात्मकः अदाभ्यः । ‘तदेतौ ग्रहौ’ सोमयागे ‘गृह्णंतीति’ यदस्ति तद्यज्ञस्य ‘सर्वत्वाय’ मनोवागादिसर्वावयवसंपूर्णत्वायैव ‘कृत्स्नतायै’ समग्रतायै सह गृह्येते ॥ २ ॥
Eggeling
- And, indeed, the Aṁśu is also the mind, and the Adābhya speech; and the Aṁśu is the out-breathing, and the Adābhya the up-breathing; and the Aṁśu is the eye, and the Adābhya the ear: these two cups they draw for the sake of wholeness and completeness.
०३
विश्वास-प्रस्तुतिः
(या ऽअ᳘) अ᳘थ देवा᳘श्च ह वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्या᳘ ऽअस्पर्द्धन्त त᳘ ऽएत᳘स्मिन्नेव᳘ यज्ञे᳘ प्रजा᳘पतावस्पर्द्धन्तास्मा᳘कमय᳘ᳫँ᳘ स्यादस्मा᳘कमय᳘ᳫँ᳘ स्यादि᳘ति॥
मूलम् - श्रीधरादि
(या ऽअ᳘) अ᳘थ देवा᳘श्च ह वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्या᳘ ऽअस्पर्द्धन्त त᳘ ऽएत᳘स्मिन्नेव᳘ यज्ञे᳘ प्रजा᳘पतावस्पर्द्धन्तास्मा᳘कमय᳘ᳫँ᳘ स्यादस्मा᳘कमय᳘ᳫँ᳘ स्यादि᳘ति॥
मूलम् - Weber
अ᳘थ देवा᳘श्च ह वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्या अस्पर्धन्त त᳘ एत᳘स्मिन्नेव᳘ यज्ञे᳘ प्रजा᳘पतावस्पर्धन्तास्मा᳘कमय᳘ᳫं᳘ स्यादस्मा᳘कमय᳘ᳫं᳘ स्यादि᳘ति॥
मूलम् - विस्वरम्
अथ देवाश्च ह वा असुराश्च उभये प्राजापत्या अस्पर्द्धंत । त एतस्मिन्नेव यज्ञे प्रजापतावस्पर्द्धंत । अस्माकमयं स्यादस्माकमयं स्यादिति ॥ ३ ॥
सायणः
अथ कृत्स्नयज्ञस्यासुरेभ्यः सकाशात् आवर्जनसाधनत्वं अदाभ्यग्रहस्याख्यायिकया प्रतिपादयति- अथ देवाश्चेति । ‘अस्पर्द्धन्त’ “स्पर्ध संघर्षे”- (धा. पा. भ्वा प. ३) इति धातुः । एतस्मिन् यज्ञरूपे प्रजापतौ यतः ‘उभये अस्पर्द्धंत’ । अस्माकमेवायं यज्ञो भोग्यः स्यात्; अस्माकमयं यज्ञो भोग्यः स्यादिति । “नित्यवीप्सयोः” (पा. सू . १ । ४ । ८) इति द्विर्वचनम् ॥ ३ ॥
Eggeling
- Now, the gods and the Asuras, both of them sprung from Prajāpati, were contending,–it was for this very sacrifice, for Prajāpati, that they were contending, saying, ‘Ours he shall be! ours he shall be!’
०४
विश्वास-प्रस्तुतिः
त᳘तो देवाः[[!!]]॥ (ऽ) अ᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएतं ग्र᳘हं ददृशुरेतम᳘दाभ्यं त᳘मगृह्णत ते स᳘वनानि प्रा᳘व्वृहन्त ते स᳘र्व्वं यज्ञᳫँ᳭ स᳘मव्वृञ्जतान्त᳘रायन्न᳘सुरान्यज्ञात्[[!!]]॥
मूलम् - श्रीधरादि
त᳘तो देवाः[[!!]]॥ (ऽ) अ᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएतं ग्र᳘हं ददृशुरेतम᳘दाभ्यं त᳘मगृह्णत ते स᳘वनानि प्रा᳘व्वृहन्त ते स᳘र्व्वं यज्ञᳫँ᳭ स᳘मव्वृञ्जतान्त᳘रायन्न᳘सुरान्यज्ञात्[[!!]]॥
मूलम् - Weber
त᳘तो देवाः᳘ अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ एतं ग्र᳘हं ददृशुरेतम᳘दाभ्यं त᳘मगृह्णत ते स᳘वनानि प्रा᳘वृहन्त ते स᳘र्वं यज्ञᳫं स᳘मवृञ्जतान्त᳘रायन्न᳘सुरान्यज्ञा᳘त्॥
मूलम् - विस्वरम्
ततो देवा अर्चंतः श्राम्यंतश्चेरुः । त एतं ग्रहं ददृशुः- एतमदाभ्यम् । तमगृह्णत । ते सवनानि प्रावृहंत । ते सर्वं यज्ञं समवृंजत । अंतरायन्नसुरान् यज्ञात् ॥ ४ ॥
सायणः
एवं विवदमाना देवाः किं कृतवंतः तदाह- ततो देवा इति । ततस्तस्मात् अनंतरं ‘देवा अर्चंतः श्राम्यंतः’ कृत्स्नयागप्राप्त्यर्थं मनसा अभिलषन्तः तत एव श्राम्यंतश्चेरुः । ‘ते’ तथाविधा देवाः ‘एतं’ वक्ष्यमाणं अदाभ्यं ‘ग्रहं’ ददृशुः । दृष्ट्वा च ‘तमगृह्णत’ गृहीतवंतः । ततस्ते देवाः तेन ग्रहेण प्रातःसवनादीनि त्रीणि ‘सवनानि’ यज्ञसंबंधीनि ‘प्रावृहंत’ प्रागृह्णत असुरेभ्यः सकाशात् स्वीकृतवंतः । “वृहू उद्यमने” (धा. पा. तु. आ. ६६) इति । ततस्ते ‘सर्वं यज्ञं’ असुरेभ्यः ‘समवृंजत’ सम्यक् विजितवंतः । तथा च यज्ञात्सकाशात् ‘असुरान् अंतरायन्’ अंतरितान् व्यवहितान् परित्यक्तभागान् अकुर्वन् ॥ ४ ॥
Eggeling
- The gods then went on singing praises, and toiling. They saw this cup of Soma, this Adābhya, and drew it: they seized upon the (three) Soma-services, and possessed themselves of the whole sacrifice, and excluded the Asuras from the sacrifice.
०५
विश्वास-प्रस्तुतिः
(त्ते᳘) ते᳘ होचुः॥
(र᳘) अ᳘दभाम वा᳘ ऽएनानि᳘ति त᳘स्माद᳘दाभ्यो न वै᳘ नो ऽदभन्नि᳘ति त᳘स्माद᳘दाभ्यो व्वाग्वा ऽअ᳘दा᳘भ्यः सेयम᳘दब्धा व्वाक्त᳘स्माद्वेवा᳘दाभ्य ऽएव᳘ᳫँ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्व्यस्य स᳘र्व्वं यज्ञᳫँ᳭ स᳘म्वृङ्क्त ऽएवं᳘ द्विष᳘न्तं भ्रा᳘तृव्व्यᳫँ᳭ स᳘र्व्वस्माद्यज्ञान्नि᳘र्भजति बहिर्द्धा᳘ करोति य᳘ ऽउ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
(त्ते᳘) ते᳘ होचुः॥
(र᳘) अ᳘दभाम वा᳘ ऽएनानि᳘ति त᳘स्माद᳘दाभ्यो न वै᳘ नो ऽदभन्नि᳘ति त᳘स्माद᳘दाभ्यो व्वाग्वा ऽअ᳘दा᳘भ्यः सेयम᳘दब्धा व्वाक्त᳘स्माद्वेवा᳘दाभ्य ऽएव᳘ᳫँ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्व्यस्य स᳘र्व्वं यज्ञᳫँ᳭ स᳘म्वृङ्क्त ऽएवं᳘ द्विष᳘न्तं भ्रा᳘तृव्व्यᳫँ᳭ स᳘र्व्वस्माद्यज्ञान्नि᳘र्भजति बहिर्द्धा᳘ करोति य᳘ ऽउ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
ते᳘ होचुः॥
अ᳘दभाम वा᳘ एनानि᳘ति त᳘स्माद᳘दाभ्यो न वै᳘ नोऽदभन्नि᳘ति त᳘स्माद᳘दाभ्यो वाग्वा अ᳘दाॗभ्यः सेयम᳘दब्धा वाक्त᳘स्माद्वेवा᳘दाभ्य एव᳘ᳫं᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य स᳘र्वं यज्ञᳫं सं᳘वृङ्क्त एवं᳘ द्विष᳘न्तम् भ्रा᳘तृव्यᳫं स᳘र्वस्माद्यज्ञान्नि᳘र्भजति बहिर्धा᳘ करोति य᳘ उ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
ते होचुः- अदभाम वा एनानिति, तस्माददाभ्यः । न वै नो ऽदभन्निति, तस्माददाभ्यः । वाग्वा अदाभ्यः । सेयमदब्धा वाक् । तस्माद्वेवादाभ्यः । एवं ह वै द्विषतो भ्रातृव्यस्य सर्वं यज्ञं संवृंक्ते । एवं द्विषंतं भ्रातृव्यं सर्वस्माद्यज्ञान्निर्भजति । बहिर्द्धा करोति । य उ एवमेतद्वेद ॥ ५ ॥
सायणः
अदाभ्यनामनिर्वचनं करोति- ते होचुरिति । ‘ते’ देवाः खलु ‘ऊचुः’ उक्तवंतः । ‘एनान्’ असुरान् यतो वयं ‘अदभाम’ अहिंसिष्मेति । तस्मात् दभ्यते अनेनेति व्युत्पत्त्या अदाभ्यनामकरणेन ग्रहः संपन्नः । ण्यप्रत्ययोत्पत्तिः । छांदसत्वात् अडागमसहितायाः प्रकृतेः कृत् । प्रकारान्तरेण निर्वक्ति- न वै न इति । ‘नः’ अस्मान् खलु ते असुराः ‘न अदभन्’ नाहिंसिषुरिति यस्मादवदन् तस्मात् न दभ्यते अनेनेति व्युत्पत्त्या अदाभ्यो ग्रहः । स्वयं न दभ्यत इति अदाभ्यः इति कर्मसाधनः क्रम इत्याह- वाग्वा अदाभ्य इति । यो ऽयमदाभ्यो ग्रहः तस्य वागात्मकत्वं प्रागुक्तम् । ‘वागदब्धा’ अहिंसिता । अतस्तदात्मको ग्रहो ऽपि अहिंसित इति कृत्वा अदाभ्य इत्युच्यत इत्यर्थः । एतदेव निर्वचनं साधु इति निगमयति- तस्माद्वेवेति । उशब्दस्तुशब्दार्थः । पुरावृत्तसिद्धमर्थं प्रकृते योजयति- एवं ह वा इति । यथा देवा असुरेभ्यः सकाशात् कृत्स्नं यज्ञमवृंजत; यज्ञभागाच्च असुरानंतरायन् । एवमेव अयं यजमानो ऽपि विद्वेषणशीलस्य ‘भ्रातृव्यस्य’ संबंधिनं ‘सर्वं यज्ञं संवृंक्ते’ वर्जयति । एवमेव तथाविधं ‘भ्रातृव्यं सर्वस्मात् यज्ञात् निर्भजति’ भागरहितं करोति । अत एव तस्मात् यज्ञात् ‘बहिर्द्धा’ बाह्यं ‘करोति’ ‘यः’ यजमानः ‘एतत्’ उक्तमर्थजातं एवमुक्तप्रकारेण ‘वेद’ जानाति ॥ ५ ॥
Eggeling
- They spake, ‘Surely, we have destroyed (adabhāma) them;’ whence (the cup is called) Adābhya;–’they have not destroyed (dabh) us;’ whence also (it is called) Adābhya. And the Adābhya
being speech, this speech is indestructible, whence also it is (called) Adābhya; and, verily, in like manner does he who knows this possess himself of the whole sacrifice of his spiteful enemy, and exclude and shut out his spiteful enemy from all participation in the sacrifice.
०६
विश्वास-प्रस्तुतिः
स ये᳘नैव पा᳘त्रेणाᳫँ᳭शुं᳘ गृह्णा᳘ति॥
त᳘स्मिन्नेव पा᳘त्रे निग्ग्रा᳘भ्याभ्यो ऽप᳘ ऽआनी᳘य त᳘स्मिन्नेता᳘नᳫँ᳭शू᳘न्गृह्णाति॥
मूलम् - श्रीधरादि
स ये᳘नैव पा᳘त्रेणाᳫँ᳭शुं᳘ गृह्णा᳘ति॥
त᳘स्मिन्नेव पा᳘त्रे निग्ग्रा᳘भ्याभ्यो ऽप᳘ ऽआनी᳘य त᳘स्मिन्नेता᳘नᳫँ᳭शू᳘न्गृह्णाति॥
मूलम् - Weber
स ये᳘नैव पा᳘त्रेणांशुं᳘ गृह्णा᳘ति॥
त᳘स्मिन्नेव पा᳘त्रे निग्राॗभ्याभ्योऽप᳘ आनी᳘य त᳘स्मिन्नेता᳘नंशू᳘न्गृह्णाति॥
मूलम् - विस्वरम्
स येनैव पात्रेणांशुं गृह्णाति । तस्मिन्नेव पात्रे निग्राभ्याभ्यो ऽप आनीय, तस्मिन्नेतानंशून् गृह्णाति ॥ ६ ॥
सायणः
अथ तस्य ग्रहस्य पात्रविशेषे ग्रहणं विधत्ते- स येनैवेति । ‘येनैव’ ऊर्ध्वपात्रेण अंश्वाख्यं ग्रहं ‘गृह्णाति’ ‘तस्मिन्नेव पात्रे निग्राभ्याभ्यः’ निग्राभ्या इति वसतीवरीणां सोमसेकार्थानामपां संज्ञा । ताभ्यो गृहीत्वा ‘अप आनीय’ अप आसिच्य ‘तस्मिन्’ वसतीवरीभिः परिपूरिते पात्रे ‘अंशून्’ सोमलतासंज्ञान् खंडान् गृह्णाति ॥ ६ ॥
Eggeling
०७
विश्वास-प्रस्तुतिः
(त्यु) उपयाम᳘गृहीतो ऽसि॥
(स्य) अग्न᳘ये त्वा गायत्र᳘च्छन्दसं गृह्णामी᳘ति गायत्र᳘म्प्रातःसवनं त᳘त्प्रातःसवनम्प्र᳘व्वृहती᳘न्द्राय त्वा त्रिष्टुप्छन्दसङ्गृह्णामी᳘ति त्रै᳘ष्टुभम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं तन्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्प्र᳘वृहति व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्यो ज᳘गच्छन्दसङ्गृह्णामी᳘ति जा᳘गतं तृतीयसवनं त᳘त्तृ᳘तीयसवनं प्र᳘व्वृहत्यनुष्टु᳘प्ते ऽभिगर ऽइ᳘ति यद्वा᳘ ऽऊर्ध्वᳫँ᳭ स᳘वनेभ्यस्तदा᳘नुष्टुभं त᳘दे᳘वैतत्प्र᳘व्वृहति त᳘न्नाभि᳘षुणोति व्व᳘ज्रो वै ग्ग्रा᳘वा व्वाग᳘दाभ्यो नेद्व᳘ज्रेण व्वा᳘चᳫँ᳭ हिन᳘सानी᳘ति॥
मूलम् - श्रीधरादि
(त्यु) उपयाम᳘गृहीतो ऽसि॥
(स्य) अग्न᳘ये त्वा गायत्र᳘च्छन्दसं गृह्णामी᳘ति गायत्र᳘म्प्रातःसवनं त᳘त्प्रातःसवनम्प्र᳘व्वृहती᳘न्द्राय त्वा त्रिष्टुप्छन्दसङ्गृह्णामी᳘ति त्रै᳘ष्टुभम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं तन्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्प्र᳘वृहति व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्यो ज᳘गच्छन्दसङ्गृह्णामी᳘ति जा᳘गतं तृतीयसवनं त᳘त्तृ᳘तीयसवनं प्र᳘व्वृहत्यनुष्टु᳘प्ते ऽभिगर ऽइ᳘ति यद्वा᳘ ऽऊर्ध्वᳫँ᳭ स᳘वनेभ्यस्तदा᳘नुष्टुभं त᳘दे᳘वैतत्प्र᳘व्वृहति त᳘न्नाभि᳘षुणोति व्व᳘ज्रो वै ग्ग्रा᳘वा व्वाग᳘दाभ्यो नेद्व᳘ज्रेण व्वा᳘चᳫँ᳭ हिन᳘सानी᳘ति॥
मूलम् - Weber
उपयाम᳘गृहीतोऽसि॥
अग्न᳘ये त्वा गायत्र᳘छन्दसं गृह्णामी᳘ति गायत्र᳘म् प्रातःसवनं त᳘त्प्रातःसवनम् प्र᳘वृहती᳘न्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामी᳘ति त्रै᳘ष्टुभम् मा᳘ध्यन्दिनᳫं स᳘वनं तन्मा᳘ध्यन्दिनᳫं सवनम् प्र᳘वृहति वि᳘श्वेभ्यस्त्वा देवे᳘भ्यो ज᳘गच्छन्दसं गृह्णामी᳘ति जा᳘गतं तृतीयसवनं त᳘त्तृतीयसवनम् प्र᳘वृहत्यनुष्टु᳘प्तेऽभिगर इ᳘ति यद्वा᳘ ऊर्ध्वᳫं स᳘वनेभ्यस्तदा᳘नुष्टुभं त᳘देॗवैतत्प्र᳘वृहति तॗन्नाभि᳘षुणोति व᳘ज्रो वै ग्रा᳘वा वाग᳘दाभ्यो नेद्व᳘ज्रेण वा᳘चᳫं हिन᳘सानी᳘ति॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽस्यग्नये त्वा गायत्रच्छंदसं गृह्णामि”- इति गायत्रं प्रातःसवनम् । तत्प्रातःसवनं प्रवृहति । “इंद्राय त्वा त्रिष्टुप्छंदसं गृह्णामि"- इति त्रैष्टुभं माध्यंदिनं सवनम् । तन्माध्यंदिनं सवनं प्रवृहति । “विश्वेभ्यस्त्वा देवेभ्यो जगच्छन्दसं गृह्णामि”- इति जागतं तृतीयसवनम् । तत्तृतीयसवनं प्रवृहति । “अनुष्टुप् ते ऽभिगरः”- (वा. सं. ८ । ४७) इति । यद्वा ऊर्ध्वं सवनेभ्यस्तदानुष्टुभम् । तदेवैतत्प्रवृहति । तन्नाभिषुणोति । वज्रो वै ग्रावा । वागदाभ्यः । नेद्वज्रेण वाचं हिनसानीति ॥ ७ ॥
सायणः
तत्र प्रथमस्यांशोर्मंत्रमाह- उपयामगृहीत इति । हे सोम ! त्वं ‘उपयामगृहीतः’ उपयम्यते धार्यते अनेनेति उपयामः पात्रं तेन गृहीतो ऽसि । ‘अग्नये त्वा’ त्वां ‘अग्नये’ प्रातःसवनदेवतायै गृह्णामीत्यर्थः । गायत्रच्छंदसमित्यस्यार्थमाह- गायत्रं प्रातःसवनमिति । गायत्रीच्छंदस्कं हि प्रातःसवनमिति । तत्तेन गायत्रच्छन्दसमिति विशेषणेन प्रातःसवनात्मकं यज्ञस्य भागं ‘प्रवृहति’ असुरेभ्यः सकाशात् उद्यम्यति स्वीकरोतीत्यर्थः । “वृहू उद्यमने” (धा. पा. तु. आ. १६) इति धातुः । द्वितीयस्यांशोर्ग्रहणमंत्रमाह- इंद्राय त्वेति । उपयामगृहीतो ऽसीत्यनुषज्यते । अनेन मंत्रेण द्वितीयमंशुं गृह्णीयादित्यर्थः । सूत्रं हि- “बुभूषतो ऽदाभ्यं गृह्णाति । आसिच्य निग्राभ्याः पात्रे तस्मिंस्तूष्णीं त्रीन् अंशून् अवधायाग्नये त्वा गायत्रच्छंदसमिति प्रतिमंत्रम् । उपयामः सर्वत्राविशेषात्” (का. श्रौ. सू. १२ । ६-८) इति । त्रैष्टुभं माध्यंदिनं सवनमित्यादि पूर्ववद्योज्यम् । तृतीयस्यांशोर्ग्रहणमंत्रं व्याचष्टे- विश्वेभ्यस्त्वेति । जगच्छन्दसमिति जगतीछंदस्कम् । तृतीयसवनात्मकत्वादित्यर्थः । ‘अनुष्टुप्ते ऽभिगरः’ इति मन्त्रपाठस्य प्रयोजनमाह- यद्वा ऊर्ध्वमिति । त्रिभ्यः सवनेभ्यः ‘ऊर्ध्वं’ उक्थषोडशीसंस्थादिरूपं यदस्ति तत्सर्वं ‘आनुष्टुभं’ अनुष्टुप्छंदस्कम् । तदेवानेन मन्त्रेण ‘प्रवृहति’ असुरेभ्यः उपादत्ते । मंत्रार्थस्तु हे सोम ! ‘ते’ तव अनुष्टुबाख्यं छन्दः ‘अभिगरः’ अभिशंसनं स्तावकमित्यर्थः । ग्रहान्तरवत् प्राप्तमभिषवं निषेधति- तन्नाभिषुणोतीति । तत्र कारणमाह- वज्रो वा इति । ग्राव्णः कठिनत्वात् प्रहरणसाधनत्वाच्च वज्रत्वम् । अदाभ्यस्य वाग्रूपत्वमुक्तम् । ‘हिनसानि’ हिंसां करवाणि । गतमन्यत् ॥ ७ ॥
Eggeling
- ‘Thou art taken with a support 6: for Agni I take thee, possessed of the Gāyatrī metre!’–the morning-service is of Gāyatrī nature: he thus possesses himself of the morning-service;–‘For Indra I take thee, possessed of the Trishṭubh metre!’–the midday-service is of Trishṭubh nature: he thus possesses himself of the midday-service;–‘For the Viśve Devāḥ I take thee, possessed of the Jagatī metre!’–the evening-service is of Jagatī nature: he thus possesses himself of the evening-service;–‘The Anushṭubh is thy song of praise;’–whatever is subsequent to the (three) services 7, that is of Anushṭubh nature: it is thereof he thus possesses
himself. He does not press this (batch of Soma-plants) lest he should injure speech (or, the voice of the sacrifice), for the press-stone is a thunderbolt, and the Adābhya is speech.
०८
विश्वास-प्रस्तुतिः
(त्यᳫँ᳭) अᳫँ᳭शू᳘नेवा᳘धूनोति॥
व्व्रे᳘शीनां त्वा प᳘त्मन्ना᳘धूनोमि कुकून᳘नानां त्वा प᳘त्मन्ना᳘धूनोमि भन्द᳘नानां त्वा प᳘त्मन्ना᳘धूनोमि मदि᳘न्तमानां त्वा प᳘त्मन्ना᳘धूनोमि मधु᳘न्तमानां त्वा प᳘त्मन्ना᳘धूनोमी᳘त्येता वै दै᳘वीरा᳘पस्तद्या᳘श्चैव दै᳘वीरा᳘पो या᳘श्चेमा᳘ मानु᳘ष्यस्ता᳘भिरे᳘वास्मिन्नेत᳘दुभ᳘यीभी[[!!]] र᳘सं दधाति॥
मूलम् - श्रीधरादि
(त्यᳫँ᳭) अᳫँ᳭शू᳘नेवा᳘धूनोति॥
व्व्रे᳘शीनां त्वा प᳘त्मन्ना᳘धूनोमि कुकून᳘नानां त्वा प᳘त्मन्ना᳘धूनोमि भन्द᳘नानां त्वा प᳘त्मन्ना᳘धूनोमि मदि᳘न्तमानां त्वा प᳘त्मन्ना᳘धूनोमि मधु᳘न्तमानां त्वा प᳘त्मन्ना᳘धूनोमी᳘त्येता वै दै᳘वीरा᳘पस्तद्या᳘श्चैव दै᳘वीरा᳘पो या᳘श्चेमा᳘ मानु᳘ष्यस्ता᳘भिरे᳘वास्मिन्नेत᳘दुभ᳘यीभी[[!!]] र᳘सं दधाति॥
मूलम् - Weber
अंशू᳘नेवा᳘धूनोति॥
व्रे᳘शीनां त्वा प᳘त्मन्ना᳘धूनोमि कुकून᳘नानां त्वा प᳘त्मन्ना᳘धूनोमि भन्द᳘नानां त्वा प᳘त्मन्ना᳘धूनोमि मदि᳘न्तमानां त्वा प᳘त्मन्ना᳘धूनोमि मधु᳘न्तमानां त्वा प᳘त्मन्ना᳘धूनोमी᳘त्येता वै दै᳘वीरा᳘पस्तद्या᳘श्चैव दै᳘वीरा᳘पो या᳘श्चेमा᳘ मानुष्य᳘स्ता᳘भिरेॗवास्मिन्नेत᳘दुभ᳘यीभी र᳘सं दधाति॥
मूलम् - विस्वरम्
अंशूनेवाधूनोति । “व्रेशीनां त्वा पत्मन्नाधूनोमि, कुकूननानां त्वा पत्मन्नाधूनोमि, भंदनानां त्वा पत्मन्नाधूनोमि, मदिंतमानां त्वा पत्मन्नाधूनोमि, मधुंतमानां त्वा पत्मन्नाधूनोमि”- (वा. सं. ८ । ४८) इति । एता वै दैवीरापः । तद्याश्चैव दैवीरापः । याश्चेमा मानुष्यः । ताभिरेवास्मिन्नेतदुभयीभी रसं दधाति ॥ ८ ॥
सायणः
अभिषवस्थाने आधवनं विधत्ते- अंशूनेवाधूनोतीति । ग्रहस्योपरि निहितान् त्रीनंशूनेव ‘आधूनोति’ कंपयति । “व्रेशीनां त्वा” इत्यादयस्तन्मंत्राः स्तूयंते । “अनुष्टुप्त इत्युक्त्वा ऽ ऽधूनोत्यंशुभिर्व्रेशीनां त्वा” (का. श्रौ. सू. १२ । ११०) इति । व्रेश्यादयः शब्दाः देवलोकस्थानामपां संज्ञाः । व्रेश्यंते सिच्यंते आभिरिति व्रेश्यः तासां व्रेशीनां पत्मन् पतनं मार्गे हे सोम ! त्वाम् ‘आधूनोमि’ कंपयायि । “सुपां सुलुक्” (पा. सू. ७ । १ । ३९) इति सप्तम्या लुक् । एवमुत्तरत्रापि योज्यम् । कुत्सितं कूनंति शब्दायन्त इति कुकूननाः । भंदंते मद्रा भवंतीति भंदनाः । अत्यर्थं मदयन्ति तर्पयंतीति मदिंतमाः । अतिशयेन माधुर्योपेता मधुन्तमाः । एता वै दैवीरित्यादि । ‘एताः’ व्रेश्याद्याः ‘दैवीः’ देवसंबंधिन्यः ‘आपः’ । तत्तथा सति दैवीभिरद्भिः पात्रगृहीताभिर्मानुषीभिश्च ‘उभयीभिः’ एतस्मिन् ग्रहे ‘रसं’ ‘दधाति’ स्थापयति ॥ ८ ॥
Eggeling
- He merely shakes the (cup with the) plants with (Vāj. S. VIII, 48), ‘In the flow of the streaming (waters) I waft thee! in the flow of the gurgling I waft thee! in the flow of the jubilant I waft thee! in the flow of the most delightsome I waft thee! in the flow of the most sweet I waft thee!’ These doubtless are the divine waters: he thus bestows sap on him (Prajāpati, the sacrifice) by means of both the divine and the human waters which there are.
०९
विश्वास-प्रस्तुतिः
शुक्रं᳘ त्वा शुक्र ऽआ᳘धूनोमी᳘ति॥
शुक्र᳘ᳫँ᳘ ह्येत᳘च्छुक्र᳘ ऽआधूनोत्य᳘ह्नो रूपे सू᳘र्य्यस्य रश्मिष्वि᳘ति तद᳘ह्नश्चै᳘वैनमेत᳘द्रूपे सू᳘र्य्यस्य च रश्मिष्वा᳘धूनोति॥
मूलम् - श्रीधरादि
शुक्रं᳘ त्वा शुक्र ऽआ᳘धूनोमी᳘ति॥
शुक्र᳘ᳫँ᳘ ह्येत᳘च्छुक्र᳘ ऽआधूनोत्य᳘ह्नो रूपे सू᳘र्य्यस्य रश्मिष्वि᳘ति तद᳘ह्नश्चै᳘वैनमेत᳘द्रूपे सू᳘र्य्यस्य च रश्मिष्वा᳘धूनोति॥
मूलम् - Weber
शुक्रं᳘ त्वा शुक्र आ᳘धूनोमी᳘ति॥
शुॗक्रᳫं ह्येत᳘छुक्र᳘ आधूनोत्य᳘ह्नो रूपे सू᳘र्यस्य रश्मिष्वि᳘ति तद᳘ह्नश्चैॗवैनमेत᳘द्रूपे सू᳘र्यस्य च रश्मिष्वा᳘धूनोति॥
मूलम् - विस्वरम्
“शुक्रं त्वा शुक्र आधूनोमि”- इति । शुक्रं ह्येतच्छुक्र आधूनोति । “अह्नो रूपे सूर्यस्य रश्मिषु”- (वा. सं. ८ । ४८) इति । तदह्नश्चैवैनमेतद्रूपे सूर्यस्य च रश्मिष्वाधूनोति ॥ ९ ॥
सायणः
अंतिमं आधवनमन्त्रमनूद्य व्याचष्टे- शुक्रं त्वेति । हे सोम ! ‘शुक्रं’ रसवन्तं त्वां ‘शुक्रे’ वसतीवर्याख्ये रसवत्युदके ‘आधूनोमि’ कंपयामि । शुक्रशब्दाभिधेयमाचष्टे- शुक्रं ह्येतदिति । चरमभागमनूद्य व्याचष्टे- अह्नो रूप इति । ‘अह्नो’ दिवसस्य संबंधिनि ‘रूपे’ वसतीवर्याख्ये सूर्यसंबंधिषु ‘रश्मिषु’ किरणेषु तं त्वां आधूनोमीत्यर्थः । सूर्यास्तमयात् पूर्वमेव औपवसथ्ये ऽहनि वसतीवरीणां ग्रहणात् एवमुच्यते । स्पष्टमन्यत् ॥ ९ ॥
Eggeling
- ‘Thee, the bright, I waft in the bright,’–for he indeed wafts the bright one in the bright;–‘in the form of the day, in the rays of the sun;’–he thus wafts it both in the form of the day and in the rays of the sun.
१०
विश्वास-प्रस्तुतिः
ककुभ᳘ᳫँ᳘ रूप᳘म्वृषभ᳘स्य[[!!]] रोचते बृहदि᳘ति॥
(त्ये) एतद्वै᳘ ककुभ᳘ᳫँ᳘ रूप᳘म्वृषभ᳘स्य रोचते बृहद्य᳘ ऽएष त᳘पति शुक्रः᳘ शुक्र᳘स्य पुरोगाः सो᳘मः सो᳘मस्य पुरोगा ऽइ᳘ति त᳘च्छुक्र᳘मे᳘वैत᳘च्छुक्र᳘स्य पुरोगा᳘ङ्करो᳘ति सो᳘मᳫँ᳭ सो᳘मस्य पुरोगां य᳘त्ते सोमा᳘दाभ्यन्ना᳘म जा᳘गृवि त᳘स्मै त्वा गृह्णामी᳘त्येत᳘द्ध वा᳘ ऽअस्या᳘दाभ्यन्ना᳘म जा᳘गृवि यद्वाक्तद्वा᳘चमे᳘वैत᳘द्वाचे᳘ गृह्णाति॥
मूलम् - श्रीधरादि
ककुभ᳘ᳫँ᳘ रूप᳘म्वृषभ᳘स्य[[!!]] रोचते बृहदि᳘ति॥
(त्ये) एतद्वै᳘ ककुभ᳘ᳫँ᳘ रूप᳘म्वृषभ᳘स्य रोचते बृहद्य᳘ ऽएष त᳘पति शुक्रः᳘ शुक्र᳘स्य पुरोगाः सो᳘मः सो᳘मस्य पुरोगा ऽइ᳘ति त᳘च्छुक्र᳘मे᳘वैत᳘च्छुक्र᳘स्य पुरोगा᳘ङ्करो᳘ति सो᳘मᳫँ᳭ सो᳘मस्य पुरोगां य᳘त्ते सोमा᳘दाभ्यन्ना᳘म जा᳘गृवि त᳘स्मै त्वा गृह्णामी᳘त्येत᳘द्ध वा᳘ ऽअस्या᳘दाभ्यन्ना᳘म जा᳘गृवि यद्वाक्तद्वा᳘चमे᳘वैत᳘द्वाचे᳘ गृह्णाति॥
मूलम् - Weber
ककुभं᳘ रूपं᳘ वृष᳘भस्य रोचते बृहदि᳘ति॥
एतद्वै᳘ ककुभं᳘ रूपं᳘ वृषभ᳘स्य रोचते बृहद्य᳘ एष त᳘पति शुक्रः᳘ शुक्र᳘स्य पुरोगाः सो᳘मः सो᳘मस्य पुरोगा इ᳘ति त᳘छुक्र᳘मेॗवैत᳘छुक्र᳘स्य पुरोगां᳘ करो᳘ति सो᳘मᳫं सो᳘मस्य पुरोगां य᳘त्ते सोमा᳘दाभ्यं ना᳘म जा᳘गृवि त᳘स्मै त्वा गृह्णामी᳘त्येत᳘द्ध वा᳘ अस्या᳘दाभ्यं ना᳘म जा᳘गृवि यद्वाक्तद्वा᳘चमेॗवैत᳘द्वाचे᳘ गृह्णाति॥
मूलम् - विस्वरम्
“ककुभं रूपं वृषभस्य रोचते बृहत्”- इति । एतद्वै ककुभं रूपं वृषभस्य रोचते बृहत् । य एष तपति । “शुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः”- इति । तच्छुक्रमेवैतच्छुक्रस्य पुरोगां करोति । सोमं सोमस्य पुरोगाम् । “यत्ते सोमादाभ्यन्नाम जागृवि तस्मै त्वा गृह्णामि”- इति । एतद्ध वा अस्यादाभ्यन्नाम जागृवि- यद्वाक् । तद्वाचमेवैतद्वाचे गृह्णाति ॥ १० ॥
सायणः
(त्वां गृह्णामीति । किं तत् सत्यं; प्रकृतं तं मंत्रमाह)- ककुभं रूपमिति । व्याचष्टे- एतद्वै ककुभमिति । ‘य एषः’ सूर्यस्तपति ‘एतत्’ खलु बृहदधिकं ‘ककुभं’ प्रशस्यं रूपम् । तत् ‘वृषभस्य’ वर्षणशीलस्य सूर्यस्य रोचते । अतो ऽयं ‘शुक्रः’ देदीप्यमानः सोमः ‘शुक्रस्य’ दीप्यमानस्य सूर्यस्य ‘पुरोगाः’ पुरतो गंता । तथा होमानन्तरं ‘सोमः’ अमृतमयो भूत्वा ‘सोमस्य’ दिवि चन्द्रात्मना वर्तमानस्य पुरोगामी भवति । उक्तार्थपरतां मन्त्रस्याह- तच्छुक्रमेवैतदिति । यत्ते सोमादाभ्यमित्यादिमन्त्रभागस्यायमर्थः । हे सोम ! ‘ते’ तव ‘यत् अदाम्यं’ अहिंसितं ‘नाम जागृवि’ जागरणशीलं ‘तस्मै’ नाम्ने, इत्येतद् आह- एतद्ध वा अस्यादाभ्यं नामेति । ‘अस्य’ सोमस्य ‘वाक्’ इत्येतत् अदाभ्यं नामेत्यर्थः । तस्याः सर्वव्यवहारहेतुत्वेन बाधानर्हत्वात् अदाभ्यत्वम् । तथा च वागात्मकमेव अदाम्यग्रहरूपं सोमं वाग्देवतायै गृहीतवान् भवतीत्यर्थः ॥ १० ॥
Eggeling
- [Vāj. S. VIII, 41], ‘Mightily shineth the towering form of the ball,’–for mightily indeed shines that towering form of the ball, to wit, yonder burning (sun);–’the bright one, the leader of the bright one, Soma, the leader of Soma,’–he thereby makes that bright (sun) the leader of the bright (Soma), and Soma the leader of the Soma;–‘what indestructible, watchful name there is of thine, for that do I take thee;’–for this, to wit, speech, is indeed his (Soma’s) indestructible (adābhya), watchful name: it is thus speech he thereby takes for speech.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोपनिष्क्र᳘म्य जुहोति॥
त᳘स्मै ते सोम सो᳘माय स्वाहे᳘ति तत्सो᳘ममे᳘वैतत्सो᳘माय जुहोति त᳘थो व्वा᳘चमग्नौ न प्र᳘व्वृणक्त्य᳘थ हि᳘रण्यमभि᳘व्यनित्यसा᳘वेव ब᳘न्धुस्त᳘स्य ता᳘वतीरेव द᳘क्षिणा या᳘वतीरᳫँ᳭शोः[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोपनिष्क्र᳘म्य जुहोति॥
त᳘स्मै ते सोम सो᳘माय स्वाहे᳘ति तत्सो᳘ममे᳘वैतत्सो᳘माय जुहोति त᳘थो व्वा᳘चमग्नौ न प्र᳘व्वृणक्त्य᳘थ हि᳘रण्यमभि᳘व्यनित्यसा᳘वेव ब᳘न्धुस्त᳘स्य ता᳘वतीरेव द᳘क्षिणा या᳘वतीरᳫँ᳭शोः[[!!]]॥
मूलम् - Weber
अ᳘थोपनिष्क्र᳘म्य जुहोति॥
त᳘स्मै ते सोम सो᳘माय स्वाहे᳘ति तत्सो᳘ममेॗवैतत्सो᳘माय जुहोति त᳘थो वा᳘चमग्नौ न प्र᳘वृणक्त्य᳘थ हि᳘रण्यमभिव्य᳘नित्यसा᳘वेव बन्धुस्त᳘स्य ता᳘वतीरेव द᳘क्षिणा या᳘वतीरंशोः᳟॥
मूलम् - विस्वरम्
अथोपनिष्क्रम्य जुहोति- “तस्मै ते सोम सोमाय स्वाहा”- (वा० सं० ८ । ४९) इति । तत्सोममेवैतत्सोमाय जुहोति । तथो वाचमग्नौ न प्रवृणक्ति । अथ हिरण्यमभिव्यनिति । असावेव बंधुः । तस्य तावतीरेव दक्षिणाः । यावतीरंशोः ॥ ११ ॥
सायणः
अथास्य ग्रहस्य समंत्रकं होमं विधत्ते- अथोपनिष्क्रम्येति । ‘उपनिष्क्रम्य’ हविर्द्धानान्निर्गत्य आह- घनीयदेशं गत्वा “तस्मै” 8 ते इति मंत्रेणाहवनीये जुहुयात् । हे ‘सोम !’ ‘तस्मै’ वागात्मकाय ‘ते’ तुभ्यं ‘सोमाय’ इदं रसात्मकं हविः ‘स्वाहा’ सुहुतमस्तु, इति मंत्रस्यार्थः । एतदर्थपरतां व्याचष्टे- तत्सोममेवैतदिति । ‘एतत्’ एतेन मन्त्रेण सोमरसमेव ‘सोमाय’ हुतवान् भवति । तथा च सति वागात्मकस्य सोमस्य देवतात्वेनावस्थितत्वात् अग्नौ प्रक्षिप्यमाणः सोमरसो न वागात्मक इति ‘वाचमग्नौ न प्रवृणक्ति’ न दहतीत्यर्थः । अथास्य ग्रहस्य होमकाले ध्रियमाणस्य प्राणवायोर्यदि बलान्निष्क्रमः स्यात्; तदा हिरण्यस्योपरि प्रश्वासः कार्य इत्याह- अथ हिरण्यमिति । ‘अभिव्यनिति’ उपर्युछ्वासं करोतीत्यर्थः । अस्य स्तावकं वाक्यशेषमतिदिशति- असावेव बंधुरिति । यश्चतुर्थकांडे (श. प. ४ । ६ । १ । ६) अंशुग्रहप्रस्तावे हिरण्यस्य उपरि उच्छ्वसनस्य स्तावको वाक्यशेषः सः अत्रापि द्रष्टव्यः । परिमाणविशेषविशिष्टं दक्षिणाद्रव्यं विधत्ते 9- तस्य तावतीरेवेति । यावतीर्यत्परिमाणविशिष्टा वत्सतर्यः अंशोर्ग्रहस्य देयत्वेनोक्ताः । तस्माददाभ्यग्रहस्यापि तत्परिमाणविशिष्टा वत्सतर्यो दक्षिणात्वेन देयाः । सूत्रे हि- “द्वादश वत्सतर्यो गर्भिण्यो दक्षिणा” (का. श्रौ. सू. १२ । १०५) इति ॥ ११ ॥
Eggeling
- Then, stepping out (from the Havirdhāna shed 10) to (the Āhavanīya), he offers with, ‘O
Soma, to this thy Soma, hail!’–he thus offers Soma to Soma, and so does not throw speech into the fire 11. He breathes over gold 12: the meaning of this is the same as there (on the occasion of the Aṁśu). He gives as many presents (to the priests) as for the Aṁśu-graha.
१२
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थाᳫँ᳭शून्पु᳘नर᳘प्यर्ज्जति॥
(त्यु) उशिक्त्वं᳘ देव सोमाग्नेः᳘ प्रियम्पाथो᳘ ऽपीहि व्वशी त्वं᳘ देव सोमे᳘न्द्रस्य प्रियम्पाथो᳘ ऽपीह्यस्म᳘त्सखा त्वं᳘ देव सोम व्वि᳘श्वेषां देवा᳘नां प्रियम्पाथो᳘ ऽपीही᳘ति स᳘वनानि वा᳘ ऽअदः प्र᳘व्वृहति ता᳘न्ये᳘वैतत्पु᳘नरा᳘प्याययत्य᳘यातयामानि करोति तैर᳘यातयामैर्य्यज्ञं᳘ तन्वते॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थाᳫँ᳭शून्पु᳘नर᳘प्यर्ज्जति॥
(त्यु) उशिक्त्वं᳘ देव सोमाग्नेः᳘ प्रियम्पाथो᳘ ऽपीहि व्वशी त्वं᳘ देव सोमे᳘न्द्रस्य प्रियम्पाथो᳘ ऽपीह्यस्म᳘त्सखा त्वं᳘ देव सोम व्वि᳘श्वेषां देवा᳘नां प्रियम्पाथो᳘ ऽपीही᳘ति स᳘वनानि वा᳘ ऽअदः प्र᳘व्वृहति ता᳘न्ये᳘वैतत्पु᳘नरा᳘प्याययत्य᳘यातयामानि करोति तैर᳘यातयामैर्य्यज्ञं᳘ तन्वते॥
मूलम् - Weber
अ᳘थांशून्पु᳘नर᳘प्यर्जति॥
उशिक्त्वं᳘ देव सोमाग्नेः᳘ प्रियम् पाथो᳘ऽपीहि वशी त्वं᳘ देव सोमे᳘न्द्रस्य प्रियं पाथो᳘ऽपीह्यस्म᳘त्सखा त्वं᳘ देव सोम वि᳘श्वेषां देवा᳘नाम् प्रियम् पाथो᳘ऽपीही᳘ति स᳘वनानि वा᳘ अदः प्र᳘वृहति ता᳘न्येॗवैतत्पु᳘नरा᳘प्याययत्य᳘यातयामानि करोति तैर᳘यातयामैर्यज्ञं᳘ तन्वते॥
मूलम् - विस्वरम्
अथांशून्पुनरप्यर्जति । “उशिक्त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि, वशी त्वं देव सोमेंद्रस्य प्रियं पाथो ऽपीहि, अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि”- (वा. सं. ८ । ५०) इति । सवनानि वा अदः प्रवृहति । तान्येवैतत्पुनराप्याययति । अयातयामानि करोति । तैरयातयामैर्यज्ञं तन्वते ॥ १२ ॥
सायणः
अथ एतेषां त्रयाणामंशूनां पुनस्त्रिभिर्मंत्रैः संसर्जनं विधत्ते- अथांशूनिति । ‘अथ’ एवं होमानंतरं एतान् धूतानंशून् “उशिक्त्वं” इत्यादिभिः प्रतिमंत्रं राजासंदीगते सोमे पुनरपि ‘अर्जति’ संसृजेत् । सूत्रे हि- “अँशून्सोमे निदधात्युशिक्त्वमिति प्रतिमंत्रम्”- (का. श्रौ. सू. १२ । १११) इति । मंत्राणामयमर्थः- हे ‘देव’ दानादिगुणयुक्त ‘सोम !’ ‘उशिक्त्वं’ कामयमानस्त्वं ‘प्रियं पाथः’ । अन्ननामैतत् । प्रातःसवनरूपं हविः ‘अपीहि’ अपिगच्छ । वशी त्वमिति द्वितीयो मंत्रः । वशः कामो यस्यास्तीति वशी । ‘इन्द्रस्य प्रियं पाथः’ माध्यंदिनसवनार्थः सोमः । ‘अस्मत्सखा’ सखिभूतः । ‘विश्वेषां देवानां प्रियं पाथः’ तृतीयसवनार्थः सोमः । अन्यत्पूर्ववत् योज्यम् । मंत्रांस्तान् सवनार्थकथनव्याजेन व्याचष्टे- सवनानि वा अद इति । ‘अदः’ अदाभ्यस्य ग्रहणकाले अंशुत्रयरूपेण त्रीण्येव ‘सवनानि’ खलु ‘प्रवृहति’ आदत्ते । ‘तान्येव’ एतत्पुनः प्रक्षेपेण इदानीम् ‘आप्याययति’ वर्द्धयति । ‘अयातयामानि’ च ‘करोति’ । ततस्तैः सवनैः ‘अयातयामैः’ अगतसारैः रसवद्भिः ‘यज्ञं तन्वते’ विस्तारयंति यज्ञविदः ॥ १२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे पंचमे ऽध्याये नवमं ब्राह्मणम् ॥ (११-५–९) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे पञ्चमो ऽध्यायः समाप्तः ॥ ११ । ५ ॥
Eggeling
- He then puts the Soma-plants back (on the heap of plants in the Havirdhāna) with (Vāj. S. VIII, 50), ‘Enter thou gladly Agni’s dear seat, O divine Soma!–Enter thou willingly Indra’s dear seat, O divine Soma!–As our friend enter thou, O divine Soma, the dear seat of the Viśve Devāḥ!’ On that former occasion he possessed himself of the (three) Soma services; he now restores them again, and causes them to be no longer used up; and with them thus restored they perform the sacrifice.
-
105:1 See IV, 1, 1, 2; 6, 1, 1. ↩︎
-
105:2 See part ii, p. 424, note 1. ↩︎
-
106:1 See IV, 6, 1, 3 seq. ↩︎
-
106:2 That is, the water originally taken from the Praṇītā water, and poured into the (square) Hotr̥’s cup (made of Udumbara wood), to be used for moistening the Soma-plants. ↩︎
-
106:3 For the Adābhya he puts three Soma-plants into the Hotr̥’s cup. ↩︎
-
106:4 According to Kāty. XII, 6, 15, this portion of the formula–the ‘upayāma,’ or support–is repeated before the formulas of each of the three plants, hence also before ‘For Indra . . .,’ and ‘For the Viśve Devāḥ . . .’ ↩︎
-
106:5 Viz. the Ukthyas, Shoḍaśin, &c., in forms of Soma-sacrifice other than the Agnishṭoma. ↩︎
-
तस्मै त इति जुहोति । का० श्रौ० सू० १२ । ११० । ↩︎
-
अँशुवद्दक्षिणा । का० श्रौ० सू० । १२ । ११२ । ↩︎
-
107:1 It is there that the Soma-plants are kept. ↩︎
-
108:1 Though the Adābhya-graha, that is, the water in which the three Soma-plants are contained, and which alone is offered, has been identified with speech, the wording of the formula is such as to protect (the faculty of) speech from being burned in the fire. ↩︎
-
108:2 Just as, after the offering of the Aṁśu-graha, he smelled at (or breathed over) a piece of gold fastened to (? or contained in) the spoon, see IV, 6, 1, 6 seqq. ↩︎