०१

विश्वास-प्रस्तुतिः

प्रजा᳓पतिर् व्वा᳓ ऽइद᳓म् अ᳓ग्र ऽआसीद् ए᳓क ऽएव᳓।
सो᳙ ऽकामयत - स्याम् प्र᳓जायेये᳓ति।
सो᳙ ऽश्राम्यत्।
स᳓ त᳓पो ऽतप्यत।
त᳓स्माच् छ्रान्ता᳓त् तेपाना᳓त्+++(←तप्)+++
त्र᳓यो लोका᳓ ऽअसृज्यन्त -
पृथिव्य् अ᳙न्त᳓रिक्षं द्यौः᳓॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्व्वा᳘ ऽइदम᳘ग्र ऽआसीत्॥
(दे᳘) ए᳘क ऽएव᳘ सो ऽकामयत स्याम्प्र᳘जायेये᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत त᳘स्माच्छ्रान्ता᳘त्तेपानात्त्र᳘यो लोका᳘ ऽअसृज्यन्त पृथिव्य᳘न्त᳘रिक्षं द्यौः[[!!]]॥

मूलम् - Weber

प्रजा᳘पतिर्वा᳘ इदम᳘ग्र आसीत्॥
ए᳘क एवॗ सोऽकामयत स्याम् प्र᳘जायेये᳘तिॗ सोऽश्राम्यत्स त᳘पोऽतप्यत त᳘स्माछ्रान्तात्तेपानात्त्र᳘यो लोका᳘ असृज्यन्त पृथिव्य᳘न्त᳘रिक्षं द्यौः᳟॥

मूलम् - विस्वरम्

सर्वप्रायश्चित्तविधायकं ब्राह्मणम् ।

प्रजापतिर्वा इदमग्र आसीदेक एव । सो ऽकामयत । स्यां प्रजायेयेति । सो ऽश्राम्यत् । स तपो ऽतप्यत । तस्माच्छ्रांतात्तेपानात्त्रयो लोका असृज्यंत- पृथिव्यन्तरिक्षं द्यौः ॥ १॥

सायणः

इत्थं सत्रप्रसंगात् वेदसारभूताभिर्व्याहृतिभिः सर्वप्रायश्चित्तं होमं विधास्यन् तासामुत्पत्तिं आख्यायिकया प्रतिपादयति- प्रजापतिर्वा इदमित्यादिना । ‘इदं’ दृश्यमानं सर्वं जगत् ‘अग्रे’ सुष्ट्यादौ ‘प्रजापतिरेवासीत्’ कारणात्मना स्थित इत्यर्थः । अतः ‘सः’ प्रजापतिरेक एव तदानीमासीत् । न हि अनुद्भूतभौतिकात्मकं जगदित्यवधारणाभिप्रायात् । महत्सृष्टिमाह- सो ऽकामयतेत्यादिना । ‘स्याम्’ जगद्रूपेण भवेयम् । तदर्थं ‘प्रजायेय’ प्रकर्षेण स्वरूपाविरोधेन देवपितृमनुष्यादिप्रजारूपेण उत्पद्येयेत्यर्थः । तत्साधनमाह- सो ऽश्राम्यदिति । स्रष्टव्यपर्यालोचनं ‘तपः’ तद्गवेषणहेतुकः शरीरक्लेशः ‘श्रमः’ । तेपानादिति । तप्तवतः सकाशादित्यर्थः । तपेर्लिटः कान्नचि- (पा. सू. ३ । २ । १०६) एत्वाभ्यासलोपौ । प्रथमं पृथिव्यादीनां त्रयाणां सृष्टिमाह- त्रयो लोका इति । अथैतेषां सारं जिघृक्षुः ‘सः’ प्रजापतिः इमानेव ‘त्रीन् लोकान् अभितताप’ रजतसुवर्णादिलोहपिंडवत् पुटपाकेन तप्तवानित्यर्थः । अग्न्यादयो देवास्तत उत्पन्ना इत्याह- तेभ्यस्तप्तेभ्य इति । त्रीणि ज्योतींषीत्युक्तमेवार्थं विवृणोति- अग्निरिति । यो ऽयमन्तरिक्षे ‘पवते’ संचरते स वायुर्द्वितीयं ज्योतिरित्यर्थः । अथैतेषामपि सारं जिघृक्षुः तप्तवानित्याह- स इमानीति । तत्सकाशात् त्रयाणामुत्पत्तिमाह- तेभ्यस्तप्तेभ्य इति । तत्र कस्माद्देवात्कस्य वेदस्योत्पत्तिः ? इति विविनक्ति-अग्नेर्ऋग्वेद इति ॥ १-३ ॥

Eggeling
  1. Verily, in the beginning, Prajāpati alone was here. He desired, ‘May I exist, may I be generated.’ He wearied himself and performed fervid devotions: from him, thus wearied and heated, the three worlds were created–the earth, the air, and the sky.

०२

विश्वास-प्रस्तुतिः

स᳓ ऽइमाँ᳓स् त्रीं᳓ल् लोका᳓न् अभि᳓तताप॥
ते᳓भ्यस् तप्ते᳓भ्यस्
त्री᳓णि ज्यो᳓तीᳫँ᳭ष्य् अजायन्त-
+अग्नि᳓र्, य्यो᳓ ऽयं᳓ प᳓वते, सू᳓र्य्यः॥

मूलम् - श्रीधरादि

स᳘ ऽइमाँस्त्रीं᳘ल्लोका᳘नभि᳘तताप॥
ते᳘भ्यस्तप्ते᳘भ्यस्त्री᳘णि ज्यो᳘तीᳫँ᳭ष्यजायन्ताग्नि᳘र्य्यो ऽयं प᳘वते सू᳘र्य्यः॥

मूलम् - Weber

स᳘ इमांस्त्रीं᳘लोका᳘नभि᳘तताप॥
ते᳘भ्यस्तप्ते᳘भ्यस्त्री᳘णि ज्यो᳘तींष्यजायन्ताग्निॗर्योऽयम् प᳘वते सू᳘र्यः॥

मूलम् - विस्वरम्

स इमांस्त्रीन् लोकानभितताप । तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतींष्यजायंत- अग्निर्यो ऽयं पवते सूर्यः ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. He heated these three worlds, and from them, thus heated, three lights (jyotis) were produced–Agni (the fire), he who blows here (Vāyu), and Sūrya (the sun).

०३

विश्वास-प्रस्तुतिः

स᳓ ऽइमा᳓नि त्री᳓णि ज्यो᳓तीᳫँ᳭ष्य् अभि᳓तताप॥
ते᳓भ्यस् तप्ते᳓भ्यस् त्र᳓यो व्वे᳓दा ऽअजायन्त -
अग्ने᳓र् ऋग्-वेदो᳓,
व्वायो᳓र् य्यजुर्-व्वेदः᳓,
सू᳓र्य्यात् सामवेदः᳓॥

मूलम् - श्रीधरादि

स᳘ ऽइमा᳘नि त्री᳘णि ज्यो᳘तीᳫँ᳭ष्यभि᳘तताप॥
ते᳘भ्यस्तप्ते᳘भ्यस्त्र᳘यो व्वे᳘दा ऽअजायन्ताग्ने᳘र्ऋग्वेदो᳘ व्वायो᳘र्य्यजुर्व्वेदः सू᳘र्य्यात्सामवेदः[[!!]]॥

मूलम् - Weber

स᳘ इमा᳘नि त्री᳘णि ज्यो᳘तींष्यभितताप॥
ते᳘भ्यस्तप्ते᳘भ्यस्त्र᳘यो वे᳘दा अजायन्ताग्ने᳘रृग्वेदो᳘ वायो᳘र्यजुर्वेदः सू᳘र्यात्सामवेदः᳟॥

मूलम् - विस्वरम्

स इमानि त्रीणि ज्योतींष्यभितताप । तेभ्यस्तप्तेभ्यस्त्रयो वेदा अजायंत । अग्नेर्ऋग्वेदः । वायोर्यजुर्वेदः । सूर्यात्सामवेदः ॥ ३ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. He heated these three lights, and from them, thus heated, the three Vedas were produced–the R̥g-veda from Agni, the Yajur-veda from Vāyu, and the Sāma-veda from Sūrya.

०४

विश्वास-प्रस्तुतिः

स᳓ ऽइमाँ᳓स् त्री᳓न् वे᳓दान् अभि᳓तताप॥
ते᳓भ्यस् तप्ते᳓भ्यस् त्री᳓णि शुक्रा᳓ण्य् अजायन्त -
भू᳓र् इ᳓त्य् ऋग्-वेदा᳓द्
भु᳓व ऽइ᳓ति यजुर्-व्वेदा᳓त्
स्व᳓र् इ᳓ति साम-वेदा᳓त्।
त᳓ ऽऋग्-वेदे᳓नैव᳓ होत्र᳓म्,
अ᳓कुर्व्वत +++(←स्वरनिघाताभावः )+++,
यजुर्व्वेदेना᳓ध्वर्य्यवᳫँ᳭
सामवेदे᳓नोद्गीथ᳓म्।
य᳓द् एव᳓ त्रय्यै᳓ व्विद्या᳓यै शुक्रं᳓
ते᳓न ब्रह्मत्व᳓म् अ᳓थो᳓च्चक्राम॥

मूलम् - श्रीधरादि

स᳘ ऽइमाँस्त्रीन्वे᳘दानभि᳘तताप॥
ते᳘भ्यस्तप्ते᳘भ्यस्त्री᳘णि शुक्रा᳘ण्यजायन्त भूरि᳘त्यृग्वेदाद्भु᳘व ऽइ᳘ति यजुर्व्वेदा᳘त्स्वरि᳘ति सामवेदात्त᳘ ऽऋग्वेदे᳘नैव᳘ होत्रम᳘कुर्व्वत यजुर्व्वेदेना᳘ध्वर्य्यवᳫँ᳭ सामवेदे᳘नोद्गीथं य᳘देव᳘ त्रय्यै᳘ व्विद्या᳘यै शुक्रं ते᳘न ब्रह्मत्वमथो᳘च्चक्राम॥

मूलम् - Weber

स᳘ इमांस्त्रीन्वे᳘दानभि᳘तताप॥
ते᳘भ्यस्तप्ते᳘भ्यस्त्री᳘णि शुक्रा᳘ण्यजायन्त भूरि᳘त्यृग्वेदाद्भु᳘व इ᳘ति यजुर्वेदात्स्वरि᳘ति सामवेदात्त᳘दृग्वेदे᳘नैव᳘ होत्रम᳘कुर्वत यजुर्वेदेना᳘ध्वर्यवᳫं सामवेदे᳘नोद्गीथं य᳘देव᳘ त्रय्यै᳘ विद्या᳘यै शुक्रं ते᳘न ब्रह्मत्वमथो᳘च्चक्राम॥

मूलम् - विस्वरम्

स इमांस्त्रीन्वेदानभितताप । तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्यजायंत । भूरित्यृग्वेदात् । भुव इति यजुर्वेदात् । स्वरिति सामवेदात् । ते ऋग्वेदेनैव हौत्रमकुर्वत । यजुर्वेदेनाध्वर्यवम् । सामवेदेनोद्गीथम् । यदेव त्रय्यै विद्यायै शुक्रम्, तेन ब्रह्मत्वम् । अथोच्चक्राम ॥ ४ ॥

सायणः

अथ व्याहृतीनामुत्पत्तिमाह- स इमाँस्त्रीन्वेदानिति । त्रीणि शुक्राणीति । व्याहृतिरूपाणि तेजांसीत्यर्थः । भूरित्यृग्वेदादित्यादि । प्रजापतिना तप्यमानात् ऋग्वेदात्सकाशात् भूरिति व्याहृतिरुत्पन्ना । एवमुत्तरत्रापि योज्यम् । एवं व्याहृतीनां त्रयीसारत्वं प्रतिपाद्य यज्ञस्यापि त्रयीमयत्वमाह- ऋग्वेदेनैवेति । ‘ते’ अग्न्यादयो देवाः ‘ऋग्वेदेनैव होत्रं’ होतृकर्म सामिधेन्यनुवचनयाज्यानुवाक्यापाठशस्त्रशंसनादिकं यज्ञस्य तुरीयं भागं ‘अकुर्वत’ कृतवंतः । तथा ‘यजुर्वेदेनाध्वर्यवं’ अध्वर्योः कर्म हविःप्रचारादिकं ‘अकुर्वत’ । तथा ‘सामवेदेनोद्गीथं’ उद्गातृकर्म ‘अकुर्वत’ कृतवंतः । ब्रह्मत्वलक्षणस्तुरीयों ऽशः केन वेदेनेत्याशंक्याह- यदेव त्रय्यै विद्यायै शुक्रमिति । त्रयः अवयवा यस्याः सा त्रयी । षष्ठ्यर्थे चतुर्थी- (पा. सू. २ । ३ । ६२ वा.) वेदत्रयस्य ‘यदेव शुक्रं’ निर्मलरूपं सारभूतों ऽश ‘तेन ब्रह्मत्वं’ ब्रह्मणः कर्म ‘अकुर्वत’ । अथानंतरं कृत्स्नयज्ञात्मकः सन् प्रजापतिः ‘उच्चक्राम’ उत्कांतवान् ॥ ४ ॥

Eggeling
  1. He heated these three Vedas, and from them, thus heated, three luminous essences 1 were produced–

‘bhūḥ’ from the R̥g-veda, ‘bhuvaḥ’ from the Yajur-veda, and ‘svar’ from the Sāma-veda. And with the R̥g-veda they then performed the work of the Hotr̥ priest, with the Yajur-veda the work of the Adhvaryu, and with the Sāma-veda the work of the Udgātr̥; and what luminous essence 2 there was in the threefold science, therewith the work of the Brahman priest then proceeded.

०५

विश्वास-प्रस्तुतिः

ते᳘ देवाः᳘ प्रजा᳘पतिमब्रुवन्॥
(न्य᳘) य᳘दि न ऽऋक्तो᳘ वा यजुष्टो᳘ वा सामतो᳘ वा यज्ञो ह्व᳘लेत्केनैनं[[!!]] भिषज्येमे᳘ति॥

मूलम् - श्रीधरादि

ते᳘ देवाः᳘ प्रजा᳘पतिमब्रुवन्॥
(न्य᳘) य᳘दि न ऽऋक्तो᳘ वा यजुष्टो᳘ वा सामतो᳘ वा यज्ञो ह्व᳘लेत्केनैनं[[!!]] भिषज्येमे᳘ति॥

मूलम् - Weber

ते᳘ देवाः᳘ प्रजा᳘पतिमब्रुवन्॥
य᳘दि न ऋक्तो᳘ वा यजुष्टो᳘ वा सामतो᳘ वा यज्ञो ह्व᳘लेत्के᳘नैनम् भिषज्येमे᳘ति॥

मूलम् - विस्वरम्

ते देवाः प्रजापतिमब्रुवन् । यदि नः ऋक्तो वा यजुष्टो वा सामतो वा यज्ञो ह्वलेत्; केनैनं भिषज्येमेति ॥ ५ ॥

सायणः

एवं त्रयीनिष्पाद्यत्वं यज्ञस्य प्रतिपाद्य त्रयीसारभूताभिः व्याहृतिभिः तत्तद्वेदोक्तकर्मभ्रेषनिमित्तं प्रायश्चित्तहोमं विधित्सुः प्रश्नमुद्भावयति- ते देवाः प्रजापतिमब्रुवन्निति । ‘नः’ अस्माकं ‘यज्ञः’ ‘ऋक्तः’ ऋग्वेदोक्तात् कर्मणः सकाशात् ‘यदि ह्वलेत्’ 3 विनश्येत् यजुर्वेदाद्वा सामतो वा । ‘एनं’ विकलं यज्ञं ‘केन’ प्रायश्चित्तेन ‘भिषज्येम’ चिकित्सेमेति । “भिषज् चिकित्सायाम्”- (धा. कण्ड्वा. प. २२) इति धातो रूपम् ॥ ५ ॥

Eggeling
  1. The gods spake unto Prajāpati, ‘If our sacrifice were to fail in respect of either the R̥c, or the Yajus, or the Sāman, whereby should we heal it?’

०६

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
य᳘द्यृक्तो भूरि᳘ति चतुर्ग्गृहीतमा᳘ज्यं गृहीत्वा गा᳘र्हपत्ये जुहवथ य᳘दि यजुष्टो भु᳘व ऽइ᳘ति चतुर्ग्गृहीतमा᳘ज्यं गृही᳘त्वा ऽऽग्नीध्री᳘ये जुहवथान्वाहार्य्यप᳘चने वा हविर्य्यज्ञे य᳘दि सामतः᳘ स्वरि᳘ति[[!!]] चतुर्ग्गृहीतमा᳘ज्यं गृही᳘त्वा ऽऽहवनी᳘ये जुहवथ य᳘द्यु अ᳘विज्ञातम᳘सत्सर्व्वा᳘ण्यनुद्रु᳘त्याहवनी᳘ये[[!!]] जुहवथ त᳘दृग्वेदे᳘नैव ऽर्ग्वेदं᳘[[!!]] भिषज्य᳘ति यजुर्व्वेदे᳘न यजुर्व्वेद᳘ᳫँ᳘ सामवेदे᳘न सामवेदᳫँ᳭ स य᳘था प᳘र्व्वणा प᳘र्व्व सन्दध्या᳘देव᳘ᳫँ᳘ हैव स स᳘न्दधाति य᳘ ऽएता᳘भिर्भिषज्यत्य᳘थ यो हा᳘तो ऽन्ये᳘न भिषज्य᳘ति य᳘था शीर्ण्णे᳘न शीर्ण्ण᳘ᳫँ᳘ सन्धि᳘त्सेद्य᳘था वा शीर्ण्णे᳘ गर᳘मभिनिदध्या᳘देवं तत्त᳘स्मादेवंवि᳘दमेव᳘ ब्रह्मा᳘णं कुर्व्वीत ना᳘नेवंविदम्॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
य᳘द्यृक्तो भूरि᳘ति चतुर्ग्गृहीतमा᳘ज्यं गृहीत्वा गा᳘र्हपत्ये जुहवथ य᳘दि यजुष्टो भु᳘व ऽइ᳘ति चतुर्ग्गृहीतमा᳘ज्यं गृही᳘त्वा ऽऽग्नीध्री᳘ये जुहवथान्वाहार्य्यप᳘चने वा हविर्य्यज्ञे य᳘दि सामतः᳘ स्वरि᳘ति[[!!]] चतुर्ग्गृहीतमा᳘ज्यं गृही᳘त्वा ऽऽहवनी᳘ये जुहवथ य᳘द्यु अ᳘विज्ञातम᳘सत्सर्व्वा᳘ण्यनुद्रु᳘त्याहवनी᳘ये[[!!]] जुहवथ त᳘दृग्वेदे᳘नैव ऽर्ग्वेदं᳘[[!!]] भिषज्य᳘ति यजुर्व्वेदे᳘न यजुर्व्वेद᳘ᳫँ᳘ सामवेदे᳘न सामवेदᳫँ᳭ स य᳘था प᳘र्व्वणा प᳘र्व्व सन्दध्या᳘देव᳘ᳫँ᳘ हैव स स᳘न्दधाति य᳘ ऽएता᳘भिर्भिषज्यत्य᳘थ यो हा᳘तो ऽन्ये᳘न भिषज्य᳘ति य᳘था शीर्ण्णे᳘न शीर्ण्ण᳘ᳫँ᳘ सन्धि᳘त्सेद्य᳘था वा शीर्ण्णे᳘ गर᳘मभिनिदध्या᳘देवं तत्त᳘स्मादेवंवि᳘दमेव᳘ ब्रह्मा᳘णं कुर्व्वीत ना᳘नेवंविदम्॥

मूलम् - Weber

स᳘ होवाच॥
य᳘द्यृक्तो भूरि᳘ति चतुर्गृहीतमा᳘ज्यं गृहीत्वा गा᳘र्हपत्ये जुहवथ य᳘दि यजुष्टो भु᳘व इ᳘ति चतुर्गृहीतमा᳘ज्यं गृहीॗत्वाग्नीध्री᳘ये जुहवथान्वाहार्यप᳘चने वा हविर्यज्ञे य᳘दि सामतः स्व᳘रि᳘ति चतुर्गृहीतमा᳘ज्यं गृहीॗत्वाहवनी᳘ये जुहवथ य᳘द्यु अ᳘विज्ञातम᳘सत्स᳘र्वाण्यनुद्रु᳘त्याहवनी᳘ये जुहवथ त᳘दृग्वेदे᳘नैव᳘र्ग्वेद᳘म् भिषज्य᳘ति यजुर्वेदे᳘न यजुर्वेद᳘ᳫं᳘ सामवेदे᳘न सामवेदᳫं स य᳘था प᳘र्वणा प᳘र्व संदध्या᳘देव᳘ᳫं᳘ हैव स सं᳘दधाति य᳘ एता᳘भिर्भिषज्यत्य᳘थ यो हा᳘तोऽन्ये᳘न भिषज्य᳘ति य᳘था शीर्णे᳘न शीर्ण᳘ᳫं᳘ संधि᳘त्सेद्य᳘था वा शीर्णे᳘ गर᳘मभिनिदध्या᳘देवं तत्त᳘स्मादेवंवि᳘दमेव᳘ ब्रह्मा᳘णं कुर्वीत ना᳘नेवंविदम्॥

मूलम् - विस्वरम्

स होवाच । यद्यृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहवथ । यदि यजुष्टो भुव इति चतुर्गृहीतमाज्यं गृहीत्वा ऽऽग्नीध्रीये जुहवथ । अन्वाहार्यपचने वा हविर्यज्ञे । यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वा ऽऽहवनीये जुहवथ । यद्यु अविज्ञातमसत् । सर्वाण्यनुद्रुत्याहवनीये जुहवथ । तदृग्वेदेनैवर्ग्वेदं भिषज्यति । यजुर्वेदेन यजुर्वेदम् । सामवेदेन सामवेदम् । स यथा पर्वणा पर्व संदध्यात् । एवं हैव स संदधाति । य एताभिर्भिषज्यति । अथ यो हातो ऽन्येन भिषज्यति । यथा शीर्णेन शीर्णं संधित्सेत् । यथा वा शीर्णे गरमभिनिदध्यात् । एवं तत् । तस्मादेवंविदमेव ब्रह्माणं कुर्वीत । नानेवंविदम् ॥ ६ ॥

सायणः

स होवाचेत्यादि । एवं देवैः पृष्टः ‘सः’ प्रजापतिः ‘उवाच’ उक्तवान् । ‘यदि’ ऋग्वेदात्सकाशात् यज्ञो ‘ह्वलेत्’ विनश्येत् तदा ‘चतुर्गृहीतमाज्यं गृहीत्वा’ ऋग्वेदात् उत्पन्नया ‘भूरिति’ 3 व्याहृत्या ‘गार्हपत्ये जुहवथ’ यज्ञे देवाय जुहुत । लेटि अडागमः । यजुर्भ्रेषप्रायश्चित्तमाह- यदि यजुष्टो भुव इतीति । सोमयागे चेद्यजुर्भ्रेषः तदा आग्नीध्रीये होमः । दर्शपूर्णमासादौ हविर्यज्ञे तदा अन्वाहार्यपचने दक्षिणाग्नौ “भुवः स्वाहा”- इति होमः । सामभ्रेषप्रायश्चित्तमाह- यदि सामत इति । एवं हौत्राध्वर्यवादिज्ञानेन व्यवस्थितं प्रायश्चित्तमुक्त्वा अविज्ञातप्रायश्चित्तमाह- यद्यु अविज्ञातमसदिति । ‘यदि’ वेदत्रयस्य संबंधि किंचिदंगं लुप्तं ‘अविज्ञातं’ विभागेनाज्ञातं ‘असत्’ भवेत् । तदा सर्वाण्येतानि ‘अनुद्रुत्य’ उच्चार्य “भूर्भुवः स्वः स्वाहा” इत्येवं ‘आहवनीये जुहवथ’ जुहुत । पूर्ववल्लेटि अडागमः । तत्तद्वेदोक्तकर्मप्रायश्चित्तत्वेनोक्तं तत्तद्व्याहृतिहोमं क्रमेण प्रशंसति- तदृग्वेदेनैवेति । भूरिति व्याहृतिः ऋग्वेदादुत्पन्ना, अतस्तन्मंत्रहोमात् ‘ऋग्वेदेनैव ऋग्वेदं’ चिकित्सितवान् भवति । एवं यजुर्वेदेनेत्यादावपि । स यथा पर्वणेत्यादि । ‘यथा’ खलु लोके भग्नं हस्तपादादि ‘पर्व’ यत्सन्निहितेनान्येन ‘पर्वणा’ पुरुषाय ‘संदध्यात्’ संश्लेषयेत् । एवं अनेन तत्तद्व्याहृतिज्ञानेन तत्तद्वेदोक्तप्रभ्रष्टमंगं पुनः संहितं भवतीत्यर्थः । एतदेव व्यतिरेकेण द्रढयति- अथ यो हेति । ‘यः’ खलु ‘अतः’ अस्मात् उक्तव्याहृतिहोमरूपात् भेषजात् ‘अन्येन’ कर्मणा ‘भिषज्यति’ । तत्र दृष्टांतमाह- यथा शीर्णेनेति । ‘यथा’ ‘शीर्णेन’ भग्नेन अन्यत् ‘शीर्णं’ भग्नं वस्तु ‘संधित्सेत्’ संधातुमिच्छेत् । ‘यथा वा शीर्णे’ रुग्णे ऽवयवे ‘गरं’ विषं ‘अभिनिदध्यात्’ प्रक्षिपेत् । एवमेव तत्तद्व्याहृतिहोमरूपं प्रायश्चित्तमित्यर्थः । उक्तप्रायश्चित्तपरिज्ञानवानेव ब्रह्मा कार्य इति विधत्ते- तस्मादेवंविदमेवेति । ‘एवंविदं’ उक्तब्राह्मणार्थपरिज्ञानवंतम् । स्पष्टमन्यत् ॥ ६ ॥

Eggeling
  1. He spake, ‘If (it were to fail) in respect of the R̥c, ye should take ghee by four ladlings and offer it in the Gārhapatya fire with ‘Bhūḥ!’ and if in respect of the Yajus, ye should take ghee by four ladlings and offer it in the Āgnīdhrīya–or in the Anvāhāryapacana 4 in the case of a Haviryajña–with ‘Bhuvaḥ!’ and if in respect of the Sāman, ye should take ghee by four ladlings and offer it in the Āhavanīya with ‘Svar!’ But if it should not be known (where the mistake has occurred), ye should make offering in the Āhavanīya after uttering

rapidly all (the three sacred words 5): thus one heals the R̥g-veda by the R̥g-veda 6, the Yajur-veda by the Yajur-veda, and the Sāma-veda by the Sāma-veda;–even as one would put together joint with joint 7, so does he put together (the broken part of the sacrifice) whoever heals it by means of these (three sacred words). But if he heals it in any other way than this, it would be just as if one tried to put together something that is broken with something else that is broken, or as if one were to apply some poison as lotion to a broken part 8. Let him therefore appoint only one who knows this (to officiate as) his Brahman, and not one who does not know this.

०७

विश्वास-प्रस्तुतिः

(न्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘दृचा᳘ हौत्रं᳘ क्रिय᳘ते य᳘जुषा᳘ ऽऽध्वर्य्यवᳫँ᳭ सा᳘म्नोद्गीथो᳘ ऽथ के᳘न ब्रह्मत्वमि᳘त्यन᳘या त्रय्या᳘ व्विद्यये᳘ति ह ब्रूयात्॥

मूलम् - श्रीधरादि

(न्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘दृचा᳘ हौत्रं᳘ क्रिय᳘ते य᳘जुषा᳘ ऽऽध्वर्य्यवᳫँ᳭ सा᳘म्नोद्गीथो᳘ ऽथ के᳘न ब्रह्मत्वमि᳘त्यन᳘या त्रय्या᳘ व्विद्यये᳘ति ह ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः॥
य᳘दृचा᳘ होत्रं᳘ क्रिय᳘ते य᳘जुषा᳘ध्वर्यवᳫं सा᳘म्नोद्गीथो᳘ऽथ के᳘न ब्रह्मत्वमि᳘त्यन᳘या त्रय्या᳘ विद्यये᳘ति ह ब्रूयात्॥

मूलम् - विस्वरम्

तदाहुः । यदृचा हौत्रं क्रियते । यजुषा ऽऽध्वर्यवम् । साम्नोद्गीथः । अथ केन ब्रह्मत्वमिति । अनया त्रय्या विद्ययेति ह ब्रूयात् ॥ ७ ॥

सायणः

अथ ब्रह्मत्वस्य 9 वेदत्रयंप्रतिपाद्यत्वं प्रश्नप्रतिवचनाभ्यामाह- तदाहुरिति । यद्यस्मात् ‘ऋचा’ ऋग्वेदेनैव ‘हौत्रं’ होतृकर्म ‘क्रियते’ । यजुर्वेदेनाध्वर्यवं कर्म क्रियते । सामवेदेनोद्गीथं उद्गानं उद्गातृकर्म क्रियते । तस्मात् ब्रह्मत्वमपि केनचिद्वेदेन क्रियत इति वक्तव्यम् । स वेदः कः ? इति प्रश्नः । उत्तरं तु- अनया त्रय्येति । यैस्त्रिभिर्वेदैः पूर्वोक्तं कर्म क्रियते तैरेव ब्रह्मत्वम् इति ब्रूयादित्यर्थः । अत एव यजुर्वेदसूत्रवत् सर्वसूत्रेषु परस्परनैरपेक्ष्येण तत्तद्वेदोक्तं ब्रह्मत्वं सूत्रितमिति ॥ ७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे पंचमे ऽध्याये अष्टमं ब्राह्मणम् ॥ (११ । ५ । ८) ॥

Eggeling
  1. As to this they say, ‘Seeing that the work of the Hotr̥ is performed with the R̥g-veda, that of the Adhvaryu with the Yajur-veda, and that of the Udgātr̥ with the Sāma-veda, wherewith then is the work of the Brahman (performed)?’ Let him reply, ‘With that threefold science.’

  1. 102:1 ? Sāyaṇa takes ‘śukra’ here in the sense of ‘flame, light’ (vyāhr̥tirūpāṇi tejāṁsi); whilst the St. Petersb. Dict. assigns to it the meaning of ‘sap, juice’ (Saft, Seim, cf. next note). Ait. Br. V, 32, contains a very similar passage in which the same process of evolution is set forth:–Prajāpati first creates the three worlds, earth, air, and heaven. From them, being heated by him, three lights (jyotis) are produced–Agni from the earth, Vāyu from the air, and Āditya from the sky (or heaven). From them, being heated, the three Vedas are produced–the R̥g-veda from Agni, the Yajur-veda from Vāyu, and the Sāma-veda from Āditya. From the Vedas, being heated, three flames (śukra, luminaries, Haug) are produced–Bhūḥ from the R̥g-veda, Bhuvaḥ from the Yajur-veda, and Svar from the Sāma-veda. From these in the same way are produced three sounds (or letters, varṇa), ā, u and m, which being combined yield the syllable ‘Om.’ Cp. J. Muir, Original Sanskrit Texts, vol. iii, p. 4. ↩︎

  2. 103:1 Here Sāyaṇa also seems to take ‘śukra’ in the sense of ‘pure, essential part’–nirmalaṁ rūpaṁ sāratvatāṁśaḥ (!). ↩︎

  3. यज्ञस्य ह्वलनं चतुर्धा संभवति- न्यूनकरणम्, अकरणम्, अन्यथाकरणम्, अतिरिक्तकरणं चेति बोध्यम् । ↩︎ ↩︎

  4. 103:2 That is, the Dakshiṇāgni. At the Haviryajña (of which class of sacrifices, performed in the Prācīnavaṁśa hall, the full and new moon serves as model) there is no Āgnīdhrīya, which is, however, required for the Soma-sacrifice. See the plan in part ii, p. 475. ↩︎

  5. 104:1 According to Sāyaṇa, offering would be used with the formula ‘Bhūr bhuvaḥ svaḥ, svāhā!’ ↩︎

  6. 104:2 Viz. by the word ‘bhūḥ,’ representing that Veda. ↩︎

  7. 104:3 Yathā khalu loke bhagnaṁ hastapādādiparva tatsannihitenānyena parvaṇā purushāya saṁdadhyāt saṁśleshayet, evam evānena vyāhr̥tijñānena tat tad avedoktaṁ prabhr̥shṭam aṅgaṁ punaḥ sahitaṁ bhavati, Sāy. ↩︎

  8. 104:4 ? Or, as if one were to put some fluid into some broken (vessel; or, on some broken part),–yathā śīrṇena bhagnena anyac chīrṇaṁ bhagnaṁ vastu saṁdhitset saṁdhātum icchet; yathā vā śīrṇe garaṁ bhaktāvayave garam abhinidadhyāt praḥdattipeta (? prakshipet), Sāy. ↩︎

  9. ब्रह्मा प्रायश्चित्तानि जुहुयादनादिष्टानि । ब्रह्मा विलिष्टँ संदधातीति श्रुतेः । त्रिवेदसंयोगाच्च । का. श्रौ. सू. २५ । ३९०-३९२ । ↩︎