०१
विश्वास-प्रस्तुतिः
अथा᳓तः स्वाध्यायप्रशंसा᳓॥
प्रिये᳓ स्वाध्याय-प्रवचने᳓ भवतो -
युक्त᳓-मना भवत्य्,
अ᳓-पराधीनो᳓ ऽहर्-अहर् अ᳓र्थान्त् साधयते,
सुखं᳓ स्वपिति।+++(5)+++
परम-चिकित्सक᳓ आत्म᳓नो भवति,
+इन्द्रिय-संयम᳓श् चैकाराम᳓ता च, प्रज्ञा᳓, वृद्धि᳓र्, य᳓शो, लोक-पक्तिः᳓।
प्र᳓ज्ञा व᳓र्धमाना चतु᳓रो ध᳓र्मान् ब्राह्मण᳓म् अभिनि᳓ष्पादयति -
ब्रा᳓ह्मण्यम् प्रतिरूप-चर्यां᳓, य᳓शो, लोक-पक्ति᳓म्।
लोकः᳓ प᳓च्यमानश् चतु᳓र्भिर् ध᳓र्मैर् ब्राह्मण᳓म् भुनक्त्य् -
अर्च᳓या च दा᳓नेन चा-ज्येय᳓तया चा-वध्य᳓तया च॥
मूलम् - श्रीधरादि
अथा᳘तः स्वाध्यायप्रशᳫँ᳭सा᳘॥
प्रिये᳘ स्वाध्यायप्रवचने᳘ भवतो युक्त᳘मना भवत्यपराधीनो᳘ ऽहरहर᳘र्थान्त्साधयते[[!!]] सुख᳘ᳫँ᳘ स्वपिति परमचिकित्सक᳘ ऽआत्म᳘नो भवतीन्द्रियसंयम᳘श्चैकाराम᳘ता[[!!]] च प्रज्ञाव्वृद्धिर्य्य᳘शोलोकपक्तिः᳘[[!!]] प्रज्ञा[[!!]] व्व᳘र्द्धमाना च᳘तुरो[[!!]] ध᳘र्म्मान्ब्राह्मण᳘मभि नि᳘ष्पादयति ब्रा᳘ह्मण्यम्प्रतिरूपचर्य्यां य᳘शोलोकपक्तिं᳘ लोकः प᳘च्यमानश्चतु᳘र्भिर्द्धर्म्मैर्ब्राह्मणं᳘ भुनक्त्यर्च्च᳘या च दा᳘नेन चाज्येय᳘तया चावध्य᳘तया च॥
मूलम् - Weber
अथा᳘तः स्वाध्यायप्रशंसा᳟॥
प्रिये᳘ स्वाध्यायप्रवचने᳘ भवतो युक्त᳘मना भवत्य᳘पराधीनो᳘ऽहरहर᳘र्थान्त्साधयते सुख᳘ᳫं᳘ स्वपिति परमचिकित्सक᳘ आत्म᳘नो भवतीन्द्रियसंयम᳘श्चैका᳘राम᳘ता च प्रज्ञा᳘ऋद्धिर्य᳘शो लोकपक्तिः᳘ प्र᳘ज्ञा व᳘र्धमाना चतु᳘रो ध᳘र्मान्ब्राह्मण᳘मभिनि᳘ष्पादयति ब्रा᳘ह्मण्यम् प्रतिरूपचर्यां य᳘शो लोकपक्तिं᳘ 1 लोकः प᳘च्यमानश्चतु᳘र्भिर्ध᳘र्मैर्ब्राह्मण᳘म् भुनक्त्यर्च᳘या च दा᳘नेन चाज्येय᳘तया चावध्य᳘तया च॥
मूलम् - विस्वरम्
ब्रह्मयज्ञलक्षणस्वाध्यायप्रशंसाख्यं ब्राह्मणम् ।
अथातः स्वाध्यायप्रशंसा । प्रिये स्वाध्यायप्रवचने भवतः । युक्तमना भवति । अपराधीनो ऽहरहरर्थान् साधयते । सुखं स्वपिति । परमचिकित्सक आत्मनो भवति । इंद्रियसंयमश्च । एकारामता च । प्रज्ञावृद्धिः । यशोलोकपक्तिः । प्रज्ञा वर्द्धमाना चतुरो धर्मान् ब्राह्मणमभि निष्पादयति । ब्राह्मण्यं प्रतिरूपचर्यां यशोलोकपक्तिम् । लोकः पच्यमानश्चतुर्भिर्धर्मैर्ब्राह्मणं भुनक्ति- अर्चया च दानेन चाज्येयतया चावध्यतया च ॥ १ ॥
सायणः
अथास्मिन् ब्रह्मयज्ञस्वाध्याये पुरुषाणामादरातिशयं जनयितुं प्रशंसां कर्तुं प्रतिजानीते- अथातः स्वाध्यायेति । ‘अतः’ परं वक्ष्यमाणैः फलैः ‘स्वाध्यायस्य प्रशंसा’ प्रशंसनमेव क्रियते । तद्धेतुभूतानि फलान्यनुकामति- प्रिये इत्यादिना । ‘स्वाध्यायः’ स्वाध्यायाध्ययनं ‘प्रवचनं’ अन्यस्याध्यापनम् । ते उभे अपि ब्रह्मयज्ञस्वाध्यायमधीयानम्य ‘प्रिये’ अनुकूलवेदनीये ‘भवतः’ । युक्तमविक्षिप्तं एकाग्रं मनो यस्य स ‘युक्तमनाः’ पराधीनो न भवतीति ‘अपराधीनः’ अनन्यप्रेर्यः सन् ‘अहरहः’ प्रत्यहम् योग्यानर्थान् ‘साधयते’ संपादयति । तथा ‘सुखं’ यथा भवति तथा अव्याकुलितचित्तः ‘स्वपिति’ निद्राति । दुःखसंस्पर्शनिमित्ता चिता अस्य न भवतीत्यर्थः । ‘आत्मनः’ स्वस्य ‘परमचिकित्सको भवति’ । अन्ये हि भिषज औषधादिना शरीरस्यैव तात्कालिकीमेव उदरशिरोरोगादिपीडां निवर्तयंति । विद्वांस्तु देहव्यतिरिक्तस्यात्मनः उक्तेन स्वाध्यायेन पुनर्मृत्युप्राप्तिरूपां पीडां सर्वदैव निवर्तयतीति परमचिकित्सकत्वं तस्येत्यर्थः । तथा इंद्रियसंयमश्चास्य भवति । इंद्रियाणां चक्षुःश्रोत्रादीनां संयमः अनर्थहेतुभ्यो विषयेभ्यो व्यावृत्तिः । एक एव सन् आसमंतात् भवतीत्येकारामः तस्य भावः । तथा भूतभविष्यद्वर्तमानकालतया ऽवच्छिन्नकृत्स्नपदार्थविषया बुद्धिः ‘प्रज्ञा’ तस्या अभिवृद्धिरस्य भवति । ‘यशः’ कीर्तिः तत्प्रयुक्तो ‘लोकः’ तस्य ‘पक्तिः’ परिपाको भवति । अस्य प्रज्ञा वर्द्धमाना सती अध्ययनं, अध्यापनं, यज्ञो, याजनमिति ‘चतुरो धर्मान्’ ब्राह्मणजातिमभिलक्ष्य ‘निष्पादयति’ जनयति । तथा ‘ब्राह्मण्यं’ ब्राह्मणभावं ‘प्रतिरूपचर्यां’ तदनुरूपमाचरणं च संपादयति । प्रागुक्तां यशोलोकपक्तिमनूद्य तद्धेतुकमन्यत्फलमाह- यशोलोकपक्तिमिति । स च पच्यमानो यशसा युक्तो लोकः ‘चतुर्भिः’ वक्ष्यमाणैः ‘धर्मैर्ब्राह्मणं भुनक्ति’ पालयति । “भुजो ऽनवने”- (पा. सू. १ । ३ । ६६) इति पर्युदस्तत्वात् भुजेरात्मनेपदाभावः । के पुनस्ते चत्वारो धर्माः ? इति तानाह- अर्चया चेति । “अर्च पूजायां”- (धा. पा. भ्वा. प. २०४) इति धातो रूपम् । अर्चा अर्चनं पूजनम् । इष्टस्य धनादे समर्पणं दानम् । ज्यानिर्हानिः तदविषयत्वं अज्येयता । “ज्या वयोहानौ”- (धा. पा. क्र्या. प. २७) इत्यस्मात् “अचो यत्”- (पा. सू. ३ । १ । ९७) इति कर्मणि यत् । वधं हननमर्हतीति वध्यः तादृशो न भवतीत्यवध्यः तस्य भावस्तत्त्वम् । एतैश्चतुर्भिर्धर्मैः सर्वो लोको वेदाध्यायिनमाराधयतीत्यर्थः ॥ १ ॥
Eggeling
- Now, then, the praise of the study (of the scriptures). The study and teaching (of the Veda) are a source of pleasure to him, he becomes ready-minded 2, and independent of others, and day by day he acquires wealth. He sleeps peacefully; he is the best physician for himself; and (peculiar) to him are restraint of the senses, delight in the one thing 3, growth of intelligence, fame, and the (task of) perfecting the people 4.
The growing intelligence gives rise to four duties attaching to the Brāhmaṇa–Brāhmaṇical descent, a befitting deportment, fame, and the perfecting of the people; and the people that are being perfected guard the Brāhmaṇa by four duties–by (showing him) respect, and liberality, (and by granting him) security against oppression, and security against capital punishment.
०२
विश्वास-प्रस्तुतिः
ये᳓ ह वै᳓ के᳓ च श्र᳓मा
इमे᳓ द्या᳓वा-पृथिवी अ᳓न्तरेण,
स्वाध्यायो᳓ हैव᳓ ते᳓षाम् पर-म᳓ता का᳓ष्ठा,
य᳓ एवं᳓ विद्वा᳓न्त् स्वाध्याय᳓म् अधीते᳓।
त᳓स्मात् स्वाध्यायो᳓ ऽध्येत᳓व्यः॥
मूलम् - श्रीधरादि
ये᳘ ह वै के᳘ च श्र᳘माः॥
(ऽ) इमे द्या᳘वापृथिवी ऽअ᳘न्तरेण स्वाध्यायो᳘ हैव ते᳘षां परम᳘ताका᳘ष्ठा य᳘ ऽएवं᳘ व्विद्वा᳘न्त्स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्या᳘यो ऽध्येत᳘व्व्यः॥
मूलम् - Weber
ये᳘ ह वै के᳘ च श्र᳘माः॥
इमे द्या᳘वापृथिवी अ᳘न्तरेण स्वाध्यायो᳘ हैव ते᳘षाम् परम᳘ता का᳘ष्ठा 5 य᳘ एवं᳘ विद्वा᳘न्त्स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्याॗयोऽध्येत᳘व्यः॥
मूलम् - विस्वरम्
ये ह वै के च श्रमाः, इमे द्यावापृथिवी अंतरेण । स्वाध्यायो हैव तेषां परमताकाष्ठा । य एवं विद्वान् स्वाध्यायमधीते । तस्मात्स्वाध्यायो ऽध्येतव्यः ॥ २ ॥
सायणः
अथ उत्कृष्टतपोरूपत्वमध्ययनस्याह- ये ह वै के च श्रमा इति । ‘द्यावापृथिवी अंतरेण’ अनयोर्द्यावापृथिव्योर्मध्ये ‘ये’ केचन ‘श्रमाः’ श्रमसाध्यास्तपोविशेषाः ‘तेषां’ तपोविशेषाणां ‘स्वाध्यायः’ एव ‘परमताकाष्ठा’ परमता परमत्वमुत्कर्षः तस्यावधिभूमिः । एतावंति फलानि विदुष एवाध्येतुरित्याह- य एवं विद्वानिति । तस्मादिति । प्रकृताध्ययनविधेर्निगमनम् ॥ २ ॥
Eggeling
- And, truly, whatever may be the toils here between heaven and earth, the study (of the scriptures) is their last stage, their goal (limit) for him who, knowing this, studies his lesson: therefore one’s (daily) lesson should be studied.
०३
विश्वास-प्रस्तुतिः
य᳓द् यद् ध वा᳓ अयं᳓ छ᳓न्दसः स्वाध्याय᳓म् अधीते
ते᳓न तेन हैवा᳓स्य यज्ञ-क्रतु᳓नेष्ट᳓म् भवति,
य᳓ एवं᳓ विद्वा᳓न्त् स्वाध्याय᳓म् अधीते᳓।
त᳓स्मात् स्वाध्यायो᳓ ऽध्येत᳓व्यः॥
मूलम् - श्रीधरादि
(व्व्यो) य᳘द्यद्ध वा᳘ ऽअयं छ᳘न्दसः॥
स्वाध्याय᳘मधीते ते᳘न तेन है᳘वास्य यज्ञक्रतु᳘नेष्टं᳘ भवति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्या᳘यो ऽध्येत᳘व्व्यः॥
मूलम् - Weber
य᳘द्यद्ध वा᳘ अयं छ᳘न्दसः॥
स्वाध्याय᳘मधीते ते᳘न-तेन हैॗवास्य यज्ञक्रतु᳘नेष्ट᳘म् भवति य᳘ एवं᳘ विद्वा᳘न्त्स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्याॗयोऽध्येत᳘व्यः॥
मूलम् - विस्वरम्
यद्यद्ध वा अयं छंदसः स्वाध्यायमधीते । तेन तेन हैवास्य यज्ञऋतुनेष्टं भवति । य एवं विद्वान् स्वाध्यायमधीते । तस्मात्स्वाध्यायो ऽध्येतव्यः ॥ ३ ॥
सायणः
अथ वेदाध्ययनशीलस्य कायिकव्यापारनिर्वर्त्ययागहोमादिफलमपि अयत्नतः सिध्यतीत्याह- यद्यद्ध वा इति । ‘यद्यत्’ यस्य यस्य यज्ञक्रतोः प्रतिपादकच्छंदसो वेदस्य संबंधिनं ‘स्वाध्यायं’ स्वशाखासम्बन्धि, स्वाध्यायानुवाकादिकं ‘अधीते’ ‘अस्य’ अध्येतुः तत्प्रतिपाद्येन तेन तेनैव ‘क्रतुना’ यज्ञकर्मणा ‘इष्टं भवति’ यागः कृतो भवति । य एवं विद्वानित्यादि पूर्ववत् ॥ ३ ॥
Eggeling
- And, verily, whatever portion of the sacred poetry (chandas) he studies for his lesson with that sacrificial rite 6, offering is made by him who, knowing this, studies his lesson: therefore one’s (daily) lesson should be studied.
०४
विश्वास-प्रस्तुतिः
य᳓दि ह वा᳓ अ᳓प्य् अभ्य᳓क्तः, अ᳓लंकृतः, सु᳓हितः, सुखे श᳓यने श᳓यानः,
स्वाध्याय᳓म् अधीत᳓,
आ᳓ हैव स᳓ नखाग्रे᳓भ्यस् तप्यते,
य᳓ एवं᳓ विद्वा᳓न्त् स्वाध्याय᳓म् अधीते᳓। त᳓स्मात् स्वाध्यायो᳓ ऽध्येत᳓व्यः॥+++(५)+++
मूलम् - श्रीधरादि
(व्व्यो) य᳘दि ह᳘ वा ऽअ᳘प्यभ्य᳘क्तः॥
(क्तो᳘ ऽलं) अ᳘लंकृतः सु᳘हितः सुखे श᳘यने श᳘यानः स्वाध्याय᳘मधीत ऽआ᳘ हैव स᳘ नखाग्रे᳘भ्यस्तप्यते य᳘ ऽएवं᳘ व्विद्वा᳘न्त्स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्या᳘यो ऽध्येत᳘व्व्यः॥
मूलम् - Weber
य᳘दि ह वा अ᳘प्यभ्य᳘क्तः॥
अ᳘लंकृतः सु᳘हितः सुखे श᳘यने श᳘यानः स्वाध्याय᳘मधीत आ᳘ हैव स᳘ नखाग्रे᳘भ्यस्तप्यते य᳘ एवं᳘ विद्वा᳘न्त्स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्याॗयोऽध्येत᳘व्यः॥
मूलम् - विस्वरम्
यदि ह वा अप्यभ्यक्तः अलंकृतः सुहितः सुखे शयने शयानः स्वाध्यायमधीते । आ हैव स नखाग्रेभ्यस्तप्यते । य एवं विद्वान् स्वाध्यायमधीते । तस्मात्स्वाध्यायो ऽध्येतव्यः ॥ ४ ॥
सायणः
अथ एतदप्यध्ययनं कृच्छ्रचांद्रायणादितपोरूपत्वेन स्तौति- यदि ह वा इति । ‘अभ्यक्तः’ तैलादिना कृताभ्यंगः । ‘अलंकृतः’ स्रक्चंदनादिभिर्भूषितः । ‘सुहितः’ यथेष्टभोजनेन तृप्तः । ‘सुखे’ सुखकरे ‘शयने’ शय्यायां ‘शयानः’ । एवमभ्यंगादीन् तपसः प्रतिकूलान् चरन्नपि यः ‘स्वाध्यायमधीते’ ‘स आ नखाग्रेभ्यः’ नखाग्रपर्यंतं यावच्छरीरपीडनेन तपस्तप्तवान् भवति । य एवं विद्वानित्यादि गतम् ॥ ४ ॥
Eggeling
- And, verily, if he studies his lesson, even though lying on a soft couch, anointed, adorned and completely satisfied, he is burned (with holy fire 7) up to the tips of his nails, whosoever, knowing this, studies his lesson: therefore one’s (daily) lesson should be studied.
En - सिद्धार्थः
Even if he be (यदि ह वा अपि) oiled up (अभ्यक्तः), adorned (अलंकृतः), satisfied (सुहितः) & lying on a pleasant bed (शुखे शयने शयानः), when he does स्वाध्याय, he blazes with अग्नि to the tips of his nails. Thus, the स्वाध्याय ought to be done.(तस्मात्स्वाध्यायोऽध्येतव्यः)
०५
विश्वास-प्रस्तुतिः
म᳓धु ह वा᳓ ऋ᳓चः,
घृतं᳓ ह सा᳓मान्य्,
अमृ᳓तं य᳓जूंषि।
य᳓द् +ध वा᳓ अयं᳓ वाको-वाक्य᳓म् अधीते᳓,
क्षीरौदन-मांसौदनौ᳓ हैव᳓ तौ᳓॥
मूलम् - श्रीधरादि
(व्व्यो) म᳘धु ह वा ऽऋ᳘चः॥
(चो) घृत᳘ᳫँ᳘ ह सा᳘मान्यमृ᳘तं य᳘जूᳫँ᳭षि य᳘द्ध वा᳘ ऽअय᳘म्वाकोवा᳘क्यमधीते᳘[[!!]] क्षीरौद᳘नमाᳫँ᳭सौदनौ᳘ हैव तौ[[!!]]॥
मूलम् - Weber
म᳘धु ह वा ऋ᳘चः॥
घृत᳘ᳫं᳘ ह सा᳘मान्यमृ᳘तं य᳘जूंषि य᳘द्ध वा᳘ अयं᳘ वाकोवाक्य᳘मधीते᳘ क्षीरौदनमांसौदनौ᳘ हैव तौ᳟॥
मूलम् - विस्वरम्
मधु ह वा ऋचः । घृतं ह सामानि । अमृतं यजूंषि । यद्ध वा अयं वाकोवाक्यमधीते । क्षीरौदनमांसौदनौ हैव तौ ॥ ५ ॥
सायणः
अथ एतेषामृगादीनां मध्वादिरूपतया तृप्तिहेतुतां वक्तुं सारूप्यमाह- मधु ह वा ऋच इति । या ‘ऋचः’ तन्मधु । यानि ‘सामानि’ तत् घृतमाज्यम् । यानि ‘यजूंषि’ तदमृतम् । ‘यत्’ खलु ‘अयं’ अध्येता प्रागुक्तं वाकोवाक्यादिकमधीते ‘क्षीरौदनमांसौदनावेव तौ’ ॥ ५ ॥
Eggeling
- The R̥k-texts, truly, are honey, the Sāman-texts ghee, and the Yajus-texts ambrosia; and, indeed, when he studies the dialogue that (speech and reply) is a mess of milk and a mess of meat.
०६
विश्वास-प्रस्तुतिः
म᳓धुना ह वा᳓ एष᳓ देवां᳓स् तर्पयति,
य᳓ एवं᳓ विद्वा᳓न् ऋ᳓चो᳓ ऽहर्-अहः स्वाध्याय᳓म् अधीते᳓।
त᳓ एनं तृप्ता᳓स् तर्पयन्ति -
स᳓र्वैः का᳓मैः, स᳓र्वैर् भो᳓गैः॥
मूलम् - श्रीधरादि
म᳘धुना ह वा᳘ ऽएष᳘ देवाँ᳘स्तर्प्पयति॥
य᳘ ऽएवं᳘ व्विद्वानृचो᳘ ऽहरहः स्वाध्याय᳘मधीते त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति स᳘र्व्वैः का᳘मैः स᳘र्व्वैर्भो᳘गैः॥
मूलम् - Weber
म᳘धुना ह वा᳘ एष᳘ देवा᳘ᳫं᳘स्तर्पयति॥
य᳘ एवं᳘ विद्वानृचो᳘ऽहरहः स्वाध्याय᳘मधीते त᳘ एनं तृप्ता᳘स्तर्पयन्ति स᳘र्वैः का᳘मैः स᳘र्वैर्भो᳘गैः॥
मूलम् - विस्वरम्
मधुना ह वा एष देवांस्तर्पयति । य एवं विद्वानृचो ऽहरहः स्वाध्यायमधीते । त एनं तृप्तास्तर्पयंति सर्वैः कामैः सर्वैर्भोगैः ॥ ६ ॥
सायणः
इत्थं मध्वादिरूपतामुक्त्वा तदुपजीवनेन तेषामध्ययनं क्रमेण स्तौति- मधुना ह वा इति । निगदसिद्धो ऽर्थः । ऋचामध्ययनं स्तौति- य एवं विद्वानिति । सर्वैः कामैरिति । काम्यमानैः ‘सर्वैः’ शब्दादिविषयैः तन्निर्वर्त्यैभोगौश्चेत्यर्थः ॥ ६ ॥
Eggeling
- And, indeed, he who, knowing this, studies day by day the R̥k-texts for his lesson, satisfies the gods with honey, and, thus satisfied, they satisfy him by every object of desire, by every kind of enjoyment.
०७
विश्वास-प्रस्तुतिः
घृते᳓न ह वा᳓ एष᳓ देवां᳓स् तर्पयति,
य᳓ एवं᳓ विद्वा᳓न्त् सा᳓मान्य् अ᳓हर्-अहः स्वाध्याय᳓म् अधीते᳓।
त᳓ एनं तृप्ता᳓ तर्प्पयन्ति
स᳓र्व्वैः का᳓मैः स᳓र्व्वैर् भो᳓गैः॥
मूलम् - श्रीधरादि
(र्घृ) घृते᳘न ह वा᳘ ऽएष᳘ देवाँ᳘स्तर्प्पयति॥
य᳘ ऽएवं᳘ व्विद्वान्त्सा᳘मान्य᳘हरहः स्वाध्याय᳘मधीते त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति स᳘र्व्वैः का᳘मैः स᳘र्व्वैर्भो᳘गैः॥
मूलम् - Weber
घृते᳘न ह वा᳘ एष᳘ देवा᳘ᳫं᳘स्तर्पयति॥
य᳘ एवं᳘ विद्वान्त्सा᳘मान्य᳘हरहः स्वाध्याय᳘मधीते त᳘ एनं तृप्ता᳟…॥
मूलम् - विस्वरम्
घृतेन ह वा एष देवांस्तर्पयति । य एवं विद्वान् सामान्यहरहः स्वाध्यायमधीते । त एनं तृप्तास्तर्पयंति सर्वैः कामैः सर्वैर्भोगैः ॥ ७ ॥
सायणः
साम्नामध्ययनं स्तौति- घृतेन ह वा इति ॥ ७ ॥
Eggeling
- And he who, knowing this, studies day by day the Sāman-texts for his lesson, satisfies the gods with ghee; and, being satisfied, they satisfy him by every object of desire, by every kind of enjoyment.
०८
विश्वास-प्रस्तुतिः
अमृ᳓तेन ह वा᳓ एष᳓ देवां᳓स् तर्पयति
य᳓ एवं᳓ विद्वा᳓न् य᳓जूंष्य् अ᳓हर्-अहः स्वाध्याय᳓म् अधीते᳓।
त᳓ एनं तृप्ता᳓ तर्प्पयन्ति
स᳓र्व्वैः का᳓मैः, स᳓र्व्वैर् भो᳓गैः॥
मूलम् - श्रीधरादि
(र) अमृ᳘तेन ह वा᳘ ऽएष᳘ देवाँ᳘स्तर्प्पयति॥
य᳘ ऽएवं᳘ व्विद्वान्य᳘जूᳫँ᳭ष्य᳘हरहः स्वाध्याय᳘मधीते त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति स᳘र्व्वैः का᳘मैः स᳘र्व्वैर्भो᳘गैः॥
मूलम् - Weber
अमृ᳘तेन ह वा᳘ एष᳘ देवा᳘ᳫं᳘स्तर्पयति॥
य᳘ एवं᳘ विद्वान्य᳘जूंष्य᳘हरहः स्वाध्याय᳘मधीते त᳘ एनं तृप्ता᳟॥
मूलम् - विस्वरम्
अमृतेन ह वा एष देवांस्तर्पयति । य एवं विद्वान् यजूंष्यहरहः स्वाध्यायमधीते । त एनं तृप्तास्तर्पयंति सर्वैः कामैः सर्वैर्भोगैः ॥ ८ ॥
सायणः
यजुषामध्ययनं स्तौति- अमृतेन ह वा इति ॥ ८ ॥
Eggeling
- And he who, knowing this, studies day by day the Yajus-texts for his lesson, satisfies the gods with ambrosia; and, being satisfied, they satisfy him by every object of desire, by every kind of enjoyment.
०९
विश्वास-प्रस्तुतिः
क्षीरौदन-मांसौदना᳓भ्यां ह वा᳓ एष᳓ देवां᳓स् तर्पयति,
य᳓ एवं᳓ विद्वा᳓न् वाकोवाक्य᳓म् इतिहास-पुराण᳓म् इ᳓त्य् अ᳓हर्-अहः स्वाध्याय᳓म् अधीते᳓
त᳓ एनं तृप्ता᳓ तर्प्पयन्ति
स᳓र्व्वैः का᳓मैः, स᳓र्व्वैर् भो᳓गैः॥
मूलम् - श्रीधरादि
क्षीरौदनमाᳫँ᳭सौदना᳘भ्याᳫँ᳭ ह वा᳘ ऽएष᳘ देवाँ᳘स्तर्प्पयति॥
य᳘ ऽएवं᳘ व्विद्वा᳘न्वाकोवा᳘क्यमितिहासपुराणमित्य᳘हरहः[[!!]] स्वाध्याय᳘मधीते त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति᳘ स᳘र्व्वैः का᳘मैः स᳘र्व्वैर्भोगैः[[!!]]॥ ॥
मूलम् - Weber
क्षीरौदनमांसौदना᳘भ्याᳫं ह वा᳘ एष᳘ देवा᳘ᳫं᳘स्तर्पयति॥
य᳘ एवं᳘ विद्वा᳘न्वाकोवाक्य᳘मितिहासपुराणमित्य᳘हरहः स्वाध्याय᳘मधीते त᳘ एनं तृप्ता᳟॥
मूलम् - विस्वरम्
क्षीरौदनमांसौदनाभ्यां ह वा एष देवांस्तर्पयति । य एवं विद्वान् वाकोवाक्यमितिहासपुराणमित्यहरहः स्वाध्यायमधीते । त एनं तृप्तास्तर्पयंति सर्वैः कामैः सर्वैर्भोगैः ॥ ९ ॥
सायणः
वाकोवाक्यादीनामध्ययनं स्तौति- क्षीरौदनमांसौदनाभ्यामिति । क्षीरमिश्रितमोदनं ‘क्षीरौदनम्’ । मांसमिश्रं शाल्योदनं ‘मांसौदनम्’ । गतमन्यत् । ‘वाकोवाक्यमितिहासपुराणमिति’ । इतिशब्दः प्रकारवाची, कार्यादीनां संग्रहार्थः 8 ॥ ९ ॥
Eggeling
- And he who, knowing this, studies day by day the dialogue, the traditional myths and legends, for his lesson, satisfies the gods by messes of milk and meat; and, being satisfied, they satisfy him by every object of desire, by every kind of enjoyment.
१०
विश्वास-प्रस्तुतिः
य᳓न्ति वा आ᳓पः॥
ए᳓त्य् आदित्य᳓,
ए᳓ति चन्द्र᳓मा,
य᳓न्ति न᳓क्षत्राणि।
य᳓था ह वा᳓ एता᳓ देव᳓ता ने᳓युर्, न᳓ कुर्युर् -
एवं᳓ हैव᳓ त᳓द् अ᳓हर् ब्राह्मणो᳓ भवति,
य᳓द् अ᳓हः स्वाध्यायं ना᳓धीते᳓।+++(5)+++
त᳓स्मात् स्वाध्यायो᳓ ऽध्येत᳓व्यस्,
त᳓स्माद् अ᳓प्य् ऋ᳓चं वा य᳓जुर् वा सा᳓म वा गा᳓थां वा कुं᳓ब्यां +++(=ब्राह्मणविशेषं)+++ वा
ऽभिव्या᳓हरेद् व्रत᳓स्या᳓व्यवछेदाय॥+++(५)+++
मूलम् - श्रीधरादि
(र्य्य᳘) य᳘न्ति वा ऽआ᳘पः॥
(ऽ) ए᳘त्यादित्य ऽए᳘ति चन्द्र᳘मा य᳘न्ति न᳘क्षत्राणि य᳘था ह वा᳘ ऽएता᳘ देव᳘ता᳘ नेयुर्न्न᳘ कुर्य्युरेव᳘ᳫँ᳘ हैव तद᳘हर्ब्राह्मणो᳘ भवति यद᳘हः स्वाध्यायं᳘[[!!]] नाधीते त᳘स्मात्स्वाध्या᳘यो ऽध्येत᳘व्यस्त᳘स्मादप्यृचं[[!!]] वा य᳘जुर्व्वा सा᳘म वा गा᳘थां वा कु᳘म्ब्यां वा ऽभिव्या᳘हरेद्व्रतस्याव्यवच्छेदाय[[!!]]॥
मूलम् - Weber
य᳘न्ति वा आ᳘पः॥
ए᳘त्यादित्य ए᳘ति चन्द्र᳘मा य᳘न्ति न᳘क्षत्राणि य᳘था ह वा᳘ एता᳘ देव᳘ताॗ नेयुर्न᳘ कुर्युरेव᳘ᳫं᳘ हैव तद᳘हर्ब्राह्मणो᳘ भवति यद᳘हः स्वाध्याॗयं नाधीते त᳘स्मात्स्वाध्याॗयोऽध्येत᳘व्यस्त᳘स्मादप्यृ᳘चं वा य᳘जुर्वा सा᳘म वा गा᳘थां वा कुं᳘व्यां 9 वाभिव्या᳘हरेद्व्रतस्या᳘व्यवछेदाय॥
मूलम् - विस्वरम्
यंति वा आपः । एत्यादित्यः । एति चंद्रमाः । यन्ति नक्षत्राणि । यथा ह वा एता देवता नेयुर्न कुर्युः । एवं हैव तदहर्ब्राह्मणो भवति । यदहः स्वाध्यायं नाधीते । तस्मात्स्वाध्यायो ऽध्येतव्यः । तस्मादपि ऋचं वा यजुर्वा साम वा गाथां वा कुम्ब्यां वा ऽभिव्याहरेत्- व्रतस्याव्यवच्छेदाय ॥ १० ॥
सायणः
सूर्यादिगतिवत् अखिलजगद्व्यवहारनिर्वर्तकत्वेन ब्रह्मयज्ञस्वाध्यायं स्तौति- यन्ति वा इति । नद्यादिरूपेण स्थिताः ‘आपः’ खलु ‘यंति’ गच्छंति । ‘एति आदित्यः’ गच्छति । ‘चंद्रमाः अप्येति’ गच्छति । ‘नक्षत्राण्यपि यंति’ गच्छंति । तत्रापां तिर्यग्गमनं स्नानपानादिकृत्स्नलोकव्यवहारार्थम् । सूर्यगमनं अहनि प्रकाशप्रदानार्थम् । तथा चंद्रनक्षत्राणां गमनं रात्रौ प्रकाशप्रदानार्थम् । ‘यथा’ खलु ‘एताः’ अबाद्याः ‘देवता नेयुः’ न पुनर्गच्छेयुः । तदानीं ‘न कुर्युः’ एव स्वस्वव्यवहारम् । ततस्तेषां निष्प्रयोजकत्वम् । एवमेतस्मिन्नहनि ब्राह्मणो निरर्थको भवति, यस्मिन्नहनि ‘स्वाध्यायं नाधीते’ । तस्मादित्यादि पूर्ववत् । यत एवं अतो ऽनध्यायादिनिमित्ते ऽपि अध्यायादिप्रयुक्तसामर्थ्यविरहे च सत्यपि सर्वथा ब्रह्मयज्ञस्य वर्जनमयुक्तमित्युपसंहारव्याजेन प्रकारांतरमाह- तस्मादप्यृचमिति । यस्मादेवं नित्यो ब्रह्मयज्ञस्वाध्यायः तस्मादनध्यायदिवसे अशक्तौ च आदावारभ्य एकामृचं वा ‘अभिव्याहरेत्’ अधीयीत । एकं वा ‘यजुः’ । एकं वा ‘साम’ गाथारूपं मंत्रम् । कुंब्याशब्देन एकार्थस्य प्रतिपादकं विध्यर्थवादात्मकं ब्राह्मणवाक्यमुच्यते । तद्धि अधीयते । सर्वथा लोपो न कार्य इत्यर्थः । किमर्थं ? ब्रह्मयज्ञस्वाध्यायलक्षणस्य ‘व्रतस्याव्यवच्छेदाय’ व्यवच्छेदाभावाय ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्य एकादशकांडे पंचमे ऽध्याये सप्तमं ब्राह्मणम् ॥ (११ । ५ । ७) ॥
Eggeling
- Moving, indeed, are the waters, moving is the sun, moving the moon, and moving the stars; and, verily, as if these deities did not move and act, even so will the Brāhmaṇa be on that day on which he does not study his lesson: therefore one’s (daily) lesson should be studied. And hence let him at least pronounce either a R̥k-verse or a Yajus-formula, or a Sāman-verse, or a Gāthā, or a Kumbyā 10, to ensure continuity of the Vrata 11.
-
यशोलोकपक्ति Sây. as a compound, against the accent. - ibid. The accent shows, that प᳘च्यमानः is to be taken as a medium of the fourth class! ↩︎
-
99:5 Or, as Sāyaṇa takes it to mean, of intent, undistracted mind,–yuktam avikshiptam ekāgraṁ mano yasya sa yuktamanāḥ. ↩︎
-
99:6 Sāyaṇa seems to take ’ekārāmatā’ in the sense of ‘remaining always the same,’–eka eva sann ā samantād bhavatīty ekārāmas tasya bhāvaḥ. ↩︎
-
99:7 Or, perfecting the world,–tadyukto yo lokas tasya paktiḥ paripāko bhavati, Sāy. ↩︎
-
परमताकाष्ठा Sây. as a compound, against the accent. ↩︎
-
100:1 The study of the Veda being ’the sacrifice of the Brahman,’ the reading of a portion is, as it were, a special rite, or form of offering, belonging to that sacrifice. Sāyaṇa, on the other hand, takes it to mean that the student performs, as it were, the particular rite, or offering, to which the portion he reads may refer. It may, indeed, be implied, though it certainly is not expressed in the text. ↩︎
-
100:2 Thus A. Weber, Ind. Stud. X, p. 122;–śarīrapīḍanena tapastapto bhavati, Sāy. ↩︎
-
(याज्ञ. स्मृ. आ. ब्र. प्र. श्लो. ४७-४८) इत्यत्रत्यावपि श्लोकावत्र द्रष्टव्यौम् । ↩︎
-
कुं᳘ब्यां A. sec. manu. कुंद्यां Sây. ↩︎
-
101:1 A ‘Kumbyā,’ according to Sāyaṇa, is a Brāhmaṇa-passage explanatory of some sacrificial precept or rite (vidhyarthavādātmakaṁ brāhmaṇa-vākyam); whilst, on Aitareyār. II, 3, 6, 8, the same commentator explains it as a verse (r̥g-viśesha) conveying some precept of conduct (ācāraśikshārūpa), such as ‘brahmacāryasyāpośānaṁ karma kuru, divā mā svāpsīḥ,’ &c. Cf. Prof. F. Max Müller’s transl., Upanishads I, p. 230, note 2. ↩︎
-
101:2 This is in keeping with the mystic representation of this and the preceding chapters which represent the daily study of the scriptural lesson as a sacrifice continued day by day. The student, as the sacrificer, has accordingly, during the sacrifice (that is, during the period of his study of the Vedas, or for life), as it were, to limit his daily food to the drinking of the Vrata-milk, which rule he obeys symbolically by reciting such a verse or formula. ↩︎