०१
विश्वास-प्रस्तुतिः
प᳘ञ्चैव᳘ महायज्ञाः[[!!]]॥
(स्ता᳘) ता᳘न्येव᳘ महासत्रा᳘णि भूतयज्ञो᳘ मनुष्ययज्ञः᳘ पितृयज्ञो᳘ देवयज्ञो᳘ ब्रह्मयज्ञ ऽइ᳘ति॥
मूलम् - श्रीधरादि
प᳘ञ्चैव᳘ महायज्ञाः[[!!]]॥
(स्ता᳘) ता᳘न्येव᳘ महासत्रा᳘णि भूतयज्ञो᳘ मनुष्ययज्ञः᳘ पितृयज्ञो᳘ देवयज्ञो᳘ ब्रह्मयज्ञ ऽइ᳘ति॥
मूलम् - Weber
प᳘ञ्चैव᳘ महायज्ञाः᳟॥
ता᳘न्येव᳘ महासत्त्रा᳘णि भूतयज्ञो᳘ मनुष्ययज्ञः᳘ पितृयज्ञो᳘ देवयज्ञो᳘ ब्रह्मयज्ञ इ᳘ति॥
मूलम् - विस्वरम्
पंचमहायज्ञब्राह्मणम् ।
पंचैव महायज्ञाः । तान्येव महासत्राणि । भूतयज्ञः, [^१_१५७] मनुष्ययज्ञः, [^२_१५७] पितृयज्ञः, [^३_१५७] देवयज्ञः, [^४_१५७] ब्रह्मयज्ञ [^५_१५७] इति ॥ १ ॥
[^१_१५७] “भूतगृह्येभ्यो मणिके त्रीन्पर्जन्यायाद्भ्यः पृथिव्यै । धात्रे विधात्रे च द्वार्ययोः । प्रतिदिशं वायवे दिशां च । मध्ये त्रीन्ब्रह्मणे ऽन्तरिक्षाय सूर्याय विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः । उषसे भूतानां च पतये परम्” । (पार. गृ. सू. २ । ९ । ३-८ ।) इति ।
[^२_१५७] “पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्षमैतत्त इति । उद्धृत्यान्नं ब्राह्मणायावनेज्य दद्याद्धन्त ते” । (पार. गृ. सू. २ । ९ । १०-११) इति ।
[^३_१५७] “मनुष्येभ्यश्चोदपात्रात्” (पार. गृ. सू. २ । ९ । १६) इति ।
[^४_१५७] “पितृभ्यः स्वधा नम इति दक्षिणतः” (पार. गृ. सू. २ । ९ । ९ ॥) इति
[^५_१५७] “पितृभ्यश्चोदपात्रात्” (पार. गृ. सू. २ । ९ । १६ ।) इति ।
सायणः
अथ सत्रप्रसंगात् यावज्जीवमनुष्ठेयान् पंचमहायज्ञान् महासत्रत्वेन निरूपयितुं प्रस्तौति- पञ्चैव महायज्ञा इति । भूतयज्ञादयो वक्ष्यमाणाः ‘पंचैव महायज्ञाः’ सर्वदा सर्वैरनुष्ठेयत्वात् । न केवलं तेषां महायज्ञत्वमात्रं, अपि तु महासत्रत्वमेवेति विशिनष्टि- तान्येवेति । महांति निश्चलानि सत्राणि ‘महासत्राणि’ यावज्जीवमनुष्ठेयत्वादृत्विगनपेक्षत्वाच्च । तान्येवेति विधेयापेक्षया नपुंसकनिर्द्देशः । अथ तान् यज्ञाननुदिशति- भूतयज्ञ इति । भूतानां तृप्तिकरो यज्ञः ‘भूतयज्ञः’ । एवं मनुष्ययज्ञादावपि । ब्रह्मणो वेदस्याध्ययनं ‘ब्रह्मयज्ञः’ तस्य च देवर्षिपितृगणतृप्तिकरत्वात् यज्ञत्वम् ॥ १ ॥
Eggeling
- There are five great sacrifices, and they, indeed, are great sacrificial sessions,–to wit, the sacrifice to beings, the sacrifice to men, the sacrifice to the Fathers, the sacrifice to the gods, and the sacrifice to the Brahman.
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘हरहर्भूते᳘भ्यो बलि᳘ᳫँ᳘ हरेत्॥
(त्त᳘) त᳘थैतं᳘ भूतयज्ञᳫँ᳭ स᳘माप्नोत्य᳘हरहर्द्दद्या᳘दोदपात्रात्त᳘थैतं᳘ मनुष्ययज्ञᳫँ᳭ स᳘माप्नोत्य᳘हरहः स्वधा᳘ कुर्य्या᳘दोदपात्रात्त᳘थैतं᳘[[!!]] पितृयज्ञᳫँ᳭ स᳘माप्नोत्य᳘हरहः स्वा᳘हा कुर्य्यादा᳘ काष्ठात्त᳘थैतं᳘ देवयज्ञᳫँ᳭ स᳘माप्नोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘हरहर्भूते᳘भ्यो बलि᳘ᳫँ᳘ हरेत्॥
(त्त᳘) त᳘थैतं᳘ भूतयज्ञᳫँ᳭ स᳘माप्नोत्य᳘हरहर्द्दद्या᳘दोदपात्रात्त᳘थैतं᳘ मनुष्ययज्ञᳫँ᳭ स᳘माप्नोत्य᳘हरहः स्वधा᳘ कुर्य्या᳘दोदपात्रात्त᳘थैतं᳘[[!!]] पितृयज्ञᳫँ᳭ स᳘माप्नोत्य᳘हरहः स्वा᳘हा कुर्य्यादा᳘ काष्ठात्त᳘थैतं᳘ देवयज्ञᳫँ᳭ स᳘माप्नोति॥
मूलम् - Weber
अ᳘हरहर्भूते᳘भ्यो बलि᳘ᳫं᳘ हरेत्॥
त᳘थैत᳘म् भूतयज्ञᳫं स᳘माप्नोत्य᳘हरहर्दद्याॗदोदपात्रात्त᳘थैत᳘म् मनुष्ययज्ञᳫं स᳘माप्नोत्य᳘हरहः स्वधा᳘कुर्याॗदोदपात्रात्तथैत᳘म् पितृयज्ञᳫं स᳘माप्नोत्य᳘हरहः स्वा᳘हाकुर्यादा᳘ काष्ठात्त᳘थैतं᳘ देवयज्ञᳫं स᳘माप्नोति॥
मूलम् - विस्वरम्
अहरहर्भूतेभ्यो बलिं हरेत् । तथैतं भूतयज्ञं समाप्नोति । अहरहर्दद्यादोदपात्रात् । तथैतं मनुष्ययज्ञं समाप्नोति । अहरहः स्वधा कुर्यादोदपात्रात् । तथैतं पितृयज्ञं समाप्नोति । अहरहः स्वाहा कुर्यादा काष्ठात् । तथैतं देवयज्ञं समाप्नोति ॥ २ ॥
सायणः
भूतयज्ञस्य [^१_१५७] स्वरूपमाह- अहरहर्भूतेभ्य इति । “इदं भूतेभ्यः” इति संकल्प्य प्रत्यहं यत् ‘भूतेभ्यः बलिहरणम्’ तथा तेनैव बलिहरणेन एतमुक्तं ‘भूतयज्ञं’ सम्यक् पुरुषः ‘प्राप्नोति’ । भूतान्युद्दिश्य बलिहरणमेव भूतयज्ञ इत्यर्थः । एवमुत्तरत्रापि योज्यम् । अथ मनुष्ययज्ञस्य [^२_१५७] स्वरूपमाह- अहरहर्दद्यादिति । मनुष्यानुद्दिश्य ‘आ उदपात्रात्’ [^३_१५७] उदकपूरितं पात्रं उदपात्रं उदकपात्रावधि यदोदनादिकं ‘दद्यात्’ स मनुष्ययज्ञ इत्यर्थः । पितृयज्ञस्य [^४_१५७] स्वरूपमाह- अहरहः स्वधा कुर्यादिति । पितॄनुद्दिश्य प्रत्यहं स्वधाकारेणान्नादिकमुदपात्रपर्यंतं [^५_१५७] दद्यादिति यत्स पितृयज्ञ इत्यर्थः । देवयज्ञं [^६_१५८] लक्षयति- अहरहः स्वाहा कुर्यादिति । प्रत्यहं स्वाहाकारेण देवानुद्दिश्य यत्काष्ठपर्यंतं हविर्दद्यात् । तेनैतं देवयज्ञमाप्नोति [^७_१५८] ॥ २ ॥
[^१_१५७] “भूतगृह्येभ्यो मणिके त्रीन्पर्जन्यायाद्भ्यः पृथिव्यै । धात्रे विधात्रे च द्वार्ययोः । प्रतिदिशं वायवे दिशां च । मध्ये त्रीन्ब्रह्मणे ऽन्तरिक्षाय सूर्याय विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः । उषसे भूतानां च पतये परम्” । (पार. गृ. सू. २ । ९ । ३-८ ।) इति ।
[^२_१५७] “पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्षमैतत्त इति । उद्धृत्यान्नं ब्राह्मणायावनेज्य दद्याद्धन्त ते” । (पार. गृ. सू. २ । ९ । १०-११) इति ।
[^३_१५७] “मनुष्येभ्यश्चोदपात्रात्” (पार. गृ. सू. २ । ९ । १६) इति ।
[^४_१५७] “पितृभ्यः स्वधा नम इति दक्षिणतः” (पार. गृ. सू. २ । ९ । ९ ॥) इति
[^५_१५७] “पितृभ्यश्चोदपात्रात्” (पार. गृ. सू. २ । ९ । १६ ।) इति ।
[^६_१५८] “वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयाद् ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतये” (पार. गृ. सू. २ । ९ । २) इति ।
[^७_१५८] “अहरहः स्वाहा कुर्यादन्नाभावे केनचिदाकाष्ठाद्देवेभ्यः” (पार. गृ. सू. २ । ९ । १६ ।) इति ।
भगवता कात्यायनेन निरग्निकानां विशेषो दर्शितः यज्ञपार्श्वे तथाहि-
सभार्यो यो ऽगृहीताग्निर्विधुरः स्नातको ऽपि वा । व्याहृतीभिः समस्ताभिर्व्यस्ताभिश्च ततः परम् ॥
हुत्वा तु शाकलैमंत्रैः प्राजापत्यं ततः परम् । स्विष्टकृच्च हुनेदंते देवयज्ञो ऽयमीरितः ॥
भूतयज्ञं ततः कुर्यात्पर्जन्यादित्रिकं विना । नित्यश्राद्धं निरग्नेः स्यात्साग्नेः पित्र्यो बलिः स्मृतः ॥
पितृयज्ञो ऽयमाख्यातो ऽनग्नेर्वा पैतृको बलिः । निर्णिज्य ब्रह्मयज्ञः स्यात् पञ्चमो मानुषो मतः ॥
अग्निमाननग्निमान् कुर्यादिमांस्तु प्रत्यहं सकृत् । अन्यथा प्रत्यवायी स्याद्रौरवं नरकं व्रजेत् ॥
अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजातयः । तेन मिथ्याविपाकेन काकयोनिं व्रजंति ते ॥ (इति यज्ञपार्श्वे) ॥
अग्निं विना साग्निकानां निरग्निकानां च प्रवासे तु पृष्टोदिविविधयुक्तः प्रकारः ॥ इति दिक् ॥
Eggeling
- Day by day one should offer an oblation to beings: thus he performs that sacrifice to beings. Day by day one should offer (presents to guests) up to the cupful of water 1: thus he performs that
sacrifice to men. Day by day one should offer with Svadhā up to the cupful of water 2: thus he performs that sacrifice to the Fathers. Day by day one should perform with Svāhā up to the log of firewood 3: thus he performs that sacrifice to the gods.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ब्रह्मयज्ञः᳘॥
स्वाध्यायो वै᳘ ब्रह्मयज्ञस्त᳘स्य वा᳘ ऽएत᳘स्य ब्रह्मयज्ञ᳘स्य व्वा᳘गेव᳘ जुहूर्म्म᳘न ऽउपभृच्च᳘क्षुर्ध्रुवा᳘ मेधा᳘ स्रुवः᳘ सत्य᳘मवभृथः᳘ स्वर्ग्गो᳘ लोक᳘ ऽउद᳘यनं या᳘वन्तᳫँ᳭ ह वा᳘ ऽइमां᳘ पृथिवीं᳘ व्वित्ते᳘न पूर्णां द᳘दल्लोकं ज᳘यति त्रिस्ता᳘वन्तं जयति भू᳘याᳫँ᳭सञ्चाक्षय्यं य᳘ ऽएवं᳘ व्विद्वान᳘हरहः स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्या᳘यो ऽध्येत᳘व्यः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ब्रह्मयज्ञः᳘॥
स्वाध्यायो वै᳘ ब्रह्मयज्ञस्त᳘स्य वा᳘ ऽएत᳘स्य ब्रह्मयज्ञ᳘स्य व्वा᳘गेव᳘ जुहूर्म्म᳘न ऽउपभृच्च᳘क्षुर्ध्रुवा᳘ मेधा᳘ स्रुवः᳘ सत्य᳘मवभृथः᳘ स्वर्ग्गो᳘ लोक᳘ ऽउद᳘यनं या᳘वन्तᳫँ᳭ ह वा᳘ ऽइमां᳘ पृथिवीं᳘ व्वित्ते᳘न पूर्णां द᳘दल्लोकं ज᳘यति त्रिस्ता᳘वन्तं जयति भू᳘याᳫँ᳭सञ्चाक्षय्यं य᳘ ऽएवं᳘ व्विद्वान᳘हरहः स्वाध्याय᳘मधीते त᳘स्मात्स्वाध्या᳘यो ऽध्येत᳘व्यः॥
मूलम् - Weber
अ᳘थ ब्रह्मयज्ञः᳟॥
स्वाध्यायो वै᳘ ब्रह्मयज्ञस्त᳘स्य वा᳘ एत᳘स्य ब्रह्मयज्ञ᳘स्य वा᳘गेव᳘ जुहूर्म᳘न उपभृच्च᳘क्षुर्ध्रुवा᳘ मेधा᳘ स्रुवः᳘ सत्य᳘मवभृथः᳘ स्वर्गो᳘ लोक᳘ उद᳘यनं या᳘वन्तᳫं ह वा᳘ इमा᳘म् पृथिवीं᳘ वित्ते᳘न पूर्णां द᳘दंलोकं ज᳘यति त्रिस्ता᳘वन्तं जयति भू᳘यांसं चाक्षय्यं य᳘ एवं᳘ विद्वान᳘हरहः स्वाध्याय᳘मधीते त᳘स्मात्स्वाह्याॗयोऽध्येत᳘व्यः॥
मूलम् - विस्वरम्
अथ ब्रह्मयज्ञः । स्वाध्यायो वै ब्रह्मयज्ञः । तस्य वा एतस्य ब्रह्मयज्ञस्य- वागेव जुहूः । मन उपभृत् । चक्षुर्ध्रुवा । मेधा स्रुवः । सत्यमवभृथः । स्वर्गो लोक उदयनम् । यावंतं ह वा इमां पृथिवी वित्तेन पूर्णां ददत् लोकं जयति । त्रिस्तावंतं जयति- भूयांसं चाक्षय्यम्; य एवं विद्वानहरहः स्वाध्यायमधीते । तस्मात् स्वाध्यायो ऽध्येतव्यः ॥ ३॥
सायणः
इत्थं प्रत्यहमनुष्ठेयान् चतुरो महायज्ञान् संग्रहेण प्रतिपाद्य तदुत्तरं बहुवक्तव्यत्वात् ब्रह्मयज्ञं प्रपंचयितुं प्रस्तौति- अथ ब्रह्मयज्ञ [^१_१५८] इति । इतः परं ब्रह्मयज्ञो ऽधिक्रियत इत्यर्थः । तस्य स्वरूपमाह- स्वाध्यायो वै ब्रह्मयज्ञ इति । स्वशाखाध्ययनं ब्रह्मयज्ञ इत्यर्थः । यज्ञसाम्यं संपादयति- तस्य वा एतस्येति । ‘तस्य’ स्वशाखाध्ययनात्मकस्यैव ‘एतस्य’ ‘ब्रह्मयज्ञस्य’ वागिन्द्रियमेव ‘जुहूः’ । तस्य वाचो ऽधिष्ठानरूपं यन्मनः ‘सा उपभृत्’ मनसा संस्मृतमर्थं हि वाचा व्याहरति । यद्दर्शनसाधनं चक्षुरिंद्रियं तदेव कृत्स्नयज्ञनिवर्तकहविर्धारणार्था ‘ध्रुवा’ । चक्षुषा दृष्टमर्थं हि मनसा स्मरति । अत उपजीव्यत्वात्तस्य ध्रुवारूपत्वम् । ‘मेधा स्रुवः’ मेधा धारणासामर्थ्यं सैव स्रुवः । यत्सत्यं सत्यवदनं स एव तस्य यज्ञस्यावभृथः । स्वाध्यायेन प्राप्तव्यः फलभूतो यः ‘स्वर्गो लोकः’ तदुदयनं तस्य यज्ञस्य समापनं न तु प्रधानफलम् । इत्थं यज्ञात्मना निरूपयित्वा तस्य प्रधानफलमाह- यावंतमिति । ‘वित्तेन’ धनेन ‘पूर्णां’ ‘इमां’ कृत्स्नां ‘पृथिवीं’ ब्राह्मणेभ्यः प्रयच्छन् ‘यावंतं’ यत्परिमाणं ‘लोकं जयति’ ब्रह्मयज्ञयाजी तु ‘त्रिस्तावंतं’ त्रिवृतपरिमाणं लोकं जयति । ततो ऽपि भूयांसमधिकत्तरं ‘अक्षय्यं’ क्षेतुमशक्यं क्षयरहितं लोकं प्राप्नोति । एवं विद्वानिति । वागादेर्जुह्वादिसंपत्तिपुरःसरं वेदाध्ययनस्य यज्ञरूपतां जानन्नित्यर्थः । इत्थं प्रेक्षावत्प्रवृत्तिप्रयोजनकं फलं प्रतिपाद्य तद्धेतुभूतमध्ययनं विधत्ते- तस्मात्स्वाध्याय इति । यस्मादेवं ब्रह्मयज्ञस्वाध्यायस्यैतावत् फलम् । ‘तस्मात्स्वाध्यायः’ अध्ययनेन गुरुमुखादवगन्तव्यः । अध्ययनसंस्कारसंस्कृतो हि तावत्फलं साधयितुं शक्नोति । न तु प्रकारांतरादागत इति विधेरभिप्रायः ॥ ३ ॥
[^१_१५८] ब्रह्मयज्ञस्य कालमधिकृत्य कर्कोपाध्यायैर्विशेषतया किंचिन्निरणायि तत्परिज्ञानायात्रोद्ध्रियते- “हन्तकाराच्च पूर्वं ब्रह्मयज्ञस्यावसरः । नृयज्ञो हि हन्तकारादिरास्वापात् । रात्रावपि ह्यतिथिपूजा स्मयते- अतिथि प्रकृत्य “नास्यानश्नन्गृहे वसेत्” इति । तस्माद्ब्रह्मयज्ञो ऽनिर्दिष्टकालो ऽपि नृयज्ञात्पूर्वमेव” (पार. गृ. सू. २ । ९ । ११ । इत्यत्र भाष्ये) इति । अस्मिन्भाष्ये नृयज्ञस्य “आस्वापात्” इति कालावधिरपि दर्शित इति ध्येयम् ।
Eggeling
- Then as to the sacrifice to the Brahman. The sacrifice to the Brahman is one’s own (daily) study (of the Veda). The juhū-spoon of this same sacrifice to the Brahman is speech, its upabhr̥t the mind, its dhruvā the eye, its sruva mental power, its purificatory bath truth, its conclusion heaven. And, verily, however great the world he gains by giving away (to the priests) this earth replete with wealth, thrice that and more–an imperishable world does he gain, whosoever, knowing this, studies day by day his lesson (of the Veda): therefore let him study his daily lesson.
०४
विश्वास-प्रस्तुतिः
पय ऽअहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
यदृ᳘चः स य᳘ ऽएवं᳘ विद्वानृचो᳘ ऽहरहः स्वाध्याय᳘मधीते᳘ पय ऽअहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः संप᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - श्रीधरादि
पय ऽअहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
यदृ᳘चः स य᳘ ऽएवं᳘ विद्वानृचो᳘ ऽहरहः स्वाध्याय᳘मधीते᳘ पय ऽअहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः संप᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - Weber
पयाअहुत᳘यो ह वा᳘ एता᳘ देवा᳘नाम्॥
यदृ᳘चः स य᳘ एवं᳘ विद्वानृचो᳘ऽहरहः स्वाध्याय᳘मधीते᳘ पयाअहुति᳘भिरेव त᳘द्देवा᳘ᳫं᳘स्तर्पयति त᳘ एनं तृप्ता᳘स्तर्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्वात्म᳘ना स᳘र्वाभिः पु᳘ण्याभिः सम्प᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ अभि᳘वहन्ति॥
मूलम् - विस्वरम्
पयआहुतयो ह वा एता देवानां यदृचः । स य एवं विद्वानृचो ऽहरहः स्वाध्यायमधीतेः पयअहुतिभिरेव तद्देवांस्तर्पयति । त एनं तृप्तास्तर्पयंति, योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः संपद्भिः । घृतकुल्या मधुकुल्याः पितॄन् स्वधा अभिवहंति ॥ ४ ॥
सायणः
अथ तस्मिन् ब्रह्मयज्ञे ऋचामध्ययनं पयआहुतिरूपत्वेन प्रशंसति- पयआहुतयो ह वा एता इति । क्षीरहविष्का याः ‘आहुतयः’ ता एवैताः ‘देवानां ऋचः’ इति यत् । ऋचामाहुतितादात्म्यमुक्त्वा तदध्ययनस्य फलमाह- स य एवं विद्वानिति । निगदसिद्धो ऽर्थः । त एनं तृप्ता इति । ‘एनम्’ अध्येतारम् योगक्षेमादिभिः संतर्पयंतीत्यर्थः । अप्राप्तस्य फलस्य प्राप्तिर्योगः । लब्धपरिपालनं क्षेमः । ‘प्राणः’ प्राणनं जीवनम् । ‘रेतः’ सुतादिनिमित्तं वीर्यम् । सर्वश्चासावात्मा च सर्वात्मा चक्षुरादीन्द्रियसहितः कृत्स्नो देह इत्यर्थः । ‘पुण्याभिः’ प्रशस्याभिः धनसंपत्तिभिरित्यर्थः । अस्य च ऋचामध्येतुः पुरुषस्य पितॄनभिलक्ष्य घृतपूर्णा मधुपूर्णाः ‘कुल्याः’ सरितः स्वधारूपेण ‘वहंति’ अन्नात्मना प्रवहंतीत्यर्थः ॥ ४ ॥
Eggeling
- Verily, the R̥k-texts are milk-offerings to the gods; and whosoever, knowing this, studies day by day the R̥k-texts for his lesson, thereby satisfies the gods with milk-offerings; and, being satisfied, they satisfy him by (granting him) security of
possession 4, by life-breath, by seed, by his whole self, and by all auspicious blessings; and rivers of ghee and rivers of honey flow for his (departed) Fathers, as their accustomed draughts.
०५
विश्वास-प्रस्तुतिः
(न्त्या) आज्याहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
यद्य᳘जूᳫँ᳭षि स य᳘ ऽएवं᳘ व्विद्वान्य᳘जूᳫँ᳭ष्य᳘हरहः स्वाध्याय᳘मधीत᳘ ऽआज्याहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति यो᳘गक्षेमेण[[!!]] प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः संप᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - श्रीधरादि
(न्त्या) आज्याहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
यद्य᳘जूᳫँ᳭षि स य᳘ ऽएवं᳘ व्विद्वान्य᳘जूᳫँ᳭ष्य᳘हरहः स्वाध्याय᳘मधीत᳘ ऽआज्याहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति यो᳘गक्षेमेण[[!!]] प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः संप᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - Weber
आज्याहुत᳘यो ह वा᳘ एता᳘ देवा᳘नाम्॥
यद्य᳘जूंषि स य᳘ एवं᳘ विद्वान्य᳘जूंष्य᳘हरहः स्वाध्याय᳘मधीत᳘ आज्याहुति᳘भिरेव त᳘द्देवांस्तर्पयति त᳘ एनं तृप्ता᳘स्तर्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳟॥
मूलम् - विस्वरम्
आज्याहुतयो ह वा एता देवानां यद्यजूंषि । स य एवं विद्वान्यजूंष्यहरहः स्वाध्यायमधीते; आज्याहुतिभिरेव तद्देवांस्तर्पयति । त एनं तृप्तास्तर्पयन्ति, योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः संपद्भिः । घृतकुल्या मधुकुल्याः पितॄन् स्वधा अभिवहंति ॥ ५ ॥
सायणः
यजुरध्ययनमाज्याहुतित्वेन स्तौति- आज्याहुतयो ह वा इति । ‘यजूंषि’ यजुर्वेदपठितानि वाक्यानि इति यदस्ति ‘एता देवानामाज्याहुतयः’ । तदध्ययनस्य फलमाह- स य एवं विद्वानिति । ‘अहरहः स्वाध्याय’ इति विशेषेण ग्रहणाध्ययनात् ब्रह्मयज्ञस्वाध्यायाव्यवच्छेदः । योगक्षेमेणेत्यादि उक्तार्थम् ॥ ५ ॥
Eggeling
- And, verily, the Yajus-texts are ghee-offerings to the gods; and whosoever, knowing this, studies day by day the Yajus-texts for his lesson thereby satisfies the gods with ghee-offerings; and, being satisfied, they satisfy him by security of possession, by life-breath, by seed, by his whole self, and by all auspicious blessings; and rivers of ghee and rivers of honey flow for his Fathers, as their accustomed draughts.
०६
विश्वास-प्रस्तुतिः
सोमाहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
यत्सा᳘मानि स य᳘ ऽएवं᳘ व्विद्वान्त्सा᳘मान्य᳘हरहः स्वाध्याय᳘मधीते᳘ सोमाहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः सम्प᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - श्रीधरादि
सोमाहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
यत्सा᳘मानि स य᳘ ऽएवं᳘ व्विद्वान्त्सा᳘मान्य᳘हरहः स्वाध्याय᳘मधीते᳘ सोमाहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः सम्प᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - Weber
सोमाहुत᳘यो ह वा᳘ एता᳘ देवा᳘नाम्॥
यत्सा᳘मानि स य᳘ एवं᳘ विद्वान्त्सा᳘मान्य᳘हरहः स्वाध्याय᳘मधीते᳘ सोमाहुति᳘भिरेव त᳘द्देवा᳘ᳫं᳘स्तर्पयति त᳘ एनं तृप्ता᳘स्तर्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳟॥
मूलम् - विस्वरम्
सोमाहुतयो ह वा एता देवानां यत्सामानि । स य एवं विद्वान् सामान्यहरहः स्वाध्यायमधीते; सोमाहुतिभिरेव तदेवांस्तर्पयति । त एनं तृप्तास्तर्पयंति, योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः संपद्भिः । घृतकुल्या मधुकुल्याः पितॄन् स्वधा अभिवहंति ॥ ६ ॥
सायणः
अथ सामानि सोमाहुतित्वेन स्तौति- सोमाहुतयो ह वा इति । अथैतत्सोमाहुतिरूपतामुपजीव्य तेषां ब्रह्मयज्ञकाले अध्ययनं प्रशंसति- स य एवं विद्वानिति । गतमेतत् ॥ ६ ॥
Eggeling
- And, verily, the Sāman-texts are Soma-offerings to the gods; and whosoever, knowing this, studies day by day the Sāman-texts for his lesson thereby satisfies the gods with Soma-offerings; and, being satisfied, they satisfy him by security of possession, by life-breath, by seed, by his whole self, and by all auspicious blessings; and rivers of ghee and rivers of honey flow for his Fathers, as their accustomed draughts.
०७
विश्वास-प्रस्तुतिः
मेद ऽअहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
य᳘दथर्व्वाङ्गिरसः[[!!]] स य᳘ ऽएवं᳘ व्विद्वान᳘थर्व्वाङ्गिरसो᳘ ऽहरहः[[!!]] स्वाध्याय᳘मधीते᳘ मेद ऽअहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पुण्याभिः[[!!]] सम्प᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - श्रीधरादि
मेद ऽअहुत᳘यो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
य᳘दथर्व्वाङ्गिरसः[[!!]] स य᳘ ऽएवं᳘ व्विद्वान᳘थर्व्वाङ्गिरसो᳘ ऽहरहः[[!!]] स्वाध्याय᳘मधीते᳘ मेद ऽअहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पुण्याभिः[[!!]] सम्प᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - Weber
मेदाअहुत᳘यो ह वा᳘ एता᳘ देवा᳘नाम्॥
य᳘दथर्वाङ्गिर᳘सः 5 स य᳘ एवं᳘ विद्वा᳘नथर्वाङ्गिरसो᳘ऽहरहः स्वाध्याय᳘मधीते᳘ मेदाअहुति᳘भिरेव त᳘द्देवा᳘ᳫं᳘स्तर्पयति त᳘ एनं तृप्ता᳘स्तर्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳟॥
मूलम् - विस्वरम्
मेदआहुतयो ह वा एता देवानां यदथर्वांगिरसः । स य एवं विद्वानथर्वांगिरसो ऽहरहः स्वाध्यायमधीते; मेदआहुतिभिरेव तद्देवांस्तर्पयति । त एनं तृप्तास्तर्पयंति, योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः संपद्भिः । घृतकुल्या मधुकुल्याः पितॄन् स्वधा अभिवहंति ॥ ७ ॥
सायणः
अथ तुरीयं वेद मेदआहुतित्वेन निरूपयति- मेदआहुतयो ह वा इति । मेदो हविष्यं मांसं तत्साध्यां आहुतयो मेदआहुतयः । अथर्वणा ऋषिणा अंगिरसा च दृष्टाः शाखाः ‘अथर्वांगिरसः’ । स य एवं विद्वानित्यादि पूर्ववत् ॥ ७ ॥
Eggeling
- And, verily, the (texts of the) Atharvāṅgiras are fat-offerings to the gods; and whosoever, knowing this, studies day by day the (texts of the) Atharvāṅgiras for his lesson, satisfies the gods with fat-offerings; and, being satisfied, they satisfy him by security of possession, by life-breath, by seed, by his whole self, and by all auspicious blessings; and rivers of ghee and rivers of honey flow for his Fathers, as their accustomed draughts.
०८
विश्वास-प्रस्तुतिः
मध्वाहु᳘तयो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
य᳘दनुशा᳘सनानि व्विद्या᳘ व्वाकोवा᳘क्यमि᳘तिहासपुराणं᳘[[!!]] गाथा[[!!]] नाराश᳘ᳫँ᳘स्यः[[!!]] स य᳘ ऽएवं᳘ व्विद्वाननुशा᳘सनानि[[!!]] व्विद्या᳘ व्वाकोवा᳘क्यमि᳘तिहासपुराणं᳘[[!!]] गाथा[[!!]] नाराशᳫँ᳭सीरित्य᳘हरहः स्वाध्याय᳘मधीते᳘ मध्वाहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः संप᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - श्रीधरादि
मध्वाहु᳘तयो ह वा᳘ ऽएता᳘ देवा᳘नाम्॥
य᳘दनुशा᳘सनानि व्विद्या᳘ व्वाकोवा᳘क्यमि᳘तिहासपुराणं᳘[[!!]] गाथा[[!!]] नाराश᳘ᳫँ᳘स्यः[[!!]] स य᳘ ऽएवं᳘ व्विद्वाननुशा᳘सनानि[[!!]] व्विद्या᳘ व्वाकोवा᳘क्यमि᳘तिहासपुराणं᳘[[!!]] गाथा[[!!]] नाराशᳫँ᳭सीरित्य᳘हरहः स्वाध्याय᳘मधीते᳘ मध्वाहुति᳘भिरेव त᳘द्देवाँ᳘स्तर्प्पयति त᳘ ऽएनं तृप्ता᳘स्तर्प्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳘तसा सर्व्वात्म᳘ना स᳘र्व्वाभिः पु᳘ण्याभिः संप᳘द्भिर्घृतकुल्या᳘ मधुकुल्याः᳘ पितॄ᳘न्त्स्वधा᳘ ऽअभि᳘वहन्ति॥
मूलम् - Weber
मध्वाहु᳘तयो ह वा᳘ एता᳘ देवा᳘नाम्॥
य᳘दनुशा᳘सनानि विद्या᳘ वाकोवाक्य᳘मितिहासपुराणं गा᳘था नाराशंस्यः᳘ स य᳘ एवं᳘ विद्वा᳘ननुशा᳘सनानि विद्या᳘ वाकोवाक्य᳘मितिहासपुराणं 6 गा᳘था नाराशंसीरित्य᳘हरहः स्वाध्याय᳘मधीते मध्वाहुति᳘भिरेव त᳘द्देवा᳘ᳫं᳘स्तर्पयति त᳘ एनं तृप्ता᳘स्तर्पयन्ति योगक्षेमे᳘ण प्राणे᳘न रे᳟॥
मूलम् - विस्वरम्
मध्वाहुतयो ह वा एता देवानां यदनुशासनानि विद्या वाकोवाक्यमितिहासपुराणं गाथा नाराशंस्यः । स य एवं विद्वाननुशासनानि विद्या वाकोवाक्यमितिहासपुराणं गाथा नाराशंसीरिति अहरहः स्वाध्यायमधीते । मध्वाहुतिभिरेव तद्देवांस्तर्पयति । त एनं तृप्तास्तर्पयंति योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः संपद्भिः । घृतकुल्या मधुकुल्याः पितॄन् स्वधा अभिवहंति ॥ ८ ॥
सायणः
इत्थं चतुर्णां वेदानां ब्रह्मयज्ञकाले अध्ययनं प्रशस्य तदंगभूतानामन्यासां विद्यानां अध्ययनं वक्तुं तां मध्याहुतित्वेन निरूपयति- मध्वाहुतयो ह वा इति । ‘मधु’ माक्षिकम् तत्साध्या आहुतयः ‘मध्वाहुतयः’ । अनुशासनानीति । अनुशिष्यन्ते व्युत्पाद्यंते एभिरित्यनुशासनानि व्याकरणनिरुक्तादीनि षडंगानि । न्यायमीमांसादयः ‘विद्याः’ । उक्तिप्रत्युक्तिरूपं प्रकरणं ‘वाकोवाक्यम्’ । ‘इतिहासः’ पुरावृत्तप्रतिपादकं भारतादि । ‘पुराणं’ वैष्णवादि । इतिहासः पुराणं चेति द्वंद्वैकवद्भावः । नरा मनुष्याः तत्प्रशंसापादकाः श्लोकाः ‘नाराशंस्यः’ ‘गाथाः’ । इत्थं चतुर्दश विद्यास्थानानि ब्रह्मयज्ञकाले अध्येतव्यत्वेन उपलक्षितानि ॥
अन्ये त्वेवं व्याकुर्वते- मन्त्रब्राह्मणभेदेन वेदभागो द्विविधः । तत्र ऋगादिशब्दैर्मंत्रभागस्याध्ययनं प्रतिपादितम् । अधुना ब्राह्मणभागस्याध्ययनं प्रतिपाद्यते । तत्र “स वै संभारान्त्संभरति" (श. प. १४ । १ । २ । १) इत्यादीनि विधिवाक्यानि ‘अनुशासनानि’ । उपासनाविधिवाक्यानि ‘विद्या’ । “स वै गौतमस्य पुत्र वृतो जनं धावयेत्”- (श. प. ११ । ४ । १ । ७) इति उक्तिप्रत्युक्तिरूपं ब्राह्मणं ‘वाकोवाक्यम्’ । “आपो ह वा इदमग्रे सलिलमेवास”- (श. प. ११ । १ । ६ । १) इत्यादिकं सृष्टिप्रतिपादकं ब्राह्मणं इतिहासः । “उर्वशी हाप्सराः पुरूरवसमैडं चकमे”- (श. प. ११ । ५ । १ । १) इत्यादीनि पुरातनपुरुषवृत्तांतप्रतिपादकानि ‘पुराणं’ । “महाहिमिव वै ह्रदात्” (श. प. ११ । ५ । ५ । ८) इत्यादयो मंत्राः ‘गाथाः’ । “समानात्सदमुक्षंति हयान्”- (श. प. ११ । ५ । ५ । १३) इत्यादिका मनुष्यप्रशंसापरा ‘नाराशंस्यः’ । एव “अधीते” इति अध्ययनलिंगमनुगृहीतं भवति । अन्यत्सर्वं पूर्ववत् योज्यम् 7 ॥ ८ ॥
Eggeling
- And, verily, the precepts 8, the sciences 9, the dialogue 10, the traditional myths and legends 11, and the Nārāśaṁsī Gāthās 12 are honey-offerings to the gods; and whosoever, knowing this, studies day by day the precepts, the sciences, the dialogue, the traditional myths and legends, and the Nārāśaṁsī Gāthās, for his lesson, satisfies the gods with honey-offerings; and, being satisfied, they satisfy him by (granting him) security of possession, by life-breath, by seed, by his whole self, and by all auspicious blessings; and rivers of ghee and rivers of honey flow for his Fathers, as their accustomed draughts.
०९
विश्वास-प्रस्तुतिः
त᳘स्य वा᳘ ऽएत᳘स्य ब्रह्मयज्ञ᳘स्य॥
चत्वा᳘रो व्वषट्कारा यद्वा᳘तो व्वा᳘ति य᳘द्विद्यो᳘तते य᳘त्स्तन᳘यति य᳘दवस्फू᳘र्ज्जति त᳘स्मादेवंविद्वा᳘ते व्वाति᳘ व्विद्यो᳘तमाने स्तन᳘यत्यवस्फू᳘र्ज्जत्य᳘धीयीतैव᳘ व्वषट्कारा᳘णाम᳘छंबट्काराया᳘ति ह वै᳘ पुनर्मृत्यु᳘म्मुच्यते ग᳘च्छति ब्र᳘ह्मणः सात्म᳘ताᳫँ᳭ स चेद᳘पि प्रबल᳘मिव न᳘ शक्नुयादप्ये᳘कं देवपदम᳘धीयीतैव त᳘था भूते᳘भ्यो न᳘ हीयते॥
मूलम् - श्रीधरादि
त᳘स्य वा᳘ ऽएत᳘स्य ब्रह्मयज्ञ᳘स्य॥
चत्वा᳘रो व्वषट्कारा यद्वा᳘तो व्वा᳘ति य᳘द्विद्यो᳘तते य᳘त्स्तन᳘यति य᳘दवस्फू᳘र्ज्जति त᳘स्मादेवंविद्वा᳘ते व्वाति᳘ व्विद्यो᳘तमाने स्तन᳘यत्यवस्फू᳘र्ज्जत्य᳘धीयीतैव᳘ व्वषट्कारा᳘णाम᳘छंबट्काराया᳘ति ह वै᳘ पुनर्मृत्यु᳘म्मुच्यते ग᳘च्छति ब्र᳘ह्मणः सात्म᳘ताᳫँ᳭ स चेद᳘पि प्रबल᳘मिव न᳘ शक्नुयादप्ये᳘कं देवपदम᳘धीयीतैव त᳘था भूते᳘भ्यो न᳘ हीयते॥
मूलम् - Weber
त᳘स्य वा᳘ एत᳘स्य ब्रह्मयज्ञ᳘स्य॥
चत्वा᳘रो वषट्कारा यद्वा᳘तो वा᳘ति य᳘द्विद्यो᳘तते य᳘त्स्तन᳘यति य᳘दवस्फू᳘र्जति त᳘स्मादेवंविद्वा᳘ते वाति᳘ विद्यो᳘तमाने स्तन᳘यत्यवस्फू᳘र्जत्य᳘धीयीतैव᳘ वषट्कारा᳘णाम᳘छम्बट्काराया᳘ति ह वै᳘ पुनर्मृत्यु᳘म् मुच्यते ग᳘छति ब्र᳘ह्मणः सात्म᳘ताᳫं स चेद᳘पि प्रबल᳘मिव न᳘ शक्नुयादप्ये᳘कं देवपदम᳘धीयीतैव त᳘था भूते᳘भ्यो न᳘ हीयते॥
मूलम् - विस्वरम्
तस्य वा एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्काराः । यद्वातो वाति । यद्विद्योतते । यत् स्तनयति । यद् अवस्फूर्जति । तस्मादेवंविद्वाते वाति, विद्योतमाने, स्तनयति, अवस्फूर्जति अधीयीतैव । वषट्काराणामछंवट्काराय । अति ह वै पुनर्मृत्युं मुच्यते । गच्छति ब्रह्मणः सात्मताम् । स चेदपि प्रबलमिव न शक्नुयात् । अप्येकं देवपदमधीयीतैव । तथा भूतेभ्यो न हीयते ॥ ९ ॥
सायणः
वातादीनि यानि अनध्यायनिमित्तानि तेषु सत्स्वपि ब्रह्मयज्ञस्यानिवृत्तिमभिप्रेत्य तेषां तदङ्गत्त्वमाह- तस्य वा एतस्येति । यज्ञत्वात् अस्य वषट्कारापेक्षायामुच्यते- चत्वारो वषट्कारा इति । तानेव चतुरः अनुक्रामति- यद्वातो वातीति । ‘वातो’ वायुः प्रबलतरं ‘वाति’ गच्छति इति यत् स प्रथमः ‘वषट्कारः’ । विद्योतनं विद्युत्, स्तनयित्नुर्मेघगर्जनं, अवस्फूर्जनं ध्वनिः, एते ‘चत्वारो वषट्काराः’ । यस्मादेवं तस्मादेषां वातादीनां ‘एवं’ वषट्काररूपतां जानन् वातादिषु सत्सु ब्रह्मयज्ञस्वाध्यायं ‘अधीयीतैव’ । किमर्थम् ? एषां वषट्काराणां छंबट्कारो वैयर्थ्यं तत्परिहाराय, न तु ग्रहणाध्ययनवत् अस्य नैमित्तिकानध्यायो विद्यत इति भावः । एवं वषट्कारेषु सत्सु यदध्ययनं तस्य फलमाह- अति ह वा इति । एवमधीयानः ‘पुनर्मृत्युमतिमुच्यते’ । ‘ब्रह्मणः सात्मतां’ समानरूपतां सायुज्यं ‘गच्छति’ । अशक्तौ पक्षान्तरमाह- स चेदिति । ‘सः’ चाधीयानः पुरुषो यदि ‘प्रबलमिव’ अधिकमध्येतुं ‘न शक्नुयात्,’ तथापि देवतावाचि ‘एकं’ वैदिकपदं ‘अधीयीतैव’ । न तूष्णीमासीत । तथा सति ‘भूतेभ्यः’ निवृत्तेभ्यस्तेभ्यो वषट्कारेभ्यः ‘न हीयते’ हीनः प्रच्युतो न भवति ॥ ९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे पंचमे ऽध्याये षष्ठं ब्राह्मणम् ॥ (११-५-६) ॥
तृतीयः प्रपाठकश्च समाप्तः ॥ ११-३ ॥
Eggeling
- Now, for this, sacrifice to the Brahman there are four Vashaṭ-calls 13,–to wit, when the wind blows, when it lightens, when it thunders, and when it rumbles 14 whence he who knows this should certainly study 15 when the wind is blowing, and when it lightens, or thunders, or rumbles, so as not to lose his Vashaṭ-calls; and verily he is freed from recurring death, and attains to community of nature (or, being) with the Brahman. And should he be altogether unable (to study), let him at least read a single divine word; and thus he is not shut out from beings 16.
-
95:3 Or perhaps, from a cupful of water onwards,–aharahar dadyād iti manushyān uddiśya odapātrāt udakapūritam pātram udapātram udakapātrāvadhi yad odanādikaṁ dadyāt sa manushyayajña ity arthaḥ, Sāy.–Cf. J. Muir, Orig. Sanskrit Texts, vol. iii, p. 18 seqq. ↩︎
-
96:1 In making offering to the (three immediately preceding) departed ancestors, water is poured our for them (to wash themselves with) both at the beginning and at the end of the ceremony; see II, 4, 2, 16; 23; II, 6, 1, 34; 41, where each time it is said that this is done ’even as one would pour out water for (a guest) who is to take (or has taken) food with him;’–pitrīn uddiśya pratyahaṁ svadhākāreṇa annādikam udapātraparyantaṁ dadyāt, Sāy. ↩︎
-
96:2 Apparently the log of wood placed on the Gārhapatya after the completion of the offering. ↩︎
-
97:1 Aprāptasya phalasya prāptir yogaḥ tasya paripālanaṁ kshemaḥ, Sāy. ↩︎
-
य᳘दथर्वांगिरसः AP. - ibid. विद्वा᳘नथर्वांगिरसो᳘ A. prima manu. विद्वान᳘थर्वांगिरसो᳘ A. sec. manu. P. ↩︎
-
हासपुराणं᳘ गाथा AP . ↩︎
-
अत्र याज्ञवल्क्यस्मृतेः आचाराध्यायस्थब्रह्मचारिप्रकरणगताः ४१-४६ श्लोका अनुसंधेयाः । ↩︎
-
98:1 The Anuśāsanāni, according to Sāyaṇa, are the six Vedāṅgas, or rules of grammar, etymology, &c. ↩︎
-
98:2 By vidyāḥ, according to Sāyaṇa, the philosophical systems, Nyāya, Mīmāṁsa, &c., are to be understood. More likely, however, such special sciences as the ‘sarpavidyā’ (science of snakes) are referred to; cf. XIII, 4, 3, 9 seqq. ↩︎
-
98:3 Vākovākyam, apparently some special theological discourse, or discourses, similar to (if not identical with) the numerous Brahmodya, or disputations on spiritual matters. As an example of such a dialogue, Sāyaṇa refers to the dialogue between Uddālaka Āruṇi and Svaidāyaṇa Gautama, XI, 4, 1, 4 seqq. ↩︎
-
98:4 Itihāsa-purāṇa: the Itihāsa, according to Sāyaṇa, are cosmological myths or accounts, such as ‘In the beginning this universe was nothing but water,’ &c. whilst as an instance of the Purāṇa (stories of olden times, purātanapurushavr̥ttānta) he refers to the story of Purūravas and Urvaśī. Cf. Max Müller, History of Ancient Sanskrit Literature, p. 40. ↩︎
-
98:5 Or, the Gāthās and Nārāśaṁsīs. Sāyaṇa, in the first place, takes the two as one, meaning ‘stanzas (or verses) telling about men;’ but he then refers to the interpretation by others, according to which the Gāthās are such verses as that about ’the great snake driven from the lake’ (XI, 5, 5, 8); whilst the Nārāśaṁsīs would be (verses ’telling about men’) such as that regarding Janamejaya and his horses (XI, 5, 5, 12). On Aitareyār. II, 3, 6, 8, Sāyaṇa quotes ‘prātaḥ prātar anr̥taṁ to vadanti’ as an instance of a Gāthā. ↩︎
-
99:1 That is, the call ‘Vaushaṭ!’ with which, at the end of the offering-formula, the oblation is poured into the fire. ↩︎
-
99:2 That is, when the rumbling of distant thunder is heard; or, perhaps, when there is a rattling sound, as from hail-stones. ↩︎
-
99:3 Hardly, should only study,–adhīyītaiva. ↩︎
-
99:4 Or, from (the world of) spirits (?). ↩︎