०१

विश्वास-प्रस्तुतिः

देवान्वा᳘ ऽऊर्ध्वा᳘न्त्स्वर्ग्गं᳘ लोकं᳘ यतः[[!!]]॥
(तो᳘ ऽ) अ᳘सुरास्त᳘मसा ऽन्त᳘रदधुस्ते᳘ होचुर्न्न वा᳘ ऽअस्यान्ये᳘न सत्रा᳘दपघा᳘तो ऽस्ति हं᳘त सत्रमा᳘सामहा ऽइ᳘ति॥

मूलम् - श्रीधरादि

देवान्वा᳘ ऽऊर्ध्वा᳘न्त्स्वर्ग्गं᳘ लोकं᳘ यतः[[!!]]॥
(तो᳘ ऽ) अ᳘सुरास्त᳘मसा ऽन्त᳘रदधुस्ते᳘ होचुर्न्न वा᳘ ऽअस्यान्ये᳘न सत्रा᳘दपघा᳘तो ऽस्ति हं᳘त सत्रमा᳘सामहा ऽइ᳘ति॥

मूलम् - Weber

देवान्वा᳘ ऊर्ध्वा᳘न्त्स्वर्गं᳘ लोकं᳘ यतः᳟॥
अ᳘सुरास्त᳘मसान्त᳘रदधुस्ते᳘ होचुर्न वा᳘ अस्यान्ये᳘न सत्त्रा᳘दपघा᳘तोऽस्ति ह᳘न्त सत्त्रमा᳘सामहा इ᳘ति॥

मूलम् - विस्वरम्

अथ शतातिरात्रसंज्ञकं सत्रम् ।

देवान्वा ऊर्ध्वान्स्वर्गं लोकं यतो ऽसुरास्तमसा ऽन्तरदधुः । ते होचुः । न वा अस्यान्येन सत्रादपघातो ऽस्ति । हंत सत्रमासामहा इति ॥ १ ॥

सायणः

अथ शतातिरात्राख्यं सत्रं विधास्यन्नाख्यायिकामाह- देवान्वा इति । ‘स्वर्गं लोकं’ ‘यतः’ गच्छतो देवानिति संबंधः । ‘तमसा’ मायात्मकेनान्धकारेण ‘अंतरदधुः’ यथा स्वर्गो न दृश्यते तथा अंतर्द्धानं व्यवधानं कृतवंतः । तस्य तमसः अपहननसाधनं सत्रयागादन्यन्नास्तीति निश्चितवंत इत्याह- ते होचुरिति । ‘अस्य’ तमसः ‘अपघातः’ अपहननं, तमो ऽपहननसाधनदर्शनजनितहर्षद्योतको हंतशब्दः । सत्रमासामहा इति । द्वादशरात्रप्रभृतिसहस्रसंवत्सरांता अहीनसोमयागाः । तेषां मध्ये अधिकसंस्थारूपाणां केषांचित्सत्राणां तमो ऽपहननहेतुत्वेन कर्तुं ‘आसामहै’ उपविशामः ॥ १ ॥

Eggeling
  1. Now, when the gods were passing upwards to the world of heaven, the Asuras enveloped them in darkness. They spake, ‘Verily, by nothing else save a sacrificial session is there any way of dispelling this (darkness): well, then, let us perform a sacrificial session!’

०२

विश्वास-प्रस्तुतिः

ते᳘ शता᳘ग्निष्टोमᳫँ᳭ सत्रमु᳘पेयुः॥
(स्ते) ते या᳘वदा᳘सीनः पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाघ्नतैव᳘मेव᳘ शतो᳘क्थ्येन या᳘वत्ति᳘ष्ठन्पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाघ्नत॥

मूलम् - श्रीधरादि

ते᳘ शता᳘ग्निष्टोमᳫँ᳭ सत्रमु᳘पेयुः॥
(स्ते) ते या᳘वदा᳘सीनः पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाघ्नतैव᳘मेव᳘ शतो᳘क्थ्येन या᳘वत्ति᳘ष्ठन्पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाघ्नत॥

मूलम् - Weber

ते᳘ शता᳘ग्निष्टोमᳫं सत्त्रमु᳘पेयुः॥
ते या᳘वदा᳘सीनः पराप᳘श्येत्ता᳘वतस्तमो᳘ऽपाघ्नतैव᳘मेव᳘ शतो᳘क्थ्येन या᳘वत्ति᳘ष्ठन्पराप᳘श्येत्ता᳘वतस्तमो᳘ऽपाघ्नत॥

मूलम् - विस्वरम्

ते शताग्निष्टोमं सत्रमुपेयुः । ते यावदासीनः परापश्येत्तावतस्तमो ऽपाघ्नत । एवमेव शतोक्थ्येन- यावत्तिष्ठन्परापश्येत्तावतस्तमो ऽपाघ्नत ॥ २ ॥

सायणः

ते शताग्निष्टोममित्यादि । ‘ते’ देवाः शतसंख्याका अग्निष्टोमसंस्थाः सोमयागा यस्मिन् तच्छताग्निष्टोमं सत्रमुपेयुरुपगतवंतः । ‘आसीनः’ पुरुषो यावत्प्रदेशं ‘परापश्येत्’, तावत्प्रदेशे एतेन शताग्निष्टोमसत्रेण असुरकृतं मायामयं ‘तमः’ ‘अपाघ्नत’ अपराच्छिन्दन् । ततः कृत्स्नस्य तमसो निर्हरणार्थं अग्निष्टोमादपि अधिकसंस्थारूपं शतोक्थ्यं सत्रमेवान्वतिष्ठन् । तेन ‘तिष्ठन्’ पुरुषो ‘यावत्’ स्थानं ‘परापश्येत्’ ‘तावतः’ स्थानात्तमो ऽपहतवंतः ॥ २ ॥

Eggeling
  1. They entered upon a sacrificial session of a hundred Agnishṭoma (days), and dispelled the darkness as far as one may see whilst sitting; and in like manner did they, by (a session of) a hundred Ukthya (days), dispel the darkness as far as one may see whilst standing.

०३

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र᳘) अ᳘प वाव त᳘मो हन्महे न᳘ त्वेव स᳘र्व्वमिव ह᳘न्त प्रजा᳘पतिं पित᳘रं प्रत्य᳘यामे᳘ति ते᳘ प्रजा᳘पतिम्पित᳘रम्प्रती᳘त्योचुर᳘सुरा वै᳘ नो भगव ऽऊर्ध्वा᳘न्त्स्वर्ग्गं᳘ लोकं᳘ यतस्त᳘मसा ऽन्त᳘रदधुः॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र᳘) अ᳘प वाव त᳘मो हन्महे न᳘ त्वेव स᳘र्व्वमिव ह᳘न्त प्रजा᳘पतिं पित᳘रं प्रत्य᳘यामे᳘ति ते᳘ प्रजा᳘पतिम्पित᳘रम्प्रती᳘त्योचुर᳘सुरा वै᳘ नो भगव ऽऊर्ध्वा᳘न्त्स्वर्ग्गं᳘ लोकं᳘ यतस्त᳘मसा ऽन्त᳘रदधुः॥

मूलम् - Weber

ते᳘ होचुः॥
अ᳘प वाव त᳘मो हन्महे नॗ त्वेव स᳘र्वमिव ह᳘न्त प्रजा᳘पतिम् पित᳘रम् प्रत्य᳘यामेति ते᳘ प्रजा᳘पतिम् पित᳘रम् प्रती᳘त्योचुर᳘सुरा वै᳘ नो भगव ऊर्ध्वा᳘न्त्स्वर्गं᳘ लोकं᳘ यतस्त᳘मसान्त᳘रदधुः॥

मूलम् - विस्वरम्

ते होचुः । अप वाव तमो हन्महे । न त्वेव सर्वमिव । हंत प्रजापतिं पितरं प्रत्ययामेति । ते प्रजापतिं पितरं प्रतीत्योचुः । असुरा वै नो भगव ऊर्ध्वान् स्वर्गं लोकं यतस्तमसा ऽन्तरदधुः ॥ ३ ॥

सायणः

ते होचुरित्यादि । ‘ते’ देवाः ‘ऊचुः’ । शताग्निष्टोमशतोक्थ्याभ्यां सत्राभ्यां ‘तमः’ ‘अपहन्महे’ विनाशयामः । ‘न त्वेव सर्वं’ तमः अपहंतुं सामर्थ्यमस्माकमस्ति । ‘हंत ! पितरं प्रजापतिं प्रति’ ‘अयाम’ गच्छाम । सो ऽस्माकं कृत्स्नस्य तमसः अपहननोपायं वदेदित्यभिप्रायः । ‘पितरं प्रतीत्य’ प्रतिगम्येत्यर्थः । असुरा वा इत्यादि । हे ‘भगवः’ भगवन् ! नः अस्मान् ‘स्वर्गं लोकं यतः’ गच्छतः । गतमन्यत् ॥ ३ ॥

Eggeling
  1. They spake, ‘We do indeed dispel the darkness, but not the whole of it: come, let us resort to Father Prajāpati.’ Having come to Father Prajāpati, they spake, ‘Reverend sir, when we were passing upwards to the world of heaven the Asuras enveloped us in darkness.’

०४

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ शता᳘ग्निष्टोमᳫँ᳭ सत्रमु᳘पैम॥
ते या᳘वदा᳘सीनः पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाहन्मह्येव᳘मेव᳘ शतो᳘क्थ्येन यावत्ति᳘ष्ठन्पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाहन्महि प्र᳘ नो भगवञ्छाधि यथा᳘ ऽसुराँस्त᳘मो ऽपह᳘त्य स᳘र्व्वं पाप्मा᳘नमपह᳘त्य स्वर्ग्गं᳘ लोकं प्र᳘ज्ञास्याम ऽइ᳘ति॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ शता᳘ग्निष्टोमᳫँ᳭ सत्रमु᳘पैम॥
ते या᳘वदा᳘सीनः पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाहन्मह्येव᳘मेव᳘ शतो᳘क्थ्येन यावत्ति᳘ष्ठन्पराप᳘श्येत्ता᳘वतस्तमो᳘ ऽपाहन्महि प्र᳘ नो भगवञ्छाधि यथा᳘ ऽसुराँस्त᳘मो ऽपह᳘त्य स᳘र्व्वं पाप्मा᳘नमपह᳘त्य स्वर्ग्गं᳘ लोकं प्र᳘ज्ञास्याम ऽइ᳘ति॥

मूलम् - Weber

ते᳘ शता᳘ग्निष्टोमᳫं सत्त्रमु᳘पैम॥
ते या᳘वदा᳘सीनः पराप᳘श्येत्ता᳘वतस्तमो᳘ऽपाहन्मह्येव᳘मेव᳘ शतो᳘क्थ्येन यावत्ति᳘ष्ठन्पराप᳘श्येत्ता᳘वतस्तमो᳘ऽपाहन्महि प्र᳘ नो भगवञ्छाधि यथा᳘सुरांस्त᳘मोऽपह᳘त्य स᳘र्वम् पाप्मा᳘नमपह᳘त्य स्वर्गं᳘ लोकम् प्र᳘ज्ञास्याम इ᳘ति॥

मूलम् - विस्वरम्

ते शताग्निष्टोमं सत्रमुपैम । ते यावदासीनः परापश्येत्तावतस्तमो ऽपाहन्महि । एवमेव शतोक्थ्येन । यावत्तिष्ठन्परापश्येत्तावतस्तमो ऽपाहन्महि । प्र नो भगवन् शाधि । यथा ऽसुरांस्तमो ऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रज्ञास्याम इति ॥ ४ ॥

सायणः

एवं तमसा अंतर्धानानंतरं तद्धननहेतुत्वेन कृतं परिहारमपि देवाः पित्रे कथयंति- ते शताग्निष्टोमं सत्रमुपैमेति । ‘उपैम’ उपागच्छाम । ‘अपाहन्महि’ व्यनाशयामहि । अन्यत्सर्वं पूर्ववत् । इत्थं स्वकीयं कृत्स्नतमसो ऽपहननविषयमसामर्थ्यं विज्ञाप्य तादृगुपायत्वेन इष्टोपवेशनप्रार्थनं दर्शयति-प्र नो भगवन्निति । हे ‘भगवन् !’ ‘नः’ अस्मान् ‘प्रशाधि’ अनुगृहाण । “शासु अनुशिष्टौ” (धा. पा. अ. प. ६५) इत्यस्माल्लोटि “शा हौ” (पा. सू. ६ । ४ । ३५) इति शादेशः । तस्यासिद्धत्वात् “हुझल्भ्यो हेर्द्धिः” (पा. सू. ६ । ४ । ८७) इति हेर्धिरादेशः । यथा वयं ‘असुरान्’ तत्कृतं तमश्चापहत्य तद्धेतुभूतं ‘सर्वं पाप्मानं’ च ‘अपहत्य’ विनाश्य ‘स्वर्गं लोकं’ ‘प्रज्ञास्यामः’ तथा अनुशाधीत्यर्थः ॥ ४ ॥

Eggeling
  1. ‘We entered upon a sacrificial session of a hundred Agnishṭomas, and dispelled the darkness as far as one may see whilst sitting; and in like manner did we dispel the darkness as far as one may see whilst standing: do thou teach us, reverend sir, how, by dispelling the Asuras and darkness, and all evil, we shall find (the way to) the world of heaven!’

०५

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चा᳘) अ᳘सर्व्वक्रतुभ्यां वै᳘ यज्ञा᳘भ्यामगन्त य᳘दग्निष्टोमे᳘न चो᳘क्थ्येन च शता᳘तिरात्रᳫँ᳭ सत्रमु᳘पेत तेना᳘सुराँस्त᳘मो ऽपह᳘त्य स᳘र्व्वं पाप्मा᳘नमपह᳘त्य स्वर्ग्गं᳘ लोकं प्र᳘ज्ञास्यथे᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चा᳘) अ᳘सर्व्वक्रतुभ्यां वै᳘ यज्ञा᳘भ्यामगन्त य᳘दग्निष्टोमे᳘न चो᳘क्थ्येन च शता᳘तिरात्रᳫँ᳭ सत्रमु᳘पेत तेना᳘सुराँस्त᳘मो ऽपह᳘त्य स᳘र्व्वं पाप्मा᳘नमपह᳘त्य स्वर्ग्गं᳘ लोकं प्र᳘ज्ञास्यथे᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
अ᳘सर्वक्रतुभ्यां वै᳘ यज्ञा᳘भ्यामगन्त य᳘दग्निष्टोमे᳘न चोॗक्थ्येन च शता᳘तिरात्रᳫं सत्त्रमु᳘पेत तेना᳘सुरांस्त᳘मोऽपह᳘त्य स᳘र्वम् पाप्मा᳘नमपह᳘त्य स्वर्गं᳘ लोकम् प्र᳘ज्ञास्यथे᳘ति॥

मूलम् - विस्वरम्

स होवाच । असर्वऋतुभ्यां वै यज्ञाभ्यामगंत । यदग्निष्टोमेन चोक्थ्येन च । शतातिरात्रं सत्रमुपेत । तेनासुरांस्तमो ऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रज्ञास्यथेति ॥ ५ ॥

सायणः

इत्थं प्रार्थितः सन् तेषां तदुपायत्वेन शतातिरात्राख्यं सत्रं प्रोक्तवानित्याह- स होवाचेति । अग्निष्टोमोक्थ्यसंस्थौ सोमयागौ असर्वक्रतू । अधिकयोः षोडश्यतिरात्रयोर्विद्यमानत्वात् । तथा च ‘असर्वक्रतुभ्यां’ खलु यज्ञाभ्यां हे देवाः ! यूयं ‘अगंत’ गमनं कृतवंतः स्थ । अतः सर्वक्रत्वात्मकं शतातिरात्राख्यं ‘सत्रं’ ‘उपेत’ उपगच्छत कुरुतेत्यर्थः । ‘तेन’ शतातिरात्रेण असुरपरिभवेन तमश्चापहत्य तत्कारणभूतं ‘सर्वं पाप्मानं’ च अपहत्य ‘स्वर्गं लोकं’ प्रकर्षेण ‘ज्ञास्यथ’ एवमशेषेण आसुरतमसो निर्हरणोपायं प्रजापतिरुपदिदेश ॥ ५ ॥

Eggeling
  1. He spake, ‘Surely, ye proceeded by means of two sacrifices, the Agnishṭoma and Ukthya, which do not contain all Soma-rites 1;–enter ye upon

a sacrificial session of a hundred Atirātras: when ye have thereby repelled the Asuras and darkness, and all evil, ye shall find the world of heaven.’

०६

विश्वास-प्रस्तुतिः

ते᳘ शता᳘तिरात्रᳫँ᳭ सत्रमु᳘पेयुः॥
(स्ते) तेना᳘सुराँस्त᳘मो ऽपह᳘त्य स᳘र्व्वं पाप्मा᳘नमपह᳘त्य स्वर्ग्गं᳘ लोकम्प्र᳘जज्ञुस्ते᳘षामर्व्वाक्पञ्चाशे᳘ष्वेवा᳘हःस्व᳘हरभि᳘ रात्रिसामा᳘नि परीयू रा᳘त्रिम᳘भ्यहःसामा᳘नि[[!!]]॥

मूलम् - श्रीधरादि

ते᳘ शता᳘तिरात्रᳫँ᳭ सत्रमु᳘पेयुः॥
(स्ते) तेना᳘सुराँस्त᳘मो ऽपह᳘त्य स᳘र्व्वं पाप्मा᳘नमपह᳘त्य स्वर्ग्गं᳘ लोकम्प्र᳘जज्ञुस्ते᳘षामर्व्वाक्पञ्चाशे᳘ष्वेवा᳘हःस्व᳘हरभि᳘ रात्रिसामा᳘नि परीयू रा᳘त्रिम᳘भ्यहःसामा᳘नि[[!!]]॥

मूलम् - Weber

ते᳘ शता᳘तिरात्रᳫं सत्त्रमु᳘पेयुः॥
तेना᳘सुरांस्त᳘मोऽपह᳘त्य स᳘र्वम् पाप्मा᳘नमपह᳘त्य स्वर्गं᳘ लोकम् प्र᳘जज्ञुस्ते᳘षामर्वाक्पञ्चाशे᳘ष्वेवा᳘हःस्व᳘हरभि᳘ रात्रिसामा᳘नि परीयू रा᳘त्रिमभ्य᳘हःसामा᳘नि॥

मूलम् - विस्वरम्

ते शतातिरात्रं सत्रमुपेयुः । तेनासुरांस्तमो ऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रजज्ञुः । तेषामर्वाक् पंचाशेष्वेवाहः स्वहरभि रात्रिसामानि परीयुः । रात्रिमभ्यहःसामानि ॥ ६ ॥

सायणः

देवाः पुनर्यथोपदिष्टं तथा कृत्वा तत्फलं प्राप्नुवंति स्मेत्याह- ते शतातिरात्रमिति । ‘प्रजज्ञुः’ प्रकर्षेण ज्ञातवंत इत्यर्थः । तत्रानुष्ठानक्रमं दर्शयितुं दोषमुद्भावयति- तेषामर्वागिति । ‘तेषां’ देवानाम् शतरात्रे यानि अनुष्ठीयमानानि दिनानि पंचाशत्संख्याकानि अहानि तेषु एकैकेन यथावदनुष्ठीयमानेषु सत्सु ततः प्रागेव ‘रात्रिसामानि’ रात्रौ प्रयोज्यानि पर्यावर्तीनि सामानि तानि ‘अहरभिपरीयुः’ । तथा यानि ‘अहःसामानि’ अहनि प्रयोज्यानि बहिष्पवमानादीनि तानि ‘रात्रिमभिपरीयुः । अतिरात्रसंस्थे हि सोमयागे परदिवसे सूर्योदयादनंतरमेवाश्विनशस्त्रस्य परिसमाप्तिः । ततस्तिरो ऽह्व्यः सोमयागः, ततो यागः, ततो यज्ञपुच्छम्, इति त्रिचतुर्मुहूर्तकर्तव्यं प्रयोगजातं भवति । तथा च एकैकस्मिन्नहन्यभावात् कालोत्कर्षे सति अहःकर्तव्यं रात्रिं प्राप्नोति । रात्रिकर्तव्यमहरिति विपर्ययो जात इत्यर्थः ॥ ६ ॥

Eggeling
  1. They entered upon a sacrificial session of a hundred Atirātras; and, having thereby repelled the Asuras and darkness, and all evil, they found (the way to) the world of heaven. In their first fifty days 2 the night-hymns reached into the day, and the day-hymns into the night.

०७

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र᳘) अ᳘मुहाम वै न प्र᳘जानीमो ह᳘न्त प्रजा᳘पतिमेव᳘ पित᳘रं प्रत्य᳘यामे᳘ति ते᳘ प्रजा᳘पतिमेव[[!!]] पित᳘रम्प्रती᳘त्योचुर᳘हन्नो रात्रिसामा᳘नि रा᳘त्र्याम᳘ह्नो भवन्ति नः। व्वि᳘पश्चिद्यज्ञा᳘न्मुग्धा᳘न्विद्वान्धीरो᳘ ऽनुशाधि न ऽइ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र᳘) अ᳘मुहाम वै न प्र᳘जानीमो ह᳘न्त प्रजा᳘पतिमेव᳘ पित᳘रं प्रत्य᳘यामे᳘ति ते᳘ प्रजा᳘पतिमेव[[!!]] पित᳘रम्प्रती᳘त्योचुर᳘हन्नो रात्रिसामा᳘नि रा᳘त्र्याम᳘ह्नो भवन्ति नः। व्वि᳘पश्चिद्यज्ञा᳘न्मुग्धा᳘न्विद्वान्धीरो᳘ ऽनुशाधि न ऽइ᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
अ᳘मुहाम वै न प्र᳘जानीमो ह᳘न्त प्रजा᳘पतिमेव᳘ पित᳘रम् प्रत्य᳘यामे᳘ति ते᳘ प्रजा᳘पतिमेव᳘ पित᳘रम् प्रती᳘त्योचुर᳘हन्नो रात्रिसामा᳘नि रा᳘त्र्याम᳘ह्नो भवन्ति नः॥
वि᳘पश्चिद्यज्ञा᳘न्मुग्धा᳘न्विद्वान्धीरो᳘ऽनुशाधि न इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः । अमुहाम वै । न प्रजानीमः । हन्त प्रजापतिमेव पितरं प्रत्ययामेति । ते प्रजापतिमेव पितरं प्रतीत्योचुः- “अहन्नो रात्रिसामानि रात्र्यामह्नो भवंति नः । विपश्चिद्यज्ञान्मुग्धान्विद्वान्धीरो ऽनुशाधि नः”- इति ॥ ७ ॥

सायणः

एवं कालविपर्यये सति देवैर्यत्कृतं “अहन्नः” इति मंत्रवाक्येन तद्दर्शयति- ते होचुरिति । ‘अमुहाम वै’ मोहेनाक्रांता अभूम । मुह्यतेर्लुङि पुषादित्वादङ् । यतो मोहाक्रांताः अतो भूयः कर्तव्यं ‘न प्रजानीमः’ ‘हंत’ पुनरेव ‘पितरं प्रजापतिं प्रत्ययाम’ प्रतिगच्छाम इति विचार्य तं प्रतिगत्योचुः- “अहन्नः” इति मंत्रवाक्येन । हे प्रजापते ! ‘नः’ अस्माकं ‘रात्रिसामानि’ ‘अहन्’ अह्नि ‘भवंति’ । यानि ‘अहः’ संबंधीनि सामानि तानि ‘रात्र्यां’ भवंति । एतस्य दोषस्य परिहारं ‘विद्वान्’ ‘धीरः’ कुशलः ‘विपश्चित्’ अप्रतिहतज्ञानः स्वाज्ञानहतान् ‘मुग्धान्’ मूढान् ‘नः’ अस्मान् ‘अनुशाधि’ सौत्ये ऽहनि प्रवृत्त्युपायमुपदिशेत्यर्थः ॥ ७ ॥

Eggeling
  1. They spake, ‘Verily, we have got into confusion and know not what to do: come, let us resort to Father Prajāpati!’ Having come to Father Prajāpati, they spake (the verses), ‘Our night-hymns are (chanted) in daytime, and those of the day at night: O sage, being learned and wise, teach thou us who are ignorant (how to perform) the sacrifices!’

०८

विश्वास-प्रस्तुतिः

ता᳘न्हैतदु᳘पजगौ॥
महाहि᳘मिव वै᳘ ह्रदाद्ब᳘लीयानन्ववे᳘त्य। अ᳘नुत्त स्वा᳘दास्था᳘नात्त᳘तः सत्रं न᳘ तायत ऽइ᳘ति॥

मूलम् - श्रीधरादि

ता᳘न्हैतदु᳘पजगौ॥
महाहि᳘मिव वै᳘ ह्रदाद्ब᳘लीयानन्ववे᳘त्य। अ᳘नुत्त स्वा᳘दास्था᳘नात्त᳘तः सत्रं न᳘ तायत ऽइ᳘ति॥

मूलम् - Weber

ता᳘न्हैतदु᳘पजगौ॥
महाहि᳘मिव वै᳘ ह्रदाद्ब᳘लीयानन्ववे᳘त्य अ᳘नुत्त स्वा᳘दास्था᳘नात्त᳘तः सत्त्रं न᳘ तायत इ᳘ति॥

मूलम् - विस्वरम्

तान्हैतदुपजगौ- “महाहिमिव वै ह्रदाद्बलीयानन्ववेत्य । अनुत्त स्वादास्थानात्ततः सत्रं न तायते”- इति ॥ ८ ॥

सायणः

तान्हैतदुपजगाविति । एवं विज्ञापिते सति ‘तान्’ देवान् प्रति एतद्वक्ष्यमाणप्रकारेण ‘उपजगौ’ उपन्यासपूर्वं मोहकारणमुक्तवान् प्रजापतिः । “कै गै शब्दे” (धा. पा. भ्वा. प. ९४१-९४२) इत्यस्माल्लिट् । महाहिमित्यादि । ह्रदादगाधजलात् शस्यमानं महासर्पमिव स्थितं प्रातरनुवाकम् ‘बलीयान्’ बलवत्तरः आश्विनशस्त्राख्यः शत्रुः, ‘अन्ववेत्य’ अनुप्राप्य स्वकीयात् स्थानात् ‘अनुत्त’ प्रच्युतमकरोत्, ‘ततः’ तस्मात् बलवता आश्विनेन प्रातरनुवाकस्य स्वास्थानात् प्रच्यावितत्वात् कालोत्कर्षात् युष्माकं ‘सत्रं न तायते’ न विस्तार्यते । अतः सत्रवर्तिनां अह्नां परस्परसांतत्यविरहात् कालोत्कर्षेण भवतामहोरात्रकर्तव्यविपर्ययो जात इति भावः ॥ ८ ॥

Eggeling
  1. He then recited to them as follows, ‘A stronger, pursuing, has, as it were, driven a great snake from its own place, the lake: therefore the sacrificial session is not carried through.’

०९

विश्वास-प्रस्तुतिः

(त्या) आश्विनं वै᳘ वः शस्य᳘मानम्॥
(म्प्रा) प्रातरनुवाक᳘मास्था᳘नादनुत्त य᳘मास्था᳘नाद᳘नुद्ध्वं धी᳘राः स᳘न्तो ऽअधीरवत्[[!!]]। प्रशास्त्रा तमु᳘पेत शनैर᳘प्रतिशᳫँ᳭सते᳘ति॥

मूलम् - श्रीधरादि

(त्या) आश्विनं वै᳘ वः शस्य᳘मानम्॥
(म्प्रा) प्रातरनुवाक᳘मास्था᳘नादनुत्त य᳘मास्था᳘नाद᳘नुद्ध्वं धी᳘राः स᳘न्तो ऽअधीरवत्[[!!]]। प्रशास्त्रा तमु᳘पेत शनैर᳘प्रतिशᳫँ᳭सते᳘ति॥

मूलम् - Weber

आश्विनं वै᳘ वः शस्य᳘मानम्॥
प्रातरनुवाक᳘मास्था᳘नादनुत्त य᳘मास्था᳘नाद᳘नुद्ध्वं धी᳘राः स᳘न्तो अधीरव᳘त् 3
प्रशास्त्रा तमु᳘पेत शनैर᳘प्रतिशंसते᳘ति॥

मूलम् - विस्वरम्

आश्विनं वै वः शस्यमानं प्रातरनुवाकमास्थानादनुत्त । “यमास्थानादनुद्ध्वं धीराः संतो अधीरवत् । प्रशास्त्रा तमुपेत शनैरप्रतिशंसत”- इति ॥ ९ ॥

सायणः

अस्य श्लोकमंत्रस्याभिप्रायं श्रुतिराविष्करोति- आश्विनं वै वः शस्यमानमिति । प्रथमांतमेतत् । ‘शस्यमानमाश्विनं’ शस्त्रं विहितात् स्वस्थानात् ‘प्रातरनुवाकम्’ ‘अनुत्त’ निरगमयत् इत्युदाहृतमन्त्रस्य तात्पर्यमित्यर्थः । इत्थं देवानां सत्रमासीनानां मोहकारणमभिधाय तत्परिहारायेदमुपदिशति-** यमास्थानादनुद्ध्वमि**ति । ‘धीराः’ धीमंतः ‘संतः’ यूयं ‘अधीरवत्’ जडवत् ‘यं’ प्रातरनुवाकं आस्थानादनुद्ध्वं स्वस्थानात्प्रच्यावितवन्तः । अथ ‘तं’ प्रातरनुवाकं होत्रा आश्विनशस्त्रे शस्यमान एव प्रशास्त्रा मैत्रावरुणेन होतृकार्यम् ‘उपेत’ उपगच्छत । ‘शनैः’ नीचैःस्वरेण ‘अप्रतिशंसत’ तस्याश्विनस्य अप्रतिशंसनं प्रतिध्वनिपराहतियथा न भवति तथा प्रातरनुवाकं नीचैःस्वरेण उपगच्छतेत्यर्थः ॥ ९ ॥

Eggeling
  1. ‘For your Āśvina (śastra), being recited, has indeed driven the morning-litany from its place 4.’–

‘What ye, being wise, have unwise-like driven from its place, take ye up that gently through the Praśāstr̥, reciting so as not to disturb 5 (the Hotr̥).’

१०

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
कथन्नु᳘ भगवः शस्तं᳘ कथम᳘प्रतिशस्तमि᳘ति स᳘ होवाच य᳘त्र हो᳘ता ऽऽश्विनᳫँ᳭ श᳘ᳫँ᳘सन्नाग्नेय᳘स्य क्र᳘तोर्ग्गायत्र᳘स्य च्छ᳘न्दसः पारं ग᳘च्छात्त᳘त्प्रतिप्रस्थाता᳘ व्वसतीव᳘रीः परिहृ᳘त्य मैत्रावरुण᳘स्य हविर्द्धा᳘नयोः प्रातरनुवाक᳘मुपा᳘कुरुतादु᳘च्चैर्हो᳘ता श᳘ᳫँ᳘सति शनैरि᳘तरो जंजप्य᳘मान ऽइवा᳘न्वाह तन्न᳘ व्वाचा व्वा᳘चम्प्रत्ये᳘ति न च्छ᳘न्दसा च्छ᳘न्दः॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
कथन्नु᳘ भगवः शस्तं᳘ कथम᳘प्रतिशस्तमि᳘ति स᳘ होवाच य᳘त्र हो᳘ता ऽऽश्विनᳫँ᳭ श᳘ᳫँ᳘सन्नाग्नेय᳘स्य क्र᳘तोर्ग्गायत्र᳘स्य च्छ᳘न्दसः पारं ग᳘च्छात्त᳘त्प्रतिप्रस्थाता᳘ व्वसतीव᳘रीः परिहृ᳘त्य मैत्रावरुण᳘स्य हविर्द्धा᳘नयोः प्रातरनुवाक᳘मुपा᳘कुरुतादु᳘च्चैर्हो᳘ता श᳘ᳫँ᳘सति शनैरि᳘तरो जंजप्य᳘मान ऽइवा᳘न्वाह तन्न᳘ व्वाचा व्वा᳘चम्प्रत्ये᳘ति न च्छ᳘न्दसा च्छ᳘न्दः॥

मूलम् - Weber

ते᳘ होचुः॥
कथं नु᳘ भगवः शस्तं᳘ कथम᳘प्रतिशस्तमि᳘ति स᳘ होवाच य᳘त्र हो᳘ताश्विनं श᳘ᳫं᳘सन्नाग्नेयास्य क्र᳘तोर्गायत्र᳘स्य छ᳘न्दसः पारं ग᳘छात्त᳘त्प्रतिप्रस्थाता᳘ वसतीव᳘रीः परिहृ᳘त्य मैत्रावरुण᳘स्य हविर्धा᳘नयोः प्रातरनुवाक᳘मुपा᳘कुरुतादुच्चैर्हो᳘ता श᳘ᳫं᳘सति शनैरि᳘तरो जञ्जप्य᳘मान इवा᳘न्वाह तन्न᳘ वाचा वा᳘चम् प्रत्ये᳘ति न छ᳘न्दसा छ᳘न्दः॥

मूलम् - विस्वरम्

ते होचुः- कथं नु भगवः शस्तं कथमप्रतिशस्तमिति । स होवाच । यत्र होता ऽऽश्विनं शंसन्नाग्नेयस्य क्रतोर्गायत्रस्य च्छंदसः पारं गच्छात् । तत्प्रतिप्रस्थाता वसतीवरीः परिहृत्य मैत्रावरुणस्य हविर्द्धानयोः प्रातरनुवाकमुपाकुरुतात् । उच्चैर्होता शंसति । शनैरितरो जंजप्यमान इवान्वाह । तन्न वाचा वाचं प्रत्येति । न च्छंदसा च्छंदः ॥ १० ॥

सायणः

तदेतत् अप्रतिशंसनविषयं देवानां प्रश्नं प्रयोगक्रमस्य कार्त्स्न्येनाभिधानहेतुत्वेनोद्भावयति- ते होचुरिति । हे ‘भगवः’ भगवन् ! षड्गुणैश्वर्यसंपन्न प्रजापते ! ‘कथं नु शस्तं’ शस्यमानमाश्विनं शस्त्रं केन खलु प्रकारेण सम्यक् शस्तं भवति । कथं वा सत्प्रातरनुवाकेनाप्रतिशस्तं भवतीति । एतत्सर्वं प्रयोगजातमुपदिशेत्यर्थः । अत्र प्रजापतिनोक्तं अह्नां परस्परसंधानप्रकारमनुवदति- स होवाचेत्यादिना । ‘सः’ खलु प्रजापतिरेवमुक्तवान् ‘यत्र’ यस्मिन् समये ‘होता’ ‘आश्विनं’ शस्त्रं ‘शंसन्’, तदा यस्याग्नेयस्य अग्निदेवताकस्य ‘क्रतोः’ ‘गायत्रस्य च्छंदसः पारम्’ अवसानं ‘गच्छात्’ गच्छेत् । आश्विनशस्त्रे आग्नेय उषस्य आश्विन इति त्रयः क्रतवः । अनुवाकशब्दः ऋक्संघातवचनः । तत्र एकैकस्मिन् क्रतौ गायत्र्यादीनि सप्त च्छन्दांसि उत्तरोत्तरं चतुरक्षराधिकानि अनूच्यंते । तत्र प्रथमस्य क्रतोर्यत्प्रथमं छन्दो गायत्र्याख्यं तस्य पारं यदा होता प्राप्नोति । तत्तदानीमेव ‘प्रतिप्रस्थाता’ परस्याह्नः सोमाभिषवार्था वसतीवर्याख्या अपः ‘परिहृत्य’ “व्युत्क्रामतेत्याह त्रिः; शालाद्वार्यमपरेणास्ते पत्न्युत्तरवेदिमपरेण यजमान उपस्थे सोमं कृत्वा; शालाद्वार्यमपरेण वसतीवरीः परिहरति” (का. श्रौ. सू. ८ । २५५-२५७) इति सूत्रोक्तक्रमेण परिहरणं कृत्वेत्यर्थः । अध्वर्योराश्विनशस्त्रप्रगरे व्यापृतत्वात् प्रतिप्रस्थातृग्रहणम् । वसतीवरीपरिहरणानन्तरमेव हविर्द्धानयोर्मध्ये उपविष्टस्य ‘मैत्रावरुणस्य’ ‘प्रातरनुवाकमुपाकुरुतात्’ प्रतिप्रस्थाता कुर्यादित्यर्थः । “तुह्योस्तातङ्” (पा. सू. ७ । १ । ३५) इति तातङ् । तत्र होतृमैत्रावरुणयोर्मध्ये ‘होता उच्चैः’ आश्विनं शस्त्रं ‘शंसति’, ‘इतरः’ मैत्रावरुणः जंजप्यमान इव जपन्निवेत्यर्थः । शनैरुपांशुस्वरेणान्वाह प्रातरनुवाकम् । तत्तथा सति मैत्रावरुणः स्वकीयवाचा ध्वनिना होतुर्वाचं ध्वनिं ‘न प्रत्येति’ न प्रतिगच्छति । तथा ‘छन्दसा’ स्वप्रयोज्येन गायत्र्यादिना होत्रा प्रयुज्यमानं ‘छन्दः’ न प्रत्येति । होतुर्गायत्रस्य छन्दसः परिसमाप्तौ उष्णिक्छन्दसः प्रारम्भे सत्येव मैत्रावरुणस्य प्रातरनुवाकादिभूतस्य गायत्रस्य छन्दसः प्रारम्भविधानादित्यभिप्रायः ॥ १० ॥

Eggeling
  1. They spake, ‘How, then, reverend sir, is (the Āśvina-śastra properly) recited and how is the recitation not disturbed?’ He spake, ‘When the Hotr̥, in reciting the Āśvina-śastra, reaches the end of the Gāyatra metre of the Āgneya-kratu 6, the Pratiprasthātr̥ 7 should carry round the Vasatīvarī water 8, and bespeak the Prātar-anuvāka for the Maitrāvaruṇa (seated) between the two Havirdhāna (carts containing the offering-material). The Hotr̥ recites (the Āśvina-śastra) in a loud voice, and the other (the Maitrāvaruṇa) repeats (the morning-litany) in a low voice, only just muttering it: in this

way he does not run counter to (the Hotr̥’s) speech by (his own) speech, nor metre by metre.

११

विश्वास-प्रस्तुतिः

प᳘रिहिते प्रातरनुवाके᳘॥
यथायतन᳘मेवोपाᳫँ᳭श्वन्तर्य्यामौ᳘ हुत्वा᳘ द्रोणकलशे᳘ पवि᳘त्रम्प्रपी᳘ड्य नि᳘दधाति ति᳘रो ऽह्न्यैश्चरित्वा᳘ प्रत्य᳘ञ्चः प्रतिपरे᳘त्य ति᳘रो ऽह्न्यानेव᳘ भक्षयाध्वा ऽअ᳘थानुपूर्व्वं᳘ यज्ञपुच्छ᳘ᳫँ᳘ सᳫँ᳭स्था᳘प्य य᳘ ऽऊर्ध्वा᳘ ऽअन्तर्य्यामाद्ग्र᳘हास्ता᳘न्गृहीत्वा᳘ व्विप्रु᳘षाᳫँ᳭ हो᳘मᳫँ᳭ हुत्वा᳘ सन्त᳘निं च बहिष्पवमाने᳘न स्तुत्वा᳘ ऽहरेव प्र᳘तिपद्याध्वा ऽइ᳘ति॥

मूलम् - श्रीधरादि

प᳘रिहिते प्रातरनुवाके᳘॥
यथायतन᳘मेवोपाᳫँ᳭श्वन्तर्य्यामौ᳘ हुत्वा᳘ द्रोणकलशे᳘ पवि᳘त्रम्प्रपी᳘ड्य नि᳘दधाति ति᳘रो ऽह्न्यैश्चरित्वा᳘ प्रत्य᳘ञ्चः प्रतिपरे᳘त्य ति᳘रो ऽह्न्यानेव᳘ भक्षयाध्वा ऽअ᳘थानुपूर्व्वं᳘ यज्ञपुच्छ᳘ᳫँ᳘ सᳫँ᳭स्था᳘प्य य᳘ ऽऊर्ध्वा᳘ ऽअन्तर्य्यामाद्ग्र᳘हास्ता᳘न्गृहीत्वा᳘ व्विप्रु᳘षाᳫँ᳭ हो᳘मᳫँ᳭ हुत्वा᳘ सन्त᳘निं च बहिष्पवमाने᳘न स्तुत्वा᳘ ऽहरेव प्र᳘तिपद्याध्वा ऽइ᳘ति॥

मूलम् - Weber

प᳘रिहिते प्रातरनुवाके᳟॥
यथायतन᳘मेॗवोपांश्वन्तर्यामौ᳘ हुत्वा᳘ द्रोणकलशे᳘ पवि᳘त्रम् प्रपी᳘ड्यं नि᳘दधाति तिॗरोऽह्नयैश्चरित्वा᳘ प्रत्य᳘ञ्चः प्रतिपरे᳘त्य तिॗरोह्नयानेव᳘ भक्षयाध्वा अ᳘थानुपूर्वं᳘ यज्ञपुछ᳘ᳫं᳘ संस्था᳘प्य य᳘ ऊर्ध्वा᳘ अन्तर्यामाद्ग्र᳘हास्ता᳘न्गृहीत्वा᳘ विप्रु᳘षाᳫं हो᳘मᳫं हुत्वा᳘ संत᳘निं च बहिष्पवमाने᳘न स्तुत्वा᳘हरेव प्र᳘तिपद्याध्वा इ᳘ति॥

मूलम् - विस्वरम्

परिहिते प्रातरनुवाके यथायतनमेवोपांश्वंतर्यामौ हुत्वा द्रोणकलशे प्रवित्रं प्रपीड्य निदधाति । तिरो ऽह्न्यैश्चरित्वा प्रत्यंचः प्रतिपरेत्य तिरो ऽह्न्यानेव भक्षयाध्वै । अथानुपूर्वं यज्ञपुच्छं संस्थाप्य, य ऊर्ध्वा अंतर्यामाद्ग्रहाः, तान् गृहीत्वा विप्रुषां होमं हुत्वा सन्तनिं च बहिष्पवमानेन स्तुत्वा अहरेव प्रतिपद्याध्वा इति ॥ ११ ॥

सायणः

एवं प्रातरनुवाकस्य स्वकाले प्रवृत्त्युपायमभिधाय तत उपरितनं प्रयोगजातमपि प्रातरनुवाकसमनंतरं कर्तव्यमित्याह- परिहिते प्रातरनुवाके इति । ‘परिहिते’ परिसमाप्ते तत उपरितनं प्रयोगजातमपि प्रकृतिवत्तदानीमेव कृत्वा ‘उपांश्वंतर्यामौ’ ग्रहौ ‘यथायतनमेव’ प्रकृतौ यस्मिन् काले हूयेते तथैव ‘हुत्वा’ दशापवित्रं ‘निष्पीड्य’ ‘द्रोणकलशे निदधाति’ । अथ ऐन्द्रवायवादिग्रहणात् पूर्वं ‘तिरो ऽह्न्यैः’ तिरोहिताहःसम्बन्धिभिः सोमैश्चमसगणैः आश्विनशस्त्रानंतरंभाविभिश्चरित्वा ‘प्रत्यंचः’ प्रत्यङ्मुखाः संतः ‘प्रतिपरेत्य’ प्रतिनिवृत्य ‘तिरो ऽह्न्यान्’ हुतशिष्टान् रात्रिपर्युषितान् सोमान् ‘भक्षयाध्यै’ हे देवाः ! यूयं भक्षयत । अथानंतरं ‘अनुपूर्वं’ प्रकृतिवदेव ‘यज्ञपुच्छं’ पूर्वस्याह्नः शेषं समाप्य ‘अंतर्यामात्’ ‘ये ऊर्ध्वाः’ ‘ग्रहाः’ ऐन्द्रवायवादयः ‘तान् गृहीत्वा’ विप्रुड्ढोमं प्रकृतिवदेव कृत्वा “अग्निः प्रातःसवन” इति सवनसंतन्याख्यं ‘होमं’ कुर्यात् । अथ बहिष्पवमानाख्येन स्तोत्रेण ‘स्तुत्वा’ उत्तरमहरेव ‘प्रतिपद्याध्वै’ प्रतिपद्यध्वं प्रारभध्वम् । एवं पूर्वोत्तरयोरह्नोः आद्यंतवर्तिनामवयवानां व्यतिषज्य सत्रानुष्ठाने सति “अहरभि रात्रिसामानि परीयुः” इति प्रागुक्तो दोषो न प्रसज्यत इत्यर्थः । कात्यायनो ऽपि शतातिरात्रं प्रस्तुत्य एवमेव प्रयोगमसूत्रयत्- “आश्विनस्याग्नेयांते प्रतिप्रस्थाता व्युत्क्रामतादि कृत्वा मैत्रावरुणाय प्रातरनुवाकमुपाकृत्यांतर्यामं हुत्वा प्रपीड्य पवित्रं द्रोणकलशे निदधाति; सशेषं होतृचमसं; तिरोह्न्यादि करोति पूर्वस्याह्नः; ग्रहग्रहणाद्या विप्रुड्ढोमात्कृत्वा सवनसंतनिं जुहोत्यग्निः प्रातःसवन इति” (का. श्रौ. सू. २४ । १०५-१०८) इति ॥ ११ ॥

Eggeling
  1. ‘When the Prātar-anuvāka has been completed, he (the Pratiprasthātr̥), having offered, at their proper time 9, the Upāṁśu and Antaryāma cups 10, presses out the straining-cloth and puts it in the Droṇakalaśa 11. And when ye have performed the (offering of the cups of) fermented Soma 12, and returned (to the Sadas), ye should drink the fermented Soma (remaining in those cups). Having then, in the proper form, completed the “tail of the sacrifice,” and taken up the cups of Soma (drawn) subsequent to the Antaryāma 13, and offered the oblation of drops 14, as well as the Santani-oblation 15, ye should perform the Bahishpavamāna chant, and enter upon the day (-performance).’

१२

विश्वास-प्रस्तुतिः

त᳘दे᳘ते ऽभि श्लो᳘काः॥
(श्च) चतुर्भिः[[!!]] सैन्धवै᳘र्य्युक्तैर्द्धी᳘रा᳘ व्व्यजहुस्त᳘मः। व्विद्वा᳘ᳫँ᳘सो ये᳘ शत᳘क्रतु देवाः᳘ सत्रम᳘तन्वते᳘ति॥

मूलम् - श्रीधरादि

त᳘दे᳘ते ऽभि श्लो᳘काः॥
(श्च) चतुर्भिः[[!!]] सैन्धवै᳘र्य्युक्तैर्द्धी᳘रा᳘ व्व्यजहुस्त᳘मः। व्विद्वा᳘ᳫँ᳘सो ये᳘ शत᳘क्रतु देवाः᳘ सत्रम᳘तन्वते᳘ति॥

मूलम् - Weber

त᳘देॗतेऽभि श्लो᳘काः॥
चतु᳘र्भिः सैन्धवै᳘र्युक्तैर्धी᳘रा व्य᳘जहुस्त᳘मः॥
विद्वा᳘ᳫं᳘सो ये᳘ शत᳘क्रतु देवाः᳘ सत्त्रम᳘तन्वते᳘ति 16

मूलम् - विस्वरम्

तदेते ऽभि श्लोकाः- “चतुर्भिः सैन्धवैर्युक्तैर्धीरा व्यजहुस्तमः । विद्वांसो ये शतक्रतु देवाः सत्रमतन्वत”- इति ॥ १२ ॥

सायणः

श्रुत्युक्ते ऽर्थे श्लोकमंत्रान् संवादयति- तदेते ऽभि श्लोका इति । उक्तमर्थमभिलक्ष्य ’ ‘एते’ वक्ष्यमाणाः ‘श्लोकाः’ गीयंत इत्यर्थः । चतुर्भिः सैन्धवैरिति । होत्रध्वर्युप्रशास्तृप्रतिप्रस्थातृलक्षणैर्युक्तैः ‘चतुर्भिः’ ‘सैन्धवैः’ अश्वैः धीरास्ते देवास्तमः ‘व्यजहुः’ विशेषेण त्यक्तवन्तः । उक्तं प्रयोगक्रमं ‘विद्वांसः’ जानंतः ‘ये देवाः’ ‘शतक्रतु’ शतं क्रतवः सोमयागा यस्मिन् सत्रे तथाविधं ‘सत्रमतन्वत’ सन्ततैः परस्परसम्बद्धैरहोभिरकुर्वतेत्यर्थः ॥ १२ ॥

Eggeling
  1. Concerning this there are these verses:–With four harnessed Saindhava (steeds) the sages left behind them the gloom–the wise gods who spun out the session of a hundred sacrifices.’

१३

विश्वास-प्रस्तुतिः

चत्वा᳘रो ह्य᳘त्र युक्ता भ᳘वन्ति॥ द्वौ हो᳘तारौ द्वा᳘वध्वर्य्यू᳘ पवेर्न्नु᳘ श᳘क्वेव ह᳘नूनि कल्प᳘यन्न᳘ह्नोर᳘न्तौ व्य᳘तिषजन्त धी᳘राः। न᳘ दानवा[[!!]] यज्ञि᳘यं त᳘न्तुमेषां व्वि᳘जानीमो व्वि᳘ततं मोह᳘यन्ति नः॥ पू᳘र्व्वस्या᳘ह्नः प᳘रिशिᳫँ᳭षन्ति क᳘र्म्म तदु᳘त्तरेणाभिवि᳘तन्वते᳘ ऽह्ना। दुर्व्विज्ञानं का᳘व्यं देव᳘तानाᳫँ᳭ सो᳘माः सो᳘मैर्व्व्य᳘तिषक्ताः प्लवंते॥ समानान्त्स᳘दमुक्षन्ति ह᳘यान्काष्ठभृ᳘तो यथा। पूर्णा᳘न्परिस्रु᳘तः कुम्भा᳘ञ्जनमेजयसादन ऽइ᳘त्यसुररक्षसान्य᳘पेयुः॥

मूलम् - श्रीधरादि

चत्वा᳘रो ह्य᳘त्र युक्ता भ᳘वन्ति॥ द्वौ हो᳘तारौ द्वा᳘वध्वर्य्यू᳘ पवेर्न्नु᳘ श᳘क्वेव ह᳘नूनि कल्प᳘यन्न᳘ह्नोर᳘न्तौ व्य᳘तिषजन्त धी᳘राः। न᳘ दानवा[[!!]] यज्ञि᳘यं त᳘न्तुमेषां व्वि᳘जानीमो व्वि᳘ततं मोह᳘यन्ति नः॥ पू᳘र्व्वस्या᳘ह्नः प᳘रिशिᳫँ᳭षन्ति क᳘र्म्म तदु᳘त्तरेणाभिवि᳘तन्वते᳘ ऽह्ना। दुर्व्विज्ञानं का᳘व्यं देव᳘तानाᳫँ᳭ सो᳘माः सो᳘मैर्व्व्य᳘तिषक्ताः प्लवंते॥ समानान्त्स᳘दमुक्षन्ति ह᳘यान्काष्ठभृ᳘तो यथा। पूर्णा᳘न्परिस्रु᳘तः कुम्भा᳘ञ्जनमेजयसादन ऽइ᳘त्यसुररक्षसान्य᳘पेयुः॥

मूलम् - Weber

चत्वा᳘रो ह्य᳘त्र युक्ता भ᳘वन्ति द्वौ हो᳘तारौ द्वा᳘वध्वर्यू᳟॥
पवेर्नु᳘ शॗक्वेव ह᳘नूनि कल्प᳘यन्न᳘ह्नोर᳘न्तौ व्य᳘तिषजन्त धी᳘राः॥
न᳘ दानवा᳘ 17 यज्ञि᳘यं त᳘न्तुमेषां वि᳘जानीमो वि᳘ततम् मोह᳘यन्ति नः॥
पू᳘र्वस्या᳘ह्नः प᳘रिषिंषन्ति क᳘र्म तदुत्तरेणाभिवि᳘तन्वते᳘ऽह्ना॥
दुर्विज्ञानं का᳘व्यं देव᳘तानाᳫं सो᳘माः सो᳘मैर्व्य᳘तिषक्ताः प्लवन्ते॥
समानान्त्स᳘दमुक्षन्ति ह᳘यान्काष्ठभृ᳘तो यथा॥
पूर्णा᳘न्परिस्रु᳘तः कुम्भा᳘न्जनमेजयसादन इ᳘त्यसुररक्षसान्य᳘पेयुः॥

मूलम् - विस्वरम्

चत्वारो ह्यत्र युक्ता भवंति । द्वौ होतारौ । द्वावध्वर्यू । “पवेर्नु शक्वेव हनूनि कल्पयन्नह्नोरंतौ व्यतिषजंत धीराः । न दानवा यज्ञियं तंतुमेषां विजानीमो विततं मोहयन्ति नः ॥ पूर्वस्याह्नः परिशिंषन्ति कर्म तदुत्तरेणाभिवितन्वते ऽह्ना । दुर्विज्ञानं काव्यं देवतानां सोमाः सोमैर्व्यतिषक्ताः प्लवन्ते ॥ समानान् सदमुक्षन्ति हयान् काष्ठभृतो यथा । पूर्णान्परिस्रुतः कुंभान् जनमेजयसादने ॥”- इत्यसुररक्षसान्यपेयुः ॥ १३ ॥

सायणः

उक्तार्थपरतां श्लोकस्य व्याचष्टे- चत्वारो ह्यत्रेति । द्वौ होताराविति । होतृकार्यापन्नत्वात् प्रशास्ता ऽपि होता । एवं प्रतिप्रस्थाता अध्वर्युरित्यभिप्रेत्य द्विवचनम् । पवेर्नु शक्वेवेति द्वितीयः श्लोकः । पवेर्वज्रस्य ‘शक्वेव’ प्रहरणशक्तिं प्रांतवर्तिनीं धारामिव ‘हनूनि’ हनुवत् अहःपार्श्ववर्तीनि प्रातरनुवाकाश्विनादीनि ‘कल्पयन्’ । विभक्तिव्यत्ययः । कल्पयंतः । कर्तृद्वयेन सह प्रयुंजानाः पूर्वापरवर्तिनोरह्नोरंतौ ‘धीराः’ धीमन्तो देवाः ‘व्यतिषजंत’ व्यतिषक्ताः । उदीरितरीत्या परस्परसंसृष्टावकुर्वन् । “षंज संगे” (धा. पा. भ्वा. प. १०१२) इति धातुः । न दानवा इति । देवानां बाह्यं ‘यज्ञियं’ यज्ञसम्बन्धं ‘विततं’ विस्तृतं एषामह्नां ‘तन्तुं’ परस्परसंतानप्रकारं प्रजापत्युपदेशात् वयमिदानीं विशेषेण ‘जानीमः’ यतः ‘नः’ अस्मान् ‘दानवाः’ दनोः पुत्रा असुराः इतः परं ‘न मोहयंति’ । पूर्वस्याह्न इति तृतीयः श्लोकः । ‘पूर्वस्याह्नः’ सवनत्रयात्मकस्य अतिरात्रसंस्थस्याश्विनशस्त्रादिकं ‘कर्म’ यदा ‘परिशिंषन्ति’ परिशिष्टमवशिष्टं कुर्वन्ति । तदा तत्कर्म ‘उत्तरेण’ ‘अह्ना’ परदिवसे अनुष्ठेयेन सवनत्रयात्मकेन सोमयागेन ‘अभिवितन्वते’ अभितो विस्तारयंति । ‘काव्यं’ प्रशस्तं देवतानां संबन्धि ‘तत्’ अह्नोर्व्यतिषंजनं ‘दुर्विज्ञानं’ विज्ञातुमशक्यम् । किं पुनर्दुर्विज्ञानमिति तदाह- सोमाः सोमैरिति । पूर्वस्याह्नः सम्बन्धिनः ‘सोमाः’ उत्तरस्याह्नः सम्बन्धिभिः ‘सोमैः’ अत्र सोमशब्दः कर्ममात्रोपलक्षणम् । ‘व्यतिषक्ताः’ व्यतिहारेण परस्परसंसक्ता सन्तः ‘प्लवन्ते’ प्रवर्तन्ते, इति यत् तद्दुर्विज्ञानमित्यर्थः । समानान् सदमित्यादि । समानानेकविधान् ‘काष्ठभृतः’ आज्यन्तः काष्ठाः बिभ्रतीति काष्ठभृतः । छांदसं पूर्वपदस्य ह्रस्वत्वम् । आजिधावनं कृतवतो हयानश्वान् ‘यथा सदमुक्षंति’ सदा सिंचंति । कुत्र ‘जनमेजयसदने’ जनमेजयो नाम राजा तस्य सदने गृहे । किं पुनस्तत्सेक्तव्यमिति तदाह- पूर्णान् परिस्रुत इति । परिस्रवणशीलस्य मधुनः ‘पूर्णान् कुंभान्’ अयमभिप्रायः यथा कृतकार्या अश्वाः स्वामिभिः मधुकुंभैरासिच्यमानाः स्वाभीष्टं लभन्ते । एवं देवा अपि शतातिरात्रं सत्रं प्रजापत्युपदिष्टमार्गेण सम्यगनुष्ठाय स्वर्गलोकांतरायं आसुरं तमो निरस्य अमृतसेवारूपं स्वर्गफलं प्रापुरिति । ब्राह्मणार्थमुपसंहरति- इत्यसुररक्षसानीति । अनेन सत्रयागेन असुराश्च रक्षांसि च ‘अपेयुः’ अपजग्मुः ॥ १३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे पंचमे ऽध्याये पञ्चमं ब्राह्मणम् ॥ (११-५-५) ॥

Eggeling
  1. In this (sacrificial session) there are, indeed, four harnessed (steeds),–to wit, two Hotr̥s and two Adhvaryus.–‘Like unto the artificer contriving spikes to the spear, the sages coupled the ends of

two days: now the Dānavas, we know 18, will not disorder the sacrificial thread of them stretched out by us.–They leave undone the work of the previous day, and carry it through on the following day,–difficult to be understood. is the wisdom of the deities: streams of Soma flow, interlinked with streams of Soma!–Even as they constantly sprinkle the equal prize-winning 19 steeds, so (they pour out) the cups full of fiery liquor in the palace of Janamejaya.’ Then the Asura-Rakshas went away.


  1. 91:1 Viz. neither the Shoḍaśin which, to (the twelve stotras, and śastras of the Agnishṭoma, and) the fifteen chants, of the Ukthya, adds a sixteenth; and the Atirātra which has thirteen additional chants (and recitations), viz. three nocturnal rounds of four chants each, and one twilight-chant, followed by the Āśvina-śastra, recited by the Hotr̥. No account is here taken of either the Atyagnishṭoma of thirteen chants, or the Aptoryāma, which, to those of the Atirātra, adds four more chants. Cf. part ii, p. 397, note 2. ↩︎

  2. 92:1 Or, perhaps, rather, in their days prior to the fiftieth (arvākpāñcāśeshv ahaḥsu), St. Petersb. Dict. ↩︎

  3. अधीरवत् AP. ↩︎

  4. 92:2 The Āśvina-śastra, with the recitation of which, by the Hotr̥, the Atirātra concludes, takes the place, and is, indeed, merely a modification, of the Prātar-anuvāka, or morning-litany (see part ii, p. 229, note 2), by which an ordinary Soma-sacrifice is ushered in. Like it, its chief portion consists of three sections, termed kratu, of hymns and detached verses addressed to the ’early-coming’ deities, Agni, Ushas and the two Aśvins. The whole is to consist of not less than a thousand Br̥hatīs, that is to say, the whole matter is to amount to at least 36,000 syllables. For a full account of this Śastra, see Haug’s Transl. of Ait. Br., p. 268. ↩︎

  5. 93:1 Whilst the Hotr̥ is reciting the Āśvina-sastra, his first assistant, the Praśāstr̥ (or, as he is more commonly called, the Maitrāvaruṇa), is to repeat the Prātar-anuvāka in a low voice. ↩︎

  6. 93:2 The hymns and detached verses of each of the three sections–the Āgneya-, Ushasya- and Āśvina-kratu–of the Āśvina-śastra (as of the Prātar-anuvāka) are arranged according to the seven principal metres–gāyatrī, anushṭubh, trishṭubh, br̥hatī, ushṇih, jagatī, and paṅkti–forming as many subdivisions of the three sections. ↩︎

  7. 93:3 That is, the first assistant of the Adhvaryu priest; the latter having to respond (pratigara) to the Hotr̥’s calls (see part ii, p. 326, note 1) at the beginning and end of the Śastra, and to sit through the recitations (III, 9, 3, 11). ↩︎

  8. 93:4 See III, 9, 2, 13 seqq. ↩︎

  9. 94:1 Yathāyatanam eva prakr̥tau yasmin kāle hūyeta tathaiva hutvā, Sāy. ↩︎

  10. 94:2 See IV, 1, 1, 22 seqq.; 1, 2, 21 seqq. ↩︎

  11. 94:3 See II, 1, 2, 3, with note thereon. ↩︎

  12. 94:4 That is, having, after the completion of the Āśvina-śastra, offered to the Aśvins some of the Soma that has been standing ‘over the previous day.’ ↩︎

  13. 94:5 Viz. the Aindravāyava, Maitrāvaruṇa, &c., see IV, I, 3, 1 seqq. ↩︎

  14. 94:6 See IV, 2, 5, 1 seqq. ↩︎

  15. 94:7 Called ‘savanasantani’ (? i.e. continuity of pressing) by Kāty., XXIV, 4, 1. ↩︎

  16. सत्रं समतन्वत Sây. ↩︎

  17. दानवा AP. - ibid. परिशिष्यन्ति Sây. ↩︎

  18. 95:1 Sāyaṇa construes,–we know the extended sacrificial thread of these (days); and the Dānavas (Asuras) do not henceforth confound us. In that case the order of words would be extremely irregular. ↩︎

  19. 95:2 Kāshṭḥabhr̥taḥ, ājyantā (!) kāshṭḥāni tāni bihhratīti kāshṭḥabhr̥taḥ svādasaṁ (? chāndasaṁ) pūrvapadasya hrasvatvam, ājidhāvanaṁ kr̥tavato hayān aśvān, Sāy. According to this authority the general meaning of the verse is that even as the (king’s) horses, when they have performed their task, have sweet drinks poured out on (? to) them, and thus obtain their hearts’ desire, so the gods, by performing a sacrificial session of a hundred Atirātras, in accordance with Prajāpati’s directions, dispel the darkness and gain the world of heaven. ↩︎