०१
विश्वास-प्रस्तुतिः
ब्रह्मच᳘र्य्यमा᳘गामि᳘त्याह॥
ब्र᳘ह्मण ऽए᳘वैत᳘दात्मा᳘नं नि᳘वेदयति ब्रह्मचार्य्यसानी᳘त्याह ब्र᳘ह्मण ऽए᳘वैत᳘दात्मा᳘नं प᳘रिददात्य᳘थैनमाह को ना᳘मा ऽसी᳘ति प्रजा᳘पतिर्वै कः᳘ प्राजापत्य᳘मे᳘वैनं त᳘त्कृत्वो᳘पनयते॥
मूलम् - श्रीधरादि
ब्रह्मच᳘र्य्यमा᳘गामि᳘त्याह॥
ब्र᳘ह्मण ऽए᳘वैत᳘दात्मा᳘नं नि᳘वेदयति ब्रह्मचार्य्यसानी᳘त्याह ब्र᳘ह्मण ऽए᳘वैत᳘दात्मा᳘नं प᳘रिददात्य᳘थैनमाह को ना᳘मा ऽसी᳘ति प्रजा᳘पतिर्वै कः᳘ प्राजापत्य᳘मे᳘वैनं त᳘त्कृत्वो᳘पनयते॥
मूलम् - Weber
ब्रह्मच᳘र्यमा᳘गामि᳘त्याह॥
ब्र᳘ह्मण एॗवैत᳘दात्मा᳘नं नि᳘वेदयति ब्रह्मचार्य᳘सानी᳘त्याह ब्र᳘ह्मण एॗवैत᳘दात्मा᳘नम् प᳘रिददात्य᳘थैनमाह को ना᳘मासी᳘ति प्रजा᳘पतिर्वै कः᳘ प्राजापत्य᳘मेॗवैनं त᳘त्कृत्वो᳘पनयते॥
मूलम् - विस्वरम्
उपनयनधर्माभिधायकं ब्राह्मणम् ।
“ब्रह्मचर्यमागाम”- इत्याह । ब्रह्मण एवैतदात्मानं निवेदयति । “ब्रह्मचार्यसानि”- इत्याह । ब्रह्मण एवैतदात्मानं परिददाति । अथैनमाह- “को नामासि” इति । प्रजापतिर्वै कः । प्राजापत्यमेवैनं तत्कृत्वोपनयते ॥ १ ॥
सायणः
“तं होपनिन्ये” इत्युपनयनस्य प्रस्तुतत्वात् तद्धर्मा अस्मिन् ब्राह्मणे निरूप्यन्ते । तत्र गुरुं प्रत्युपनयनप्रार्थनपरमुपनेतव्यस्य मंत्रं विधाय स्तौति- ब्रह्मचर्यमागामित्याहेति 1 । ब्रह्मचारिणो भावः ‘ब्रह्मचर्यं’ तदागां प्राप्नुयाम् । “आशंसायां भूतवच्च” (पा. सू. ३ । ३ । १३२) इति भूतवत्प्रत्ययः । एवमनेन मंत्रेणाह गुरुं प्रार्थयेत् । मंत्रे ब्रह्मशब्दश्रवणात् ‘ब्रह्मणे’ वेदपुरुषायैव ‘एतत्’ एतेन मंत्रेण शिष्यः स्वात्मानं ‘निवेदयति’ । द्वितीयभागमनूद्य व्याचष्टे- ब्रह्माचार्यसानीत्याहेति । हे गुरो ! भवत्प्रसादात् ‘ब्रह्मचारी’ ब्रह्म वेदः तदभ्यसनशीलो भवानि । एतेन मंत्रभागेन स्वात्मानं परिरक्षणाय तस्मा एव ‘ब्रह्मणे’ ‘परिददाति’ समर्पयति । अथ गुरोर्मंत्रं विधत्ते- अथैनमाहेति 2 । ‘अथ’ शिष्याभिगमनानंतरं एनमुपनेतव्यम् ‘को नामासि’ इति मंत्रेण निरीक्षते । अत्र किंशब्दस्यानिरुक्तार्थत्वात् प्रजापतिवाचकत्वमभिप्रेतं व्याचष्टे- प्रजापतिर्वै क इति । हे शिष्य ! त्वं ‘कः’ प्रजापतिरेव त्वमसि । नामशब्दः प्रसिद्धौ । तथाच एतेन मंत्रेण ‘एनं’ माणवकं प्रजापतिसंबंधिनमेव ‘कृत्वा’ ‘उपनयते’ गुरुः स्वसमीपं प्रापयति । आचार्यकरणे नयतेरात्मनेपदम् (पा. सू. १ । ३ । ३६) इति ॥ १ ॥
Eggeling
- He says, ‘I have come for Brahmacarya 3:’ he thereby reports himself to the Brahman. He says, ‘Let me be a Brahmacārin (student):’ he thereby makes himself over to the Brahman. He (the teacher) then says, ‘What (ka) is thy name?’–now Ka is Prajāpati: he thus initiates him after making him one belonging to Prajāpati.
०२
विश्वास-प्रस्तुतिः
(ते᳘ ऽथा) अ᳘थास्य ह᳘स्तं गृह्णाति॥
(ती᳘) इ᳘न्द्रस्य ब्रह्मचार्य्यस्यग्नि᳘राचार्य्यस्त᳘वाह᳘माचा᳘र्य्यस्त᳘वासावि᳘त्येते वै श्रे᳘ष्ठे ब᳘लिष्ठे देव᳘ते ऽएता᳘भ्यामे᳘वैनᳫँ᳭ श्रे᳘ष्ठाभ्यां ब᳘लिष्ठाभ्यां देव᳘ताभ्याम्प᳘रिददाति त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
(ते᳘ ऽथा) अ᳘थास्य ह᳘स्तं गृह्णाति॥
(ती᳘) इ᳘न्द्रस्य ब्रह्मचार्य्यस्यग्नि᳘राचार्य्यस्त᳘वाह᳘माचा᳘र्य्यस्त᳘वासावि᳘त्येते वै श्रे᳘ष्ठे ब᳘लिष्ठे देव᳘ते ऽएता᳘भ्यामे᳘वैनᳫँ᳭ श्रे᳘ष्ठाभ्यां ब᳘लिष्ठाभ्यां देव᳘ताभ्याम्प᳘रिददाति त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
अ᳘थास्य ह᳘स्तं गृह्णाति॥
इ᳘न्द्रस्य ब्रह्मचार्य᳘स्यग्नि᳘राचार्य᳘स्त᳘वाह᳘माचार्य᳘स्त᳘वासावि᳘त्येते वै श्रे᳘ष्ठे ब᳘लिष्ठे देव᳘ते एता᳘भ्यामेॗवैनं श्रे᳘ष्ठाभ्याम् ब᳘लिष्ठाभ्यां देव᳘ताभ्याम् प᳘रिददाति त᳘था हास्य ब्रह्मचारी न कां᳘ चना᳘र्तिमा᳘र्छति न स य᳘एवं वे᳘द॥
मूलम् - विस्वरम्
अथास्य हस्तं गृह्णाति । “इंद्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासौ”- इति । एते वै श्रेष्ठे बलिष्ठे देवते । एताभ्यामेवैनं श्रेष्ठाभ्यां बलिष्ठाभ्यां देवताभ्यां परिददाति । तथा हास्य ब्रह्मचारी न कां चनार्तिमार्च्छति । न स य एवं वेद ॥ २ ॥
सायणः
अथ समन्त्रकं हस्तग्रहणं विधत्ते- अथास्य 4 हस्तं गृह्णातीति । ‘अथास्य’ ब्रह्मचारिणो दक्षिणं ‘हस्तम्’ “इंद्रस्य” 5 इति मंत्रेण आचार्यो गृह्णीयात् । असाविति मंत्रगतादःशब्दस्थाने संबुद्ध्यंतं ब्रह्मचारिणो नाम ग्राह्यम् । हे यज्ञशर्मन् । त्वं ‘इन्द्रस्य’ देवतायाः संबंधी ‘ब्रह्मचारी’ भवसि । तवाग्निरेवाचार्यः । अतस्तव तत्प्रतिनिधित्वादहमप्याचार्यः इति मंत्रार्थः । इंद्राग्निसंबन्धं प्रशंसति- एते वै श्रेष्ठे इति । ‘एते’ इंद्राग्नी ‘श्रेष्ठे’ प्रशस्यतमे ‘बलिष्ठे’ बलवत्तमे ‘देवते’ । परिरक्षणाय दानं ‘परिदानं’ स्पष्टमन्यत् । तस्य परिदानस्य फलमाह- तथा हास्येति । ‘तथा ह’ तथैव इंद्राग्निभ्यां दत्ते सति अस्याचार्यस्य संबंधी ‘ब्रह्मचारी’ ‘कांचन’ कामपि ‘आर्तिम्’ पीडां ‘नार्च्छति’ न प्राप्नोति । विदुषो ऽप्येतत्फलमाह- न स इति । एवमुक्तार्थं ‘यो वेद’ जानाति सो ऽपि आर्तिम् न प्राप्नोतीत्यर्थः ॥ २ ॥
अत्रेत्यं समाहितिः- इयं श्रुतिस्तु केवलामेकां माध्यंदिनीं शाखामधिकरोति, सूत्रं तु पञ्चदश शाखाः । सूत्रस्य पञ्चदशशाखोपनिबन्धनत्वं प्रत्यपादि कर्कोपाध्यायैः “स्मरन्ति हि पञ्चदशशाखोपनिबंधनं कृतमाचार्येणेति । तस्मान्नास्ति प्रत्यक्षकृतो विशेषः । उच्यते । शाखाद्वयमधिकृत्य तात्पर्येणानुप्रवृत्त आचार्यः ।” (का. श्रौ. सू. २ । २-३) इत्यत्र सूत्रभाष्ये । इति सूत्रस्य पंचदशशाखासाधारण्याद्बहुत्र दृष्टो विनियोगः सूत्रकृतोपनिबद्धः । एतच्छ्रुतिकृतो विनियोगस्तु माध्यंदिनीयशाखामात्रगोचरः । अतश्च माध्यंदिनीयानामुपनयनप्रयोगे श्रुतिबलात् सूत्रापेक्षया ऽयं विशेषो बोद्धव्यः । सौत्रो विनियोगस्तु माध्यंदिनतदितरसाधारणः । ततश्च माध्यंदिनैः सूत्रमनुसर्तव्यं श्रुतिर्वा शरणीकर्तव्येति विकल्पः । वैकल्पिके चात्मनस्तुष्टिः प्रमाणमिति न्यायेन प्रयोगसौकर्याच्च सूत्रमेव समाद्रियते याज्ञिककृदेनेत्यन्यदेतत् । अस्तु । उक्तव्यवस्थया विरोधपरिहृतिर्मन्तव्या मतिमद्भिरिति ॥
Eggeling
- He then takes his (right) hand with, ‘Indra’s disciple thou art; Agni is thy teacher, I am thy teacher, O N.N.!’–now these are two most high and most powerful deities: it is to these two most high and most powerful deities he commits him; and thus his disciple suffers no harm of any kind, nor does he who knows this 6.
०३
विश्वास-प्रस्तुतिः
(दा) अ᳘थैनम्भूते᳘भ्यः प᳘रिददाति॥
प्रजा᳘पतये त्वा प᳘रिददामि देवा᳘य त्वा सवित्रे प᳘रिददामी᳘त्येते वै श्रे᳘ष्ठे व्व᳘र्षिष्ठे देव᳘ते ऽएता᳘भ्यामे᳘वैनᳫँ᳭ श्रे᳘ष्ठाभ्यां व्व᳘र्षिष्ठाभ्यां देव᳘ताभ्याम्प᳘रिददाति त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
(दा) अ᳘थैनम्भूते᳘भ्यः प᳘रिददाति॥
प्रजा᳘पतये त्वा प᳘रिददामि देवा᳘य त्वा सवित्रे प᳘रिददामी᳘त्येते वै श्रे᳘ष्ठे व्व᳘र्षिष्ठे देव᳘ते ऽएता᳘भ्यामे᳘वैनᳫँ᳭ श्रे᳘ष्ठाभ्यां व्व᳘र्षिष्ठाभ्यां देव᳘ताभ्याम्प᳘रिददाति त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
अ᳘थैनम् भूते᳘भ्यः प᳘रिददाति॥
प्रजा᳘पतये त्वा प᳘रिददामि देवा᳘य त्वा सवित्रे प᳘रिददामी᳘त्येते वै श्रे᳘ष्ठे व᳘र्षिष्ठे देव᳘ते एता᳘भ्यामेॗवैनं श्रे᳘ष्ठाभ्यां व᳘र्षिष्ठाभ्यां देव᳘ताभ्याम् प᳘रिददाति त᳘था हास्य ब्रह्मचारी न कां᳘ चना᳘र्तिमार्छति न स य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
अथैनं भूतेभ्यः परिददाति । “प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददामि”- इति । एते वै श्रेष्ठे वर्षिष्ठे देवते । एताभ्यामेवैनं श्रेष्ठाभ्यां वर्षिष्ठाभ्यां देवताभ्यां परिददाति । तथा हास्य ब्रह्मचारी न कां चनार्तिमार्च्छति । न स य एवं वेद ॥ ३ ॥
सायणः
एवं लिंगवशात् इंद्राग्निभ्यां परिदानं प्रतिपाद्य, अथ साक्षात्समंत्रकं परिदानं विधत्ते- अथैनं भूतेभ्य 7 इति । ‘अथ’ हस्तग्रहणानंतरं ‘भूतेभ्यः’ विद्यमानेभ्यः प्रजापतिप्रमुखेभ्यः ‘एनं’ ब्रह्मचारिणं परिदद्यात् । “प्रजापतये त्वा” इति मंत्रेण । एते वै श्रेष्ठे इत्यादि । ‘एते’ प्रजापतिसवितृरूपे ‘श्रेष्ठे’ प्रशस्यतमे ‘वर्षिष्ठे’ वृद्धतमे ‘देवते’ उत्पादकत्वेन प्रेरकत्वेन च प्रामुख्यात् । एताभ्यामेवेत्यादि सिद्धम् ॥ ३ ॥
Eggeling
- He then commits him to the beings:–‘To Prajāpati I commit thee, to the god Savitr̥ I commit thee;’–now these are two most high and most important deities: it is to these two most high and most important deities he commits him; and thus his disciple suffers no harm of any kind, nor does he who knows this.
०४
विश्वास-प्रस्तुतिः
(दा) अद्भ्यस्त्वौ᳘षधीभ्यः प᳘रिददामी᳘ति॥
त᳘देनमद्भ्यश्चौ᳘षधीभ्यश्च प᳘रिददाति द्या᳘वापृथिवी᳘भ्यां त्वा प᳘रिददामी᳘ति त᳘देनमाभ्यां द्या᳘वापृथिवी᳘भ्यां प᳘रिददाति य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि व्वि᳘श्वेभ्यस्त्वा भूते᳘भ्यः प᳘रिददाम्य᳘रिष्ट्या ऽइ᳘ति त᳘देनᳫँ᳭ स᳘र्व्वेभ्यो भूते᳘भ्यः प᳘रिददात्य᳘रिष्ट्यै त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥ शतम् ५८००॥
मूलम् - श्रीधरादि
(दा) अद्भ्यस्त्वौ᳘षधीभ्यः प᳘रिददामी᳘ति॥
त᳘देनमद्भ्यश्चौ᳘षधीभ्यश्च प᳘रिददाति द्या᳘वापृथिवी᳘भ्यां त्वा प᳘रिददामी᳘ति त᳘देनमाभ्यां द्या᳘वापृथिवी᳘भ्यां प᳘रिददाति य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि व्वि᳘श्वेभ्यस्त्वा भूते᳘भ्यः प᳘रिददाम्य᳘रिष्ट्या ऽइ᳘ति त᳘देनᳫँ᳭ स᳘र्व्वेभ्यो भूते᳘भ्यः प᳘रिददात्य᳘रिष्ट्यै त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥ शतम् ५८००॥
मूलम् - Weber
अद्भ्यस्त्वौ᳘षधीभ्यः प᳘रिददामी᳘ति॥
त᳘देनमद्भ्यश्चौ᳘षधिभ्यश्च प᳘रिददाति द्या᳘वापृथिवी᳘भ्यां त्वा प᳘रिददामी᳘ति त᳘देनमाभ्यां द्या᳘वापृथिवी᳘भ्याम् प᳘रिददाति य᳘योरिदᳫं स᳘र्वम᳘धि वि᳘श्वेभ्यस्त्वा भूते᳘भ्यः परिददाम्यरिष्ट्या इ᳘ति त᳘देनᳫं स᳘र्वेभ्यो भूते᳘भ्यः प᳘रिददात्य᳘रिष्ट्यै त᳘था हास्य ब्रह्मचारी न कां᳘ चना᳘र्तिमा᳘र्छति न स य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
“अद्भ्यस्त्वौषधीभ्यः परिददामि"- इति । तदेनमद्भ्यश्चौषधीभ्यश्च परिददाति । “द्यावापृथिवीभ्यां त्वा परिददामि”- इति । तदेनमाभ्यां द्यावापृथिवीभ्यां परिददाति । ययोरिदं सर्वमधि । “विश्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्यै”-इति । तदेनं सर्वेभ्यो भूतेभ्यः परिददात्यरिष्ट्यै । तथा हास्य ब्रह्मचारी न कां चनार्तिमार्च्छति । न स य एवं वेद ॥ ४ ॥
सायणः
अपामोषधीनां च सर्वकारणत्वात् ताभ्यः परिदानार्थं द्वितीयो मंत्रभाग इति व्याचष्टे- अद्भ्यस्त्वौषधीभ्य इति । तृतीयभागमनूद्य व्याचष्टे- द्यावापृथिवीभ्यामिति । सर्वाधारत्वात् द्यावापृथिव्योः, द्यावापृथिवीभ्यां परिदानम् । अत एव द्यावापृथिव्यौ विशिनष्टि- ययोरिदं सर्वमधीति । ‘ययोः’ द्यावापृथिव्योरुपरि । ‘इदं सर्वं’ जगत् आश्रितं वर्तते तथाभूताभ्यां द्यावापृथिवीभ्यामित्यर्थः । विश्वेभ्यस्त्वा भूतेभ्य इत्यादि । ‘अरिष्ट्यै’ अहिंसायै । उक्तावशिष्टानि यानि सर्वाणि भूतानि संति तेभ्यः परिरक्षार्थमनेन मन्त्रभागेन ददातीत्यर्थः । अबादिभ्यः परिदानस्य फलमाह- तथा हास्येति । अथास्याद्भ्यस्त्वौषधीभ्यः परिदाने सतीत्यर्थः । गतमन्यत् ॥ ४ ॥
Eggeling
- ‘To the waters, to the plants I commit thee,’–he thus commits him to the waters and plants.–‘To Heaven and Earth I commit thee,’–he thus commits him to these two, heaven and earth, within which all this universe is contained.–‘To all beings I commit thee for security from injury,’–he thus commits him to all beings for security from injury; and thus his disciple suffers no harm of any kind, nor does he who knows this.
०५
विश्वास-प्रस्तुतिः
ब्रह्मचा᳘र्य्यसी᳘त्याह[[!!]]॥
ब्र᳘ह्मण ऽए᳘वैनं तत्प᳘रिददात्य᳘पो ऽशाने᳘त्यमृ᳘तं वा ऽआ᳘पो ऽमृ᳘तमशाने᳘त्ये᳘वैनं त᳘दाह क᳘र्म्म कुर्व्वि᳘ति व्वी᳘र्य्यं[[!!]] वै क᳘र्म्म व्वी᳘र्य्यं[[!!]] कुर्व्वि᳘त्ये᳘वैनं त᳘दाह समि᳘धमा᳘धेही᳘ति स᳘मिन्त्स्वात्मा᳘नं ते᳘जसा ब्रह्मवर्च्चसेने᳘त्ये᳘वैनं तदाह मा᳘ शुषुप्था ऽइ᳘ति मा᳘ मृथा ऽइ᳘त्ये᳘वैनं त᳘दाहा᳘पो ऽशाने᳘त्यमृ᳘तं वा ऽआ᳘पो ऽमृ᳘तमशाने᳘त्ये᳘वैनं त᳘दाह त᳘देनमुभय᳘तो ऽमृ᳘तेन प᳘रिगृह्णाति त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
ब्रह्मचा᳘र्य्यसी᳘त्याह[[!!]]॥
ब्र᳘ह्मण ऽए᳘वैनं तत्प᳘रिददात्य᳘पो ऽशाने᳘त्यमृ᳘तं वा ऽआ᳘पो ऽमृ᳘तमशाने᳘त्ये᳘वैनं त᳘दाह क᳘र्म्म कुर्व्वि᳘ति व्वी᳘र्य्यं[[!!]] वै क᳘र्म्म व्वी᳘र्य्यं[[!!]] कुर्व्वि᳘त्ये᳘वैनं त᳘दाह समि᳘धमा᳘धेही᳘ति स᳘मिन्त्स्वात्मा᳘नं ते᳘जसा ब्रह्मवर्च्चसेने᳘त्ये᳘वैनं तदाह मा᳘ शुषुप्था ऽइ᳘ति मा᳘ मृथा ऽइ᳘त्ये᳘वैनं त᳘दाहा᳘पो ऽशाने᳘त्यमृ᳘तं वा ऽआ᳘पो ऽमृ᳘तमशाने᳘त्ये᳘वैनं त᳘दाह त᳘देनमुभय᳘तो ऽमृ᳘तेन प᳘रिगृह्णाति त᳘था हास्य ब्रह्मचारी न कां᳘चना᳘र्तिमा᳘र्च्छति न स य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
ब्रह्मचार्य᳘सी᳘त्याह॥
ब्र᳘ह्मण एॗवैनं तत्प᳘रिददात्यॗपोऽशा ने᳘त्यमृ᳘तं वा आ᳘पोऽमृ᳘तमशाने᳘त्येॗवैनं त᳘दाह क᳘र्म कुर्वि᳘ति वीर्यं᳘ वै क᳘र्म वीर्यं᳘ कुर्वि᳘त्येॗवैनं त᳘दाह समि᳘धमा᳘धेही᳘ति स᳘मिन्त्स्वात्मा᳘नं 8 ते᳘जसा ब्रह्मवर्चसेने᳘त्येॗवैनं तदाह मा᳘ शुषुप्था इ᳘ति मा᳘ मृथा इ᳘त्येॗवैनं त᳘दाहाॗपोऽशाने᳘त्यमृ᳘तं वा आ᳘पोऽमृ᳘तमशाने᳘त्येॗवैनं त᳘दाह त᳘देनमुभय᳘तोऽमृ᳘तेन प᳘रिगृह्णाति त᳘था हास्य ब्रह्मचारी न कां᳘ चना᳘र्तिमा᳘र्छति न स य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
“ब्रह्मचार्यसि”- इत्याह । ब्रह्मण एवैनं तत्परिददाति । “अपो ऽशान”- इति । अमृतं वा आपः । अमृतमशानेत्येवैनं तदाह । “कर्म कुरु”- इति । वीर्यं वै कर्म । वीर्यं कुर्वित्येवैनं तदाह । “समिधमाधेहि”- इति । समिन्त्स्वात्मानं तेजसा ब्रह्मवर्चसेनेत्येवैनं तदाह । “मा सुषुप्थाः”- इति । मा मृथा इत्येवैनं तदाह । “अपो ऽशान”- इति । अमृतं वा आपः । अमृतमशानेत्येवैनं तदाह । तदेनमुभयतो ऽमृतेन परिगृह्णाति । तथा हास्य ब्रह्मचारी न कां चनार्तिमार्च्छति । न स य एवं वेद ॥ ५ ॥
सायणः
अथास्य मंत्रेणानुशासनं 9 विधत्ते- ब्रह्मचार्यसीत्याहेत्यादि । हे यज्ञशर्मन् ! त्वं ‘ब्रह्मचार्यसि’ ब्रह्मचर्यनियमं प्राप्नोषि अनेनाप्रमत्तो भव । ब्रह्मण एवैनमिति । तत्तेन ब्रह्मचारीति पदेन प्रतीयमानाय ‘ब्रह्मणे’ वेदपुरुषायैव ‘एनं’ ब्रह्मचारिणं परिददातीति तात्पर्यगम्यो ऽर्थः । अपो ऽशानेति द्वितीयमनुशासनम् । ‘मया अनुज्ञातः सन् ‘अपः’ एव ‘अशान’ अन्यन्नाकांक्षयेत्यर्थः । तदेव तात्पर्यतो व्याचष्टे- अमृतं वा आप इति । आप्यायनकरत्वात् प्राणिस्थितिनिमित्तत्वाच्चापाममृतत्वम् । अशानेति “अश भोजने” (धा. पा. क्र्या. प. १४) इत्यस्माल्लोटि “हलः श्नः शानज्झौ” (पा. सू. ३ । १ । ८३) इति शानजादेशः । कर्म कुर्विति तृतीयमनुशासनम् । गुरुशुश्रूषार्हं ब्रह्मचर्याश्रमविहितं यत्कर्मास्ति, तत्कुर्वित्यर्थः । वीर्यं वै कर्मेति । वीर्यहेतुत्वात्कर्मणस्तद्रूपत्वम् । समिधमाधेहीत्युपरितनानुशासनम् । हे ब्रह्मचारिन् ! समिधमग्नावाधेहि । अग्निपरिचर्यां कुर्वित्यर्थः । तत्समिदाधानं आत्मनः समिंधनहेतुत्वेन स्तौति- समिन्त्स्वात्मानमिति । तेजः शरीरकांतिः । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिजं ब्राह्मं तेजः । उभाभ्यामात्मानं ‘समिन्त्स्व’ संदीप्तं कुर्विति । एवंरूपमेवार्थमनेन वाक्येन ब्रह्मचारिणमेवाह प्रतिपादयति 10 आचार्यः । पुनरप्यपामशनमनुशास्ति चरमेण भागेनेत्याह- अपो ऽशानेति । व्याख्यातमेतत् । ननु- उक्तस्यैवार्थस्य पुनरनुशासनं किमर्थमित्याशंक्याह- तदेनमुभयतो ऽमृतेनेति । तत्तेन पुनरनुशासनेन ‘उभयतः’ उभयत्र आदावंते च उदकलक्षणेनामृतेन ‘एनं’ ब्रह्मचारिणं ‘परिगृह्णाति’ वेष्टयति । तथा हास्येत्यादि । तथैवानुशासने सति नियमितत्वेन पीडाहेतुभूतस्य पापस्यानाचरणात् । अस्य ब्रह्मचारीत्यादि सिद्धम् ॥ ५ ॥
Eggeling
- ‘Thou art a Brahmacārin,’ he says, and thus commits him to the Brahman;–‘sip water!’–water, doubtless, means ambrosia: ‘sip ambrosia’ is thus what he tells him;–‘do thy work!’–work, doubtless, means vigour: ’exert vigour’ is thus what he tells him;–‘put on fuel!’–’enkindle thy mind with fire, with holy lustre!’ is what he thereby tells him;–‘do not sleep 11!’–‘do not die’ is what he thereby says to him;–‘sip water!’–water means ambrosia: ‘sip ambrosia’ is what he thus tells him. He thus encloses him on both sides with ambrosia (the drink of immortality), and thus the Brahmacārin suffers no harm of any kind, nor does he who knows this.
०६
विश्वास-प्रस्तुतिः
(दा) अ᳘थास्मै सावित्रीम᳘न्वाह॥
ता᳘ᳫँ᳘ ह स्मैता᳘म्पुरा᳘ संवत्सरे᳘ ऽन्वाहुः संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति[[!!]]॥
मूलम् - श्रीधरादि
(दा) अ᳘थास्मै सावित्रीम᳘न्वाह॥
ता᳘ᳫँ᳘ ह स्मैता᳘म्पुरा᳘ संवत्सरे᳘ ऽन्वाहुः संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति[[!!]]॥
मूलम् - Weber
अ᳘थास्मै सावित्रीम᳘न्वाह॥
ता᳘ᳫं᳘ ह स्मैता᳘म् पुरा᳘ संवत्सरे᳘ऽन्वाहुः संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ एॗवास्मिंस्तद्वा᳘चं दध्म 12 इ᳘ति॥
मूलम् - विस्वरम्
अथास्मै सावित्रीमन्वाह । तां ह स्मैतां पुरा संवत्सरे ऽन्वाहुः । संवत्सरसंमिता वै गर्भाः प्रजायंते । जात एवास्मिंस्तद्वाचं दध्म इति ॥ ६ ॥
सायणः
अथ सावित्र्यनुवाचनं विधत्ते- अथास्मा 13 इति । “ब्रह्मचार्यसि” इति मंत्रेणानुशासनानंतर्यमथशब्दार्थः । ‘अस्मै’ नियमिताय शिष्याय ‘सावित्रीं’ सवितृदेवताकां “तत्सवितुर्वरेण्यम्” इत्यादिकां गायत्रीं ‘अन्वाह’ आचार्यो ऽनुब्रूयात् । अनुवाचनप्रकारस्त्वग्रे वक्ष्यते । अथ तदनुवाचनस्य उपनयनादूर्ध्वं संवत्सरकाले कर्तव्यतामाह- तां ह स्मैतामिति । ‘पुरा’ पूर्वस्मिन् उपनयनादूर्ध्वभाविनि संवत्सरकाले अतीते सति ‘तामेतां’ गायत्रीं ‘अन्वाहुः’ केचिदाचार्याः उपदिशंति । तेषामभिप्रायमाह- संवत्सरसंमिता वा इति । संवत्सरात्मना कालेन सम्यक् परिच्छिन्नाः खलु ‘गर्भाः’ व्यक्तावयवाः संतः ‘प्रजायंते’ उत्पद्यंते । अत उपनयनानंतरं आचार्यसमीपे गर्भवदवस्थितः तदुक्तं नियममाचरन् संवत्सरकाले एव पुनर्जायते । अतः ‘जाते एवास्मिन्’ ब्रह्मचारिणि तत्तेन सावित्र्यनुवाचनेन ‘वाचं दध्मः’ धारयाम इति । अनेनाभिप्रायेण संवत्सरकाले अनुवाचनमिति संबंधः ॥ ६ ॥
Eggeling
- He then recites to him (teaches him) the Sāvitrī 14;–formerly, indeed, they taught this (verse) at the end of a year 15, thinking, ‘Children, indeed, are
born after being fashioned for a year 16: thus we lay speech (voice) into this one as soon as he has been born.’
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ षट्सु मा᳘सेषु॥
षड्वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ षट्सु मा᳘सेषु॥
षड्वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति[[!!]]॥
मूलम् - Weber
अ᳘थ षट्सु मा᳘सेषु॥
षड्वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ एॗवास्मिंस्तद्वा᳘चं दध्म इ᳘ति॥
मूलम् - विस्वरम्
अथ षट्सु मासेषु । षड्वा ऋतवः संवत्सरस्य । संवत्सरसंमिता वै गर्भाः प्रजायंते । जात एवास्मिंस्तद्वाचं दध्म इति ॥ ७ ॥
सायणः
अथ षण्मासादिष्वपि कालेषु संवत्सरसंपत्तिं प्रतिपादयन् तदनुवाचनस्य कर्तव्यतामाह- अथ षट्सु मासेष्वित्यादिना । अथेति पक्षांतरप्रदर्शने ‘षट्सु मासेषु’ उपनयनादूर्ध्वं गतेषु सत्सु सावित्रीमन्वाहुरित्याद्यनुषंगः । षड्वा ऋतव इति । ‘षड्वा ऋतवः संवत्सरस्य’ इति मासगतषट्संख्यया संवत्सरसंपत्तिरुक्ता । अन्यत् व्याख्यातम् ॥ ७ ॥
Eggeling
- Or after six months, thinking, ‘There are six seasons in the year, and children are born after being fashioned for a year: we thus lay speech into this one as soon as he has been born.’
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ चतुर्व्विᳫँ᳭शत्यहे[[!!]]॥
च᳘तुर्व्विᳫँ᳭शतिर्व्वै᳘ संवत्सर᳘स्यार्द्धमासाः᳘ संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ चतुर्व्विᳫँ᳭शत्यहे[[!!]]॥
च᳘तुर्व्विᳫँ᳭शतिर्व्वै᳘ संवत्सर᳘स्यार्द्धमासाः᳘ संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति[[!!]]॥
मूलम् - Weber
अ᳘थ चतुर्विंशत्यहे᳟॥
च᳘तुर्विंशतिर्वै᳘ संवत्सर᳘स्यार्धमासाः᳘ संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ एॗवास्मिंस्तद्वा᳘चं दध्म इ᳘ति॥
मूलम् - विस्वरम्
अथ चतुर्विंशत्यहे । चतुर्विंशतिर्वै संवत्संरस्यार्द्धमासाः । संवत्सरसंमिता वै गर्भाः प्रजायंते । जात एवास्मिंस्तद्वाचं दध्म इति ॥ ८ ॥
सायणः
पक्षांतरमाह- अथ चतुर्विंशत्यह इति । चतुर्विंशतिसंख्याकानामह्नां समाहारश्चतुर्विंशत्यहः कालः । चतुर्विंशतिदिवसपरिमिते काले गते सतीत्यर्थः । चतुर्विंशतिर्वा इति- दिवसगतार्द्धमाससंख्यया संवत्सरसंपत्तिः । गतमन्यत् ॥ ८ ॥
Eggeling
- Or after twenty-four days, thinking, ‘There are twenty-four half-months in the year, and children are born when fashioned for a year: we thus lay speech into this one as soon as he has been born.’
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ द्वा᳘दशाहे[[!!]]॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ द्वा᳘दशाहे[[!!]]॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति॥
मूलम् - Weber
अ᳘थ द्वादशाहे᳟॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सर᳘सम्॥
मूलम् - विस्वरम्
अथ द्वादशाहे । द्वादश वै मासाः संवत्सरस्य । संवत्सरसंमिता वै गर्भाः प्रजायंते । जात एवास्मिंस्तद्वाचं दध्म इति ॥ ९ ॥
सायणः
अन्य पक्षमाह- द्वादशाह इति । अत्र दिवसगतद्वादशसंख्यया मासद्वादशात्मकसंवत्सरसंपत्तिः । गतमन्यत् ॥ ९ ॥
Eggeling
- Or after twelve days, thinking, ‘There are twelve months in the year, and children are born when fashioned for a year: we thus lay speech into this one as soon as he has been born.’
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ षडहे[[!!]]॥
षड्वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ षडहे[[!!]]॥
षड्वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति॥
मूलम् - Weber
अ᳘थ षडहे᳟॥
षद्वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सं॥
मूलम् - विस्वरम्
अथ षडहे । षड्वा ऋतवः संवत्सरस्य । संवत्सरसंमिता वै गर्भाः प्रजायंते । जात एवास्मिंस्तद्वाचं दध्म इति ॥ १० ॥
सायणः
अन्य पक्षमाह- अथ षडह इति । दिवसगतषट्संख्यया ऋतुद्वारा अत्र संवत्सरसंपत्तिः ॥ १० ॥
Eggeling
- Or after six days, thinking, ‘There are six seasons in the year, and children are born when fashioned for a year: we thus lay speech into this one as soon as he has been born.’
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ त्र्यहे[[!!]]॥
त्र᳘यो वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ त्र्यहे[[!!]]॥
त्र᳘यो वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सम्मिता वै ग᳘र्भाः प्र᳘जायन्ते जात᳘ ऽए᳘वास्मिँस्तद्वा᳘चं दध्म ऽइति॥
मूलम् - Weber
अ᳘थ त्र्यहे᳟॥
त्र᳘यो वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सर᳘सं॥
मूलम् - विस्वरम्
अथ त्र्यहे । त्रयो वा ऋतवः संवत्सरस्य । संवत्सरसंमिता वै गर्भाः प्रजायंते । जात एवास्मिंस्तद्वाचं दध्म इति ॥ ११ ॥
सायणः
चरमं पक्षमाह- अथ त्र्यह इति । ग्रीष्मो वर्षा हेमंत इति ऋतूनां त्रित्वम् ॥ ११ ॥
Eggeling
- Or after three days, thinking, ‘There are three seasons in the year, and children are born when fashioned for a year: we thus lay speech into this one as soon as he has been born.’
१२
विश्वास-प्रस्तुतिः
तद᳘पि श्लो᳘कं गायन्ति॥
(न्त्या) आचा᳘र्य्यो गर्भी᳘ भवति ह᳘स्तमाधा᳘य द᳘क्षिणम्। तृती᳘यस्याᳫँ᳭ स᳘ जायते सावित्र्या᳘ सह᳘ ब्राह्मण ऽइ᳘ति सद्यो᳘ ह त्वाव᳘ ब्राह्मणाया᳘नुब्रूयादाग्नेयो वै᳘ ब्राह्मणः᳘ सद्यो वा᳘ ऽअग्नि᳘र्ज्जायते त᳘स्मात्सद्य᳘ ऽएव᳘ ब्राह्मणाया᳘नुब्रूयात्॥
मूलम् - श्रीधरादि
तद᳘पि श्लो᳘कं गायन्ति॥
(न्त्या) आचा᳘र्य्यो गर्भी᳘ भवति ह᳘स्तमाधा᳘य द᳘क्षिणम्। तृती᳘यस्याᳫँ᳭ स᳘ जायते सावित्र्या᳘ सह᳘ ब्राह्मण ऽइ᳘ति सद्यो᳘ ह त्वाव᳘ ब्राह्मणाया᳘नुब्रूयादाग्नेयो वै᳘ ब्राह्मणः᳘ सद्यो वा᳘ ऽअग्नि᳘र्ज्जायते त᳘स्मात्सद्य᳘ ऽएव᳘ ब्राह्मणाया᳘नुब्रूयात्॥
मूलम् - Weber
तद᳘पि श्लो᳘कं गायन्ति॥
आचाॗर्यो गर्भी᳘ भवति ह᳘स्तमाधा᳘य द᳘क्षिणम्॥
तृती᳘यस्याᳫं स᳘ जायते सावित्र्या᳘ सह᳘ ब्राह्मण इ᳘ति सद्यो᳘ ह त्वाव᳘ ब्राह्मणाया᳘नुब्रूयादाग्नेयो वै᳘ ब्राह्मणः᳘ सद्यो वा᳘ अग्नि᳘र्जायते त᳘स्मात्सद्य᳘ एव᳘ ब्राह्मणाया᳘नुब्रूयात्॥
मूलम् - विस्वरम्
तदपि श्लोकं गायंति- “आचार्यो गर्भी भवति हस्तमाधाय दक्षिणम् । तृतीयस्यां स जायते सावित्र्या सह ब्राह्मणः”- इति । सद्यो ह त्वाव ब्राह्मणायानुब्रूयात् । आग्नेयो वै ब्राह्मणः । सद्यो वा अग्निर्जायते । तस्मात्सद्य एव ब्राह्मणायानुब्रूयात् ॥ १२ ॥
सायणः
अस्मिन् त्र्यहपक्षे श्लोकमन्त्रं संवादयति- तदपि श्लोकं गायंतीति । तत्र त्र्यहपक्षे श्लोकरूपं मंत्रमपि ‘गायंति’ पठंति । आचार्यो गर्भी भवतीति । ‘आचार्यः’ माणवकमुपनीय समीपवर्तिना तेन च ‘गर्भी भवति’ गर्भवान् भवति । किं कृत्वा ? आत्मीयं ‘दक्षिणं हस्तं’ शिष्यमस्तके ‘आधाय’ निक्षिप्य । ‘सः’ गर्भरूपो माणवकः ‘तृतीयस्यां’ रात्रौ व्यतीतायां ‘जायते’ आचार्यत उत्पद्यते । जातश्च आचार्येणोपदिष्टया ‘सावित्र्या’ सहितः सन् ‘ब्राह्मणः’ भवति । सावित्रीरूपं ब्रह्म अधीते इति ब्राह्मणः, इति व्युत्पत्तेर्ब्राह्मणजातित्वमस्य संपन्नमित्यर्थः । इत्थं त्रैवर्णिकानां साधारणं पक्षमुक्त्वा ब्राह्मणस्य विशेषमाह- सद्यो 17 ह त्वावेति । तुशब्दः प्रागुक्तं कालविलंबं व्यावर्तयति । ‘सद्यः’ उपनयनानंतरमेव ‘ब्राह्मणाय’ सावित्रीमनुब्रूयात् । एतदुपपादयति- आग्नेयो वा इति । प्रजापतिमुखात्सहोत्पत्तेः अग्निदेवत्यो ब्राह्मणः । ततः किमित्याह- सद्यो वा अग्निरिति । मंथनानंतरं ‘सद्यः’ एवाग्निर्जायते, अतस्तत्साम्यात् तद्देवत्याय ब्राह्मणाय सावित्रीं सद्य एवानुब्रूयात् ॥ १२ ॥
Eggeling
- Concerning this they also sing the verse,–‘By laying his right hand on (the pupil), the teacher becomes pregnant (with him): in the third (night) he is born as a Brāhmaṇa with the Sāvitrī 18.’ Let him,
however, teach a Brāhmaṇa (the Sāvitrī) at once, for the Brāhmaṇa belongs to Agni, and Agni is born at once 19: therefore, he should teach the Brāhmaṇa at once.
१३
विश्वास-प्रस्तुतिः
(त्ता᳘ᳫँ᳘) ता᳘ᳫँ᳘ हैतामे᳘के॥
सावित्री᳘मनुष्टु᳘भम᳘न्वाहुर्व्वाग्वा᳘ ऽअनुष्टुप्त᳘दस्मिन्वा᳘चं दध्म ऽइ᳘ति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयादा न्वा᳘ ऽअय᳘मस्य व्वा᳘चमदित मू᳘को भव्विष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्त᳘स्मादेतां᳘ गायत्री᳘मेव᳘ सावित्रीम᳘नुब्रूयात्॥
मूलम् - श्रीधरादि
(त्ता᳘ᳫँ᳘) ता᳘ᳫँ᳘ हैतामे᳘के॥
सावित्री᳘मनुष्टु᳘भम᳘न्वाहुर्व्वाग्वा᳘ ऽअनुष्टुप्त᳘दस्मिन्वा᳘चं दध्म ऽइ᳘ति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयादा न्वा᳘ ऽअय᳘मस्य व्वा᳘चमदित मू᳘को भव्विष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्त᳘स्मादेतां᳘ गायत्री᳘मेव᳘ सावित्रीम᳘नुब्रूयात्॥
मूलम् - Weber
ता᳘ᳫं᳘ हैतामे᳘के॥
सावित्री᳘मनुष्टु᳘भम᳘न्वाहुर्वाग्वा᳘ अनुष्टुप्त᳘दस्मिन्वा᳘चं दध्म 20 इ᳘ति न त᳘था कुर्याद्यो᳘ हैनं त᳘त्र ब्रूयादा न्वा᳘ अय᳘मस्य वा᳘चमदित मू᳘को भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्त᳘स्मादेतां᳘ गायत्री᳘मेव᳘ सावित्रीम᳘नुब्रूयात्॥
मूलम् - विस्वरम्
तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः । वाग्वा अनुष्टुप् । तदस्मिन्वाचं दध्म इति । न तथा कुर्यात् । यो हैनं तत्र ब्रूयात् । आ न्वा अयमस्य वाचमदित, मूको भविष्यतीति । ईश्वरो ह तथैव स्यात् । तस्मादेतां गायत्रीमेव सावित्रीमनुब्रूयात् ॥ १३ ॥
सायणः
का पुनरसौ सावित्रीत्याशंक्य- तत्र एकीयं मतमुपन्यस्यति- तां हैतामिति । ‘अनुष्टुभं’ अनुष्टुप्छन्दस्कां “तत्सवितुर्वृणीमहे” इत्यादिकाम् । वाग्वा अनुष्टुबित्यादि । यस्मात् कृत्स्नवाग्रूपा ‘अनुष्टुप्’ तत्तस्मात् जाते ऽस्मिन्माणवके ‘वाचं दध्मः’ धारयाम इति । अनेनाभिप्रायेणानुष्टुभ ऋचः अनुवचनम् । तदेतन्निषिद्ध्य दूषयति- न तथा कुर्यादिति । ‘तत्र’ तस्मिन् विषये ‘यः’ नाम कश्चिदभिज्ञ आगत्य एनमाचार्यं ‘ब्रूयात्’ । किमिति ? ‘अयं’ माणवकः अस्याचार्यस्य ‘वाचं’ नुशब्दः अद्येत्यर्थे ! अद्य खलु ‘आदित’ स्वीकृतवान् । वाग्रूपाया अनुष्टुभः स्वीकारात् । तथा चायमुपदेष्टा ‘मूको भविष्यतीति’ तथैव भवितुमयमीश्वरः समर्थः स्यात् । स्वपक्षं सिद्धांतयति- तस्मादेतामिति । “तत्सवितुर्वरेण्यम्” इत्यादिकां गायत्रीछंदस्कामेव 17 सावित्रीमृचमनुब्रूयात् । तथा च वाचो ऽप्युच्चारान्नोक्तदोष इत्यर्थः ॥ १३ ॥
Eggeling
- Now some teach an Anushṭubh Sāvitrī, saying, ‘The Anushṭubh is speech: we thus lay speech into him.’ But let him not do so; for if, in that case, any one were to say of him, ‘Surely, this (student) has taken away his (the teacher’s) speech: he will become dumb;’ then that would indeed be likely to come to pass: let him therefore teach him that Gāyatrī Sāvitrī.
१४
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ है᳘के दक्षिणतः[[!!]]॥
(स्ति᳘) ति᳘ष्ठते वा᳘ ऽऽसीनाय वा᳘ ऽन्वाहुर्न्न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयाद्बुल्बं न्वा᳘ ऽअय᳘मिम᳘मजीजनत[[!!]] बुल्बो᳘ भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्त᳘स्मात्पुर᳘स्तादेव᳘ प्रती᳘चे समी᳘क्षमाणाया᳘नुब्रूयात्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ है᳘के दक्षिणतः[[!!]]॥
(स्ति᳘) ति᳘ष्ठते वा᳘ ऽऽसीनाय वा᳘ ऽन्वाहुर्न्न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयाद्बुल्बं न्वा᳘ ऽअय᳘मिम᳘मजीजनत[[!!]] बुल्बो᳘ भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्त᳘स्मात्पुर᳘स्तादेव᳘ प्रती᳘चे समी᳘क्षमाणाया᳘नुब्रूयात्॥
मूलम् - Weber
अ᳘थ है᳘के दक्षिणतः᳟॥
ति᳘ष्ठते वा᳘सीनाय वा᳘न्वाहुर्न त᳘था कुर्याद्यो᳘ हैनं त᳘त्र ब्रूयाद्बुल्बं 21 न्वा᳘ अय᳘मिमम᳘जीजनत बुल्बो भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्त᳘स्मात्पुर᳘स्तादेव᳘ प्रती᳘चे समी᳘क्षमाणाया᳘नुब्रूयात्॥
मूलम् - विस्वरम्
अथ हैके दक्षिणतस्तिष्ठते वा ऽसीनाय वा ऽऽन्वाहुः । न तथा कुर्यात् । यो हैनं तत्र ब्रूयात् । बुल्बं वा अयमिममजीजनत । बुल्बो भविष्यतीति । ईश्वरो ह तथैव स्यात् । तस्मात्पुरस्तादेव प्रतीचे समीक्षमाणायानुब्रूयात् ॥ १४ ॥
सायणः
तत्रानुवचनसमये शाखांतराभिमतं दक्षिणतो ऽवस्थानं शिष्यस्य निषेधति- अथ हैके इति । ‘एके’ शाखिनः आचार्यस्य दक्षिणभागे ‘तिष्ठते वा आसीनाय वा’ वाचयंतीति स्थानासनयोर्विकल्पः 22 । यो हैनमिति । तत्र दोषोक्तिः । बुल्बं न्वा अयमिममिति । नु, वै, अयं, इति पदच्छेदः । अयमाचार्यः इमं शिष्यं अद्य बुल्बं तिरश्चीनं प्राङ्मुखम् ‘अजीजनत’ अजनयत् । तथाचायं ‘बुल्बः’ पराङ्मुखो ‘भविष्यतीति’ । गतमन्यत् । स्वपक्षं सिद्धांतयति- तस्मात्पुरस्तादेवेति । आचार्यस्य पूर्वभागे ‘प्रतीचे’ प्रत्यङ्मुखाय उपविष्टाय आचार्यं ‘समीक्षमाणाय’ सावित्रीमनुब्रूयात् । तत्र नोक्तदोष इत्यर्थः ॥ १४ ॥
Eggeling
- And some recite it to him while he (the student) is standing or sitting on (the teacher’s) right side; but let him not do this; for if, in that case, any one were to say of him, ‘Surely, this (teacher) has born this (student) sideways, he will become averse to him;’ then that would indeed be likely to come to pass: let him therefore recite it in a forward (easterly) direction to (the student) looking at him towards the west.
१५
विश्वास-प्रस्तुतिः
(त्तां) ताम्वै᳘ पच्छो᳘ ऽन्वाह॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्व्यानस्ता᳘ने᳘वास्मिँस्त᳘द्दधात्य᳘थार्द्धर्च्चशो द्वौ वा᳘ ऽइमौ᳘ प्राणौ᳘ प्राणोदाना᳘वेव᳘ प्राणोदाना᳘वे᳘वास्मिँस्त᳘द्दधात्य᳘थ कृत्स्नामे᳘को वा᳘ ऽअयं᳘ प्राणः᳘ कृत्स्न᳘ ऽएव᳘ प्राण᳘मे᳘वास्मिँस्त᳘त्कृत्स्नं᳘ दधाति॥
मूलम् - श्रीधरादि
(त्तां) ताम्वै᳘ पच्छो᳘ ऽन्वाह॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्व्यानस्ता᳘ने᳘वास्मिँस्त᳘द्दधात्य᳘थार्द्धर्च्चशो द्वौ वा᳘ ऽइमौ᳘ प्राणौ᳘ प्राणोदाना᳘वेव᳘ प्राणोदाना᳘वे᳘वास्मिँस्त᳘द्दधात्य᳘थ कृत्स्नामे᳘को वा᳘ ऽअयं᳘ प्राणः᳘ कृत्स्न᳘ ऽएव᳘ प्राण᳘मे᳘वास्मिँस्त᳘त्कृत्स्नं᳘ दधाति॥
मूलम् - Weber
तां वै᳘ पछो᳘ऽन्वाह॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ उदानो᳘ व्यानस्ता᳘नेॗवास्मिंस्त᳘द्दधात्य᳘थार्धर्चशो द्वौ वा᳘ इमौ᳘ प्राणौ᳘ प्राणोदाना᳘वेव᳘ प्राणोदाना᳘वेॗवास्मिंस्त᳘द्दधात्य᳘थ कृत्स्नामे᳘को वा᳘ अय᳘म् प्राणः᳘ कृत्स्न᳘ एव᳘ प्राण᳘मेॗवास्मिंस्त᳘त्कृत्स्नं᳘ दधाति॥
मूलम् - विस्वरम्
तां वै पच्छो ऽन्वाह । त्रयो वै प्राणाः । प्राण उदानो व्यानः । तानेवास्मिंस्तद्दधाति । अथार्द्धर्चशः । द्वौ वा इमौ प्राणौ । प्राणोदानावेव । प्राणोदानावेवास्मिंस्तद्दधाति । अथ कृत्स्नाम् । एको वा अयं प्राणः कृत्स्न एव । प्राणमेवास्मिंस्तत्कृत्स्नं दधाति ॥ १५ ॥
सायणः
पच्छो ऽर्द्धर्चशो ऽनवानमिति क्रमेण तस्मिन्ननुवचने धर्मान् विधत्ते- तां वै पच्छ 22 इति । ‘पच्छः’ पादशः पादे पादे अवसाय । त्रयो वै प्राणा इत्यादि स्पष्टम् । ‘अर्द्धर्चशः’ ऋचः अर्द्धमर्द्धर्चं तस्मिन्नर्द्धर्चे अवसायेत्यर्थः । द्वौ वा इमाविति । ऊर्ध्वा ऽधोभेदेन वृत्तिद्वैविध्यात् प्राणयोर्द्वित्वम् । अथ कृत्स्नामिति । अर्द्धर्चे अवसानं परित्यज्य ‘कृत्स्नाम्’ अखंडां गायत्रीमंततो ऽनुब्रूयात् । एको वा अयमिति । अविवक्षितवृत्तिको ऽयं ‘प्राणः’ (विरागदोषः वराष्याख्यदेवताकः सन्) ‘कृत्स्नः’ अविभक्तावयवः ‘एव’ भवति । तथा च कृत्स्नानुचनेन ‘कृत्स्नं प्राणमेवास्मिन्’ स्थापयति ॥ १५ ॥
Eggeling
- He (first) recites it by pādas 23: there being three breathings, the out-breathing, the up-breathing and the through-breathing; it is these he thus lays into him;–then by half-verses: there being these
two (principal) breathings, the out-breathing and the up-breathing 24, it is the out-breathing and the up-breathing he thus lays into him;–then the whole (verse): there being this one vital air (in man), he thus lays the whole vital air into the whole of him.
१६
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्न᳘) न᳘ ब्रह्मणं᳘ ब्रह्मच᳘र्य्यमुपनी᳘य मिथुनं᳘ चरेद्ग᳘र्भो वा᳘ ऽएष᳘ भवति यो᳘ ब्रह्मच᳘र्य्यमुपै᳘ति ने᳘दिमं᳘ ब्रह्मणं व्वि᳘षिक्ताद्रे᳘तसो जन᳘यानी᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्न᳘) न᳘ ब्रह्मणं᳘ ब्रह्मच᳘र्य्यमुपनी᳘य मिथुनं᳘ चरेद्ग᳘र्भो वा᳘ ऽएष᳘ भवति यो᳘ ब्रह्मच᳘र्य्यमुपै᳘ति ने᳘दिमं᳘ ब्रह्मणं व्वि᳘षिक्ताद्रे᳘तसो जन᳘यानी᳘ति॥
मूलम् - Weber
त᳘दाहुः॥
न᳘ ब्रह्मण᳘म् ब्रह्मच᳘र्यमुपनी᳘य मिथुनं᳘ चरेद्ग᳘र्भो वा᳘ एष᳘ भवति यो᳘ ब्रह्मच᳘र्यमुपै᳘ति ने᳘दिम᳘म् ब्रह्मणं वि᳘षिक्ताद्रे᳘तसो जन᳘यानी᳘ति॥
मूलम् - विस्वरम्
तदाहुः- न ब्राह्मणं ब्रह्मचर्यमुपनीय मिथुनं चरेत् । गर्भो वा एष भवति । यो ब्रह्मचर्यमुपैति । नेदिमं ब्राह्मणं विषिक्ताद्रेतसो जनयानीति ॥ १६ ॥
सायणः
अथ प्रागुक्तसंवत्सरादिपक्षेषु उपनयनानंतरं सावित्रीप्रदानात् पूर्वं आचार्यस्य नियमं दर्शयति- तदाहुरिति । तत्रोक्तविषये आहुरभिज्ञाः कथयंति । किमिति ? ‘ब्राह्मणं’ शिष्यं ब्रह्मचर्यनियममुपनीय प्राप्य आचार्यः ‘न मिथुनं चरेत्’ स्त्रिया सह वासं न कुर्यात् । तत्र कारणमाह- गर्भो वा एष इति । ‘एषः’ उपनीतः ‘गर्भः’ भवति, ‘इमं’ गर्भीभूतं ‘ब्राह्मणं’ ‘विषिक्तात्’ विविधं सिक्ताद्रेतसो ‘नेत्’ नैव ‘जनयानि’ उत्पादयानि इति ॥ १६ ॥
Eggeling
- As to this they say, ‘When one has admitted a Brāhmaṇa to a term of studentship, he should not carry on sexual intercourse, lest he should generate this Brāhmaṇa from shed seed; for, indeed, he who enters on a term of studentship becomes an embryo.’
१७
विश्वास-प्रस्तुतिः
त᳘दु वा᳘ ऽआहुः॥
का᳘ममेव᳘ चरेद्द्व᳘य्यो वा᳘ ऽइमाः᳘ प्रजा दै᳘व्यश्चैव᳘ मानुष्यश्च[[!!]] ता वा᳘ ऽइमा᳘ मनुष्यः[[!!]] प्रजाः᳘ प्रज᳘ननात्प्र᳘जायंते च्छं᳘दाᳫँ᳭सि वै दै᳘व्यः प्रजास्ता᳘नि मुखतो᳘ जनयते त᳘त ऽएतं᳘ जनयते त᳘स्मादु का᳘ममेव᳘ चरेत्॥
मूलम् - श्रीधरादि
त᳘दु वा᳘ ऽआहुः॥
का᳘ममेव᳘ चरेद्द्व᳘य्यो वा᳘ ऽइमाः᳘ प्रजा दै᳘व्यश्चैव᳘ मानुष्यश्च[[!!]] ता वा᳘ ऽइमा᳘ मनुष्यः[[!!]] प्रजाः᳘ प्रज᳘ननात्प्र᳘जायंते च्छं᳘दाᳫँ᳭सि वै दै᳘व्यः प्रजास्ता᳘नि मुखतो᳘ जनयते त᳘त ऽएतं᳘ जनयते त᳘स्मादु का᳘ममेव᳘ चरेत्॥
मूलम् - Weber
त᳘दु वा᳘ आहुः॥
का᳘ममेव᳘ चरेद्द्वॗय्यो वा᳘ इमाः᳘ प्रजा दै᳘व्यश्चैव᳘ मनुष्य᳘श्च ता वा᳘ इमा᳘ मनुष्यः᳘ प्रजाः᳘ प्रज᳘ननात्प्र᳘जायन्ते छ᳘न्दांसि वै दै᳘व्यः प्रजास्ता᳘नि मुखतो᳘ जनयते त᳘त एतं᳘ जनयते त᳘स्मादु का᳘ममेव᳘ चरेत्॥
मूलम् - विस्वरम्
तदु वा आहुः- काममेव चरेत् । द्वय्यो वा इमाः प्रजाः दैव्यश्चैव मानुष्यश्च । ता वा इमा मानुष्यः प्रजाः प्रजननात्प्रजायंते । छन्दांसि वै दैव्यः प्रजाः । तानि मुखतो जनयते, तत एतं जनयते । तस्मादु काममेव चरेत् ॥ १७ ॥
सायणः
एवं केषांचिन्मतमुक्त्वा अन्येषां मतमाह- तदु वा आहुरिति । ‘तदु’ तत्रैव अपरे अन्यथा ‘आहुः’ । ‘कामं’ यथेच्छमेव ‘मिथुनं चरेत्’ । उक्तदोषाभावं व्यवस्थया प्रतिपादयति- द्वय्यो वा इमा इति । द्विविधाः खलु ‘इमाः प्रजाः’ दैवमानुषभेदात् । तत्र ‘मानुष्यः’ ‘प्रजाः’ मिथुनीभवनेन प्रजननादुत्पद्यंते । गायत्र्यादीनि तु ‘छंदांसि दैव्यः प्रजाः’ तानि अयं ‘मुखतः’ मुखात् ताल्वोष्ठपुटादिव्यापारविशेषादुत्पादयते । ‘ततः’ मुखत एव उत्पद्यमानात् गायत्रीच्छंदसः सकाशात् ‘एतं’ ब्रह्मचारिणं जनयति । अत एव औपस्थं एनं स हि पिता सद्यस्तं जनयति । तत्र जन्मशरीरमेव मातापितरौ जनयत इति । अतो ऽस्य ब्रह्मचारिणः प्रजननादनुत्पत्तेः आचार्यस्य मिथुनमपि न विरुध्यत इत्युपसंहरति- तस्मादु काममेवेति । उच्चलितरेताश्चेन्मिथुनं चरेत् । न सर्वथा वर्जननियम इत्यर्थः ॥ १७ ॥
Eggeling
- And concerning this they also say, ‘He may nevertheless do so, if he chooses; for these creatures are of two kinds, divine and human,–these human creatures are born from the womb, and the divine creatures, being the metres (verses of scripture), are born from the month: it is therefrom he (the teacher) produces him, and therefore he may do so (have intercourse) if he chooses.’
१८
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘दाहुः॥
(र्न᳘) न᳘ ब्रह्मचारी सन्म᳘ध्वश्नीयादो᳘षधीनां वा᳘ ऽएष᳘ परमो र᳘सो यन्म᳘धु ने᳘दन्नाद्यस्या᳘न्तं ग᳘च्छानीत्य᳘थ ह स्माह श्वेत᳘केतुरारुणेयो᳘ ब्रह्मचारी सन्म᳘ध्वश्नँ᳘स्त्रय्यै वा᳘ ऽएत᳘द्विद्या᳘यै शिष्टं यन्म᳘धु स तु र᳘सो य᳘स्येदृ᳘क्छिष्टमि᳘ति यथा᳘ ह वा ऽऋ᳘चं वा य᳘जुर्वा सा᳘म वा ऽभिव्याह᳘रेत्तादृक्तद्य᳘ ऽएवं᳘ व्विद्वा᳘न्ब्रह्मचारी सन्म᳘ध्वश्ना᳘ति त᳘स्मादु का᳘ममे᳘वाश्नीयात्॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘दाहुः॥
(र्न᳘) न᳘ ब्रह्मचारी सन्म᳘ध्वश्नीयादो᳘षधीनां वा᳘ ऽएष᳘ परमो र᳘सो यन्म᳘धु ने᳘दन्नाद्यस्या᳘न्तं ग᳘च्छानीत्य᳘थ ह स्माह श्वेत᳘केतुरारुणेयो᳘ ब्रह्मचारी सन्म᳘ध्वश्नँ᳘स्त्रय्यै वा᳘ ऽएत᳘द्विद्या᳘यै शिष्टं यन्म᳘धु स तु र᳘सो य᳘स्येदृ᳘क्छिष्टमि᳘ति यथा᳘ ह वा ऽऋ᳘चं वा य᳘जुर्वा सा᳘म वा ऽभिव्याह᳘रेत्तादृक्तद्य᳘ ऽएवं᳘ व्विद्वा᳘न्ब्रह्मचारी सन्म᳘ध्वश्ना᳘ति त᳘स्मादु का᳘ममे᳘वाश्नीयात्॥
मूलम् - Weber
त᳘दाहुः॥
न᳘ ब्रह्मचारी सन्म᳘ध्वश्नीयादो᳘षधीनां वा᳘ एष᳘ परमो र᳘सो यन्म᳘धु ने᳘दन्नाद्यस्या᳘न्तं ग᳘छानीत्य᳘थ ह स्माह श्वेत᳘केतुरारुणेयो᳘ ब्रह्मचारी सन्म᳘ध्वश्न᳘ᳫं᳘स्त्रय्यै वा᳘ एत᳘द्विद्या᳘यै शिष्टं यन्म᳘धु स तु र᳘सो य᳘स्येदृ᳘क्शिष्टमि᳘ति यथा᳘ ह वा ऋ᳘चं वा य᳘जुर्वा सा᳘म वाभिव्याह᳘रेत्तादृक्तद्य᳘ एवं᳘ विद्वा᳘न्ब्रह्मचारी सन्म᳘ध्वश्ना᳘ति त᳘स्मादु का᳘ममेॗवाश्नीयात्॥
मूलम् - विस्वरम्
तदाहुः- न ब्रह्मचारी सन्मध्वश्नीयात् । ओषधीनां वा एष परमो रसो यन्मधु । नेदन्नाद्यस्यान्तं गच्छानीति । अथ ह स्माह श्वेतकेतुरारुणेयः । ब्रह्मचारी सन्मध्वश्नन् । त्रय्यै वा एतद्विद्यायै शिष्टं यन्मधु । स तु रसो यस्येदृक् शिष्टमिति । यथा ह वा ऋचं वा यजुर्वा साम वा ऽभिव्याहरेत् । तादृक् तत् । य एवं विद्वान् ब्रह्मचारी सन्मध्वश्नाति । तस्मादु काममेवाश्नीयात् ॥ १८ ॥
सायणः
इत्थमाचार्यस्य नियममुक्त्वा ब्रह्मचारिणो ऽप्याह- तदाहुर्न ब्रह्मचारी सन्निति । तत्र केचिदाहुः- ब्रह्मचर्यधर्मं प्राप्तः सन् ‘मधु’ नाश्नीयान्न भक्षयेत् । कुत इत्यत आह- ओषधीनां वा इति । दृष्टसोमौषधीनां संबंधां ‘परमः’ उत्कृष्टः ‘एष रसः’ यदेतन्मधु । अस्य हि भक्षणे सर्व्वौषधीरस उपभुक्तः स्यात् । तथा च ब्रह्मचर्याश्रम एव सर्वमन्नमुपभुक्तं स्यात् । ‘अन्नाद्यस्यांतं’ अवसानं नैव गच्छानीत्यनेनाभिप्रायेण मध्वशनं न कार्यम् । पक्षांतरमाह- अथ ह स्माहेति । ‘अथ’ खलु ‘आह स्म’ श्वेतकेतुररुणेः पुत्रः ब्रह्मचर्याश्रमस्थ एव मध्वशनं कुर्वन् । किमिति तदुच्यते- त्रय्यै वा एतदिति । वेदत्रयरूपाया विद्यायाः खलु एतच्छिष्टं विशिष्टरूपं (यत् 25 ब्रुवस्य वष्टितं तच्छिष्टम् ।) अत एव तु वेदत्रयात्मको मधुनो रस इति । यत एवं श्वेतकेतुना मधुरसस्य त्रयीरूपत्वमुक्तम् । ततः कारणात् ‘यथा’ खलु ऋग्यजुःसाम्नां मध्ये अन्यतरतदभिव्याहारात् उक्तप्रकारेण मधुनः त्रयीशिष्टत्वं विदुषो ब्रह्मचारिणो मध्वशनं तादृगेव भवति । अतो मध्वशननिषेधः अविद्वद्विषय इत्युपसंहरति- तस्मादु काममिति ॥ १८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे पंचमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (११ । ५ । ४) ॥
Eggeling
- And they also say, ‘He who is a Brahmacārin should not eat honey, lest he should reach the end of food, for honey, doubtless, is the utmost (supreme) essence of plants.’ But Śvetaketu Āruṇeya, when eating honey, whilst he was a student, said, ‘This honey, in truth, is the remainder (essential part) of the triple science (the Vedas), and he, indeed, who has such a remainder, is an essence.’ And, indeed, if a Brahmacārin, knowing this, eats honey, it is just as if he were to utter either a R̥k-verse, or Yajus-formula, or a Sāman-tune: let him therefore eat freely of it.
-
ब्रह्मचर्यमागामिति वाचयति ब्रह्मचार्यसानीति च । (पार. गृ. सू. २ । २ । ६) इति । ↩︎
-
अथास्य दक्षिणं हस्तं गृहीत्वा ऽऽह को नामासीति । (पार. गृ. सू. २२ । १७) इति । ↩︎
-
86:2 That is, for religious (theological) studentship: ‘I have come to be a student.’–Sāyaṇa takes the aorist ‘āgām’ in an optative sense ‘may I enter (or obtain),’–brahmacāriṇo bhāvo brahmacaryaṁ tad āgāṁ prāpnuyām. ↩︎
-
अथैनमाह कस्य ब्रह्मचार्यसीति, भवत इत्युच्यमान इन्द्रस्य, इत्यादि (पार. गृ. सू. २ । २ । १९-१०) इति । ↩︎
-
अत्र “इन्द्रस्य ब्रह्मचार्यसि” इत्ययं मंत्रः श्रुत्या ब्रह्मचारिणो हस्तादाने विनियुक्तः । सूत्रकृता तु हस्तादानं तूष्णीं विधाय “कस्य ब्रह्मचारी असि"- “भवतः” इति प्रश्नप्रतिप्रश्नानंतरममुं मन्त्रं ब्रह्मचारिणं प्रति ब्रूयादित्येवं विनियोगो दर्शित इति विरोधः समागच्छति । ↩︎
-
86:3 Vidushopy etat phalam āha, na sa iti, evam uktārthaṁ yo veda jānāti sopy ārtiṁ na prāpnotīty arthaḥ, Sāy. ↩︎
-
अथैनं भूतेभ्यः परिददाति प्रजापतये त्वा० इत्यादि । (पार. गृ. सू. २ । २ । २१) इति । ↩︎
-
स᳘मित्स्वात्मा᳘नं AP. Sây. ↩︎
-
अथैनँ सँशास्ति ब्रह्मचार्यस्यपो ऽशान कर्म कुरु मा दिवा सुषुप्या वाचं यच्छ समिधमाधेत्यपो ऽशानेति । (पार. गृ. सू. २। ३ । २) इति । ↩︎
-
मा सुषुप्था इति मा मृथा इत्येवैनं तदाहेत्यस्य व्याख्यानं नोपलब्धम् । ↩︎
-
87:1 ‘Do not sleep in the daytime!’ Pār., Āśv. ↩︎
-
दध्म A. दद्म P. ↩︎
-
अथास्मै सावित्रीमन्वाह, संवत्सरे षण्पास्ये चतुर्विँशत्यहे द्वादशाहे षडहे त्र्यहे वा । (पार. गृ. सू. २ । ३ । ३ । ६) इति । ↩︎
-
87:2 For this verse, also called the Gāyatrī (R̥g-veda S. III, 62, 10), see II, 3, 4, 39. ↩︎
-
87:3 Sāyaṇa takes this in the sense of ‘some only teach this (formula) a year after (or, after the first year),’–purā pūrvasminn upanayanād ūrdhvabhāvini saṁvatsarakāletīṭe sati tam etāṁ gāyatrim anvāhuḥ, kecid ācāryā upadiśanti. ↩︎
-
88:1 Literally, made equal, or corresponding, to a year,–Saṁvatsarātmanā kālena samyakparicchinnāḥ khalu garbhā vyaktāvayavāḥ santaḥ prajāyante utpadyante; ata upanayanānantaram ācāryasamīpe garbhavad avacchinnas taduktaniyamanāt saṁvatsarakāla eva punar jāyate, Sāy. ↩︎
-
सद्यस्त्वेव गायत्रीं ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेः । (पार. गृ. सू. २ । ३ । ७) इति । ↩︎ ↩︎
-
88:2 Ācāryo māṇavakam upanīya samīpavartinā tena garbhī bhavati garbhavān bhavati, kiṁ kr̥tvā, ātmīyaṁ dakshiṇaṁ hastaṁ śishyamastaka ādhāya nikshipya; sa garbharūpo māṇavakas tr̥tīyasyāṁ rātrau vyatītāyāṁ jāyate ācāryād utpadyate, jātaś ca ācāryeṇopadishṭayā sāvitryā sahita san brāhmaṇo bhavati sāvitrīrūpaṁ ca brahmādhīta iti brāhmaṇa iti vyutpattiḥ, brāhmaṇajātitvam asya sampannam ity arthaḥ, Sāy. ↩︎
-
89:1 Viz. immediately on the ‘churning-sticks’ being set in motion. ↩︎
-
दद्म A. दध्म P. - ↩︎
-
बुल्व A. बुल्ब P. Read: बुल्बो᳘. ↩︎
-
अत्र पारस्करः- अथास्मै सावित्रीमन्वाहोत्तरतो ऽग्नेः प्रत्यङ्मुखायापविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय दक्षिणतस्तिष्ठत आसीनाय वैके (पार. गृ. सू. २ । ३ । ३-४) इति । अत्र अग्नेर्दक्षिणतो दक्षिणस्यां दिशि तिष्ठते स्थिताय ऊर्ध्वीभूताय वा आसीनायोपविष्टाय वेति कर्कादयः सर्वे भाष्यकाराः । ↩︎ ↩︎
-
89:2 The Gāyatrī (Sāvitrī) consists of three octosyllabic pādas, forming two half-verses of two and one pāda respectively; whilst an Anushṭubh (Sāvitrī) would consist of four octosyllabic pādas, two of which make a half-verse. ↩︎
-
90:1 That is, the breath of the mouth, and that of the nostrils. ↩︎
-
कंसान्तर्गतः पाठश्चिन्त्यः । ↩︎