०१
विश्वास-प्रस्तुतिः
शौचेयो᳘ ह प्रा᳘चीनयोग्यः॥
(ऽ) उद्दा᳘लकमा᳘रुणिमा᳘जगाम ब्रह्मो᳘द्यमग्निहोत्रं᳘ व्विविदिषिष्यामी᳘ति॥
मूलम् - श्रीधरादि
शौचेयो᳘ ह प्रा᳘चीनयोग्यः॥
(ऽ) उद्दा᳘लकमा᳘रुणिमा᳘जगाम ब्रह्मो᳘द्यमग्निहोत्रं᳘ व्विविदिषिष्यामी᳘ति॥
मूलम् - Weber
शौचेयो᳘ ह प्रा᳘चीनयोग्यः॥
उद्दा᳘ल्ल्कमा᳘रुणिमा᳘जगाम ब्रह्मो᳘द्यमग्निहोत्रं᳘ विविदिषामी᳘ति॥
मूलम् - विस्वरम्
शौचेयो ह प्राचीनयोग्य उद्दालकमारुणिमाजगाम- ब्रह्मोद्यमग्निहोत्रं विविदिषिष्यामि- इति ॥ १ ॥
सायणः
अथ प्रश्नप्रतिवचनाभ्यां अग्निहोत्रहोमस्य सर्वदेवतातृप्तिकरत्वं प्रतिपादयिष्यन् प्रष्टृप्रतिवक्तारौ दर्शयति- शौचेयो हेति । शुचिनाम्नः पुत्रः ‘प्राचीनयोग्यः’ नाम महर्षिः ‘आरुणिं’ अरुणपुत्रं ‘उद्दालकं’ ‘आजगाम’ । ‘अग्निहोत्रं’ अग्निहोत्रविषयं ‘ब्रह्मोद्यं’ ब्रह्म तत्त्वस्वरूपं उद्यते प्रतिपाद्यते येन तत् ‘विविदिषिष्यामि’ तद्विषयां वेदनेच्छां करिष्यामि इत्यनेनाभिप्रायेणागत इत्यर्थः ॥ १ ॥
Eggeling
- Śauceya Prācīnayogya came to Uddālaka Āruṇi for a disputation on spiritual matters 1, thinking, ‘I desire to know the Agnihotra.’
०२
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
गौ᳘तम का᳘ ते ऽग्निहोत्री को᳘ व्वत्सः किमु᳘पसृष्टा कि᳘ᳫँ᳘ संय्यो᳘जनं किं᳘ दुह्य᳘मानं किं᳘ दुग्धं कि᳘माह्रिय᳘माणं किम᳘धिश्रितं कि᳘मवज्योत्य᳘मानं कि᳘मद्भिः᳘ प्रत्या᳘नीतं कि᳘मुद्वास्य᳘मानं किमु᳘द्वासितं कि᳘मुन्नीय᳘मानं किमु᳘न्नीतं किमु᳘द्यतं कि᳘ᳫँ᳘ ह्रिय᳘माणं किन्नि᳘गृहीतम्॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
गौ᳘तम का᳘ ते ऽग्निहोत्री को᳘ व्वत्सः किमु᳘पसृष्टा कि᳘ᳫँ᳘ संय्यो᳘जनं किं᳘ दुह्य᳘मानं किं᳘ दुग्धं कि᳘माह्रिय᳘माणं किम᳘धिश्रितं कि᳘मवज्योत्य᳘मानं कि᳘मद्भिः᳘ प्रत्या᳘नीतं कि᳘मुद्वास्य᳘मानं किमु᳘द्वासितं कि᳘मुन्नीय᳘मानं किमु᳘न्नीतं किमु᳘द्यतं कि᳘ᳫँ᳘ ह्रिय᳘माणं किन्नि᳘गृहीतम्॥
मूलम् - Weber
स᳘ होवाच॥
गौ᳘तम का᳘ तेऽग्निहोत्री को᳘ वत्सः किमु᳘पसृष्टा कि᳘ᳫं᳘ संयो᳘जनं किं᳘ दुह्य᳘मानं किं᳘ दुग्धं कि᳘माह्रिय᳘माणं किम᳘धिश्रितं कि᳘मवज्योत्य᳘मानं कि᳘मद्भिः᳘ प्रत्या᳘नीतं कि᳘मुद्वास्य᳘मानं किमु᳘द्वासितं कि᳘मुन्नीय᳘मानं किमु᳘न्नीतं किमु᳘द्यतं कि᳘ᳫं᳘ ह्रिय᳘माणं किं नि᳘गृहीतम्॥
मूलम् - विस्वरम्
स होवाच- गौतम का ते ऽग्निहोत्री १ । को वत्सः २ । किमुपसृष्टा ३ । किं संयोजनम् ४ । किं दुह्यमानम् ५ । किं दुग्धम् ६ । किमाह्रियमाणम् ७ । किमधिश्रितम् ८ । किमवज्योत्यमानम् ९ । किमद्भिः प्रत्यानीतम् १० । किमुद्वास्यमानम् ११ । किमुद्वासितम् १२ । किमुन्नीयमानम् १३ । किमुन्नीतम् १४ । किमुद्यतम् १५ । किं ह्रियमाणम् १६ । किन्निगृहीतम् १७ ॥ २ ॥
सायणः
आगत्य च तमुद्दालकं प्रति इमानग्निहोत्रावयवभूतान् पदार्थान् पप्रच्छेत्याह- स होवाचेत्यादिना । ‘सः’ खलु प्राचीनयोग्यः ‘उवाच’ उक्तवान् । हे ‘गौतम !’ गौतमगोत्रोत्पन्न भो उद्दालक ! ‘ते’ तवाग्निहोत्रकर्मणि ‘अग्निहोत्री’ होमसाधनस्य पयसो दोग्ध्री धेनुः ‘का’ किंरूपा ज्ञातव्या ? । ‘को वत्सः ?’ इत्यादावपि एवं योज्यम् । किमुपसृष्टेति । ‘उपसृष्टा’ दोहनार्थं वत्सेन संगता धेनुः, सा किंरूपेत्यर्थः । संयुज्यते अनेनेति ‘संयोजनं’ वत्सबंधनार्थं दाम । किं दुह्यमानमित्यादि । दुह्यमानत्वादयो होमसाधनस्य पयसः अवस्थाविशेषाः । तत्र पूर्वपूर्वस्योत्तरोत्तरमवधिः । आह्रियमाणमिति । गोष्ठाद्गार्हपत्यसमीपं प्रति दुग्धस्य पयस आनयनम् । गार्हपत्यस्योत्तरतः पृथक् कृतेषु अंगारेषु स्थापनं अधिश्रयणम् । ज्वलता दर्भेणावाङ्मुखेन पयस उपरि द्योतनमवज्योतनम् । उदक्तस्य पयसः उपशमनाय स्रुवेणोदकस्य सेचनं अद्भिः प्रत्यानयनम् । उद्वास्यमानत्वादयः अवस्थाः स्पष्टाः । आहवनीयदेशमभिलक्षीकृत्याहर्तुं गार्हपत्यसमीपादुद्धृतमुद्यतम् । निगृहीतमाहवनीयस्य पश्चात्सादितम् ॥ २ ॥
Eggeling
- He said, ‘Gautama, what like is thy Agnihotra cow? what like the calf? what like the cow joined by the calf? what like their meeting? what like (the milk) when being milked? what like when it has been milked? what like when brought (from the stable)? what like when put on the fire? what like when the light is thrown on it 2; what like when water is poured thereto? what like when being taken off (the fire)? what like when taken off? what like when
being ladled out 3? what like when ladled out? what like when lifted up (to be taken to the Āhavanīya)? what like when being taken there? what like when held down 4?
०३
विश्वास-प्रस्तुतिः
(ङ्का᳘ᳫँ᳘) का᳘ᳫँ᳘ समि᳘धमा᳘दधासि॥ का पूर्व्वा᳘ ऽऽहुतिः किमु᳘पासीषदः किम᳘पैक्षिष्ठाः को᳘त्तरा᳘ ऽऽहुतिः॥
मूलम् - श्रीधरादि
(ङ्का᳘ᳫँ᳘) का᳘ᳫँ᳘ समि᳘धमा᳘दधासि॥ का पूर्व्वा᳘ ऽऽहुतिः किमु᳘पासीषदः किम᳘पैक्षिष्ठाः को᳘त्तरा᳘ ऽऽहुतिः॥
मूलम् - Weber
का᳘ᳫं᳘ समि᳘धमा᳘दधासि का पूर्वा᳘हुतिः किमु᳘पासीषदः किम᳘पैक्षिष्ठाः को᳘त्तरा᳘हुतिः॥
मूलम् - विस्वरम्
कां समिधमादधासि १८ । का पूर्वा ऽऽहुतिः १९ । किमुपासीषदः २० । किमपैक्षिष्ठाः २१ । कोत्तरा ऽऽहुतिः २२ ॥ ३ ॥
सायणः
कां समिधमिति । हे गौतम ! यां ‘समिधं’ होमात्पूर्वं अग्नौ ‘आदधासि’ सा किमर्थेत्यर्थः । या पूर्वा आहुतिः “अग्निर्ज्योतिः” इति हूयते सा कस्य देवस्य प्रीत्यर्था । एवमुत्तरा । पूर्वानुसारेण प्रश्नार्थो ज्ञातव्यः । ‘उपासीषदः’ पूर्वाहुत्यनंतरं स्रुचमुपसादितवानसि । ‘अपेक्षिष्ठाः’ गार्हपत्यस्य ईक्षणं कृतवानसि ॥ ३ ॥
Eggeling
०४
विश्वास-प्रस्तुतिः
कि᳘ᳫँ᳘ हुत्वा प्र᳘कम्पयसि॥
किᳫँ᳭ स्रु᳘चं परिमृ᳘ज्य कूर्च्चे᳘ न्यमार्ज्जीः[[!!]] किं᳘ द्विती᳘यम्परिमृ᳘ज्य दक्षिणतो ह᳘स्तमु᳘पासीषदः किं पू᳘र्व्वं प्रा᳘शीः किं᳘ द्विती᳘यं कि᳘मुत्सृ᳘प्यापाः कि᳘ᳫँ᳘ स्रु᳘च्यप᳘ ऽआनी᳘य[[!!]] नि᳘रौक्षीः किं᳘ द्विती᳘यं किं᳘ तृती᳘यमेतां दि᳘शमु᳘दौक्षीः कि᳘ञ्जघ᳘नेनाहवनी᳘यमपो᳘ न्यनैषीः[[!!]] किᳫँ᳭ स᳘मतिष्ठिपो य᳘दि वा᳘ ऽएत᳘द्विद्वा᳘नग्निहोत्रम᳘हौषीर᳘थ ते हुतं य᳘द्यु वा ऽअ᳘विद्वान᳘हुतमेव᳘ त ऽइ᳘ति॥
मूलम् - श्रीधरादि
कि᳘ᳫँ᳘ हुत्वा प्र᳘कम्पयसि॥
किᳫँ᳭ स्रु᳘चं परिमृ᳘ज्य कूर्च्चे᳘ न्यमार्ज्जीः[[!!]] किं᳘ द्विती᳘यम्परिमृ᳘ज्य दक्षिणतो ह᳘स्तमु᳘पासीषदः किं पू᳘र्व्वं प्रा᳘शीः किं᳘ द्विती᳘यं कि᳘मुत्सृ᳘प्यापाः कि᳘ᳫँ᳘ स्रु᳘च्यप᳘ ऽआनी᳘य[[!!]] नि᳘रौक्षीः किं᳘ द्विती᳘यं किं᳘ तृती᳘यमेतां दि᳘शमु᳘दौक्षीः कि᳘ञ्जघ᳘नेनाहवनी᳘यमपो᳘ न्यनैषीः[[!!]] किᳫँ᳭ स᳘मतिष्ठिपो य᳘दि वा᳘ ऽएत᳘द्विद्वा᳘नग्निहोत्रम᳘हौषीर᳘थ ते हुतं य᳘द्यु वा ऽअ᳘विद्वान᳘हुतमेव᳘ त ऽइ᳘ति॥
मूलम् - Weber
कि᳘ᳫं᳘ हुत्वा प्र᳘कम्पयसि॥
किᳫं स्रु᳘चम् परिमृ᳘ज्य कूर्चे न्य᳘मार्जीः किं᳘ द्विती᳘यम् परिमृ᳘ज्य दक्षिणतो ह᳘स्तमु᳘पासीषदः किम् पू᳘र्वम् प्रा᳘शीः किं᳘ द्विती᳘यं कि᳘मुत्सृ᳘प्यापाः कि᳘ᳫं᳘ स्रुच्य᳘प᳘ आनी᳘य नि᳘रौक्षीः किं᳘ द्विती᳘यं किं᳘ तृती᳘यमेतां दि᳘शमु᳘दौक्षीः किं᳘ जघ᳘नेनाहवनी᳘यमपो न्य᳘नैषीः किᳫं स᳘मतिष्ठिपो य᳘दि वा᳘ एत᳘द्विद्वा᳘नग्निहोत्रम᳘हौषीर᳘थ ते हुतं य᳘द्यु वा अ᳘विद्वान᳘हुतमेव᳘ त इ᳘ति॥
मूलम् - विस्वरम्
किं हुत्वा प्रकंपयसि २३ । किं स्रुचं परिमृज्य कूर्च्चे न्यमार्जीः २४ । किं द्वितीयं परिमृज्य दक्षिणतो हस्तमुपासीषदः २५ । किं पूर्वं प्राशीः २६ । किं द्वितीयम् २७ । किमुत्सृप्यापाः २८ । किं स्रुच्यप आनीय निरौक्षीः २९ । किं द्वितीयं किं तृतीयमेतां दिशमुदौक्षीः ३० । ३१ । किं जघनेनाहवनीयमपो न्यनैषीः ३२ । किं समतिष्ठिपः ३३ । यदि वा एतद्विद्वानग्निहोत्रमहौषीः । अथ ते हुतम् । यद्यु वा अविद्वान्, अहुतमेव त इति ॥ ४ ॥
सायणः
द्वितीयामाहुतिं ‘हुत्वा’ किंकारणं स्रुचं ‘कंपयसि’ चालयसि । ‘स्रुचं परिमृज्य’ स्रुङ्मुखलेपस्य परिमार्जनं कृत्वा कुशमये ‘कूर्चे न्यमार्जीः’ निमृष्टवानसि । ‘दक्षिणतः’ वेदेर्दक्षिणभागे ‘हस्तमुपासीषदः’ उपसादितवानसि । ‘उत्सृप्य’ वेदिसमीपादुत्सर्पणं कृत्वा ‘अपाः’ पानं कृतवानसि । ‘निरौक्षीः’ निष्कृष्य उक्षणं सेचनं कृतवानसि । ‘न्यनैषीः’ निनयनं कृतवानसि । ‘समतिष्ठिपः’ संस्थापितवानसि । स्थापयतेर्लुङि “तिष्ठतेरित्" (पा. सू. ७ । ४ । ५) इतीत्त्वम् । यदि वा एतदित्यादि । एतत्पृष्टमर्थजातं ‘विद्वान्’ जानन् यद्यग्निहोत्रं ‘अहौषीः’ हुतवानसि- अथ तदेव ‘ते’ तवाग्निहोत्रं सम्यक् ‘हुतं’ भवति । अजानानस्य तु हुतमप्यहुतमेव तद्भवतीत्यर्थः ॥ ४ ॥
Eggeling
- ‘Why, having offered, dost thou shake it (the spoon)? why, having cleansed the spoon all round (the spout), didst thou wipe it on the grass-bunch? why, having cleansed it a second time all over, didst thou place thy hand on the south (part of the Vedi)? why didst thou eat (of the milk) the first time, and why the second time? why, on creeping away (from the Vedi), didst thou drink (water)? why, having poured water into the spoon, didst thou sprinkle therewith? why didst thou sprinkle it away a second time, and why a third time in that (northerly) direction? why didst thou pour down water behind the Āhavanīya? why didst thou bring (the offering) to a close? If thou hast offered the Agnihotra knowing this, then it has indeed been offered by thee;
but if (thou hast offered it) not knowing this, then it has not been offered by thee.’
०५
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
(चे᳘) इ᳘डैव᳘ मे मान᳘व्यग्निहोत्री᳘[[!!]] व्वाय᳘व्व्यो व्वत्सः᳘ सजूरु᳘पसृष्टा व्विरा᳘ट् संय्यो᳘जनमाश्विनं᳘ दुह्य᳘मानं व्वैश्वदेवं᳘ दुग्धं᳘ व्वाय᳘व्व्यमाह्रिय᳘माणमाग्नेयम᳘धिश्रितमैन्द्राग्न᳘मवज्योत्य᳘मानं[[!!]] व्वारुण᳘मद्भिः᳘ प्रत्या᳘नीतं व्वाय᳘व्व्यमुद्वास्य᳘मानं[[!!]] द्यावापृथि᳘व्व्यमु᳘द्वासितमाश्विन᳘मुन्नीय᳘मानं[[!!]] व्वैश्वदेवमु᳘न्नीतं महादेवायो᳘द्यतं व्वाय᳘व्वयᳫँ᳭[[!!]] ह्रिय᳘माणं व्वैष्णवं नि᳘गृहीतम्॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
(चे᳘) इ᳘डैव᳘ मे मान᳘व्यग्निहोत्री᳘[[!!]] व्वाय᳘व्व्यो व्वत्सः᳘ सजूरु᳘पसृष्टा व्विरा᳘ट् संय्यो᳘जनमाश्विनं᳘ दुह्य᳘मानं व्वैश्वदेवं᳘ दुग्धं᳘ व्वाय᳘व्व्यमाह्रिय᳘माणमाग्नेयम᳘धिश्रितमैन्द्राग्न᳘मवज्योत्य᳘मानं[[!!]] व्वारुण᳘मद्भिः᳘ प्रत्या᳘नीतं व्वाय᳘व्व्यमुद्वास्य᳘मानं[[!!]] द्यावापृथि᳘व्व्यमु᳘द्वासितमाश्विन᳘मुन्नीय᳘मानं[[!!]] व्वैश्वदेवमु᳘न्नीतं महादेवायो᳘द्यतं व्वाय᳘व्वयᳫँ᳭[[!!]] ह्रिय᳘माणं व्वैष्णवं नि᳘गृहीतम्॥
मूलम् - Weber
स᳘ होवाच॥
इ᳘डैव᳘ मे मानव्य᳘ग्निहोत्री᳘ वायॗव्यो वत्सः᳘ सजूरु᳘पसृष्टा विरा᳘ट् संयो᳘जनमाश्विनं᳘ दुह्य᳘मानं वैश्वदेवं᳘ दुग्धं᳘ वायव्य᳘माह्रिय᳘माणमाग्नेयम᳘धिश्रितमैन्द्राग्न᳘मवज्योत्यम्नानं वारुण᳘मद्भिः᳘ प्रत्या᳘नीतं वायव्य᳘मुद्वास्य᳘मानं द्यावापृथिव्य᳘मु᳘द्वासितमाश्विन᳘मुन्नीय᳘मानं वैश्वदेवमु᳘न्नीतम् महादेवायो᳘द्यतं वायव्य᳘ᳫं᳘ ह्रिय᳘माणं वैष्णवं नि᳘गृहीतम्॥
मूलम् - विस्वरम्
स होवाच- इडैव मे मानव्यग्निहोत्री १ । वायव्यो वत्सः २ । सजूरुपसृष्टा ३ । विराट् संयोजनम् ४ । आश्विनं दुह्यमानम् ५ । वैश्वदेवं दुग्धम् ६ । वायव्यमाह्रियमाणम् ७ । आग्नेयमधिश्रितम् ८ । ऐंद्राग्नमवज्योत्यमानम् ९ । वारुणमद्भिः प्रत्यानीतम् १० । वायव्यमुद्वास्यमानम् ११ । द्यावापृथिव्यमुद्वासितम् १२ । आश्विनमुन्नीयमानम् १३ । वैश्वदेवमुन्नीतम् १४ । महादेवायोद्यतम् १५ । वायव्यं ह्रियमाणम् १६ । वैष्णवं निगृहीतम् १७ ॥ ५ ॥
सायणः
एवं प्राचीनयोग्येन पृष्टानर्थान् उद्दालकः क्रमेण प्रतिवक्ति- स होवाचेत्यादिना । ‘सः’ उद्दालकः ‘उवाच’ ‘मानवी’ मनोर्दुहिता ‘इडा’ सा देवतैव ‘मे’ ममाग्निहोत्री । ‘वत्सो वायव्यः’ वायुदेवताकः । ‘सजूः’ वायुना संसृष्टा द्यौरेव ‘उपसृष्टा’ धेनुः । इयं दशाक्षरा ‘विराट्’ एतदेव ‘संयोजनं’ दाम । ‘दुह्यमानं’ दुह्यमानावस्थं पयः ‘आश्विनं’ अश्विनोः प्रीतिकरम् । एवं ‘वैश्वदेवं दुग्धं’ इत्यादावपि योग्यम् । वायव्यमाह्रियमाणमिति । वायुर्देवता अस्य तद्वायव्यम् । आग्नेयमधिश्रितमित्यादावपि “सा ऽस्य देवता”- (पा. सूं. ४ । २ । २४) इति देवतार्थे ढगादयस्तद्धिताः । महादेवायोद्यतमिति । महादेवो रुद्रः तदर्थमुद्धृतं गार्हपत्यदेशादुद्धृतावस्थम् ॥ ५ ॥
Eggeling
- He (Uddālaka) said, ‘My Agnihotra cow is Iḍā, Manu’s daughter 7; my calf is of Vāyu’s nature; the (cow) joined by the calf is in conjunction therewith 8; their meeting is the Virāj; (the milk) when being milked belongs to the Aśvins, and when it has been milked, to the Viśve Devāḥ; when brought (from the stable) it belongs to Vāyu; when put on (the fire), to Agni; when the light is thrown on it, it belongs to Indra and Agni; when water is poured thereto it belongs to Varuṇa; when being taken off (the fire), to Vāyu; when it has been taken off, to Heaven and Earth; when being ladled out, to the Aśvins; when it has been ladled out, to the Viśve Devāḥ; when lifted up, to Mahādeva; when being taken (to the Āhavanīya), to Vāyu; when held down, to Vishṇu.
०६
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ या᳘ᳫँ᳘ समि᳘धमाद᳘धामि॥
(म्या᳘) आ᳘हुतीनाᳫँ᳭ सा᳘ प्रतिष्ठा या पूर्व्वा᳘ ऽऽहुतिर्द्दे᳘वाँस्त᳘या ऽप्रैषं य᳘दुपा᳘सीषदं बार्हस्पत्यं तद्य᳘दपै᳘क्षिषीम᳘ञ्चामु᳘ञ्च लोकौ ते᳘न स᳘मधां यो᳘त्तरा᳘ ऽऽहुतिर्म्मां त᳘या स्वर्ग्गे᳘ लो᳘के ऽधाम्॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ या᳘ᳫँ᳘ समि᳘धमाद᳘धामि॥
(म्या᳘) आ᳘हुतीनाᳫँ᳭ सा᳘ प्रतिष्ठा या पूर्व्वा᳘ ऽऽहुतिर्द्दे᳘वाँस्त᳘या ऽप्रैषं य᳘दुपा᳘सीषदं बार्हस्पत्यं तद्य᳘दपै᳘क्षिषीम᳘ञ्चामु᳘ञ्च लोकौ ते᳘न स᳘मधां यो᳘त्तरा᳘ ऽऽहुतिर्म्मां त᳘या स्वर्ग्गे᳘ लो᳘के ऽधाम्॥
मूलम् - Weber
अ᳘थ या᳘ᳫं᳘ समि᳘धमाद᳘धामि॥
आ᳘हुतीनाᳫं सा᳘ प्रतिष्ठा या पूर्वा᳘हुतिर्देवांस्त᳘याप्रैषं य᳘दुपा᳘सीषदम् बार्हस्पत्यं तद्य᳘दपै᳘क्षिषीमं᳘ चामुं᳘ च लोकौ ते᳘न स᳘मधां यो᳘त्तरा᳘हुतिर्मां त᳘या स्वर्गे᳘ लोॗकेऽधाम्॥
मूलम् - विस्वरम्
अथ यां समिधमादधामि, आहुतीनां सा प्रतिष्ठा १८ । या पूर्वा ऽऽहुतिः । देवांस्तया ऽप्रैषम् १९ । यदुपासीषदम्, बार्हस्पत्यं तत् २० । यदपैक्षिषि, इमं चामुं च लोकौ तेन समधाम् २१ । योत्तरा ऽऽहुतिः । मां तया स्वर्गे लोके ऽधाम् २२ ॥ ६ ॥
सायणः
कां समिधमित्यादेरुत्तरमाह- अथ यां समिधमादधामीति । ‘प्रतिष्ठा’ आधारः । समिदभावे हि आहुतिद्रव्यं भूमौ पतेत्, सत्यां त्वस्यां तदुपरि हूयमाना आहुतिः प्रतिष्ठिताः भवति । या पूर्वा ऽऽहुतिरित्यादि । अग्निरूपेण स्थितान् ‘देवान् तया’ पूर्वाहुत्या ‘अप्रैषं’ तृप्तानकार्षम् । “प्रीञ् तर्पणे”- (धा. पा. क्र्या. उ. २) इत्यस्माल्लुङ् । ‘यदुपासीषदं’ उपासादितवानस्मि स्रुचं ‘तद् बार्हस्पत्यं’ बृहस्पतिप्रीतिकरम् । ‘यदपैक्षिषि’ गार्हपत्यस्य ईक्षणं कृतवानस्मि ‘तेन इमं’ भूलोकम् ‘अमुं’ द्युलोकं स्वर्लोकं च ‘समधाम्’ समयोजयम् । या द्वितीया ‘आहुतिः’ ‘तया स्वर्गे लोके’ ‘मामधाम्’ स्थापितवानस्मि ॥ ६ ॥
Eggeling
- ‘And the log I put on (the fire) is the resting-place of the libations; and as to the first libation, I therewith gratified the gods; and when I laid down (the spoon with the milk), that belongs to Br̥haspati; and when I looked away, then I joined together this and yonder world; and as to the second libation, I thereby settled myself in the heavenly world.
०७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ य᳘द्धुत्वा᳘ प्रकम्प᳘यामि॥
व्वाय᳘व्व्यं[[!!]] तद्यत्स्रु᳘चम्परिमृ᳘ज्य कूर्च्चे न्य᳘मार्ज्जिषमोषधिवनस्पतींस्ते᳘नाप्रैषं य᳘द्द्विती᳘यम्परिमृ᳘ज्य दक्षिणतो ह᳘स्तमुपा᳘सीषदम्पितॄँस्ते᳘नाप्रैषं यत्पू᳘र्व्वं प्रा᳘शिषं मां ते᳘नाप्रैषं य᳘द्द्विती᳘यम्प्रजां तेना᳘थ य᳘दुत्सृप्या᳘पां पशूँस्ते᳘नाप्रैषं य᳘त्स्रु᳘च्यप᳘ ऽआनी᳘य[[!!]] निरौ᳘क्षिषᳫँ᳭ सर्प्पदेवजनाँस्ते᳘नाप्रैषं य᳘द्द्विती᳘यं गन्धर्व्वाप्सर᳘सस्तेना᳘थ य᳘त्तृती᳘यमेतां दि᳘शमुदौ᳘क्षिषᳫँ᳭ स्वर्ग्ग᳘स्य लोक᳘स्य ते᳘न द्वा᳘रं व्व्यवारिषं[[!!]] य᳘ज्जघ᳘नेनाहवनी᳘यमपो न्य᳘नैषमस्मै᳘ लोका᳘य ते᳘न व्वृ᳘ष्टिमदां य᳘त्सम᳘तिष्ठिपं य᳘त्पृथिव्या᳘ ऽऊनं तत्ते᳘नापूपुरमि᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ य᳘द्धुत्वा᳘ प्रकम्प᳘यामि॥
व्वाय᳘व्व्यं[[!!]] तद्यत्स्रु᳘चम्परिमृ᳘ज्य कूर्च्चे न्य᳘मार्ज्जिषमोषधिवनस्पतींस्ते᳘नाप्रैषं य᳘द्द्विती᳘यम्परिमृ᳘ज्य दक्षिणतो ह᳘स्तमुपा᳘सीषदम्पितॄँस्ते᳘नाप्रैषं यत्पू᳘र्व्वं प्रा᳘शिषं मां ते᳘नाप्रैषं य᳘द्द्विती᳘यम्प्रजां तेना᳘थ य᳘दुत्सृप्या᳘पां पशूँस्ते᳘नाप्रैषं य᳘त्स्रु᳘च्यप᳘ ऽआनी᳘य[[!!]] निरौ᳘क्षिषᳫँ᳭ सर्प्पदेवजनाँस्ते᳘नाप्रैषं य᳘द्द्विती᳘यं गन्धर्व्वाप्सर᳘सस्तेना᳘थ य᳘त्तृती᳘यमेतां दि᳘शमुदौ᳘क्षिषᳫँ᳭ स्वर्ग्ग᳘स्य लोक᳘स्य ते᳘न द्वा᳘रं व्व्यवारिषं[[!!]] य᳘ज्जघ᳘नेनाहवनी᳘यमपो न्य᳘नैषमस्मै᳘ लोका᳘य ते᳘न व्वृ᳘ष्टिमदां य᳘त्सम᳘तिष्ठिपं य᳘त्पृथिव्या᳘ ऽऊनं तत्ते᳘नापूपुरमि᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - Weber
अ᳘थ य᳘द्धुत्वा᳘ प्रकम्प᳘यामि॥
वायव्यं᳘ तद्यत्स्रु᳘चम् परिमृ᳘ज्य कूर्चे न्य᳘मार्जिषधिवनस्पतींस्ते᳘नाप्रैषं य᳘द्द्विती᳘यम् परिमृ᳘ज्य दक्षिणतो ह᳘स्तमुपा᳘सीषदं पितॄंस्ते᳘नाप्रैषं यत्पू᳘र्वम् प्रा᳘शिषम् मां ते᳘नाप्रैषं य᳘द्द्विती᳘यम् प्रजां तेना᳘थ य᳘दुत्सृप्या᳘पाम् पशूंस्ते᳘नाप्रैषं य᳘त्स्रुच्य᳘प᳘ आनी᳘य निरौ᳘क्षिषᳫं सर्पदेवजनांस्ते᳘नाप्रैषं य᳘द्द्विती᳘यं गन्धर्वाप्सर᳘सस्तेना᳘थ य᳘त्तृती᳘यमेतां दि᳘शमुदौ᳘क्षिषᳫं स्वर्ग᳘स्य लोक᳘स्य ते᳘न द्वा᳘रं व्य᳘वारिषं य᳘ज्जघ᳘नेनाहवनी᳘यमपो न्य᳘नैषमस्मै᳘ लोका᳘य ते᳘न वृ᳘ष्टिमदां य᳘त्सम᳘तिष्ठिपं य᳘त्पृथिव्या᳘ ऊनं तत्ते᳘नापूपुरमि᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - विस्वरम्
अथ यद्धुत्वा प्रकंपयामि, वायव्यं तत् २३ । यत्स्रुचं परिमृज्य कूर्चे न्यमार्जिषम्, ओषधिवनस्पतीस्तेनाप्रैषम् २४ । यद्द्वितीयं परिमृज्य दक्षिणतो हस्तमुपासीषदं, पितॄँस्तेनाप्रैषम् २५ । यत्पूर्वं प्राशिषं, मां तेनाप्रैषम् २६ । यद्द्वितीयं, प्रजां तेन २७ । अथ यदुत्सृप्यापां, पशूँस्तेनाप्रैषम् २८ । यत्स्रुच्यप आनीय निरौक्षिषं, सर्पदेवजनाँस्तेनाप्रैषम् २९ । यद्द्वितीयं, गन्धर्वाप्सरसस्तेन ३० । अथ यत्तृतीयमेतां दिशमुदौक्षिषं, स्वर्गस्य लोकस्य तेन द्वारं व्यवारिषम् ३१ । यज्जघनेनाहवनीयमपो न्यनैषम्, अस्मै लोकाय तेन वृष्टिमदाम् ३२ । यत्समतिष्ठिपं, यत्पृथिव्या ऊनं तत्तेनापूपुरम् ३३ । इत्येतन्नौ भगवन् सहेति होवाच ॥ ७ ॥
सायणः
प्राशनयोः क्रमेण प्रयोजनमाह- यत्पूर्वं प्राशिषमिति । ‘अथ’ यदुत्सर्पणानंतरं स्रुच्यं हुतशेषं ‘अपां’ पीतवानस्मि तेन ‘पशून्’ तृप्तानकार्षम् । प्रथमस्योक्षणस्य प्रयोजनमाह- यत्स्रुच्यप इति । स्रुच्युदकमादाय यन्निरौक्षिषं ‘तेन सर्पदेवजनान्’ सर्पणशीलानां प्राणिनां मध्ये ये देवजना उत्कृष्टाः तानप्रैषम् । द्वितीयतृतीययोरुक्षणयोः प्रयोजनमाह- यद्द्वितीयमिति । एतां दिशमिति । एतच्छब्देन उत्तरा दिगभिधीयते । ‘एतां’ उदीचीं ‘दिशं’ ‘उदौक्षिषं’ उर्ध्वमुक्षणं कृतवानस्मि इति यत् ‘तेन स्वर्गस्य लोकस्य द्वारं’ प्रवेशनमार्गं ‘व्यवारिषं’ विवृतमुद्घाटितं कृतवानस्मि । ‘आहवनीयं जघनेन’ आहवनीयस्य पश्चाद्भागे ‘अपो न्यनैषं’ इति यत् ‘तेनास्मै’ भूलोकाय ‘वृष्टिमदाम्’ दत्तवानस्मि । यदंततः संस्थापनं ‘तेन पृथिव्याः’ संबंधि ‘यत्’ किंचिन्न्यूनं तत्सर्वम् ‘अपूपुरम्’ पूरितवानस्मि । एतन्नौ भगवन्नित्यादि । हे भगवन्नुद्दालक ! भवतोक्तमेतत्सर्वं ‘नौ’ आवयोः ‘सह’ सहितं समानमेकरूपमिति शौचेयः ‘ह’ उक्तवान् ॥ ७ ॥
Eggeling
- ‘And when, having offered, I shake (the spoon), that belongs to Vāyu; and when, having cleansed the spoon all round (the spout), I wiped it on the grass-bunch, then I gratified the herbs and trees;
and when, having cleansed it a second time all over, I placed my hand on the south (part of the altar-ground), then I gratified the Fathers 9; and when I ate (of the milk) the first time, then I gratified myself; and when (I ate) a second time, then I gratified my offspring; and when, having crept away (from the altar-ground), I drank (water), then I gratified the cattle; and when, having poured water into the spoon, I sprinkled therewith, then I gratified the snake-deities; and when (I sprinkled) a second time, then (I gratified) the Gandharvas and Apsaras; and when, a third time, I sprinkled it away in that (northerly) direction, then I opened the gate of heaven; and when I poured down water behind the altar, then I bestowed rain on this world; and when I brought (the sacrifice) to a close, then I filled up whatever there is deficient in the earth.’–‘This much, then, reverend sir, we two (know) in common 10,’ said (Śauceya).
०८
विश्वास-प्रस्तुतिः
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘स्मिन्काल ऽउ᳘द्धृतास्ते ऽग्न᳘यः स्यु᳘रुपा᳘वहृतानि पा᳘त्राणि होष्यन्त्स्या ऽअ᳘थ त᳘ ऽआहवनी᳘यो ऽनुग᳘च्छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भवती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्य ज्येष्ठः᳘ पुत्रो᳘ म्रियेत य᳘स्यैतद᳘विदितᳫँ᳭ स्या᳘द्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति प्राण᳘ ऽउदानम᳘प्यगादि᳘ति गा᳘र्हपत्य ऽआ᳘हुतिं जुहुया᳘ᳫँ᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - श्रीधरादि
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘स्मिन्काल ऽउ᳘द्धृतास्ते ऽग्न᳘यः स्यु᳘रुपा᳘वहृतानि पा᳘त्राणि होष्यन्त्स्या ऽअ᳘थ त᳘ ऽआहवनी᳘यो ऽनुग᳘च्छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भवती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्य ज्येष्ठः᳘ पुत्रो᳘ म्रियेत य᳘स्यैतद᳘विदितᳫँ᳭ स्या᳘द्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति प्राण᳘ ऽउदानम᳘प्यगादि᳘ति गा᳘र्हपत्य ऽआ᳘हुतिं जुहुया᳘ᳫँ᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - Weber
शौचेयो᳘ ज्ञप्तः᳟॥
प्रक्ष्या᳘मिॗ त्वेव भ᳘गवन्तमि᳘ति पृॗछैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘स्मिन्काल उ᳘द्धृतास्तेऽग्न᳘यः स्यु᳘रुपा᳘वहृतानि 11 पा᳘त्राणि होष्यन्त्स्या अ᳘थ त आहवनी᳘योऽनुग᳘छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भवती᳘ति वेदे᳘ति होवाच पुरा᳘ चिरा᳘दस्य ज्येष्ठः᳘ पुत्रो᳘ म्रियेत य᳘स्यैतद᳘विदितᳫं स्या᳘द्विद्या᳘भिॗस्त्वेॗवाह᳘मतारिषमि᳘ति किं᳘ विदितं का प्रा᳘यश्चित्तिरि᳘ति प्राण᳘ उदानम᳘प्यगादि᳘ति गा᳘र्हपत्य आ᳘हुतिं जुहुयाॗᳫंॗ सैव प्रा᳘यश्चित्तिर्न तदा᳘गः कुर्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - विस्वरम्
शौचेयो ज्ञप्तः । प्रक्ष्यामि त्वेव भगवन्तमिति । पृच्छैव प्राचीनयोग्येति । स होवाच- यस्मिन् काल ऽउद्धृतास्ते ऽग्नयः स्युः; उपावहृतानि पात्राणि होष्यन्त्स्याः । अथ त आहवनीयो ऽनुगच्छेत् । वेत्थ तद्भयम् । यदत्र जुह्वतो भवतीति । वेदेति होवाच । पुरा ऽचिरादस्य ज्येष्ठः पुत्रो म्रियेत । यस्यैतदविदितं स्यात् । विद्याभिस्त्वेवाहमतारिषमिति । किं विदितम् । का प्रायश्चित्तिरिति । “प्राण उदानमप्यगात्”- इति गार्हपत्य आहुतिं जुहुयाम् । सैव प्रायश्चित्तिः । न तदागः कुर्वीय । इत्येतन्नो भगवन्त्सह इति होवाच ॥ ८ ॥
सायणः
अन्यं प्रश्नं प्रदर्शयितुं प्रस्तौति- शौचेयो ज्ञप्त इति । उक्ताग्निहोत्रविषये ‘ज्ञप्तो’ बोधितः ‘शौचेयः’ पुनरप्याह- हे उद्दालक ! ‘भगवन्तं’ त्वां पुनः ‘प्रक्ष्यामि’ । अभ्यनुज्ञानार्थमेतद्वाक्यम् । सो ऽपि प्रश्नान्तरमप्यजानादित्याह- पृच्छैव प्राचीनयोग्येति । ममाभ्यनुज्ञानार्थशंकया मा भैषीरित्यर्थः । स होवाचेत्यादि । ‘सः’ प्राचीनयोग्यः ‘उवाच’ पप्रच्छ । ‘यस्मिन् काले’ आहवनीयाद्याः ‘अग्नयः’ ‘ते’ तव संबंधिनो गार्हपत्यादुद्धृताः । ‘पात्राणि’ स्रुक्स्रुवादीनि ‘उपावहृतानि’ स्वस्थाने आसादितानि । त्वमपि ‘होष्यन् स्याः’ । ‘अथ’ अस्मिन् समये ‘ते’ तव ‘आहवनीयो ऽनुगच्छेत्’ शाम्येत् । अत्रास्मिन् विषये ‘जुह्वतः’ होमं कुर्वतो यजमानस्य ‘यद्भयं भवति’ ‘तत् किं वेत्थ’ जानासि, इत्युद्दालकं संबोध्य कृतः प्रश्नः । तस्योत्तरमुद्दालको ब्रूते- वेदेति होवाचेति । ‘वेद’ वेद्मि । उत्तमे लटि रूपम् । तदेव भयस्वरूपमाह- पुरा ऽचिरादिति । ‘पुरा’ आगामिनि काले अचिरादविलंबेनैव ‘अस्य’ होतुः ‘ज्येष्ठः पुत्रो म्रियेत’ । ‘यस्य’ यजमानस्य ‘एतत्’ वक्ष्यमाणं प्रायश्चित्तं ‘अविदितं’ अविज्ञातं ‘स्यात्’ तस्यायं दोषः । ‘अहम्’ तु ‘विद्याभिः’ प्रायश्चित्तगोचरज्ञानैरेव एतद्भयं ‘अतारिषं’ अतिक्रांतवानस्मि ‘इति’ प्राचीनयोग्यमाह । तत्र ‘किं विदितं’ ज्ञातं एतद्भयनिवारणोपायभूतं कर्म । तेन कर्मणा प्रकृतस्य दोषस्य ‘का’ प्रायश्चित्तिभूता शांतिरिति पृष्टः तां प्रायश्चित्तिमाह- प्राण उदानमप्यगादिति । अनेन मंत्रेण ‘गार्हपत्ये आहुतिं जुहुयाम्’ एतस्मिन्निमित्ते अहं हुतवानस्मि । ‘सैव’ तस्य दोषस्य ‘प्रायश्चित्तिः’ भवति । तत्तस्मात् आगो ऽपराधं प्रागुक्तलक्षणं ‘न कुर्वीय’ न करवाणीति । एवं प्रत्युक्ते सति एतदावयोः समानमिति साम्येन प्रत्यवतिष्ठते- एतन्नौ भगवन्त्सहेति । एतदुक्तं अग्निहोत्रहोमकाले आहवनीयानुगतिविषयं प्रायश्चित्तं हे भगवन्नुद्दालक ! ‘नौ’ आवयोः ‘सह’ सहितं समानमिति बोधितः शौचेयः पुनरन्यं प्रश्नं पप्रच्छेत्यर्थः ॥ ८ ॥
Eggeling
- Śauceya, thus instructed, said, ‘I would yet ask thee a question, reverend sir.’–‘Ask then, Prācīnayogya!’ he replied. He (Śauceya) said, ‘If, at the time when thy fires are taken out, and the sacrificial vessels brought down, thou wert going to offer, and the offering-fire were then to go out, dost thou know what danger there is in that case for him who offers?’ ‘I know,’ he replied; ‘before long the eldest son would die in the case of him who would
not know this; but by dint of knowledge I myself have prevailed.’–‘What is that knowledge, and what the atonement?’ he asked.–‘The breath of the mouth has entered the upward breathing–such (is the knowledge); and I should make the offering in the Gārhapatya fire–that would be the atonement, and I should not be committing that sin.’–‘This much, then, reverend sir, we two (know) in common,’ said (Śauceya).
०९
विश्वास-प्रस्तुतिः
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव᳘ काले गा᳘र्हपत्यो ऽनुग᳘च्छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भ᳘वती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्य गृह᳘पतिर्म्रियेत य᳘स्यैतद᳘विदितᳫँ᳭ स्या᳘द्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘त्युदानः᳘ प्राणम᳘प्यगादि᳘त्याहवनी᳘य ऽआ᳘हुतिं जुहुया᳘ᳫँ᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - श्रीधरादि
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव᳘ काले गा᳘र्हपत्यो ऽनुग᳘च्छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भ᳘वती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्य गृह᳘पतिर्म्रियेत य᳘स्यैतद᳘विदितᳫँ᳭ स्या᳘द्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘त्युदानः᳘ प्राणम᳘प्यगादि᳘त्याहवनी᳘य ऽआ᳘हुतिं जुहुया᳘ᳫँ᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - Weber
शौचेयो᳘ ज्ञप्तः᳟॥
प्रक्ष्या᳘मिॗ त्वेव भ᳘गवन्तमि᳘ति पृॗछैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त एत᳘स्मिन्नेव᳘ काले गा᳘र्हपत्योऽनुग᳘द्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भ᳘वती᳘ति वेदे᳘ति होवाच पुरा᳘ चिरा᳘दस्य गृह᳘पतिर्म्रियेत य᳘स्यैतद᳘विदितᳫं स्याद्विद्या᳘भिॗस्त्वेॗवाह᳘मतारिषमि᳘ति किं᳘ विदितं का प्रा᳘यश्चित्तिरि᳘त्युदानः᳘ प्राणम᳘प्यगादि᳘त्याहवनी᳘य आ᳘हुतिं जुहुयाॗᳫंॗ सैव प्रा᳘यश्चित्तिर्न तदा᳘गः कुर्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - विस्वरम्
शौचेयो ज्ञप्तः । प्रक्ष्यामि त्वेव भगवन्तमिति । पृच्छैव प्राचीनयोग्येति । स होवाच- यत्र त एतस्मिन्नेव काले गार्हपत्यो ऽनुगच्छेत् । वेत्थ तद्भयम् । यदत्र जुह्वतो भवतीति । वेदेति होवाच । पुरा ऽचिरादस्य गृहपतिर्म्रियेत । यस्यैतदविदितं स्यात् । विद्याभिस्त्वेवाहमतारिषमिति । किं विदितम् । का प्रायश्चित्तिरिति । “उदानः प्राणमप्यगात्”- इत्याहवनीय आहुतिं जुहुयाम् । सैव प्रायश्चित्तिः । न तदागः कुर्वीय । इत्येतन्नौ भगवन्त्सह इति होवाच ॥ ९ ॥
सायणः
प्रक्ष्यामि त्वेवेति । शापभयात्प्रश्नानभ्यनुज्ञाने पृच्छैवेति तदभ्यनुज्ञानम् । स होवाचेत्यादिना प्रश्नः । एवमुत्तरेष्वपि पर्यायेषु योज्यम् । यः अयमाहवनीयानुगतौ प्रागुक्तः कालः ‘एतस्मिन्नेव काले’ हे उद्दालक ! ‘ते’ तव यदि ‘गार्हपत्यः अनुगच्छेत्’ शाम्येत् । वेत्थ तद्भयमित्यादि पूर्ववत् । पुरा ऽचिरादस्येत्यादि । ‘पुरा’ पूर्वस्मिन्नागामिनि काले ‘अचिरात्’ क्षिप्रमेव ‘अस्य’ जुह्वतो ऽध्वर्योः ‘गृहपतिः’ यजमानः ‘म्रियेत’ मृतो भवेत् । यस्यैतदित्यादि गतम् । अस्मिन् गार्हपत्यानुगमने सति “उदानः प्राणमप्यगात्” इत्याहवनीये ‘आहुतिं जुहुयाम्’ हुतवानस्मि । ‘सैव’ तस्य गार्हपत्यानुगमनस्य ‘प्रायश्चित्तिः’ तत्तावदागो ऽपराधं ‘न कुर्वीयेति’ न कुर्यामिति । अनेनाभिप्रायेणोक्तप्रायश्चित्तकरणम् । एतदपि मया ज्ञातमेव त्वयोच्यते । न तत्र भवत आधिक्यमिति प्रत्यवतिष्ठते- एतन्नौ भगवन्त्सहेति ॥ ९ ॥
Eggeling
- Śauceya, thus instructed, said, ‘I would yet ask thee a question, reverend sir.’–‘Ask then, Prācīnayogya!’ he replied. He said, ‘If, at that very time, the Gārhapatya fire were to go out, dost thou know what danger there is in that case for him who offers? I know it,’ he replied; ‘before long the master of the house 12 would die in the case of him who would not know this; but by dint of knowledge I myself have prevailed.’–‘What is that knowledge, and what the atonement?’ he asked.–‘The upward breathing has entered the breath of the mouth–this (is the knowledge); and I would make the offering on the Āhavanīya–this would be the atonement, and I should not be committing that sin.’–‘This much, then, reverend sir, we two (know) in common,’ said (Śauceya).
१०
विश्वास-प्रस्तुतिः
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव[[!!]] का᳘ले ऽन्वाहार्य्यप᳘चनो ऽनुग᳘च्छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भ᳘वती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्य स᳘र्व्वे पश᳘वो म्रियेरन्य᳘स्यैतद᳘विदितᳫँ᳭ स्या᳘द्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति व्व्यान᳘ ऽउदानम᳘प्यगादि᳘ति गा᳘र्हपत्य ऽआ᳘हुतिं जुहुया᳘ᳫँ᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - श्रीधरादि
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव[[!!]] का᳘ले ऽन्वाहार्य्यप᳘चनो ऽनुग᳘च्छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भ᳘वती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्य स᳘र्व्वे पश᳘वो म्रियेरन्य᳘स्यैतद᳘विदितᳫँ᳭ स्या᳘द्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति व्व्यान᳘ ऽउदानम᳘प्यगादि᳘ति गा᳘र्हपत्य ऽआ᳘हुतिं जुहुया᳘ᳫँ᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - Weber
शौचेयो᳘ ज्ञप्तः᳟॥
प्रक्ष्या᳘मिॗ त्वेव भ᳘गवन्तमि᳘ति पृॗछैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त एत᳘स्मिन्नेव᳘ काॗलेऽन्वा?आर्यप᳘चनोऽनुग᳘छेद्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भ᳘वती᳘ति वेदे᳘ति होवाच पुरा᳘ चिरा᳘दस्य स᳘र्वे पश᳘वो म्रियेरन्य᳘स्यैतद᳘विदितᳫं स्या᳘द्विद्या᳘भिॗस्त्वेॗवाह᳘मतारिषमि᳘ति किं᳘ विदितं का प्रा᳘यश्चित्तिरि᳘ति व्यान᳘ उदानम᳘प्यगादि᳘ति गा᳘र्हपत्य आ᳘हुतिं जुहुयाॗᳫंॗ सैव प्रा᳘यश्चित्तिर्न तदा᳘गः कुर्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - विस्वरम्
शौचेयो ज्ञप्तः । प्रक्ष्यामि त्वेव भगवन्तमिति । पृच्छैव प्राचीनयोग्येति । स होवाच- यत्र त एतस्मिन्नेव काले ऽन्वाहार्यपचनो ऽनुगच्छेत् । वेत्थ तद्भयम् । यदत्र जुह्वतो भवतीति । वेदेति होवाच । पुरा ऽचिरादस्य सर्वे पशवो म्रियेरन्; यस्यैतदविदितं स्यात् । विद्याभिस्त्वेवाहमतारिषमिति । किं विदितम् । का प्रायश्चित्तिरिति । “व्यान उदानमप्यगात्” इति गार्हपत्य आहुतिं जुहुयाम् । सैव प्रायश्चित्तिः । न तदागः कुर्वीय । इत्येतन्नौ भगवन्त्सह इति होवाच ॥ १० ॥
सायणः
पुनरन्यत् प्रष्टुं प्रस्तौति- प्रक्ष्यामि त्वेवेति । यत्र त इत्यादि । ‘यत्र’ यस्मिन् ‘एतस्मिन्नेव’ प्रागुक्ते होमकाले ‘अन्वाहार्यपचनः’ दक्षिणाग्निरनुगच्छेत् । वेत्थेत्यादि पूर्ववत् । भयस्वरूपमाह- पुरा ऽचिरादस्येति । ‘सर्वे’ गवाद्याः पशवः । व्याख्यातचरमन्यत् । प्रायश्चित्तस्वरूपमाह- व्यान उदानमप्यगादिति । अनेन मंत्रेण ‘गार्हपत्ये’ आज्याहुतिं ‘जुहुयाम्’ जुहवानि । सैव प्रायश्चित्तिरित्यादि पूर्ववत् ॥ १० ॥
Eggeling
- Śauceya, thus instructed, said, ‘I would yet ask thee a question, reverend sir.’–‘Ask then, Prācīnayogya!’ he replied. He said, ‘If, at that very time, the Anvāhāryapacana fire were to go out, dost thou know what danger there is in that case for him who offers?’–‘I know it,’ he replied; ‘before long all the cattle would die in the case of him who would
not know this; but by dint of knowledge I myself have prevailed.’–‘What is that knowledge, and what the atonement?’ he asked.—‘The through-breathing has entered the upward breathing–this (is the knowledge); and I would make the offering on the Gārhapatya fire–this is the atonement; and I should not be committing that sin.’–‘This much, then, reverend sir, we two (know) in common,’ said (Śauceya).
११
विश्वास-प्रस्तुतिः
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव᳘ भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव᳘ काले स᳘र्व्वे ऽग्न᳘यो ऽनुग᳘च्छेयुर्व्वे᳘त्थ त᳘द्भयं यद᳘त्र जुह्वतो[[!!]] भ᳘वती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्यादायादं कु᳘लᳫँ᳭ स्याद्य᳘स्यैतद᳘विदितᳫँ᳭ स्याद्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति पुरा᳘ ऽचिरा᳘दग्निं᳘ मथित्वा यां दि᳘शं व्वा᳘तो व्वायात्तां दि᳘शमाहवनी᳘यमुद्धृ᳘त्य व्वाय᳘व्यामा᳘हुतिं जुहुयाᳫँ᳭ स᳘ व्विद्याᳫँ᳭ स᳘मृद्धं मे ऽग्निहोत्र᳘ᳫँ᳘ सर्व्वदेव᳘त्यं व्वायु᳘ᳫँ᳘ ह्येव स᳘र्व्वाणि भूता᳘न्यपिय᳘न्ति[[!!]] व्वायोः पु᳘नर्व्विसृज्य᳘न्ते᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - श्रीधरादि
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव᳘ भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव᳘ काले स᳘र्व्वे ऽग्न᳘यो ऽनुग᳘च्छेयुर्व्वे᳘त्थ त᳘द्भयं यद᳘त्र जुह्वतो[[!!]] भ᳘वती᳘ति व्वेदे᳘ति होवाच पुरा᳘ ऽचिरा᳘दस्यादायादं कु᳘लᳫँ᳭ स्याद्य᳘स्यैतद᳘विदितᳫँ᳭ स्याद्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमि᳘ति किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति पुरा᳘ ऽचिरा᳘दग्निं᳘ मथित्वा यां दि᳘शं व्वा᳘तो व्वायात्तां दि᳘शमाहवनी᳘यमुद्धृ᳘त्य व्वाय᳘व्यामा᳘हुतिं जुहुयाᳫँ᳭ स᳘ व्विद्याᳫँ᳭ स᳘मृद्धं मे ऽग्निहोत्र᳘ᳫँ᳘ सर्व्वदेव᳘त्यं व्वायु᳘ᳫँ᳘ ह्येव स᳘र्व्वाणि भूता᳘न्यपिय᳘न्ति[[!!]] व्वायोः पु᳘नर्व्विसृज्य᳘न्ते᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - Weber
शौचेयो᳘ ज्ञप्तः᳟॥
प्रक्ष्या᳘मिॗ त्वेव᳘ भ᳘गवन्तमि᳘ति पृॗछैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त एत᳘स्मिन्नेव᳘ काले स᳘र्वेऽग्न᳘योऽनुग᳘छेयुर्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भ᳘वती᳘ति वेदे᳘ति होवाच पुरा᳘ चिरा᳘दस्यादायादं कु᳘लᳫं स्याद्य᳘स्यैतद᳘विदितᳫं स्याद्विद्या᳘भिॗस्त्वेॗवाह᳘मतारिषमि᳘ति किं᳘ विदितं का प्रा᳘यश्चित्तिरि᳘ति पुरा᳘ चिरा᳘दग्नि᳘म् मथित्वा यां दि᳘शं वा᳘तो वायात्तां दि᳘शमाहवनी᳘यमुद्धृ᳘त्य वायॗव्यामा᳘हुतिं जुहुयाᳫं स᳘ विद्याᳫं स᳘मृद्धम् मेऽग्निहोत्र᳘ᳫं᳘ सर्वदेव᳘त्यं वायुॗᳫंॗ ह्येव स᳘र्वाणि भूता᳘न्यपि᳘य᳘न्ति वायोः पु᳘नर्विसृज्य᳘न्तेॗ सैव प्रा᳘यश्चित्तिर्न तदा᳘गः कुर्वी᳘ये᳘त्येत᳘न्नौ भगवन्त्सहे᳘ति होवाच॥
मूलम् - विस्वरम्
शौचेयो ज्ञप्तः । प्रक्ष्यामि त्वेव भगवंतमिति । पृच्छैव प्राचीनयोग्येति । स होवाच । यत्र त एतस्मिन्नेव काले सर्वे ऽग्नयो ऽनुगच्छेयुः । वेत्थ तद्भयम् । यदत्र जुह्वतो भवतीति । वेदेति होवाच । पुरा ऽचिरादस्या ऽदायादं कुलं स्यात्, यस्यैतदविदितं स्यात् । विद्याभिस्त्वेवाहमतारिषमिति । किं विदितम् । का प्रायश्चित्तिरिति । पुरा ऽचिरादग्निं मथित्वा, यां दिशं वातो वायात्, तां दिशमाहवनीयमुद्धृत्य वायव्यामाहुतिं जुहुयाम् । स विद्यां समृद्धं मे ऽग्निहोत्रं सर्वदेवत्यम् । वायुं ह्येव सर्वाणि भूतान्यपियंति । वायोः पुनर्विसृज्यंते । सैव प्रायश्चित्तिः । न तदागः कुर्वीय । इत्येतन्नौ भगवन्त्सह इति होवाच ॥ ११ ॥
सायणः
एवमेकैकानुगतौ प्रश्नप्रतिवचनाभ्यां प्रायश्चित्तं निरूप्य कृत्स्नानुगतिविषयं प्रायश्चित्तं विवक्षन् प्रस्तौति- प्रक्ष्यामि त्वेवेत्यादिना । ‘यत्रैतस्मिन्’ प्रागुक्ते होमकाले ‘ते’ तव आहवनीयादयः ‘सर्वे ऽग्नयो ऽनुगच्छेयुः’ शाम्येयुः । वेत्थ तद्भयमित्यादि पूर्ववत् । भयस्वरूपमाह- पुरा ऽचिरादस्येति । ‘पुरा’ पूर्वस्मिन्नागामिनि काले ‘अस्य’ वक्ष्यमाणं सर्वानुगतिविषयं प्रायश्चित्तं अविदुषो यजमानस्य ‘कुलमदायादं’ दायादा ज्ञातयः तच्छून्यं स्यात् । गोत्रविच्छेदो भवेदित्यर्थः । यस्यैतदित्यादि पूर्ववत् । प्रायश्चित्तस्वरूपमाह- पुरा ऽचिरादिति । ‘पुरा’ पूर्वं ‘अचिरात्’ क्षिप्रम् । भस्मसमारोपणपूर्वमग्निं ‘मथित्वा’ ‘वातः’ वायुः ‘यां दिशं’ ‘वायाद्’ गच्छेत् । “वा गतिगंधनयोः”- (धा. पा. अ. प. ४०) इति धातुः । ‘तां’ दिशमभिलक्ष्य आहवनीयमग्निमुद्धृत्य ‘वायव्यां’ वायुदेवताकां “वायवे स्वाहा” इति मंत्रेणाहुतिं ‘जुहुयाम्’ जुहवानि । ‘समृद्धं’ संपूर्णमित्याहुतिक्रियाविशेषणम् । ‘अग्निहोत्रं सर्वदेवत्यं’ नित्यकालं ‘वायुमेव’ ‘अपियंति’ ‘भूतानि’ लयकाले वायुमेव ‘अपियंति’ प्राप्नुवंति । सृष्टिकाले तस्माद्वायोः ‘पुनर्विसृज्यंते’ विविधमुत्पद्यंते अतः सर्वदेवतारूपो वायुः । तद्देवता सा या आहुतिः ‘सैव’ सर्वानुगमविषये ‘प्रायश्चित्तिः’ । न तदागः कुर्वीयेत्यादि पूर्ववत् ॥ ११ ॥
Eggeling
- Śauceya, thus instructed, said, ‘I would yet ask thee a question, reverend sir.’–‘Ask, then, Prācīnayogya!’ he replied. He said, ‘If, at that very time, all the fires were to go out, dost thou know what danger there is in that case for him who offers?’–‘I know it,’ he replied; ‘before long the family would be without heirs in the case of him who would not know this; but by dint of knowledge I myself have prevailed.’–‘What is that knowledge, and what the atonement?’ he asked.–‘Having, without delay, churned out fire, and taken out an offering-fire in whatever direction the wind might be blowing, I would perform an offering to Vāyu (the wind): I would then know that my Agnihotra would be successful, belonging as it would to all deities; for all beings, indeed, pass over into the wind, and from out of the wind they are again produced 13. This would be the atonement, and I should not be committing that sin.’–‘This much, then, reverend sir, we two (know) in common,’ said (Śauceya).
१२
विश्वास-प्रस्तुतिः
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव᳘ काले᳘ निवाते स᳘र्व्वे ऽग्न᳘यो ऽनुग᳘च्छेयुर्व्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भवती᳘ति व्वेदे᳘ति होवाचा᳘प्रियमे᳘वास्मिल्ँ᳘लोके प᳘श्येता᳘प्रियममु᳘ष्मिन्य᳘स्यैतद᳘विदितᳫँ᳭ स्याद्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमिति[[!!]] किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति पुरा᳘ ऽचिरा᳘दग्निं᳘ मथित्वा प्रा᳘ञ्चमाहवनी᳘यमुद्धृ᳘त्य जघ᳘नेनाहवनी᳘यमुपवि᳘श्याह᳘मे᳘वैनत्पिबेयᳫँ᳭ स᳘ व्विद्याᳫँ᳭ स᳘मृद्धं मे ऽग्निहोत्र᳘ᳫँ᳘ सर्व्वदेव᳘त्यं ब्राह्मण᳘ᳫँ᳘[[!!]] ह्येव स᳘र्व्वाणि भूता᳘न्यपियं᳘ति ब्राह्मणात्पु᳘नर्व्विसृज्य᳘न्ते᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीयेत्य᳘थ वा᳘ ऽअह᳘मेत᳘न्नावेदिषमि᳘ति होवाच॥
मूलम् - श्रीधरादि
शौचेयो᳘ ज्ञप्तः᳘॥
प्रक्ष्या᳘मि᳘ त्वेव भ᳘गवन्तमि᳘ति पृ᳘च्छैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त ऽएत᳘स्मिन्नेव᳘ काले᳘ निवाते स᳘र्व्वे ऽग्न᳘यो ऽनुग᳘च्छेयुर्व्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भवती᳘ति व्वेदे᳘ति होवाचा᳘प्रियमे᳘वास्मिल्ँ᳘लोके प᳘श्येता᳘प्रियममु᳘ष्मिन्य᳘स्यैतद᳘विदितᳫँ᳭ स्याद्विद्या᳘भि᳘स्त्वे᳘वाह᳘मतारिषमिति[[!!]] किं᳘ व्विदितं का प्रा᳘यश्चित्तिरि᳘ति पुरा᳘ ऽचिरा᳘दग्निं᳘ मथित्वा प्रा᳘ञ्चमाहवनी᳘यमुद्धृ᳘त्य जघ᳘नेनाहवनी᳘यमुपवि᳘श्याह᳘मे᳘वैनत्पिबेयᳫँ᳭ स᳘ व्विद्याᳫँ᳭ स᳘मृद्धं मे ऽग्निहोत्र᳘ᳫँ᳘ सर्व्वदेव᳘त्यं ब्राह्मण᳘ᳫँ᳘[[!!]] ह्येव स᳘र्व्वाणि भूता᳘न्यपियं᳘ति ब्राह्मणात्पु᳘नर्व्विसृज्य᳘न्ते᳘ सैव प्रा᳘यश्चित्तिर्न्न तदा᳘गः कुर्व्वीयेत्य᳘थ वा᳘ ऽअह᳘मेत᳘न्नावेदिषमि᳘ति होवाच॥
मूलम् - Weber
शौचेयो᳘ ज्ञप्तः᳟॥
प्रक्ष्या᳘मिॗ त्वेव भ᳘गवन्तमि᳘ति पृॗछैव᳘ प्राचीनयोग्ये᳘ति स᳘ होवाच य᳘त्र त एत᳘स्मिन्नेव काले᳘ निवाते स᳘र्वेऽग्न᳘योऽनुग᳘छेयुर्वे᳘त्थ त᳘द्भयं यद᳘त्र जु᳘ह्वतो भवती᳘ति वेदे᳘ति होवाचा᳘प्रियमेॗवास्मिं᳘लोके प᳘श्येता᳘प्रियममुष्मिन्य᳘स्यैतद᳘विदितᳫं स्याद्विद्या᳘भिॗस्त्वेॗवाह᳘मतारिषमि᳘ति किं᳘ विदितं का प्रा᳘यश्चित्तिरि᳘ति पुरा᳘ चिरा᳘दग्नि᳘म् मथित्वा प्रा᳘ञ्चमाहवनी᳘यमुद्धृ᳘त्य जघ᳘नेनाहवनी᳘यमुपवि᳘श्याह᳘मेॗवैनत्पिबेयᳫं स᳘ विद्याᳫं स᳘मृद्धम् मेऽग्निहोत्र᳘ᳫं᳘ सर्वदेव᳘त्यम् ब्राह्मॗणᳫं ह्येव स᳘र्वाणि भूता᳘न्यपिय᳘न्ति ब्राह्मणात्पु᳘नर्विसृज्य᳘न्तेॗ सैव प्रा᳘यश्चित्तिर्न तदा᳘गः कुर्वीयेत्य᳘थ वा᳘ अह᳘मेतॗन्नावेदिषमि᳘ति होवाच॥
मूलम् - विस्वरम्
शौचेयो ज्ञप्तः । प्रक्ष्यामि त्वेव भगवंतमिति । पृच्छैव प्राचीनयोग्येति । स होवाच- यत्र त एतस्मिन्नेव काले सर्वे ऽग्नयो ऽनुगच्छेयुः । वेत्थ तद्भयम् । यदत्र जुह्वतो भवतीति । वेदेति होवाच । अप्रियमेवास्मिन् लोके पश्येत, अप्रियममुष्मिन्, यस्यैतदविदितं स्यात् । विद्याभिस्त्वेवाहमतारिषमिति । किं विदितम् । का प्रायश्चित्तिरिति । पुरा ऽचिरादग्निं मथित्वा प्रांचमाहवनीयमुद्धृत्य जघनेनाहवनीयमुपविश्य अहमेवैतत् पिबेयम् । स विद्यां समृद्धं मे ऽग्निहोत्रं सर्वदेवत्यम् । ब्राह्मणं ह्येव सर्वाणि भूतान्यपियंति । ब्राह्मणात्पुनर्विसृज्यन्ते । सैव प्रायश्चित्तिः । न तदागः कुर्वीयेति । अथ वा अहमेतन्नावेदिषम् । इति होवाच ॥ १२ ॥
सायणः
पूर्वोक्त एव विषये यदि वातो न स्यात् तदा किं कर्तव्यमिति पृच्छति- यत्र त एतस्मिन्निति । ‘निवाते’ वातरहिते देशे । व्याख्यातमन्यत् । भयस्वरूपमाह- अप्रियमेवास्मिन्निति । प्रियं सुखं ‘अप्रियं’ तद्विरुद्धं दुःखमेव ‘अस्मिन्’ भूलोके ‘पश्येत’ अमुष्मिन्परलोके ऽपि अप्रियमेव पश्येत । यस्यैतदविदितमित्यादि पूर्ववत् । प्रायश्चित्तस्वरूपमाह- पुरा ऽचिरादित्यादि पूर्ववत् । ‘अग्निं मथित्वा’ वाताभावे प्राग्दिक्संबंधिनमाहवनीयमुद्धृत्य ‘जघनेनाहवनीयम्’ आहवनीयस्य पश्चाद्भागे ‘उपविश्य’ ‘अहमेव’ ‘एतत्’ अग्निहोत्रार्थं पयः ‘पिबेयम्’ ‘सः’ अहं ‘विद्याम्’ जानीयाम् । ‘मे’ ममाग्निहोत्रं ‘सर्वदेवत्यं’ सर्वदेवताप्रीतिकरं सत् ‘समृद्धं’ संपूर्णमिति । सर्वदेवत्यत्वमुपपादयति- ब्राह्मणं ह्येवेति । ब्राह्मणमेव ‘हि सर्वाणि भूतानि अपियंति’ प्रलयकाले प्राप्नुवंति । सृष्टिकाले तस्मात्पुनर्विसृज्यंते । ब्राह्मणानुष्ठितसत्कर्मपरिपाकवशेन हि अखिलं जगत् सृष्टिप्रलयमेतीत्यभिप्रायः । एवं ‘ज्ञप्तः’ बोधितः ‘शौचेयः’ आह स्म । अथ खलु अहमेतत् चरमोक्तं प्रायश्चित्तं ‘नावेदिषम्’ नाज्ञासिषमिति ॥ १२ ॥
Eggeling
- Śauceya, thus instructed, said, ‘I would yet ask thee a question, reverend sir.’–‘Ask then, Prācīnayogya!’
he replied. He said, ‘If at that very time all the fires were to go out, when there should be no wind blowing, dost thou know what danger there would be for him who offers?’–‘I know it,’ he replied; ‘unpleasant things, indeed, he would see in this world, and unpleasant things in yonder world, were he not to know this; but by dint of knowledge I myself have prevailed.’–‘What is that knowledge, and what the atonement?’ he asked.–‘Having, without delay, churned out fire, and taken out an offering-fire towards the east, and sat down behind it, I myself would drink (the Agnihotra milk): I should then know that my Agnihotra would be successful, belonging as it would to all deities, for all beings, indeed, pass into the Brāhmaṇa 14, and from the Brāhmaṇa they are again produced. That would be the atonement; and I should not be committing that sin.’–‘And, verily, I did not know this,’ said (Śauceya).
१३
विश्वास-प्रस्तुतिः
शौचेयो᳘ ज्ञप्तः᳘॥
(ऽ) इमा᳘नि समित्काष्ठान्यु᳘पायानि भ᳘गवन्तमि᳘ति स᳘ होवाच य᳘देवं ना᳘वक्ष्यो मूर्द्धा ते व्व्यपतिष्यदेह्यु᳘पेही᳘ति[[!!]] तथे᳘ति तᳫँ᳭ हो᳘पनिन्ये त᳘स्मै हैता᳘ᳫँ᳘ शोकतरां व्व्या᳘हृतिमुवाच य᳘त्सत्यं त᳘स्मादु सत्य᳘मेव᳘ व्वदेत्॥
मूलम् - श्रीधरादि
शौचेयो᳘ ज्ञप्तः᳘॥
(ऽ) इमा᳘नि समित्काष्ठान्यु᳘पायानि भ᳘गवन्तमि᳘ति स᳘ होवाच य᳘देवं ना᳘वक्ष्यो मूर्द्धा ते व्व्यपतिष्यदेह्यु᳘पेही᳘ति[[!!]] तथे᳘ति तᳫँ᳭ हो᳘पनिन्ये त᳘स्मै हैता᳘ᳫँ᳘ शोकतरां व्व्या᳘हृतिमुवाच य᳘त्सत्यं त᳘स्मादु सत्य᳘मेव᳘ व्वदेत्॥
मूलम् - Weber
शौचेयो᳘ ज्ञप्तः᳟॥
इमा᳘नि समित्काष्ठान्यु᳘पायानि भ᳘गवन्तमि᳘ति स᳘ होवाच य᳘देवं ना᳘वक्ष्यो मूर्धा᳘ ते व्य᳘पतिष्यदेह्यु᳘पेही᳘ति तथे᳘ति तᳫं हो᳘पनिन्ये त᳘स्मै हैतां᳘ शोकतरां व्या᳘हृतिमुवाच य᳘त्सत्यं त᳘स्मादु सत्य᳘मेव᳘ वदेत्॥
मूलम् - विस्वरम्
शौचेयो ज्ञप्तः । इमानि समित्काष्ठान्युपायानि भगवंतमिति । स होवाच- यदेवं नावक्ष्यः । मूर्द्धा ते व्यपतिष्यत् । एहि उपेहीति । तथेति तं होपनिन्ये । तस्मै हैतां शोकतरां व्याहृतिमुवाच । यत्सत्यम् । तस्मादु सत्यमेव वदेत् ॥ १३ ॥
सायणः
अत इमां विद्यां भवत्सकाशादधिगन्तुम् ‘इमानि’ समित्काष्ठादीनि गृहीत्वा ‘भगवन्तं’ ज्ञानातिशयवंतं त्वां ‘उपायानि’ उपगच्छामीति । अनंतरमुद्दालकः ‘उवाच’ ‘यदेवं नावक्ष्यः’ यद्येवमज्ञानं नाविष्करोषि ‘ते मूर्द्धा व्यपतिष्यत्’ अधिपतेत् । तन्मूर्द्धपतनं स्वाज्ञानप्रकटनेन अत्रभवता परिहृतमिति भावः । क्रियातिपत्तौ लृङ् । हे शौचेय ! ‘एहि’ आगच्छ, ‘उपेहि’ समिद्धस्तः सन् मत्समीपं प्राप्नुहि । इत्थं तथेत्यंगीकृत्य शौचेयं उद्दालकः ‘उपनिन्ये’ उपनीतं कृतवान् । उपनीय च ‘तस्मै’ शौचेयाय ‘एतां शोकतरां’ शोकः पापं तत्तरणसमर्थां ‘व्याहृतिं’ ‘उवाच’ ‘यत्सत्यं’ या सत्यवदनरूपा व्याहृतिः तामित्यर्थः । अतः सत्यवदनं परमो धर्म इति निगमयति- तस्मादु सत्यमेवेति ॥ १३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे पंचमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (११ । ५ । ३) ॥
Eggeling
- Śauceya, thus instructed, said, ‘Here are logs for fuel: I will become thy pupil, reverend sir.’ He replied, ‘If thou hadst not spoken thus, thy head would have flown off 15: come, enter as my pupil!’–‘So be it,’ he said. He then initiated him, and taught him that pain-conquering utterance, Truth: therefore let man speak naught but truth 16.
-
79:3 Sāyaṇa takes ‘brahmodyam agnihotram’ together, in the sense ’the sacred truth’ regarding (or, in the form of) the Agnihotra,–agnihotravishayaṁ brahmodyaṁ brahmatattvasya rūpaṁ pratipādyate yena tad vividishāmi tadvishayaṁ vedanecchāṁ karishyāmītyādinābhiprāyeṇāgataḥ. Unless ‘brahmodyam’ could be taken as an adjective, I do not see how it is possible to adopt Sāyaṇa’s interpretation. ↩︎
-
79:4 For letting the light of a burning straw fall on the milk to see whether it is done, see II, 3, 1, 16. ↩︎
-
80:1 Viz. by the dipping-spoon (sruva) into the ladle (agnihotrahavanī), see II, 3, 1, 17. ↩︎
-
80:2 Whilst taking the oblation to the Āhavanīya, he holds the spoon level with his mouth, except when he is in a line between the two fires, when for a moment he lowers the spoon so as to be level with his navel. ↩︎
-
80:3 This refers to the putting down of the spoon containing the milk on the grass-bunch prior to the second libation; cf. II, 3, 1, 17. One might also translate, ‘what is that (or does it mean) that thou didst put it down?’ ↩︎
-
80:4 Thus Sāyaṇa,–apaikshishṭḥāḥ gārhapatasyaikshaṇam kr̥tavān asi. ↩︎
-
81:1 See the legend, I, 8, 1, 1 seqq. ↩︎
-
81:2 That is, according to Sāyaṇa, ’the sky allied with Vāyu, the wind,’–vāyunā saṁsr̥shṭā dyauḥ. ↩︎
-
82:1 The departed ancestors are supposed to reside in the southern region. ↩︎
-
82:2 He bhagavann Uddālaka bhavatoktam etat sava (? saha) nāv āvayoḥ saha sahitaṁ samānam ekarūpam iti Śauceyo ha bhuktavān (? hy uktavān) anyapraśnaṁ darśayitaṁ prastauti, Sauceyo jñapta iti, Sāy. ↩︎
-
उपाहृतानि Sây. ibid. (and in the following कण्डिकाः) पुरां अचिरात् Sâyaṇa against the accent. ↩︎
-
83:1 That is, the Sacrificer himself. ↩︎
-
84:1 At the time of dissolution (layakāle) they pass into the wind; and at the time of creation (sr̥shṭikāle) they are again created, Sāy. ↩︎
-
85:1 Viz. as the representative of the Brahman, or world-spirit. ↩︎
-
85:2 Yadaivaṁ nāvakshyaḥ yadaivam ajñānaṁ nāvishkaroshi to mūrdhā vyapatishyat, mūrdhā(va)patanaṁ svajñānaprakaṭanenātrabhavataḥ parihr̥tam iti, Sāy.–Prof. Delbrück, Altind. Syntax, p. 366, takes ‘vi-pat’ in the sense of–(thy head would have) flown asunder, or burst; which is indeed possible; cf. XI, 4, I, 9. ↩︎
-
85:3 Cf. F. Max Müller, ‘India, what can it teach us?’ p. 65 seqq. ↩︎