०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्ह चातुर्म्मास्यै᳘रात्मा᳘नं व्वि᳘दधे॥
स᳘ ऽइम᳘मेव द᳘क्षिणं बाहुं᳘ व्वैश्वदेव᳘ᳫँ᳘ हवि᳘रकुरुत त᳘स्याय᳘मे᳘वाङ्गु᳘ष्ठ ऽआग्नेय᳘ᳫँ᳘ हवि᳘रिद᳘ᳫँ᳘ सौम्य᳘मिदᳫँ᳘ सावित्रम्[[!!]]॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्ह चातुर्म्मास्यै᳘रात्मा᳘नं व्वि᳘दधे॥
स᳘ ऽइम᳘मेव द᳘क्षिणं बाहुं᳘ व्वैश्वदेव᳘ᳫँ᳘ हवि᳘रकुरुत त᳘स्याय᳘मे᳘वाङ्गु᳘ष्ठ ऽआग्नेय᳘ᳫँ᳘ हवि᳘रिद᳘ᳫँ᳘ सौम्य᳘मिदᳫँ᳘ सावित्रम्[[!!]]॥

मूलम् - Weber

प्रजा᳘पतिर्ह चातुर्मास्यै᳘रात्मा᳘नं वि᳘दधे॥
स᳘ इम᳘मेव द᳘क्षिणम् बाहुं᳘ वैश्वदेव᳘ᳫं᳘ हवि᳘रकुरुत त᳘स्याय᳘मेॗवाङ्गु᳘ष्ठ आग्नेय᳘ᳫं᳘ हवि᳘रिद᳘ᳫं᳘ सौम्य᳘मिद᳘ᳫं᳘ सावित्रं᳟॥

मूलम् - विस्वरम्

प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे । स इममेव दक्षिणं बाहुं वैश्वदेवं हविरकुरुत । तस्यायमेवाङ्गुष्ठ आग्नेयं हविः । इदं सौम्यम् । इदं सावित्रम् ॥ १ ॥

सायणः

यथा दर्शपूर्णमासयाजिनः आत्मयाजित्वं देवयाजित्वं चेति द्वैविध्यं दर्शितम्, एवं चातुर्मास्ययाजिनो ऽपि तथात्वं दर्शयितुं तत्रत्यैर्यागैः शरीरावयवकल्पनं आख्यायिकया रचयति- प्रजापतिर्ह चातुर्मास्यैरिति । चतुर्षु चतुर्षु मासेषु क्रियंत इति चातुर्मास्यानि वैश्वदेववरुणप्रघाससाकमेधशुनासीर्याणि तैरात्मानं शरीरं ‘विदधे’ कल्पितवान् । तस्य प्रजापतेः दक्षिणहस्तत्वेन वैश्वदेवाख्यं प्रथमं पर्व कल्पयति- स इममेव दक्षिणं बाहुमिति । इममिति इदंशब्देनाभिधाय निर्द्दिश्यते । आग्नेयादियागात्मकं वैश्वदेवपर्वात्मकं ‘हविर्दक्षिणं बाहुमकुरुत’ तत्राग्नेयादीनि पंच हवींषि अंगुष्ठाद्यंगुलिपंचकत्वेन कल्पयति- तस्यायमेवांगुष्ठ आग्नेयं हविरिति । इदं सौम्यमित्यादिना तदंगुलीनामभिनयेन निर्देशः ॥ १ ॥

Eggeling
  1. By means of the Seasonal sacrifices, Prajāpati fashioned for himself a body. The sacrificial food for the Vaiśvadeva 1 sacrifice he made to be this

right arm of his; the oblation to Agni thereof this thumb; that to Soma this (fore-finger); and that to Savitr̥ this (middle finger).

०२

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स वै व्व᳘र्षिष्ठः पुरोडा᳘शो भवति॥
त᳘स्मादिय᳘मासां व्व᳘र्षिष्ठेद᳘ᳫँ᳘ सारस्वत᳘मिद᳘म्पौष्णम᳘थ य᳘ ऽएष᳘ ऽउप᳘रिष्टाद्ध᳘स्तस्य सन्धिस्त᳘न्मारुत᳘मिदं᳘ व्वैश्वदेवं दो᳘र्द्यावापृथिवी᳘यं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तदनिरुक्तम्[[!!]]॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स वै व्व᳘र्षिष्ठः पुरोडा᳘शो भवति॥
त᳘स्मादिय᳘मासां व्व᳘र्षिष्ठेद᳘ᳫँ᳘ सारस्वत᳘मिद᳘म्पौष्णम᳘थ य᳘ ऽएष᳘ ऽउप᳘रिष्टाद्ध᳘स्तस्य सन्धिस्त᳘न्मारुत᳘मिदं᳘ व्वैश्वदेवं दो᳘र्द्यावापृथिवी᳘यं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तदनिरुक्तम्[[!!]]॥

मूलम् - Weber

स वै व᳘र्षिष्ठः पुरोडा᳘शो भवति॥
त᳘स्मादिय᳘मासां व᳘र्षिष्ठेद᳘ᳫं᳘ सारस्वत᳘मिद᳘म् पौष्णम᳘थ य᳘ एष᳘ उप᳘रिष्टाद्ध᳘स्तस्य संधिस्त᳘न्मारुत᳘मिदं᳘ वैश्वदेवं दो᳘र्द्यावापृथिवी᳘यं तद्वा अ᳘निरुक्तम् भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - विस्वरम्

स वै वर्षिष्ठः पुरोडाशो भवति । तस्मादियमासां वर्षिष्ठा । इदं सारस्वतम् । इदं पौष्णम् । अथ य एष उपरिष्टाद्धस्तस्य संधिस्तन्मारुतम् । इदं वैश्वदेवम् । दोर्द्यावापृथिवीयम् । तद्वा अनिरुक्तं भवति । तस्मात्तदनिरुक्तम् ॥ २ ॥

सायणः

तृतीयस्य हविषो मध्यमांगुलेश्च सारूप्यमाह- स वै वर्षिष्ठ इति । द्वादशसु कपालेषु संस्कार्यतया संख्याधिक्यात् पुरोडाशरूपत्वाच्च हविषो वृद्धतरत्वम् । ‘तस्मात्’ कारणात् ‘इयं’ मध्यमांगुलिरपि आसामंगुलीनां ‘वर्षिष्ठा’ सारस्वतपौष्णे अनामिकाकनिष्ठिके । उत्तरैस्त्रिभिर्हविर्भिस्त्रीनवयवानाह- अथ य एष इति । अंगुलिपंचकोपेतस्य पाणितलस्य उपरिष्टाद्यः ‘संधिस्तन्मारुतम्’ । इदं कूर्परस्थानं ‘वैश्वदेवं’ सप्तमं हविः । तदुपरि दोर्द्दंडः ‘द्यावापृथिवीयं’ हविः । तयोः साम्यमाह- तद्वा अनिरुक्तमिति । द्यावापृथिवीयं हविरुपांशु ‘भवति’ । ‘तस्मात्’ ‘तत्’ करदोःसंधिरूपमंगमपि ‘अनिरुक्तं’ अविस्पष्टं भवति ॥ २ ॥

Eggeling
  1. That cake (to Savitr̥), doubtless, is the largest, and hence this (middle finger) is the largest of these (fingers). That (oblation) to Sarasvatī is this (third) finger; and that to Pūshan this (little finger). And that (oblation) to the Maruts is this joint above the hand (the wrist); and that to the Viśve Devāḥ is this (elbow 2); and that to Heaven and Earth is this arm: this (oblation) is indistinct 3, whence that limb also is indistinct 4.

०३

विश्वास-प्रस्तुतिः

(म) अय᳘मेव द᳘क्षिण ऽऊरु᳘र्व्वरुणप्रघासाः[[!!]]॥
(स्त᳘) त᳘स्य या᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि समायी᳘नि ता᳘ ऽइमाः प᳘ञ्चांगु᳘लयः कुल्फा᳘वे᳘वैन्द्राग्न᳘ᳫँ᳘ हविस्तद्वै᳘ द्विदेव᳘त्यं भवति त᳘स्मादिमौ द्वौ᳘ कुल्फा᳘विदं᳘ व्वारुण᳘मिदं᳘ मारुतम᳘नूकं कायं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - श्रीधरादि

(म) अय᳘मेव द᳘क्षिण ऽऊरु᳘र्व्वरुणप्रघासाः[[!!]]॥
(स्त᳘) त᳘स्य या᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि समायी᳘नि ता᳘ ऽइमाः प᳘ञ्चांगु᳘लयः कुल्फा᳘वे᳘वैन्द्राग्न᳘ᳫँ᳘ हविस्तद्वै᳘ द्विदेव᳘त्यं भवति त᳘स्मादिमौ द्वौ᳘ कुल्फा᳘विदं᳘ व्वारुण᳘मिदं᳘ मारुतम᳘नूकं कायं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - Weber

अय᳘मेव द᳘क्षिण ऊरु᳘र्वरुणप्रघासाः᳟॥
त᳘स्य या᳘नि प᳘ञ्च हवीं᳘षि समायी᳘नि ता᳘ इमाः प᳘ञ्चाङ्गु᳘लयः कुल्फा᳘वेॗवैन्द्राग्न᳘ᳫं᳘ 5 हविस्तद्वै᳘ द्विदेव᳘त्यम् भवति त᳘स्मादिमौ द्वौ᳘ कुल्फा᳘विदं᳘ वारुण᳘मिद᳘म् मारुतम᳘नूकं कायस्तद्वा अ᳘निरुक्तम् भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - विस्वरम्

अयमेव दक्षिण ऊरुर्वरुणप्रघासाः । तस्य यानि पञ्च हवींषि समायीनि । ता इमाः पञ्चाङ्गुलयः । कुल्फावेवैन्द्राग्नं हविः । तद्वै द्विदेवत्यं भवति । तस्मादिमौ द्वौ कुल्फौ । इदं वारुणम् । इदं मारुतम् । अनूकं कायम् । तद्वा अनिरुक्तं भवति । तस्मात्तदनिरुक्तम् ॥ ३ ॥

सायणः

अथ वरुणप्रघासाख्यं द्वितीयं पर्व दक्षिणपादत्वेन कल्पयति- अयमेव दक्षिण ऊरुर्वरुणप्रघासा इति । ऊरुशब्दः कृत्स्नस्य पादस्योपलक्षकः । ‘समायीनि’ पर्वचतुष्टयसंचारीणि ‘यानि’ आग्नेयादीनि ‘पंच हवींषि’ तानि अंगुष्ठादिपञ्चांगुलित्वेन पूर्ववत् कल्पितानि । ‘ऐन्द्राग्नम्’ षष्ठम् ‘हविः’ कुल्फावयवरूपम् । जंघापादतलयोः सन्धिः कुल्फः । देवताद्वित्वेन तत्सारूप्यं संपादयति- तद्वै द्विदेवत्यामिति । ‘इदम्’ जंघारूपमंगं वारुणमकुरुत । ऊर्वात्मकमिदमङ्गं ‘मारुतम्’ । पादस्य मध्यदेहस्य च यः सन्धिस्तदनूकम् ‘कायम्’ कदेवताकं नवमम् हविरकुरुत । पूर्ववत्तयोरनिरुक्तत्वसाम्यमाह- तद्वा अनिरुक्तमिति ॥ ३ ॥

Eggeling
  1. The Varuṇapraghāsa 6 offerings are this right leg,–the five oblations which this has in common (with the other Seasonal offerings) are these five toes; and the oblation to Indra and Agni is the knuckles: this (oblation) belongs to two deities

whence there are these two knuckles. That (oblation) to Varuṇa is this (shank); that to the Maruts this (thigh); and that (cake) to Ka is this back-bone: this (oblation) is indistinct, whence that (back-bone) is indistinct.

०४

विश्वास-प्रस्तुतिः

(म्मु᳘) मु᳘खमे᳘वास्यानीकवती᳘ष्टिः॥
(र्मु᳘) मु᳘खᳫँ᳭ हि᳘ प्राणा᳘नाम᳘नीकमु᳘रः सांतपनीयो᳘रसा हि स᳘मिव तप्य᳘त ऽउद᳘रं गृहमेधी᳘या प्रतिष्ठा वा᳘ ऽउद᳘रं प्र᳘तिष्ठित्या ऽएव᳘ शिश्ना᳘न्ये᳘वास्य क्रैडिन᳘ᳫँ᳘ हविः᳘ शिश्नैर्हि क्री᳘डतीवाय᳘मेवा᳘वाङ्प्राण᳘ ऽआदित्ये᳘ष्टिः॥

मूलम् - श्रीधरादि

(म्मु᳘) मु᳘खमे᳘वास्यानीकवती᳘ष्टिः॥
(र्मु᳘) मु᳘खᳫँ᳭ हि᳘ प्राणा᳘नाम᳘नीकमु᳘रः सांतपनीयो᳘रसा हि स᳘मिव तप्य᳘त ऽउद᳘रं गृहमेधी᳘या प्रतिष्ठा वा᳘ ऽउद᳘रं प्र᳘तिष्ठित्या ऽएव᳘ शिश्ना᳘न्ये᳘वास्य क्रैडिन᳘ᳫँ᳘ हविः᳘ शिश्नैर्हि क्री᳘डतीवाय᳘मेवा᳘वाङ्प्राण᳘ ऽआदित्ये᳘ष्टिः॥

मूलम् - Weber

मु᳘खमेॗवास्यानीकवती᳘ष्टिः॥
मु᳘खᳫं हि᳘ प्राणा᳘नाम᳘नीकमु᳘रः सांतपनीयो᳘रसा हि स᳘मिव तप्य᳘त उद᳘रं गृहमेधी᳘या प्रतिष्ठा वा᳘ उद᳘रम् प्र᳘तिष्ठित्या एव᳘ शिश्ना᳘न्येॗवास्य क्रैडिन᳘ᳫं᳘ हविः᳘ शिश्नैर्हि क्री᳘डतीवाय᳘मेवा᳘वाङ् प्राण᳘ आदित्ये᳘ष्टिः॥

मूलम् - विस्वरम्

मुखमेवास्यानीकवतीष्टिः । मुखं हि प्राणानामनीकम् । उरः सांतपनीया । उरसा हि समिव तप्यते । उदरं गृहमेधीया । प्रतिष्ठा वा उदरम् । प्रतिष्ठित्या एव । शिश्नान्येवास्य क्रैडिनं हविः । शिश्नैर्हि क्रीडतीव । अयमेवावाङ् प्राण आदित्येष्टिः ॥ ४ ॥

सायणः

अथ मध्यशरीरं संपादयति- मुखमेवास्येति । अथ साकमेधेषु “अग्नये ऽनीकवते” इति या ‘अनीकवतीष्टिः’ तां ‘अस्य’ शरीरस्य मुखमेवाकुरुत । ‘हि’ यस्मात् ‘मुखम्’ ‘प्राणानाम्’ चक्षुःश्रोत्रादीनाम् अनीकमास्पदम् । तस्मादनीकवद्गुणविशिष्टावयवत्वेन कल्पयितुं योग्या “मरुद्भ्यः सांतपनेभ्यः” इति विहिता या ‘सांतपनीयेष्टिः’ तदुरः वक्षःस्थानीयमकुरुत । तयोः साधर्म्यमाह- उरसा हीति । ‘उरसा’ हृदयसंबंधात् जठराग्निसन्निधिविशेषाच्च संतापनविषयत्वम् । “मरुद्भ्यो गृहमेधिभ्यः” इति विहिता या ‘इयम्’ गृहमेधीयेष्टिः सा ‘उदरम्’ सा तु खलु ‘प्रतिष्ठा’ भुक्तस्याहारस्याधारः । तस्मात् गृहमेधीयस्य उदररूपत्वम् ‘प्रतिष्ठित्यै एव’ प्रतिष्ठारूपफलाय संपद्यत इत्यर्थः । “मरुद्भ्यः क्रीडिभ्यः” इति विहितं यत् ‘क्रैडिनं हविः’ अस्ति ‘शिश्नान्येवास्य’ प्रजापतेस्तद्धविः । उभयोः सारूप्यमाह- शिश्नैर्हीति । आंडौ लिंगं चेति त्रीणि शिश्नानि । तैर्हि पुरुषः ‘क्रीडतीव’ । अतः क्रीडनसंबंधात् क्रैडिनस्य हविषः तद्रूपता युक्तेत्यर्थः । वायुरूपः अयमवाङ्मुखः ‘प्राणः’ एव ‘आदित्येष्टिः’ । “आदित्यं घृते चरुम्” इति विहितं हि वायुत्वेन निर्मितमित्यर्थः ॥ ४ ॥

Eggeling
  1. The offering to (Agni) Anīkavat (of the Sākamedhāḥ 7), doubtless, is his (Prajāpati’s) mouth, for the mouth is the extreme end (anīka) of the vital airs; the Sāṁtapanīyā (pap) is the chest, for by the chest one is, as it were, confined 8 (saṁ-tap); the Gr̥hamedhīyā (pap) is the belly–to serve as a foundation, for the belly is a foundation; the Kraiḍina oblation is the male organ, for it is therewith that (man) sports (krīḍ), as it were; and the offering to Aditi 9 is this downward breathing.

०५

विश्वास-प्रस्तुतिः

(र) अय᳘मेवो᳘त्तर ऽऊरु᳘र्म्महाहविः[[!!]]॥
(स्त᳘) त᳘स्य या᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि समायी᳘नि ता᳘ ऽइमाः प᳘ञ्चाङ्गु᳘लयः कुल्फा᳘वे᳘वैन्द्राग्न᳘ᳫँ᳘ हविस्तद्वै᳘ द्विदेव᳘त्यं भवति त᳘स्मादिमौ द्वौ᳘ कुल्फा᳘विदं᳘ माहेन्द्र᳘मिदं᳘ व्वैश्वकर्म्मणं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम᳘थ य᳘दिद᳘मन्त᳘रुद᳘रे त᳘त्पितृयज्ञस्तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - श्रीधरादि

(र) अय᳘मेवो᳘त्तर ऽऊरु᳘र्म्महाहविः[[!!]]॥
(स्त᳘) त᳘स्य या᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि समायी᳘नि ता᳘ ऽइमाः प᳘ञ्चाङ्गु᳘लयः कुल्फा᳘वे᳘वैन्द्राग्न᳘ᳫँ᳘ हविस्तद्वै᳘ द्विदेव᳘त्यं भवति त᳘स्मादिमौ द्वौ᳘ कुल्फा᳘विदं᳘ माहेन्द्र᳘मिदं᳘ व्वैश्वकर्म्मणं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम᳘थ य᳘दिद᳘मन्त᳘रुद᳘रे त᳘त्पितृयज्ञस्तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - Weber

अय᳘मेवो᳘त्तर ऊरु᳘र्महाहविः᳟॥
त᳘स्य या᳘नि प᳘ञ्च हवीं᳘षि समायी᳘नि ता᳘ इमाः प᳘ञ्चाङ्गु᳘लयः कुल्फा᳘वेॗवैन्द्राग्न᳘ᳫं᳘ हविस्तद्वै᳘ द्विदेव᳘त्यम् भवति त᳘स्मादिमौ द्वौ᳘ कुल्फा᳘विद᳘म् माहेन्द्र᳘मिदं᳘ वैश्वकर्मणं तद्वा अ᳘निरुक्तम् भवति त᳘स्मात्तद᳘निरुक्तम᳘थ य᳘दिद᳘मन्त᳘रुद᳘रे त᳘त्पितृयज्ञस्तद्वा अ᳘निरुक्तम् भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - विस्वरम्

अयमेवोत्तर ऊरुर्महाहविः । तस्य यानि पंच हवींषि समायीनि । ता इमाः पञ्चाङ्गुलयः । कुल्फावेवैन्द्राग्नं हविः । तद्वै द्विदेवत्यं भवति । तस्मादिमी द्वौ कुल्फौ । इदं माहेन्द्रम् । इदं वैश्वकर्मणम् । तद्वा अनिरुक्तं भवति । तस्मात्तदनिरुक्तम् । अथ यदिदमन्तरुदरे । तत्पितृयज्ञः । तद्वा अनिरुक्तं भवति । तस्मात्तदनिरुक्तम् ॥ ५ ॥

सायणः

एवं साकमेधेषु बर्हिस्तंत्रवर्तिभिर्यागैर्मध्यशरीरस्य कॢप्तिं विधाय वामपादस्य कॢप्तिमाह- अयमेवोत्तर ऊरुर्महाहविरिति । महाहविरिति वैश्वदेववरुणप्रघासशब्दवत् साकमेधाख्यस्य प्रधानस्य पर्वणो नामधेयम् । तस्य यानीत्यादि पूर्ववत् । इदं माहेन्द्रमिदं वैश्वकर्मणमिति । इदंशब्देनाभिनयात् जंघाया ऊरोश्च कॢप्तिः । वैश्वकर्मणैककपालस्य हविषः ऊरुसंधेश्च अनिरुक्तत्वसाम्यमाह- अनिरुक्तं भवतीति । उक्तार्थमेतत् । अथ यदिदमन्तरुदर इति । ‘उदरे’ अंतर्मध्ये ‘यदिदम्’ अंत्रपुरीतदादिकमस्ति ‘तत्पितृयज्ञः’ उदरमध्यवर्त्यवयवत्वेन पितृयज्ञः कल्पित इत्यर्थः । पितृयज्ञस्योपांशुप्रचरणमुक्तम्, तदनूद्य उक्तावयवसाम्यं संपादयति- तद्वा अनिरुक्तं भवतीति । ‘तस्मात्’ कारणात् ‘तत्’ उदरमध्यवर्ति अवयवजातम् । गतमन्यत् ॥ ५ ॥

Eggeling
  1. The Great Oblation, indeed, is this left leg,–the five oblations which it has in common (with the other Seasonal offerings) are these five toes; and the oblation to Indra and Agni is the knuckles: this (oblation) belongs to two deities whence there are

these two knuckles. The (oblation) to Mahendra is this (shank); that to Viśvakarman this (thigh): this (oblation) is indistinct, whence this (thigh) also is indistinct.

०६

विश्वास-प्रस्तुतिः

(म) अय᳘मेवो᳘त्तरो बाहुः᳘ शुनासीरी᳘यम्॥
(न्त᳘) त᳘स्य या᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि समायी᳘नि ता᳘ ऽइमाः प᳘ञ्चाङ्गु᳘लयो᳘ ऽथ य᳘ ऽएष᳘ उप᳘रिष्टाद्ध᳘स्तस्य सन्धिस्त᳘च्छुनासीरी᳘यमिदं᳘ व्वाय᳘व्व्यं[[!!]] दोः᳘ सौर्य्यं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - श्रीधरादि

(म) अय᳘मेवो᳘त्तरो बाहुः᳘ शुनासीरी᳘यम्॥
(न्त᳘) त᳘स्य या᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि समायी᳘नि ता᳘ ऽइमाः प᳘ञ्चाङ्गु᳘लयो᳘ ऽथ य᳘ ऽएष᳘ उप᳘रिष्टाद्ध᳘स्तस्य सन्धिस्त᳘च्छुनासीरी᳘यमिदं᳘ व्वाय᳘व्व्यं[[!!]] दोः᳘ सौर्य्यं तद्वा ऽअ᳘निरुक्तं भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - Weber

अय᳘मेवो᳘त्तरो बाहुः᳘ शुनासीरी᳘यम्॥
त᳘स्य या᳘नि प᳘ञ्च हवीं᳘षि समायी᳘नि ता᳘ इमाः प᳘ञ्चाङ्गु᳘लयो᳘ऽथ य᳘ एष᳘ उप᳘रिष्टाद्ध᳘स्तस्य संधिस्त᳘छुनासीरी᳘यमिदं᳘ वायव्यं᳘ दोः᳘ सौर्यं तद्वा अ᳘निरुक्तम् भवति त᳘स्मात्तद᳘निरुक्तम्॥

मूलम् - विस्वरम्

अयमेवोत्तरो बाहुः शुनासीरीयम् । तस्य यानि पञ्च हवींषि समायीनि । ता इमाः पञ्चाङ्गुलयः । अथ य एष उपरिष्टाद्धस्तस्य सन्धिः । तच्छुनासीरीयम् । इदं वायव्यम् । दोः सौर्यम् । तद्वा अनिरुक्तं भवति । तस्मात्तदनिरुक्तम् ॥ ६ ॥

सायणः

अथ सव्यबाहोः कृतिमाह- अयमेवोत्तरो बाहुरिति । यच्छुनासीरीयाख्यं चतुर्थं पर्व स वामबाहुः कल्पित इत्यर्थः । तस्य यानीत्यादि पूर्ववत् । उपरिष्टाद्धस्तस्येत्यादि । पाणितलस्य ‘यदुपरिष्टात्संधिः’ मणिबंधस्थानम् ‘तच्छुनासीरीयम्’ हविः । ‘इदम्’ कूर्परम् ‘वायव्यम्’ वायुदेवताकं हविः । सौर्यमेककपालं हविः ‘दोः’ भुजमूलम् । तद्वा अनिरुक्तमित्यादि पूर्ववत् ॥ ६ ॥

Eggeling
  1. The Śunāsīrīya 10, doubtless, is this left arm,–the five oblations which it has in common (with the other Seasonal offerings) are these five fingers; the Śunāsīrīya is that joint of his above the hand; that (oblation) to Vāyu is this (elbow); that to Sūrya this arm: this (oblation) is indistinct, whence this (limb) also is indistinct.

०७

विश्वास-प्रस्तुतिः

(न्ता᳘) ता᳘नि वा᳘ ऽएता᳘नि॥
चातुर्म्मास्या᳘नि त्रि᳘षन्धीनि द्विसमस्ता᳘नि त᳘स्मादिमा᳘नि पु᳘रुषस्या᳘ङ्गानि त्रि᳘षन्धीनि द्विसमस्ता᳘नि ते᳘षां वै᳘ चतुर्ण्णां द्व᳘योस्त्री᳘णि त्रीणि हवीᳫँ᳭ष्य᳘निरुक्तानि भवन्ति द्वे᳘ द्वे द्व᳘योः॥ अर्द्धः प्रपाठकः ॥ कंडिकाः ५६॥

मूलम् - श्रीधरादि

(न्ता᳘) ता᳘नि वा᳘ ऽएता᳘नि॥
चातुर्म्मास्या᳘नि त्रि᳘षन्धीनि द्विसमस्ता᳘नि त᳘स्मादिमा᳘नि पु᳘रुषस्या᳘ङ्गानि त्रि᳘षन्धीनि द्विसमस्ता᳘नि ते᳘षां वै᳘ चतुर्ण्णां द्व᳘योस्त्री᳘णि त्रीणि हवीᳫँ᳭ष्य᳘निरुक्तानि भवन्ति द्वे᳘ द्वे द्व᳘योः॥ अर्द्धः प्रपाठकः ॥ कंडिकाः ५६॥

मूलम् - Weber

ता᳘नि वा᳘ एता᳘नि॥
चातुर्मास्या᳘नि त्रि᳘षंधीनि द्विसमस्ता᳘नि त᳘स्मादिमा᳘नि पु᳘रुषस्या᳘ङ्गानि त्रि᳘षंधीनि द्विसमस्ता᳘नि ते᳘षां वै᳘ चतुर्णां द्व᳘योस्त्री᳘णि-त्रीणि हवींष्य᳘निरुक्तानि भवन्ति द्वे᳘-द्वे द्व᳘योः॥

मूलम् - विस्वरम्

तानि वा एतानि चातुर्मास्यानि त्रिषंधीनि द्विसमस्तानि । तस्मादिमानि पुरुषस्यांगानि त्रिषंधीनि द्विसमस्तानि । तेषां वै चतुर्णाम्- द्वयोस्त्रीणि त्रीणि हवींष्यनिरुक्तानि भवति । द्वे द्वे द्वयोः ॥ ७ ॥

सायणः

तानि वा एतानीत्यादि । ‘एतानि’ वैश्वदेवादीनि ‘चातुर्मास्यानि’ चतुर्षु चतुर्षु मासेषु क्रियमाणानि चत्वारि पर्वाणि ‘त्रिषंधीनि’ त्रयः संधयः अंतरालकालाश्चत्वारो मासाः येषु तानि त्रिषंधीनि । ‘द्विसमस्तानि’ शुनासीरीयवैश्वदेवयोः फाल्गुनशुक्लचतुर्द्दश्यां पौर्णमास्यां च पौर्वापर्येण अनुष्ठानात् तद्द्वाभ्यां पर्वभ्यां समस्तानि संश्लिष्टानि । तत्रावृत्तिपक्षे “फाल्गुन्युपवसथे शुनासीरीयं प्रातर्वैश्वदेवम्” (का. श्रौ. सू. ५ । २९४) इति सूत्रितम् । एतस्य प्रयोजनमाह- तस्मादिमानीति । यस्मात् उक्तविधानि चातुर्मास्यानि ‘तस्मादिमानि’ पुरुषशरीरस्यांगानि बाह्वादीनि ‘त्रिषंधीनि’ ‘द्विसमस्तानि’ च पाणिपादतलात् अधस्तनोपरितनसंध्योरुभयोः प्रत्यासन्नत्वात् द्विसमस्तत्वम् । तेषां वा इत्यादि । ‘तेषां’ वैश्वदेवादीनां ‘चतुर्ण्णां’ मध्ये द्वयोर्वरुणप्रघाससाकमेधयोः ‘त्रीणि त्रीणि हवींषि’ ‘अनिरुक्तानि’ उपांशुप्रचरणीयानि ‘भवंति’ । ‘द्वयोः’ वैश्वदेवशुनासीरीययोराद्यंतपर्वणोः ‘द्वे द्वे’ हविषी अनिरुक्ते । तथा हि भगवता आश्वलायनेन “एककपालाः सर्वत्र सावित्रश्चातुर्मास्येषु” (आ. श्रौ. सू.) इति च सूत्रितत्वात् चतुर्षु पर्वसु एककपालस्य हविषः सावित्रस्य उपांशुत्वं सिद्धम् । “त्रीणि त्रीणि” इत्यस्मादेव वचनात् मध्यमयोः पर्वणोरन्यदप्येकं हविरुपांशु प्रचरितव्यमिति भावः ॥ ७ ॥

Eggeling
  1. Now these Seasonal offerings are tripartite and furnished with two joints 11, whence these limbs of man are tripartite and furnished with two joints. Two of these four (sacrifices) have each three indistinct (low-voiced) oblations; and two of them have two each 12.

०८

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षां वै᳘ चतु᳘र्ष्वग्निं᳘ मन्थन्ति॥
त᳘स्माच्चतु᳘र्भिर᳘ङ्गैरा᳘युते द्व᳘योः प्र᳘णयन्ति त᳘स्माद्द्वा᳘भ्यामेत्येव᳘मु ह प्रजा᳘पतिश्चातुर्म्मास्यै᳘रात्मा᳘नं व्वि᳘दधे त᳘थो ऽए᳘वैवंविद्य᳘जमानश्चातुर्म्मास्यै᳘रात्मा᳘नं[[!!]] व्वि᳘धत्ते॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षां वै᳘ चतु᳘र्ष्वग्निं᳘ मन्थन्ति॥
त᳘स्माच्चतु᳘र्भिर᳘ङ्गैरा᳘युते द्व᳘योः प्र᳘णयन्ति त᳘स्माद्द्वा᳘भ्यामेत्येव᳘मु ह प्रजा᳘पतिश्चातुर्म्मास्यै᳘रात्मा᳘नं व्वि᳘दधे त᳘थो ऽए᳘वैवंविद्य᳘जमानश्चातुर्म्मास्यै᳘रात्मा᳘नं[[!!]] व्वि᳘धत्ते॥

मूलम् - Weber

ते᳘षां वै᳘ चतु᳘र्ष्वग्नि᳘म् मन्थन्ति॥
त᳘स्माच्चतु᳘र्भिर᳘ङ्गैरा᳘युते द्व᳘योः प्र᳘णयन्ति त᳘स्माद्द्वा᳘भ्यामेत्येव᳘मु ह प्रजा᳘पतिश्चातुर्मास्यै᳘रात्मा᳘नं वि᳘दधे त᳘थो एॗवैवंविद्य᳘जमानश्चातु᳘र्मास्यै᳘रात्मा᳘नं वि᳘धत्ते॥

मूलम् - विस्वरम्

तेषां वै चतुर्ष्वग्निं मंथंति । तस्माच्चतुर्भिरङ्गैरायुते । द्वयोः प्रणयंति । तस्माद्द्वाभ्यामेति । एवमु ह प्रजापतिश्चातुर्मास्यैरात्मानं विदधे । तथो एवैवंविद्यजमानश्चातुर्मास्यैरात्मानं विधत्ते ॥ ८ ॥

सायणः

अथ तेषां साधारण्येनाग्निमंथनं विधत्ते- तेषां वा इत्यादि । ‘तेषां’ चातुर्मास्यानां चतुर्ष्वपि पर्वसु अग्निमंथनमपरो धर्मः । यस्मादेवं ‘तस्मात्’ चतुर्भिर्हस्तपादलक्षणैरंगैरायुते समानपरिमाणैः संयुज्यते । “यु मिश्रणामिश्रणयोः” (धा. पा. अ. प. २३) इति धातुः । अथ तेषां मध्ये वैश्वदेवशुनासीरीययोर्द्वयोः पर्वणोरुत्तरवेदिनिवपनं परित्यज्य केवलमग्निमेव प्रणयंति । ‘तस्मात्’ द्वाभ्यामेव पादाभ्यां पुरुषः ‘एति’ प्रतिगच्छति । एव मुहेति प्रतिपादितार्थस्य निगमनम् । आख्यायिकासिद्धमर्थं यजमाने योजयति- तथो एवैवंविदिति । एवमुक्तं ब्राह्मणार्थं विद्वान् ‘यजमानः’ अनुष्ठीयमानैः ‘चातुर्मास्यैरात्मानं’ यागमयं शरीरं एव ‘विधत्ते’ करोति ॥ ८ ॥

Eggeling
  1. At all four of them they churn out the fire,

whence (the draught animal) pulls with all four limbs. At two of them they lead (the fire) forward 13, whence it (the animal) walks on two (feet at a time) 14. Thus, then, Prajāpati fashioned for himself a body by means of the Seasonal sacrifices; and in like manner does the Sacrificer who knows this fashion for himself a (divine) body by means of the Seasonal sacrifices.

०९

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
सर्व्व᳘गायत्रं व्वैश्वदेव᳘ᳫँ᳘ हविः᳘ स्यात्सर्व्व᳘त्रैष्टुभं व्वरुणप्रघासाः᳘ सर्व्व᳘जागतं महाहविः᳘ सर्व्वा᳘नुष्टुभᳫँ᳭ शुनासीरी᳘यं चतुष्टोमस्या᳘प्त्या ऽइ᳘ति त᳘दु तथा᳘ न᳘ कुर्य्याद्यत्त्वा᳘ ऽएता᳘न्यभि संप᳘द्यन्ते ते᳘नै᳘वास्य स का᳘म ऽउ᳘पाप्तो भवति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
सर्व्व᳘गायत्रं व्वैश्वदेव᳘ᳫँ᳘ हविः᳘ स्यात्सर्व्व᳘त्रैष्टुभं व्वरुणप्रघासाः᳘ सर्व्व᳘जागतं महाहविः᳘ सर्व्वा᳘नुष्टुभᳫँ᳭ शुनासीरी᳘यं चतुष्टोमस्या᳘प्त्या ऽइ᳘ति त᳘दु तथा᳘ न᳘ कुर्य्याद्यत्त्वा᳘ ऽएता᳘न्यभि संप᳘द्यन्ते ते᳘नै᳘वास्य स का᳘म ऽउ᳘पाप्तो भवति॥

मूलम् - Weber

त᳘दाहुः॥
स्व᳘र्गायत्रं वैश्वदेव᳘ᳫं᳘ हविः᳘ स्यात्सर्व᳘त्रैष्टुभं वरुणप्रघासाः᳘ सर्व᳘जागतम् महाहविः᳘ सर्वा᳘नुष्टुभं शुनासीरी᳘यं चतुष्टोमस्या᳘प्स्या इ᳘ति त᳘दु तथा᳘ न᳘ कुर्याद्यत्त्वा᳘ 15 एता᳘न्यभिसम्प᳘द्यन्ते ते᳘नैॗवास्य स का᳘म उ᳘पाप्तो भवति॥

मूलम् - विस्वरम्

तदाहुः- सर्वगायत्रं वैश्वदेवं हविः स्यात् । सर्वत्रैष्टुभं वरुणप्रघासाः । सर्वजागतं महाहविः । सर्वानुष्टुभं शुनासीरीयम् । चतुष्टोमस्याप्त्या इति । तदु तथा न कुर्यात् । यत्त्वा एतान्यभि संपद्यंते । तेनैवास्य स काम उपाप्तो भवति ॥ ९ ॥

सायणः

अथ गायत्र्यादिसंपत्तिमेषु पर्वसु दर्शयितुं पूर्वपक्षयति- तदाहुरिति । तत्तत्र चातुर्मास्येषु ‘आहुः’ कथयंति ब्रह्मवादिनः । तत्र वैश्वदेवाख्यं प्रथमं पर्व ‘सर्वगायत्रम्’ सर्वैर्याज्यानुवाक्यादिभिर्मंत्रैर्गायत्रीच्छंदस्कैरेव कार्यम् । एवं सर्वत्रैष्टुभमित्यादावपि योज्यम् । वरुणप्रघासाख्या यागा इति यत् तत्सर्वत्रैष्टुभमिति संबंधः । चतुष्टोमस्याप्त्या इति । इत्थं गायत्र्यादीनामनुष्टुबंतानां चतुर्ण्णां छंदसां क्रमेण पर्वचतुष्टये प्रयोगः त्रिवृदादिस्तोमचतुष्टयोपेतस्य सोमयागस्य प्राप्त्यै संपद्यत इत्यर्थः । तदेव निषिध्य पक्षांतरमाह- तदु तथा न कुर्यादिति । ‘यत्त्वै’ यस्मात्खलु ‘एतानि’ वैश्वदेवादीनि क्रमेण गायत्र्यादिरूपेण ‘संपद्यंते’ । तस्मात्तेषां सर्वगायत्रत्वादिकं न कार्यम् । ‘तेनैव’ संपत्तिलभ्येनैव गायत्रत्वादिना ‘सः’ पूर्वोक्तः ‘कामः उपाप्तो भवति’ ॥ ९ ॥

Eggeling
  1. As to this they say, ‘The Vaiśvadeva oblation (should have) all (its formulas) in the Gāyatrī, the Varuṇapraghāsāḥ all in the Trishṭubh, the Great Oblation all in the Jagatī, and the Śunāsīrīya all in the Anushṭubh metre, so as to yield a Katushṭoma 16.’ But let him not do this, for inasmuch as (his formulas) amount to these (metres) even thereby that wish is obtained.

१०

विश्वास-प्रस्तुतिः

ता᳘नि वा᳘ ऽएता᳘नि॥
चातुर्म्मास्या᳘नि द्वाषष्टा᳘नि त्री᳘णि शता᳘नि बृह᳘त्यः[[!!]] सं᳘पद्यन्ते त᳘देभिः संवत्सरं᳘ च महाव्व्रतं᳘ चाप्नोत्य᳘थो द्वि᳘प्रतिष्ठो वा᳘ ऽअयं य᳘जमानो य᳘जमानमे᳘वैत᳘त्स्वर्ग्गे᳘ लोक ऽआ᳘यातयति प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

ता᳘नि वा᳘ ऽएता᳘नि॥
चातुर्म्मास्या᳘नि द्वाषष्टा᳘नि त्री᳘णि शता᳘नि बृह᳘त्यः[[!!]] सं᳘पद्यन्ते त᳘देभिः संवत्सरं᳘ च महाव्व्रतं᳘ चाप्नोत्य᳘थो द्वि᳘प्रतिष्ठो वा᳘ ऽअयं य᳘जमानो य᳘जमानमे᳘वैत᳘त्स्वर्ग्गे᳘ लोक ऽआ᳘यातयति प्र᳘तिष्ठापयति॥

मूलम् - Weber

ता᳘नि वा᳘ एता᳘नि॥
चातुर्मास्या᳘नि द्वाषष्टा᳘नि त्री᳘णि शता᳘नि बृहत्यः᳘ स᳘म्पद्यन्ते त᳘देभिः संवत्सरं᳘ च महाव्रतं᳘ चाप्नोत्य᳘थो द्वि᳘प्रतिष्ठो वा᳘ अयं य᳘जमानो य᳘जमानमेॗवैत᳘त्स्वर्गे᳘ लोक आ᳘यातयति प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

तानि वा एतानि चातुर्मास्यानि द्वाषष्टानि त्रीणि शतानि बृहत्यः संपद्यंते । तदेभिः संवत्सरं च महाव्रतं चाप्नोति । अथो द्विप्रतिष्ठो वा अयं यजमानः । यजमानमेवैतत्स्वर्गे लोक आयातयति, प्रतिष्ठापयति ॥ १० ॥

सायणः

अथ चातुर्मास्येषु संख्याविशेषघटितबृहतीसंपत्तिं दर्शयन् संवत्सरात्मकचित्याग्नेर्महाव्रतसाम्नश्च प्राप्तिरूपं फलं दर्शयति- तानि वा एतानीत्यादि । ‘द्वाषष्टानि’ द्विषष्ट्यधिकानि ‘त्रीणि शतानि’ एतत्संख्यासंख्येयाः ‘बृहत्यः’ ‘संपद्यंते’ । तदेभिरित्यादि । तत्तस्मात् उक्तसंख्याकबृहतीसंपत्तिहेतोः ‘एभिः’ चातुर्मास्यैः षष्ट्युत्तरत्रिशतयजुष्मतीष्टकात्मकं संवत्सररूपं चित्याग्निं च ‘महाव्रतं’ साम च प्राप्नोति । तस्य हि महाव्रतस्य त्रिवृच्छिरः पंचदशसप्तदशौ पक्षौ पंचविंश आत्मा एकविंशं पुच्छं एतेषां संख्याद्वारा अंतर्भावात् महाव्रतफलप्राप्तिरपि चातुर्मास्ययाजिन इत्यर्थः । अवशिष्टयोर्द्वयोः प्रयोजनमाह- अथो द्विप्रतिष्ठ इति । द्वाभ्यां पादाभ्यां प्रतितिष्ठतीति ‘द्विप्रतिष्ठः’ । तथा च ‘एतत्’ एतया अवशिष्टया द्विसंख्यया ‘यजमानमेव’ फलभूते ‘स्वर्गे लोके’ ‘आयातयति’ प्रापयति । तत्र ‘प्रतिष्ठापयति’ प्रतिष्ठितमचलितं करोति ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे पंचमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (११-५-२) ॥

Eggeling
  1. Now, indeed, (the formulas of) these Seasonal offerings. amount to three hundred and sixty-two Br̥hatī verses 17: he thereby obtains both the year 18

and the Mahāvrata 19; and thus, indeed, this Sacrificer also has a twofold 20 foundation, and he thus makes the Sacrificer reach the heavenly world, and establishes him therein.


  1. 74:2 The Vaiśvadeva, or first of the four seasonal sacrifices, requires the following oblations:–1. a cake on eight potsherds to Agni; 2. a pap to Soma; 3. a cake on twelve or eight potsherds to Savitr̥; 4. a pap to Sarasvatī; 5. a pap to Pūshan–these first five oblations recur at all seasonal offerings;–6. a cake on seven potsherds to the Maruts; 7. a dish of clotted curds to the Viśve Devāḥ; 8. a cake on one potsherd to Heaven and Earth. ↩︎

  2. 75:1 It would rather seem that what is intended here by ‘saṁdhi’ is not the joints themselves, but the limbs (in the anatomical sense) between the articulations. Similarly in ’trishandhi’ in parag. 7. ↩︎

  3. 75:2 That is to say, it is a low-voiced offering, the two formulas, with the exception of the final Om and Vaushaṭ, being pronounced in a low voice. All cakes on one potsherd are (except those to Varuṇa) of this description; Kāty. Śr. IV, 5, 3; Āśv. Śr. II, 15, 5; cf. Śat. Br. II, 4, 3, 8. ↩︎

  4. 75:3 That is, not clearly defined; the word ‘dos,’ which is more usually restricted to the fore-arm, being also used for the whole arm, and even the upper arm. ↩︎

  5. गुल्फौ Sây. ↩︎

  6. 75:4 The Varuṇapraghāsāḥ, or second seasonal sacrifice, has the following oblations:–1-5. the common oblations; 6. a cake on twelve potsherds to Indra and Agni; 7. 8. two dishes of clotted curds for Varuṇa and the Maruts respectively; 9. a cake on one potsherd for Ka (Prajāpati). ↩︎

  7. 76:1 The Sākamedhāḥ, or third seasonal sacrifice, consists of the following oblations:–1. a cake on eight potsherds to Agni Anīkavat; 2. 3. paps to the Marutaḥ Sāṁtapanāḥ and Marutaḥ Gr̥hamedhinaḥ; 4. a cake on seven potsherds to the Marutaḥ Krīḍinaḥ; 5. a pap to Aditi. Then follows the Great Oblation consisting of 6-10, the five common oblations; 11. a cake on twelve potsherds to Indra and Agni; 12. a pap to Mahendra; and 13. a cake on one potsherd to Viśvakarman. Then follows the Pitr̥yajña. ↩︎

  8. 76:2 Or, according to Sāyaṇa, one gets oppressed or heated on account of the close proximity of the heart and the digestive fire,–urasā hr̥daya-sambandhāj jaṭḥarasanniveśāc ca saṁtāpana-vishayatvam. ↩︎

  9. 76:3 This offering of a cake to Aditi, mentioned in Kāty. Sr. V, 7, 2, is not referred to in the Brāhmaṇa’s account of the Sākamedhāḥ, see II, 5, 3, 20. ↩︎

  10. 77:1 The Sunāsīrīya, or last Seasonal offering, consists of–1-5. the common oblations; 6. the Śunāsīrīya cake on twelve potsherds; 7. a milk oblation to Vāyu; 8. a cake on one potsherd to Sūrya. ↩︎

  11. 77:2 The Seasonal offerings are performed so as to leave an interval of four months between them; the fourth falling exactly a year after the first; hence the whole performance consists, as it were, of three periods of four months each, with two joints between them;–corresponding to the formation of the arms and legs. ↩︎

  12. 77:3 Of the five oblations common to the four sacrifices, one–viz. the cake to Savitr̥–is a low-voiced offering (Kāty. Sr. IV, 5, 5; Āśv. Śr. II, 15, 7), as are also the one-kapāla cakes of which there is one in each sacrifice. According to Sāyaṇa the first and last Seasonal sacrifices have only these two Upāmśuyājas, whilst the second and third have each one additional low-voiced oblation, but he does not specify them. This is, however, a mistake, as Kātyāyana, Śr. IV, 5, 6. 7, states distinctly, that the two additional low-voiced oblations are the Vaiśvadevī payasyā in the first, and the oblation to Vāyu in the last, Cāturmāsya. ↩︎

  13. 78:1 According to Sāyaṇa this refers to the first and last Seasonal sacrifices, inasmuch as there is no uttaravedi required for these, and hence only the simple leading forward of the fire to the Āhavanīya hearth; whilst the commentary on Katy. V, 4, 6, on the contrary, refers it just to the other two, because a double leading forth takes place there. ↩︎

  14. 78:2 Or, as Sāyaṇa takes it, man walks on two feet. ↩︎

  15. कुर्याद्यत्वा᳘ AB. यद्वै Sây. ↩︎

  16. 78:3 The Catushṭoma, properly speaking, is the technical term for such an arrangement of the Stotras of a Soma-sacrifice by which they are chanted on stomas, or hymn-forms, increasing successively by four verses. Two such arrangements (of four and six different stomas respectively) are mentioned, one for an Agnishṭoma sacrifice, and the other for a Shoḍaśin. See note on XIII, 3, 1, 4. ↩︎

  17. 78:4 These 362 Br̥hatī verses (of 36 syllables each) would amount to 13,032 syllables; and, verses of the four metres referred to amounting together to 148 syllables, this amount is contained in the former 88 times, leaving only eight over; so slight a discrepancy being considered of no account in such calculations. ↩︎

  18. 78:5 That is, a year of 360 days; and if, as is done by Sāyaṇa (in accordance with the calculations in Book X), the year is identified with the fire-altar, a mahāvedi containing 360 Yajushmatī bricks. ↩︎

  19. 79:1 Sāyaṇa reminds us that the Mahāvrata-sāman consists of five parts in five different stomas (Trivr̥t, &c., see part iv, p. 282, note 4), the verses of which, added up (9, 15, 17, 25, 21), make 87, which amount is apparently, in a rough way, to be taken as identical with that of 88 obtained in note 4 of last page. ↩︎

  20. 79:2 Viz. inasmuch as the total amount of Br̥hatīs (362) exceeds by two the number of days in the year. ↩︎