०१

विश्वास-प्रस्तुतिः

उर्व्व᳘शी हाप्सराः᳘॥
पुरूर᳘वसमैड᳘ञ्चकमे त᳘ᳫँ᳘ ह व्विन्द᳘मानोवाच त्रिः᳘ स्म मा᳘ ऽह्नो व्वैतसे᳘न दण्डे᳘न हतादकामा᳘ᳫँ᳘ स्म मा नि᳘पद्यासै᳘ मो स्म त्वा नग्नं᳘ दर्शमेष वै᳘ न स्त्रीणा᳘मुपचार ऽइ᳘ति॥

मूलम् - श्रीधरादि

उर्व्व᳘शी हाप्सराः᳘॥
पुरूर᳘वसमैड᳘ञ्चकमे त᳘ᳫँ᳘ ह व्विन्द᳘मानोवाच त्रिः᳘ स्म मा᳘ ऽह्नो व्वैतसे᳘न दण्डे᳘न हतादकामा᳘ᳫँ᳘ स्म मा नि᳘पद्यासै᳘ मो स्म त्वा नग्नं᳘ दर्शमेष वै᳘ न स्त्रीणा᳘मुपचार ऽइ᳘ति॥

मूलम् - Weber

उर्व᳘शी हाप्सराः᳟॥
पुरूर᳘वसमैडं᳘ चकमे त᳘ᳫं᳘ ह विन्द᳘मानोवाच त्रिः᳘ स्म मा᳘ह्नो वैतसे᳘न दण्डे᳘न हतादकामा᳘ᳫं᳘ स्म मा नि᳘पद्यासैॗ मो स्म त्वा नग्नं᳘ दर्शमेष वै᳘ न स्त्रीणा᳘मुपचार इ᳘ति॥

मूलम् - विस्वरम्

आश्वत्थ्योररण्योरुत्पत्तिख्यापकं ब्राह्मणम् ।

उर्वशी हाप्सराः पुरूरवसमैडं चकमे । तं ह विंदमानोवाच । त्रिः स्म मा ऽह्नो वैतसेन दंडेन हतात् । अकामां स्म मा निवद्यासै । मो स्म त्वा नग्नं दर्शम् । एष वै नः स्त्रीणामुपचार इति ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

इत्थं दर्शपूर्णमासौ प्रशस्य तद्विकृतिभूतान् चातुर्मास्यादीन् प्रशंसिष्यन् तत्राग्निमंथनसद्भावात् तत्साधनभूतयोररण्योरश्वत्थविकृतित्वं विधित्सुः तदर्थमाख्यायिकां रचयति- उर्वशी हाप्सरा इति । इडा नाम मनोर्दुहिता । तस्यां सोमपुत्रेण बुधेनोत्पादितं इडायाः पुत्रं ‘पुरूरवसं’ राजानं शापवशात् मानुषभावं प्राप्ता उर्वश्याख्या ‘अप्सराः’ देवस्त्री ‘चकमे’ कामितवती । ततः ‘तं’ पुरूरवसं ‘विंदमाना उवाच’ उक्तवती । तदुक्तिप्रकारमाह- त्रिः स्म मा ऽह्न इति । हे पुरूरवः । ‘अह्नः’ दिवसस्य त्रिस्त्रिवारं ‘मा’ मां ‘वैतसेन ‘दंडेन’ पुंस्प्रजननेन ‘हतात्’ उपभुंक्ष्व । वैतस इति पुंस्प्रजननस्य नाम । उक्तं हि यास्केन “शेफो वैतस इति पुंस्प्रजननस्य” (निरु. ३ । २९ । ३) इति । तथा ‘अकामां’ कामरहितां सुरताभिलाषरहितां च मां ‘मा स्म निपद्यासै’ निगृह्य न प्राप्नुयाः । तथा ‘नग्नं’ आच्छादनरहितं त्वां ‘मो स्म दर्शम्’ नैव पश्येयम् । एतत् त्रितयं यावन्नियमेन करिष्यसि तावदहं तव जाया भविष्यामि । ‘एव वै’ एतादृशः खलु नो ऽस्माकं ‘स्त्रीणां’ ‘उपचारः’ परिचर्या, इतिशब्दः उर्वशीवाक्यपरिसमाप्तौ ॥ १ ॥

Eggeling
  1. The nymph Urvaśī loved Purūravas 1, the son of Iḍā. When she wedded him, she said,

‘Thrice a day shalt thou embrace 2 me; but do not lie with me against my will 3, and let me not see thee naked, for such is the way to behave to us women.’

०२

विश्वास-प्रस्तुतिः

सा᳘ हास्मिञ्ज्यो᳘गुवास॥
(सा᳘) अ᳘पि हास्माद्गर्भि᳘ण्यास ता᳘वज्ज्योग्घास्मिन्नुवास त᳘तो ह गन्धर्व्वाः स᳘मूदिरे ज्योग्वा᳘ ऽइय᳘मुर्व्व᳘शी मनु᳘ष्येष्ववात्मीदुपजानीत[[!!]] य᳘थेयम्पु᳘नराग᳘च्छेदि᳘ति त᳘स्यै हा᳘वि᳘र्द्व्युरणा श᳘यन ऽउ᳘पबद्धा ऽऽस त᳘तो ह गन्धर्व्वा᳘ ऽअन्यतरमु᳘रणं प्र᳘मेथुः॥

मूलम् - श्रीधरादि

सा᳘ हास्मिञ्ज्यो᳘गुवास॥
(सा᳘) अ᳘पि हास्माद्गर्भि᳘ण्यास ता᳘वज्ज्योग्घास्मिन्नुवास त᳘तो ह गन्धर्व्वाः स᳘मूदिरे ज्योग्वा᳘ ऽइय᳘मुर्व्व᳘शी मनु᳘ष्येष्ववात्मीदुपजानीत[[!!]] य᳘थेयम्पु᳘नराग᳘च्छेदि᳘ति त᳘स्यै हा᳘वि᳘र्द्व्युरणा श᳘यन ऽउ᳘पबद्धा ऽऽस त᳘तो ह गन्धर्व्वा᳘ ऽअन्यतरमु᳘रणं प्र᳘मेथुः॥

मूलम् - Weber

सा᳘ हास्मिन्यो᳘गुवास॥
अ᳘पि हास्माद्गर्भि᳘ण्यास ता᳘वज्ज्योग्घास्मिन्नुवास त᳘तो ह गन्धर्वाः स᳘मूदिरे ज्योग्वा᳘ इय᳘मुर्व᳘शी मनुॗष्येष्ववात्मीदु᳘पजानीत य᳘थेयम् पु᳘नराग᳘छेदि᳘ति त᳘स्यै हा᳘विॗर्द्व्युरणा श᳘यन उ᳘पबद्धास त᳘तो ह गन्धर्वा᳘ अन्यतरमु᳘रणम् प्र᳘मेथुः॥

मूलम् - विस्वरम्

सा हास्मिन् ज्योगुवास । अपि हास्माद्गर्भिण्यास तावत् । ज्योग्घास्मिन्नुवास । ततो ह गंधर्वाः समूदिरे । ज्योग्वा इयमुर्वशी मनुष्येष्ववात्सीत् । उपजानीत । यथेयं पुनरागच्छेदिति । तस्यै हाविर्द्व्युरणा शयन उपबद्धा ऽऽस । ततो ह गंधर्वा अन्यतरमुरणं प्रमेथुः ॥ २ ॥

सायणः

सा हास्मिन्नित्यादि । इत्थं कृतनियमा ‘सा’ उर्वशी ‘अस्मिन्’ पुरूरवसि ‘ज्योक्’ चिरकालं ‘उवास’ निवासं कृतवती । ‘अपि’ खलु अस्मात्पुरूरवसः यावता कालेन ‘गर्भिणी आस’ गर्भयुक्ता बभूव । तावत्पर्यंतं चिरकालं अस्मिन्नुवासेत्यर्थः । एवमुर्वश्यां चिरकालं मनुष्यलोकसंस्थायिन्यां तद्विरहमसहमानैर्गंधर्वैः कृतं तद्धरणोपायं दर्शयति- ततो ह गंधर्वा इत्यादिना । ततस्तस्मात् उर्वश्याः मनुष्योपभोगात् हेतो ‘गंधर्वाः’ संभूय ‘समूदिरे’ संवादं मंत्रालोचनं कृतवंतः । कथमियमुर्वशी ‘मनुष्येषु’ ‘ज्योक्’ चिरकालं ‘अवात्सीत्’ वासमकार्षीत् । यथा येन प्रकारेण इयमस्मान्पुनरागच्छेत्, तं प्रकारं ‘उपजानीत’ पर्यालोचयत । एतस्मिन्नवसरे तस्याः खलु उर्वश्याः शयनप्रदेशे ‘द्व्युरणा’ द्वावुरणौ बालकौ मेषौ यस्यास्तादृशी अविर्मेषी ‘उपबद्धा आस’ उपनिबद्धा बभूव । तौ द्वावुरणौ उर्वश्या पुत्रत्वेन पालितौ । ‘ततः’ संवादानंतरं एतज्जानानाः ‘गंधर्वाः’ तयोः ‘अन्यतरमुरणं’ ‘प्रमेथुः’ अपजह्नुः ॥ २ ॥

Eggeling
  1. She then dwelt with him a long time, and was even with child of him, so long did she dwell with him. Then the Gandharvas 4 said to one another, ‘For a long time, indeed, has this Urvaśī dwelt among men: devise ye some means how she may come back to us.’ Now, a ewe with two lambs was tied to her couch: the Gandharvas then carried off one of the lambs.

०३

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
(चा) अवीर᳘ ऽइव बत मे ऽजन᳘ ऽइव पुत्र᳘ᳫँ᳘ हरन्ती᳘ति द्विती᳘यं प्र᳘मेथुः सा᳘ ह त᳘थै᳘वोवाच॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
(चा) अवीर᳘ ऽइव बत मे ऽजन᳘ ऽइव पुत्र᳘ᳫँ᳘ हरन्ती᳘ति द्विती᳘यं प्र᳘मेथुः सा᳘ ह त᳘थै᳘वोवाच॥

मूलम् - Weber

सा᳘ होवाच॥
अवीर᳘ इव बत मेऽजन᳘ इव पुत्र᳘ᳫं᳘ हरन्ती᳘ति द्विती᳘यम् प्र᳘मेथुः सा᳘ ह त᳘थैॗवोवाच॥

मूलम् - विस्वरम्

सा होवाच । अवीर इव बत मे ऽजन इव पुत्रं हरंतीति । द्वितीयं प्रमेथुः । सा ह तथैवोवाच ॥ ३ ॥

सायणः

सा होवाचेत्यादि । तस्मिन्नुरणे अपहृते सति ‘सा’ उर्वशी ‘उवाच’ उक्तवती । ‘अवीरे’ वीरपुरुषरहिते ‘इव’ देशे ‘अजने’ जनरहिते ‘इव’ देशे मदीयं उरणरूपं ‘पुत्रं हरंतीति’ ‘बत’ खेदे । एवमुक्ते ऽपि पुरूरवास्तूष्णीं स्थितवान् । ततो गंधर्वा द्वितीयमप्युरणं ‘प्रमेथुः’ अपजह्नुः । ‘सा’ खलु उर्वशी पुनरपि ‘तथैवोवाच’ वीरपुरुषरहिते देशे जनरहितदेशे यथा चौरादयो गवादिधनमपहरंति तथा मदीयं पुत्रत्वेन स्वीकृतं उरणद्वयं गंधर्वा अपजह्नुः इति ॥ ३ ॥

Eggeling
  1. ‘Alas,’ she cried, ’they are taking away my darling 5, as if I were where there is no hero and no man!’ They carried off the second, and she spake in the selfsame manner.

०४

विश्वास-प्रस्तुतिः

(चा᳘) अ᳘थ हाय᳘मीक्षा᳘ञ्चक्रे॥
कथन्नु त᳘दवीर᳘ङ्कथ᳘मजन᳘ᳫँ᳘ स्याद्य᳘त्राहᳫँ᳭ स्यामि᳘ति स᳘ नग्न᳘ ऽए᳘वानू᳘त्पपात चिरन्त᳘न्मेने यद्वा᳘सः पर्य्य᳘धास्यत त᳘तो ह गन्धर्व्वा᳘ व्विद्यु᳘तञ्जनया᳘ञ्चक्रुस्तं य᳘था दि᳘वैवं᳘ नग्नं᳘ ददर्श त᳘तो है᳘वेयं᳘ तिरो᳘बभूव पु᳘नरैमीत्ये᳘त्तिरो᳘भूताᳫँ᳭ स᳘ ऽआध्या ज᳘ल्पन्कुरुक्षेत्र᳘ᳫँ᳘ सम᳘या चचारान्यातःप्लक्षे᳘ति बि᳘सवती त᳘स्यै हाध्यन्ते᳘न व्वव्व्राज त᳘द्ध ता᳘ ऽअप्सर᳘स ऽआत᳘यो भूत्वा प᳘रिपुप्लुविरे॥

मूलम् - श्रीधरादि

(चा᳘) अ᳘थ हाय᳘मीक्षा᳘ञ्चक्रे॥
कथन्नु त᳘दवीर᳘ङ्कथ᳘मजन᳘ᳫँ᳘ स्याद्य᳘त्राहᳫँ᳭ स्यामि᳘ति स᳘ नग्न᳘ ऽए᳘वानू᳘त्पपात चिरन्त᳘न्मेने यद्वा᳘सः पर्य्य᳘धास्यत त᳘तो ह गन्धर्व्वा᳘ व्विद्यु᳘तञ्जनया᳘ञ्चक्रुस्तं य᳘था दि᳘वैवं᳘ नग्नं᳘ ददर्श त᳘तो है᳘वेयं᳘ तिरो᳘बभूव पु᳘नरैमीत्ये᳘त्तिरो᳘भूताᳫँ᳭ 6 स᳘ ऽआध्या ज᳘ल्पन्कुरुक्षेत्र᳘ᳫँ᳘ सम᳘या चचारान्यातःप्लक्षे᳘ति बि᳘सवती त᳘स्यै हाध्यन्ते᳘न व्वव्व्राज त᳘द्ध ता᳘ ऽअप्सर᳘स ऽआत᳘यो भूत्वा प᳘रिपुप्लुविरे॥

मूलम् - Weber

अ᳘थ हाय᳘मीक्षां᳘ चक्रे॥
कथं नु त᳘दवीरं᳘ कथ᳘मजन᳘ᳫं᳘ स्याद्य᳘त्राहᳫं स्यामि᳘ति स᳘ नग्न᳘ एॗवानू᳘त्पपात चिरं त᳘न्मेने यद्वा᳘सः पर्य᳘धास्यत त᳘तो ह गन्धर्वा᳘ विद्यु᳘तं जनयां᳘ चक्रुस्तं य᳘था दि᳘वैवं᳘ नग्नं᳘ ददर्श त᳘तो हैॗवेयं᳘ तिरो᳘बभूव पु᳘नरैमीत्ये᳘त्तिरो᳘भूताᳫं स᳘ आध्या ज᳘ल्पन्कुरुक्षेत्र᳘ᳫं᳘ सम᳘या चचारान्यातःप्लक्षे᳘ति बि᳘सवती त᳘स्यै हाध्यन्ते᳘न 7 वव्राज त᳘द्ध ता᳘ अप्सर᳘स आत᳘यो भूत्वा प᳘रिपुप्लुविरे॥

मूलम् - विस्वरम्

अथ हायमीक्षांचक्रे । कथं नु तदवीरं कथमजनं स्यात्; यत्राहं स्यामिति । स नग्न एवानूत्पपात । चिरं तन्मेने; यद्वासः पर्यधास्यत । ततो ह गंधर्वा विद्युतं जनयांचक्रुः । तं यथा दिवैवं नग्नं ददर्श । ततो हैवेयं तिरोबभूव । पुनरैमीत्येत् । तिरोभूतां स आध्या जल्पन् कुरुक्षेत्रं समया चचार । अन्यतःप्लक्षेति । बिसवती । तस्यै हाध्यंतेन वव्राज । तद्ध ता अप्सरस आतयो भूत्वा पुप्लुविरे ॥ ४ ॥

सायणः

एवमस्यां विलपंत्यां सत्यां पुरूरवाः किं कृतवानिति तदाह- अथ हायमीक्षांचक्रे इति । ‘अथ’ अनंतरं ‘अयं’ समीपे शयानः पुरूरवाः ‘ईक्षांचक्रे’ पर्यालोचितवान् । ‘यत्र’ यस्मिन् स्थाने ‘अहं स्याम्’ भवेयम् । तत्स्थानं ‘कथं नु’ केन खलु प्रकारेण ‘अवीरं’ वीररहितं तत् ‘कथं वा’ ‘अजनं’ जनरहितं ‘स्यात्’ एवमीक्षित्वा ‘सः’ पुरूरवाः उर्वश्या सह शयनं त्यक्त्वा ‘नग्नः’ विवसनः ‘एव’ सन् ‘अनूत्पपात’ गंधर्वैः सह योद्धुमुच्चक्राम । नग्न एवेत्यत्र कारणमाह- चिरं तन्मेन इति । ‘वासः पर्यधास्यत’ वासःपरिधानं क्रियते इति यदस्ति, ‘तच्चिरं मेने’ कालविलंबः स्यादिति बुध्यते स्म । तस्मान्नग्न एवानूत्पपातेत्यर्थः । ततो ह गंधर्वा इत्यादि । ततो ऽनंतरं ‘गंधर्वाः’ नग्नमागच्छंतं पुरूरवसं दृष्ट्वा उर्वशीसमयभंगाय नग्नस्यैव तस्य दर्शनार्थं ‘विद्युतं जनयांचक्रुः’ । तत्प्रभया ‘यथा दिवा’ अहनि ‘एवं’ ‘तं’ पुरूरवसं ‘नग्नं’ उर्वशी ‘ददर्श’ दृष्ट्वा च मम समयभंगो जात इति अनंतरमेव इयमुर्वशी ‘तिरोबभूव’ अदृश्या बभूव । ‘पुनरैमि’ आगच्छामि ‘इति’ ब्रुवाणा ‘एत्’ स्वर्गलोकमागच्छत् । पुनः पुरूरवसा कृतं दर्शयति- तिरोभूतामिति । ‘तिरोभूतां’ अंतर्हितां उर्वशीं ‘सः’ पुरूरवाः ‘आध्या’ विरहजनिता मनःपीडा आधिः, तया ‘जल्पन्’ प्रलपन् ‘कुरुक्षेत्रं’ ‘समया’ “अभितःपरितःसमया” (पा. सू. २ । ३ । २ वा.) इति समयायोगे द्वितीया । कुरुक्षेत्रस्य समीपे ‘चचार’ उर्वशीं द्रष्टुकामो भ्रमणं कृतवान् । अन्यतःप्लक्षेत्यादि । तत्र कुरुक्षेत्रे एकत्र देशे ‘अन्यतःप्लक्षा’ नाम ‘बिसवती’ पद्मिनी सरसी ‘तस्यै हाधि’ तस्याः समीपदेशे ‘अंतेन’ अंतिकेन तटप्रदेशेन ‘वव्राज’ गतवान् । अथोर्वश्याः पुनः प्रादुर्भावमाह- तद्ध ता अप्सरस इति । ‘तद्ध’ तत्र खलु अन्यतःप्लक्षाख्ये सरसि ‘ताः’ उर्वशीप्रमुखाः ‘अप्सरसः’ ‘आतयः’ जलचरपक्षिविशेषस्यैषा संज्ञा, तद्रूपाः ‘भूत्वा’ ‘परिपुप्लुविरे’ परिप्लवनं जलक्रीडा कृतवत्यः ॥ ४ ॥

Eggeling
  1. He then thought within himself, ‘How can that be (a place) without a hero and without a man where I am?’ And naked, as he was, he sprang

up after them: too long he deemed it that he should put on his garment. Then the Gandharvas produced a flash of lightning, and she beheld him naked even as by daylight. Then, indeed, she vanished: ‘Here I am back,’ he said, and lo! she had vanished 8. Wailing with sorrow he wandered all over Kurukshetra. Now there is a lotus-lake there, called Anyataḥplakshā: He walked along its bank; and there nymphs were swimming about in the shape of swans 9.

०५

विश्वास-प्रस्तुतिः

त᳘ᳫँ᳘ हेयं᳘ ज्ञा᳘त्वोवाच॥
(चा) अयं वै स᳘ मनुष्यो[[!!]] य᳘स्मिन्नहम᳘वात्समि᳘ति ता᳘ होचुस्त᳘स्मै वा᳘ ऽआवि᳘रसामे᳘ति तथे᳘ति त᳘स्मै हावि᳘रासुः॥

मूलम् - श्रीधरादि

त᳘ᳫँ᳘ हेयं᳘ ज्ञा᳘त्वोवाच॥
(चा) अयं वै स᳘ मनुष्यो[[!!]] य᳘स्मिन्नहम᳘वात्समि᳘ति ता᳘ होचुस्त᳘स्मै वा᳘ ऽआवि᳘रसामे᳘ति तथे᳘ति त᳘स्मै हावि᳘रासुः॥

मूलम् - Weber

त᳘ᳫं᳘ हेयं᳘ ज्ञाॗत्वोवाच॥
अयं वै स᳘ मनुॗष्यो य᳘स्मिन्नहम᳘वात्समि᳘ति ता᳘ होचुस्त᳘स्मै वा᳘ आवि᳘रसामे᳘ति तथे᳘ति त᳘स्मै हावि᳘रासुः॥

मूलम् - विस्वरम्

तं हेयं ज्ञात्वोवाच- अयं व स मनुष्यः, यस्मिन्नहमवात्समिति । ता होचुः । तस्मै वा आविरसामेति । तथेति । तस्मै हाविरासुः ॥ ५ ॥

सायणः

एतस्मिन्नंतरे तीरदेशे गच्छंतं ‘तं’ पुरूरवसं ‘ज्ञात्वा’ इयमुर्वशी सखीभिः सह उक्तवती, ‘अयं’ खलु ‘स मनुष्यः’ ‘यस्मिन्नहं’ एतावंतं कालं ‘अवात्सं’ जायात्वेन स्थिता “वस निवासे” (धा. पा. भ्वा. प. १०३०) इत्यस्माद्धातोर्लुङि सिचि “सः स्यार्धधातुके” (पा. सू. ७ । ४ । ४९) इति तत्वम् । ‘ताः’ सख्यः एतद्वाक्यं श्रुत्वा ऊचुरुक्तवत्यः । किमिति ? ‘तस्मै’ मनुष्याय वयम् ‘आविरसाम’ प्रादुर्भवामेति । ‘तथेति’ परस्परमंगीकृत्य ‘तस्मै’ पुरूरवसे ‘आविरासुः’ पक्षिरूपं विहाय स्वकीयेन रूपेण प्रादुर्बभूवुः ॥ ५ ॥

Eggeling
  1. And she (Urvaśī), recognising him, said, ‘This is the man with whom I have dwelt.’ They then said, ‘Let us appear to him!’–‘So be it!’ she replied; and they appeared to him 10.

०६

विश्वास-प्रस्तुतिः

(स्ता᳘ᳫँ᳘) ता᳘ᳫँ᳘ हायं᳘ ज्ञा᳘त्वा ऽभिप᳘रोवाद॥
हये जा᳘ये म᳘नसा ति᳘ष्ठ घोरे व्व᳘चाᳫँ᳭सि मिश्रा᳘ कृणवावहै नु। न᳘ नौ म᳘न्त्रा ऽअ᳘नुदितास ऽएते म᳘यस्करन्प᳘रतरे च ना᳘हन्नित्युप[[!!]] नु[[!!]] रम सं नु[[!!]] वदावहा ऽइ᳘ति है᳘वैनां त᳘दुवाच॥

मूलम् - श्रीधरादि

(स्ता᳘ᳫँ᳘) ता᳘ᳫँ᳘ हायं᳘ ज्ञा᳘त्वा ऽभिप᳘रोवाद॥
हये जा᳘ये म᳘नसा ति᳘ष्ठ घोरे व्व᳘चाᳫँ᳭सि मिश्रा᳘ कृणवावहै नु। न᳘ नौ म᳘न्त्रा ऽअ᳘नुदितास ऽएते म᳘यस्करन्प᳘रतरे च ना᳘हन्नित्युप[[!!]] नु[[!!]] रम सं नु[[!!]] वदावहा ऽइ᳘ति है᳘वैनां त᳘दुवाच॥

मूलम् - Weber

ता᳘ᳫं᳘ हायं᳘ ज्ञाॗत्वाभिप᳘रोवाद॥
हये जा᳘ये म᳘नसा ति᳘ष्ठ घोरे व᳘चांसि मिश्रा᳘ कृणवावहै नु न᳘ नौ म᳘न्त्रा अ᳘नुदितास एते म᳘यस्करन्प᳘रतरे चना᳘हन्नित्यु᳘प नु᳘ रम सं नु᳘ वदावहा इ᳘ति हैॗवैनां त᳘दुवाच॥

मूलम् - विस्वरम्

तां हायं ज्ञात्वा ऽभिपरोवाद । हये जाये मनसा तिष्ठ घोरे वचसि मिश्रा कृणवावहै नु । न नौ मंत्रा अनुदितास एते मयस्करन्परतरे च नाहन्”- इति । उप नु रम सं नुवदावहै; इति हैवैनां तदुवाच ॥ ६ ॥

सायणः

ततः ‘अयम्’ पुरूरवा अप्सरोगणमध्ये तामुर्वशीं ‘ज्ञात्वा’ अभिलक्ष्य परावृत्तः सन्नुवाद ‘हये जाये’ इति आबभाषे । तदेतत् उर्वशीपुरूरवसोः उक्तिप्रत्युक्तिरूपं पंचदशर्चं सूक्तम् । तत्र “हये जाये” इत्येतत् पुरूरवसो वाक्यम् । अयमर्थः- विरहव्याकुलितमनस्कतया अभिमुखीकरणार्थं हेशब्दं प्रयुंजानः ‘हये’ इति विपर्ययं प्रयुक्तवान्, हे ‘जाये’ ‘मनसा’ ‘घोरे’ क्रूरहृदये इत्यर्थः । एवंभूते हे उर्वशि ! ‘तिष्ठ’ मा गाः । ‘नु’ अद्य ‘वचांसि’ पूर्वोक्तशेषाणि वाक्यानि ‘मिश्रा’ मिश्राणि उक्तिप्रत्युक्तिरूपेण मिश्रीकृतानि ‘कृणवावहै’ आवां करवावहै । ‘नौ’ आवयोर्मंत्राः गुप्तभाषितानि रहस्योक्तिविशेषाः ‘अनुदितासः’ अनुक्ताः संतः यतः ‘मयः’ सुखनामैतत् । (निरु. २ । १३ । ११) इति । सुखम् ‘न करन्’ न कुर्वंति । तथा ‘परतरे ऽहन् च’ परस्मिन्नप्यहनि अनुक्ता एते सुखम् न कुर्वंति । अतः हेतोस्तिष्ठ मा गा इत्यर्थः । अस्या ऋचस्तात्पर्यं श्रुतिः स्वयम् व्याचष्टे- उप नु रमेति । हे जाये ! ‘नु’ अद्य ‘उपरम’ गमनान्निवर्तस्व । ‘नु’ क्षिप्रम् आवाम् ‘संवदावहै’ मिश्रसंभाषणं करवावहै ‘इति ह’ एवमेव खलु एतया ऋचा एनामुर्वशीं पुरूरवाः ‘उवाच’ ॥ ६ ॥

Eggeling
  1. He then recognised her and implored her (R̥g-veda X, 95, I), ‘Oh, my wife, stay thou, cruel in mind 11: let us now exchange words! Untold, these secrets of ours will not bring us joy in days to

come;’–‘Stop, pray, let us speak together!’ this is what he meant to say to her.

०७

विश्वास-प्रस्तुतिः

तᳫँ᳭ हे᳘तरा प्र᳘त्युवाच॥
कि᳘मेता᳘ व्वाचा᳘ कृणवा त᳘वाहं प्रा᳘क्रमिषमुष᳘सामग्रि᳘येव॥
पु᳘रूरवः पु᳘नर᳘स्तम्प᳘रेहि दुरापना व्वा᳘त ऽइवाह᳘मस्मी᳘ति न वै त्वं त᳘दकरोर्य्य᳘दहम᳘ब्रवं दुरा᳘पा वा᳘ ऽअहं त्व᳘यैत᳘र्ह्यस्मि पु᳘नर्गृहा᳘निही᳘ति है᳘वैनं त᳘दुवाच॥

मूलम् - श्रीधरादि

तᳫँ᳭ हे᳘तरा प्र᳘त्युवाच॥
कि᳘मेता᳘ व्वाचा᳘ कृणवा त᳘वाहं प्रा᳘क्रमिषमुष᳘सामग्रि᳘येव॥
पु᳘रूरवः पु᳘नर᳘स्तम्प᳘रेहि दुरापना व्वा᳘त ऽइवाह᳘मस्मी᳘ति न वै त्वं त᳘दकरोर्य्य᳘दहम᳘ब्रवं दुरा᳘पा वा᳘ ऽअहं त्व᳘यैत᳘र्ह्यस्मि पु᳘नर्गृहा᳘निही᳘ति है᳘वैनं त᳘दुवाच॥

मूलम् - Weber

तᳫं हे᳘तरा प्र᳘त्युवाच॥
कि᳘मेता᳘ वाचा᳘ कृणवा त᳘वाहम् प्रा᳘क्रमिषमुष᳘सामग्रि᳘येव 12
पुरूरवः पु᳘नर᳘स्तम् प᳘रेहि दुरापना वा᳘त इवाह᳘मस्मी᳘ति न वै त्वं त᳘दकरोर्य᳘दहम᳘ब्रवं दुरा᳘पा वा᳘ अहं त्व᳘यैत᳘र्ह्यस्मि पु᳘नर्गृहा᳘निही᳘ति हैॗवैनं त᳘दुवाच॥

मूलम् - विस्वरम्

तं हेतरा प्रत्युवाच । “किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव । पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि"- इति । न वै त्वं तदकरोः । यदहमब्रवम् । दुरापा वा अहं त्वया एतर्ह्यस्मि, पुनर्गृहानिहि; इति हैवैनं तदुवाच ॥ ७ ॥

सायणः

तँ हेतरा इत्यादि । ‘इतरा’ उर्वशी पुरूरवसम् ‘प्रत्युवाच’ ‘किमेता वाचा कृणवा’ इति । हे पुरुरवः ‘एता’ एतया त्वदीयया अर्थशून्यया ‘वाचा’ ‘किं कृणवा’ अहं किं कुर्याम् । समयभंगान्निमित्तात् अहम् त्वत्सकाशात् ‘प्राक्रमिषम्’ प्रस्थानमकार्षम् । तत्र दृष्टांतः- सूर्योदयेन विनिवर्त्यानां ‘उषसां’ मध्ये ‘अग्रिया’ अग्रे भवा पूर्वा उषाः यथा प्रक्रामति न पुनरावर्तते, एवम् प्राक्रमिषमित्यर्थः । अतस्त्वं निराशो भूत्वा ‘अस्तम्’ गृहनामैतत् (निरु. ३ । १३ । ९) इति । स्वकीयम् गृहम् ‘पुनः परेहि’ पराङ्मुखो निवर्तस्व । अहम् पुनर्दुरापना आप्तुमशक्या । यस्मादहम् देवस्त्री त्वं मनुष्यः । अतः ‘वात इव’ यथा वातो गंतुं न शक्यते एवं मत्प्राप्तिस्तव दुष्करेत्यर्थः । इमामृचं श्रुतिर्व्याकरोति- न वै त्वमिति । “मो स्म त्वा नग्नं दर्शम्” इति ‘यदहमब्रवम्’ ‘न’ खलु ‘त्वम्’ ‘तदकरोः’ । अतस्त्वया ‘एतर्हि’ एतस्मिन् काले ‘अहम् दुरापा’ आप्तुमशक्या ‘अस्मि’ अतस्त्वं ‘गृहान्’ आत्मीयान् ‘पुनरिहि’ गच्छ । ‘इति ह’ एवमेव खलु ‘एनम्’ पुरूरवसम् तत्तदानीं अनयर्चा ‘उवाच’ उर्वशी ॥ ७ ॥

Eggeling
  1. She replied (X, 95, 2), ‘What concern have I with speaking to thee? I have passed away like the first of the dawns. Purūravas, go home again: I am like the wind, difficult to catch;’–‘Thou didst not do what I had told thee; hard to catch I am for thee, go to thy home again!’ this is what she meant to say.

०८

विश्वास-प्रस्तुतिः

(चा᳘) अ᳘थ हायं प᳘रिद्यून ऽउवाच॥
सुदेवो᳘ ऽअद्य᳘ प्रप᳘तेद᳘नावृत्पराव᳘तं परमां ग᳘न्तवा᳘ ऽउ। अ᳘धा शयीत नि᳘र्ऋतेरुपस्थे᳘ ऽधैनं व्वृ᳘का रभसा᳘सो ऽअद्युरि᳘ति सुदे᳘वो ऽद्यो᳘द्वा बध्नीत प्र᳘ वा पतेत्त᳘देनं व्वृ᳘का वा श्वा᳘नो वा ऽद्युरि᳘ति हैव त᳘दुवाच॥

मूलम् - श्रीधरादि

(चा᳘) अ᳘थ हायं प᳘रिद्यून ऽउवाच॥
सुदेवो᳘ ऽअद्य᳘ प्रप᳘तेद᳘नावृत्पराव᳘तं परमां ग᳘न्तवा᳘ ऽउ। अ᳘धा शयीत नि᳘र्ऋतेरुपस्थे᳘ ऽधैनं व्वृ᳘का रभसा᳘सो ऽअद्युरि᳘ति सुदे᳘वो ऽद्यो᳘द्वा बध्नीत प्र᳘ वा पतेत्त᳘देनं व्वृ᳘का वा श्वा᳘नो वा ऽद्युरि᳘ति हैव त᳘दुवाच॥

मूलम् - Weber

अ᳘थ हायम् प᳘रिद्यून उवाच॥
सुदेवो᳘ अद्य᳘ प्रप᳘तेद᳘नावृत्पराव᳘तम् परमाम् ग᳘न्तवा᳘उ॥
अ᳘धा शयीत नि᳘रृतेरुपस्थे᳘ऽधैनं वृ᳘का रभसा᳘सो अद्युरि᳘ति सुदेॗवोऽद्यो᳘द्वा बध्नीत प्र᳘ वा पतेत्त᳘देनं वृ᳘का वा श्वा᳘नो वाद्युरि᳘ति हैव त᳘दुवाच॥

मूलम् - विस्वरम्

अथ हायं परिद्यून उवाच । “सुदेवो अद्य प्रपते दनावृत्परावतं परमां गंतवा उ । अधा शयीत निर्ऋतेरुपस्थे ऽधैनं वृका रभसासो अद्युः”- इति । सुदेवो ऽद्योद्वा बध्नीत । प्र वा पतेत् । तदेनं वृका वा श्वानो वा ऽद्युः । इति हैव तदुवाच ॥ ८ ॥

सायणः

उर्वश्या एवं निराकृतस्य पुरूरवसो दुःखं दर्शयति- अथ हायमिति । ‘अथ ह’ एवं प्रत्याख्यानानंतरमेव ‘अयं’ पुरूरवाः ‘परिद्यूनः’ प्राप्तपरिदेवनः सन् शोकातुरः ‘उवाच’ । तां परिदेवनरूपामृचं दर्शयति- सुदेवो अद्येति । ‘सुदेवः’ सुष्ठु दीप्यमानः अशनिः सः मम मस्तके ‘प्रपतेत्’ । अथ अयं जनः ‘अनावृत्’ अनावर्तमानः सन् प्राप्तपरिदेवनः ‘परमां’ उत्कृष्टां ‘परावतं’ दूरनामैतत् (निरु. ३ । १९ । १९) इति । परलोकलक्षणं दूरदेशं ‘गन्तवै’ गंतुं प्रभवति । अथानंतरमशनिहतः सन् निर्ऋतेर्भूम्याः ‘उपस्थे’ उत्संगे ‘शयीत’ । अथानंतरं ‘एनं’ मृतं ‘रभसासः’ वेगयुक्ताः ‘वृकाः’ अरण्यश्वानः ‘अद्युः’ भक्षयेयुः । यद्वा ‘सुदेवः’ सुक्रीडो ऽयं जनः ‘अनावृतः’ सन् राज्यभोगं विहाय ‘परावतं’ अत्यंतदूरदेशं गन्तुं ‘प्रपतेत्’ प्रगच्छेत् । अन्यत् पूर्ववत् । अस्या ऋचस्तात्पर्यं श्रुतिर्दर्शयति- सुदेवो ऽद्येति । ‘सुदेवः’ सुक्रीडो ऽयं जनः अद्येदानीं हे उर्वशि ! त्वद्विरहनिमित्तात् ‘उद्बध्नीत वा’ देहत्यागार्थं पाशेन उद्बंधनं वा कुर्यात् । ‘प्रपतेद्वा’ प्रपतनं महाप्रस्थानं कुर्याद्वा । तत्ततः परं ‘एनं’ पुरूरवसं सालावृका वा श्वानो वा अद्युर्भक्षयेयुः । ‘इति ह’ एवमेव खलु तत्तेन परिदेवनरूपेण मन्त्रेणोक्तवान् ॥ ८ ॥

Eggeling
  1. He then said sorrowing (X, 95, 14), ‘Then will thy friend 13 rush away 14 this day never to come back, to go to the farthest distance: then will he lie in Nirr̥ti’s 15 lap, or the fierce wolves will devour him; Thy friend will either hang himself, or start forth; or the wolves, or dogs, will devour him!’ this is what he meant to say.

०९

विश्वास-प्रस्तुतिः

तᳫँ᳭ हे᳘तरा प्र᳘त्युवाच॥
पु᳘रूरवो मा᳘ मृथा मा प्र᳘पप्तो मा᳘ त्वा व्वृ᳘कासो ऽअ᳘शिवास ऽउ क्षन्। न वै स्त्रै᳘णानि सख्या᳘नि सन्ति सालाव्वृका᳘णाᳫँ᳭ हृ᳘दयान्येते᳘ति᳘ मैतदा᳘दृथा न वै स्त्रै᳘णᳫँ᳭ सख्य᳘मस्ति पु᳘नर्गृहा᳘निही᳘ति है᳘वैनं त᳘दुवाच॥

मूलम् - श्रीधरादि

तᳫँ᳭ हे᳘तरा प्र᳘त्युवाच॥
पु᳘रूरवो मा᳘ मृथा मा प्र᳘पप्तो मा᳘ त्वा व्वृ᳘कासो ऽअ᳘शिवास ऽउ क्षन्। न वै स्त्रै᳘णानि सख्या᳘नि सन्ति सालाव्वृका᳘णाᳫँ᳭ हृ᳘दयान्येते᳘ति᳘ मैतदा᳘दृथा न वै स्त्रै᳘णᳫँ᳭ सख्य᳘मस्ति पु᳘नर्गृहा᳘निही᳘ति है᳘वैनं त᳘दुवाच॥

मूलम् - Weber

तᳫं हे᳘तरा प्र᳘त्युवाच॥
पु᳘रूरवो मा᳘ मृथा मा प्र᳘पप्तो मा᳘ त्वा वृ᳘कासो अ᳘शिवास उ क्षन्॥
न वै स्त्रै᳘णानि सख्या᳘नि सन्ति सालावृका᳘णाᳫं हृ᳘दयान्येते᳘तिॗ मैतदा᳘दृथा न वै स्त्रै᳘णᳫं सख्य᳘मस्ति पु᳘नर्गृहा᳘निही᳘ति हैॗवैनं त᳘दुवाच॥

मूलम् - विस्वरम्

तं हेतरा प्रत्युवाच । “पुरूरवो मा मृथा मा प्रपप्तो मा त्वा वृकासो अशिवास उ क्षन् । न वै स्त्रैणानि सख्यानि संति सालावृकाणां हृदयान्येता”- इति । मैतदादृथाः । न वै स्त्रैणं सख्यमस्ति । पुनर्गृहानिहि । इति हैवैनं तदुवाच ॥ ९ ॥

सायणः

एवं परिदेवने कृते तन्निवारणार्थं इतरा उर्वशी पुरूरवसं प्रति उक्तवती, तद्वाक्यं- पुरूरवो मा मृथा इति ऋक् हे ‘पुरूरवः !’ वृथा ‘मा मृथाः’ न म्रियस्व । “माङि लुङ्”- (पा. सू. ३ । ३ । १७५) “म्रियतेर्लुङ्लिङोश्च”- (पा. सू. १ । ३ । ६१) इत्यात्मनेपदम् । “ह्रस्वादंगात्”- (पा. सू. ८ । २ । २७) इति सिचो लोपः । एवं ‘मा प्रपप्तेः’ प्रपतनं मा कृथाः । “पत्लृ गतौ”- (धा. पा. भ्वा. प. ८७०) इत्यस्मात् “माङि लुङ्”- (पा. सू. ३ । ३ । १७५) इति लुङि लृदित्त्वात् च्लेरङादेशः । “पतः पुम्” (पा. सू. ७ । ४ । १९) इति पुमागमः । तथा ‘अशिवासः’ दुष्टाः ‘वृकासः’ वृकाः । उशब्दश्चार्थे । अरण्यश्वानश्च ‘त्वा’ त्वां ‘मा क्षन्’ मा भक्षयंतु । “अद भक्षणे”- (धा. पा. अ. प. १) इत्यस्माल्लुङि “लुङ्सनोर्घस्लृ”- (पा. सू. २ । ४ । ३७) इति घस्लादेशे “मंत्रे घस”- (पा. सू. २ । ४ । ८०) इत्यादिना च्लेर्लुक् । ततः “गमहनेजनखन०” (पा. सू. ६ । ४ । ९८) इत्यादिना उपधालोपः । वर्तमाने “न माङ्योगे" (पा. सू. ६ । ४ । ७४) इत्यडभावः । ननु- आवयोः पूर्वं महत्सख्यमस्ति स्म तदिदानीं कुत्र गतं इत्याशंक्याह- न वै स्त्रैणानीति । स्त्रियाः संबंधीनि ‘सख्यानि’ सखित्वानि न खलु ‘संति’ चिरकालरूढान्यपि सख्यानि स्त्रीषु नावतिष्ठंत इत्यर्थः । कुत एतदित्याह- सालावृकाणामिति । ‘एता’ एतदीयानि स्त्रीसंबंधीनि मनांसि ‘सालावृकाणां’ हृदयानि तद्वत् क्रूराणीत्यर्थः । इममर्थं श्रुतिः संगृह्य व्याचष्टे- मैतदादृथा इति । ‘एतत्’ मत्प्राप्त्युपायचिंतनं मा कृथाः तद्विषयमादरं मा कार्षीः । ‘न’ खलु ‘स्त्रैणं’ स्त्रीसंबंधि ‘सख्यमस्ति’ स्थिरतरं भवति । अतः पुनरात्मीयान् ‘गृहान्’ गच्छेति । गतमन्यत् ॥ ९ ॥

Eggeling
  1. She replied (X, 95, 15), ‘Purūravas, do not die! do not rush away! let not the cruel wolves devour thee! Truly, there is no friendship with women, and theirs are the hearts of hyenas 16;’–

‘Do not take this to heart! there is no friendship with women: return home!’ this is what she meant to say.

१०

विश्वास-प्रस्तुतिः

यद्वि᳘रूपा᳘ ऽचरम्॥
(म्म᳘) म᳘र्त्येष्व᳘वसᳫँ᳭ रा᳘त्रीः शर᳘दश्च᳘तस्रः। घृत᳘स्य स्तोक᳘ᳫँ᳘ सकृद᳘ह्न ऽआश्नां ता᳘ दे᳘वेदं᳘ तातृपाणा᳘ चरामी᳘ति त᳘देत᳘दुक्तप्रत्युक्तं᳘ पञ्चदशर्च्च᳘म्बह्वृचाः प्रा᳘हुस्त᳘स्यै ह हृ᳘दयमाव्यया᳘ञ्चकार॥

मूलम् - श्रीधरादि

यद्वि᳘रूपा᳘ ऽचरम्॥
(म्म᳘) म᳘र्त्येष्व᳘वसᳫँ᳭ रा᳘त्रीः शर᳘दश्च᳘तस्रः। घृत᳘स्य स्तोक᳘ᳫँ᳘ सकृद᳘ह्न ऽआश्नां ता᳘ दे᳘वेदं᳘ तातृपाणा᳘ चरामी᳘ति त᳘देत᳘दुक्तप्रत्युक्तं᳘ पञ्चदशर्च्च᳘म्बह्वृचाः प्रा᳘हुस्त᳘स्यै ह हृ᳘दयमाव्यया᳘ञ्चकार॥

मूलम् - Weber

यद्वि᳘रूपा᳘चरम्॥
म᳘र्त्येष्व᳘वसं रा᳘त्रीः शर᳘दश्च᳘तस्रः॥
घृत᳘स्य स्तोक᳘ᳫं᳘ सकृद᳘ह्नु आश्नां ता᳘देॗवेदं᳘ तातृपाणा᳘ चरामी᳘ति त᳘देत᳘दुक्तप्रत्युक्त᳘म् पञ्चदशर्च᳘म् बह्वृचाः प्रा᳘हुस्त᳘स्यै ह हृ᳘दयमाव्ययां᳘ चकार॥

मूलम् - विस्वरम्

“यद्विरूपा ऽचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः । घृतस्य स्तोकं सकृदह्न आश्नां ता देवेदं तातृपाणा चरामि” इति । तदेतदुक्तप्रत्युक्तं पञ्चदशर्चं बह्वृचाः प्राहुः । तस्यै ह हृदयमाव्ययाञ्चकार ॥ १० ॥

सायणः

इत्थं सहसा प्राप्तुकामं पुरूरवसं निराकृत्य उर्वशी स्वप्राप्त्युपायांतरं तस्योपदेष्टुं तत्कृतमुपकारं आविष्करोति- यद्विरूपेत्यादि । यद्विरूपोत्पन्ना या मानुषसंसर्गात् विगतदेवरूपा सती ‘मर्त्येषु’ मनुष्येषु मध्ये ‘अचरम्’ अवर्तिषि । तदानीं ‘रात्रीः’ रमयित्रीः ‘चतस्रः शरदः’ “अत्यंतसंयोगे द्वितीया” (पा. सू. २ । ३ । ५) इति संवत्सरचतुष्टयपर्यंतं त्वत्समीपे ‘अवसम्’ कृतनिवासा ऽस्मि तस्मिन् वा समये ‘अह्नः’ एकस्य दिवसस्य सकृदेकवारं ‘घृतस्य’ सर्पिषः ‘स्तोकं’ बिन्दुं ‘आश्नाम्’ अभुंजि । तव स्वभूतं घृतं अपिबम् इत्यर्थः । इदमिदानीं देवे देवत्वे ऽपि सति ‘तान्’ (न्-इ) वर्णलोपश्छांदसः । तस्मादेव घृतस्तोकात् ‘तातृपाणा’ तृप्ता सती ‘चरामि’ निवसामि । अतस्त्वां न विस्मरामीत्यर्थः । एवमन्यासु ऋक्षु उर्वशीपुरूरवसोः उक्तिप्रत्युक्तौ द्रष्टव्ये इत्याह- तदेतदुक्तप्रत्युक्तं पंचदशर्च्चं 17 बह्वृचाः प्राहुरिति । ‘तदेतत् पंचदशर्चं’ सूक्तं “हये जाये मनसा तिष्ठ घोरे” इत्यादिकम् ‘उक्तप्रत्युक्तं’ पुरूरवस उक्तिः उर्वश्याः प्रत्युक्तिः ताभ्यामुपेतम् ‘बह्वृचाः’ ऋक्शाखाध्यायिनः ‘प्राहुः’ प्रकर्षेणाधीयते । “हये जाये” इत्युदाहृतव्यतिरिक्तास्तत्रत्या अन्या ऋचो ऽपि अत्रानुसंधेया इत्यर्थः । समनंतरोक्ता या ऋचः तासां तात्पर्यमाह- तस्यै ह हृदयमिति । इत्थं पुरूरवसा स्नेहप्रवाहेन उक्ते सति तस्या उर्वश्याः ‘हृदयं’ मनः ‘आव्ययांचकार’ विगतकाठिन्यं बभूव । “घृतस्य स्तोकं सकृदह्न आश्नाम्” इति तत्कृतस्योपकारस्य स्मरणात् ॥ १० ॥

Eggeling
  1. (R̥g-veda X, 95, 16), ‘When changed in form, I walked among mortals, and passed the nights there during four autumns 18 ate a little ghee, once a day, and even now I feel satisfied therewith 19.’–This discourse in fifteen verses has been handed down by the Bahvr̥cas 20. Then her heart took pity on him 21.

११

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
संवत्सरतमीᳫँ᳭ रा᳘त्रिमा᳘गच्छतात्त᳘न्म ऽए᳘काᳫँ᳭ रा᳘त्रिम᳘न्ते᳘ शयिता᳘से जात᳘ ऽउ ते ऽयं त᳘र्हि पुत्रो᳘ भविते᳘ति स᳘ ह संवत्सरतमीᳫँ᳭ रा᳘त्रिमा᳘जगामे᳘द्धिरण्यविमिता᳘नि त᳘तो हैनमे᳘कमूचुरेतत्प्र᳘पद्यस्वे᳘ति त᳘द्धास्मै ता᳘मुपप्र᳘जिग्घ्युः॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
संवत्सरतमीᳫँ᳭ रा᳘त्रिमा᳘गच्छतात्त᳘न्म ऽए᳘काᳫँ᳭ रा᳘त्रिम᳘न्ते᳘ शयिता᳘से जात᳘ ऽउ ते ऽयं त᳘र्हि पुत्रो᳘ भविते᳘ति स᳘ ह संवत्सरतमीᳫँ᳭ रा᳘त्रिमा᳘जगामे᳘द्धिरण्यविमिता᳘नि त᳘तो हैनमे᳘कमूचुरेतत्प्र᳘पद्यस्वे᳘ति त᳘द्धास्मै ता᳘मुपप्र᳘जिग्घ्युः॥

मूलम् - Weber

सा᳘ होवाच॥
संवत्सरतमीं रा᳘त्रिमा᳘गछतात्त᳘न्म ए᳘कां रा᳘त्रिम᳘न्ते शयिता᳘से जात᳘ उ तेऽयं त᳘र्हि पुत्रो᳘ भविते᳘ति स᳘ ह संवत्सरतमीं रा᳘त्रिमा᳘जगामे᳘द्धिरण्यविमिता᳘नि त᳘तो हैनमे᳘कमूचुरेतत्प्र᳘पद्यस्वे᳘ति त᳘द्धास्मै ता᳘मुपप्र᳘जिध्युः 22

मूलम् - विस्वरम्

सा होवाच । संवत्सरतमीं रात्रिमागच्छतात् । तन्म एकां रात्रिमन्ते शयितासे । जात उ ते ऽयं तर्हि पुत्रो भवितेति । स ह संवत्सरतमीं रात्रिमाजगामेद्धिरण्यविमितानि । ततो हैनमेकमूचुः- एतत्प्रपद्यस्वेति । तद्धास्मै तामुपप्रजिघ्युः ॥ ११ ॥

सायणः

सा होवाचेत्यादि । इत्थमुक्तिप्रत्युक्तिभ्यां विलीनहृदया उर्वशी ‘उवाच’ पुरूरवसं प्रत्युक्तवती । ‘संवत्सरतमीं’ संवत्सरस्य पूरणीं अंतिमां रात्रिं ‘आगच्छतात्’ तत्तत्र ‘मे’ मम ‘अंते’ अंतिके निकटे तामेकां रात्रिं ‘शयितासे’ शयनं करिष्यसि । शीङो लुटि रूपम् । ‘तर्हि’ तथा सति ‘ते’ त्वदीयों ऽशो ऽयं ममोदरे गर्भरूपेण वर्तमानः ‘पुत्रो जातो भविता’ भविष्यति । भवतेर्लुट् । एवमुर्वश्योक्तः ‘सः’ पुरूरवाः संवत्सरतमीं ‘रात्रिम् आजगामेत्’ संवत्सरकालं स्थित्वा तस्यान्तिमां रात्रिमवगम्य ‘हिरण्यविमितानि’ हिरण्यविनिर्मितानि सौधानि आजगामैव । ततस्तस्मादागमनादनन्तरम् ‘एनं’ पुरूरवसं तत्रत्या जनाः ‘इदमेकमूचुः’ एतत्स्थानं ‘प्रपद्यस्व’ आरोहेति । तद्धेति । स प्रपद्य स्थितः । तत्तत्र तस्मै पुरूरवसे तामुर्वशीं ‘उपप्रजिघ्युः’ प्रेषितवंतः । “हि गतौ वृद्धौ च” (धा. पा. स्वा. प. ११) इत्यस्मात् लिटि रूपम् ॥ ११ ॥

Eggeling
  1. She said, ‘Come here the last night of the year from now 23: then shalt thou lie with me for one night, and then this son of thine will have been born.’ He came there on the last night of the year, and lo, there stood a golden palace 24! They then

said to him only this (word) 25, ‘Enter!’ and then they bade her go to him.

१२

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
गन्धर्व्वा वै᳘ ते प्रातर्व्व᳘रं दाता᳘रस्तं᳘ व्वृणासा ऽइ᳘ति तं वै᳘ मे त्व᳘मेव᳘ व्वृणीष्वे᳘ति युष्मा᳘कमेवै᳘को ऽसानी᳘ति ब्रूतादि᳘ति त᳘स्मै ह प्रात᳘र्गन्धर्व्वा व्व᳘रं ददुः स᳘ होवाच युष्मा᳘कमेवै᳘को ऽसानी᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
गन्धर्व्वा वै᳘ ते प्रातर्व्व᳘रं दाता᳘रस्तं᳘ व्वृणासा ऽइ᳘ति तं वै᳘ मे त्व᳘मेव᳘ व्वृणीष्वे᳘ति युष्मा᳘कमेवै᳘को ऽसानी᳘ति ब्रूतादि᳘ति त᳘स्मै ह प्रात᳘र्गन्धर्व्वा व्व᳘रं ददुः स᳘ होवाच युष्मा᳘कमेवै᳘को ऽसानी᳘ति॥

मूलम् - Weber

सा᳘ होवाच॥
गन्धर्वा वै᳘ ते प्रातर्व᳘रं दाता᳘रस्तं᳘ वृणासा इ᳘ति तं वै᳘ मे त्व᳘मेव᳘ वृणीष्वे᳘ति युष्मा᳘कमेवै᳘कोऽसानी᳘ति ब्रूतादि᳘ति त᳘स्मै ह प्रात᳘र्गन्धर्वा व᳘रं ददुः स᳘ होवाच युष्मा᳘कमेवै᳘कोऽसानी᳘ति॥

मूलम् - विस्वरम्

सा होवाच- गंधर्वा वै ते प्रातर्वरं दातारः । तं वृणासा इति । तं वै त्वमेव वृणीष्वेति । युष्माकमेवैको ऽसानीति ब्रूतादिति । तस्मै ह प्रातर्गन्धर्वा वरं ददुः । स होवाच- युष्माकमेवैको ऽसानीति ॥ १२ ॥

सायणः

सा होवाचेति । ‘सा’ पुनः पुरूरवसं प्राप्य एवमब्रवीत्- हे पुरूरवः ! ‘ते’ ‘प्रातर्गंधर्वाः वरम्’ ‘दातारः’ दास्यति । ‘तं’ वरम् त्वदभिलषितमर्थं ‘वृणासै’ प्रार्थयस्वेति । अथ पुरूरवा आह- तं वा इति । हे उर्वशि ! ‘मे’ मदीयम् ‘तं’ वरम् अहम् न जानामि त्वमेव मदर्थं ‘वृणीष्वेति’ येनोपायेन त्वत्प्राप्तिर्मम भवति । तमुपायम् कथय मे इत्यर्थः । सा प्रतिवक्ति- युष्माकमिति । हे गंधर्वाः ! ‘युष्माकम्’ मध्ये अहमप्येकः ‘असानि’ भवानीति । एवम् मया प्रार्थनीयो वर इति गंधर्वान् प्रति ‘ब्रूतात्’ ब्रूहीति । एवं प्रार्थनीयं वरमुपदिश्य सा निर्जगाम । अथ ‘तस्मै’ पुरूरवसे ‘प्रातः’ काले ‘गंधर्वाः’ आगत्य ‘वरम् ददुः’ । स च उर्वश्योपदिष्टमेव वरमयाचतेत्याह- स होवाचेत्यादि ॥ १२ ॥

Eggeling
  1. She then said, ‘To-morrow morning the Gandharvas will grant thee a boon, and thou must make thy choice.’ He said, ‘Choose thou for me!’–She replied, ‘Say, Let me be one of yourselves!’ In the morning the Gandharvas granted him a boon; and he said, ‘Let me be one of yourselves!’

१३

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्न) न वै सा᳘ मनु᳘ष्येष्वग्ने᳘र्यज्ञि᳘या तनू᳘रस्ति य᳘ये᳘ष्ट्वा स्मा᳘कमे᳘कः स्यादि᳘ति त᳘स्मै ह स्थाल्यामो᳘प्याग्निं प्र᳘ददुरने᳘ने᳘ष्ट्वा ऽस्मा᳘कमे᳘को भविष्यसी᳘ति त᳘ञ्च ह कुमार᳘ञ्चादाया᳘वव्व्राज सो᳘ ऽरण्य ऽए᳘वाग्निं᳘ निधा᳘य कुमारे᳘णैव ग्रा᳘ममे᳘याय पु᳘नरैमीत्ये᳘त्तिरो᳘भूतं᳘[[!!]] यो ऽग्नि᳘रश्वत्थं तं या᳘ स्थाली᳘ शमीं ताᳫँ᳭ स᳘ ह पु᳘नर्गन्धर्व्वाने᳘याय॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्न) न वै सा᳘ मनु᳘ष्येष्वग्ने᳘र्यज्ञि᳘या तनू᳘रस्ति य᳘ये᳘ष्ट्वा स्मा᳘कमे᳘कः स्यादि᳘ति त᳘स्मै ह स्थाल्यामो᳘प्याग्निं प्र᳘ददुरने᳘ने᳘ष्ट्वा ऽस्मा᳘कमे᳘को भविष्यसी᳘ति त᳘ञ्च ह कुमार᳘ञ्चादाया᳘वव्व्राज सो᳘ ऽरण्य ऽए᳘वाग्निं᳘ निधा᳘य कुमारे᳘णैव ग्रा᳘ममे᳘याय पु᳘नरैमीत्ये᳘त्तिरो᳘भूतं᳘[[!!]] यो ऽग्नि᳘रश्वत्थं तं या᳘ स्थाली᳘ शमीं ताᳫँ᳭ स᳘ ह पु᳘नर्गन्धर्व्वाने᳘याय॥

मूलम् - Weber

ते᳘ होचुः॥
न वै सा᳘ मनुॗष्येष्वग्ने᳘र्यज्ञि᳘या तनू᳘रस्ति य᳘येॗष्ट्वास्मा᳘कमे᳘कः स्यादि᳘ति त᳘स्मै ह स्थाल्यामो᳘प्याग्निम् प्र᳘ददुरने᳘नेॗष्ट्वास्मा᳘कमे᳘को भविष्यसी᳘ति तं᳘ च ह कुमारं᳘ चादाया᳘वव्राज सो᳘ऽरण्य एॗवाग्निं᳘ निधा᳘य कुमारे᳘णैव ग्रा᳘ममे᳘याय पु᳘नरैमीत्ये᳘त्तिरो᳘भूॗतं योऽग्नि᳘रश्वत्थं तं या᳘ स्थाली᳘ शमीं ताᳫं स᳘ ह पु᳘नर्गन्धर्वाने᳘याय॥

मूलम् - विस्वरम्

ते होचुः- न वै सा मनुष्येषु अग्नेर्यज्ञिया तनूरस्ति, ययेष्ट्वा ऽस्माकमेकः स्यादिति; तस्मै ह स्थाल्यामोप्याग्निं प्रददुः; अनेनेष्ट्वा ऽस्माकमेको भविष्यसीति । तं च ह कुमारं चादायावव्राज । सो ऽरण्य एवाग्निं निधाय कुमारेणैव ग्राममेयाय । पुनरैमीत्येत् । तिरोभूतं यो ऽग्निः अश्वत्थं तं, या स्थाली शमीं ताम् । स ह पुनर्गंधर्वानेयाय ॥ १३ ॥

सायणः

एवं गंधर्वरूपत्वे पुरूरवसा प्रार्थिते सति तत्प्राप्त्युपायफलं गंधर्वैरुपदेश्यमनुक्रामति- ते होचुरिति । ‘ते’ गंधर्वाः ‘ऊचुः’ ‘न’ खलु ‘अग्नेः’ संबंधिनी ‘यज्ञिया’ यज्ञार्हा सा तादृशी ‘तनूः’ ‘मनुष्येषु’ मनुष्यजातावस्ति । ‘यया’ तन्वा ‘इष्ट्वा’ यागं कृत्वा ‘अस्माकम्’ मध्ये अयम् पुरूरवाः ‘एकः स्यादिति’ विचार्य ‘तस्मै’ पुरूरवसे यज्ञार्हमग्निं ‘स्थाल्यामोप्य’ स्थापयित्वा पूरयित्वा ‘प्रददुः’ दत्तवंतः । अनेनाग्निना ‘इष्ट्वा’ अस्माकमेकस्त्वं ‘भविष्यसीति’ । एवं गंधर्वैर्दत्ते सति ‘तं’ चाग्निं उर्वशीगर्भाज्जातं च ‘कुमारमादाय’ ‘आवव्राज’ स्वस्थानमाजगाम । “व्रज गतौ” (धा. पा. भ्वा. प. २५४) इति धातुः । ‘सः’ पुरूरवाः ‘अरण्य एव’ स्थालीसहितमग्निं ‘निधाय’ ‘कुमारेणैव’ सह ‘ग्राममेयाय’ आजगाम । ततः ‘सः’ पुरूरवाः ‘पुनरैमि’ आगच्छामि, इति अरण्ये अभिनिहितम् तिरोभूतमन्तर्हितमग्निं ‘आ ऐत्’ आगच्छत् । तत्र यो ऽग्निर्निहितः तमश्वत्थमपश्यत् । तत्र या तदाधारभूता स्थाली तां शमीमपश्यत् । अग्निरश्वत्थवृक्षात्मना परिणतः, स्थाली तु शमीवृक्षरूपेण परिणता । इत्थमग्नौ तिरोहिते सति ‘सः’ पुरूरवाः ‘पुनर्गन्धर्वानेयाय’ आजगाम ॥ १३ ॥

Eggeling
  1. They said, ‘Surely, there is not among men that holy form of fire by sacrificing wherewith one would become one of ourselves.’ They put fire into a pan, and gave it to him saying, ‘By sacrificing therewith thou shalt become one of ourselves.’ He took it (the fire) and his boy, and went on his way home. He then deposited the fire in the forest, and went to the village with the boy alone. [He came back and thought] ‘Here I am back;’ and lo! it had disappeared 26: what had been the fire was an Aśvattha tree (ficus religiosa), and what had been the pan was a Śamī tree (mimosa suma). He then returned to the Gandharvas.

१४

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
संवत्सर᳘ञ्चातुष्प्राश्य᳘मोदन᳘म्पच स᳘ ऽएत᳘स्यै᳘वाश्वत्थ᳘स्य तिस्र᳘स्तिस्रः समि᳘धो घृते᳘नान्व᳘ज्य समि᳘द्वतीभिर्घृत᳘वतीभिर्ऋग्भि᳘रभ्या᳘धत्तात्स यस्त᳘तो ऽग्नि᳘र्जनिता स᳘ ऽएव स᳘ भविते᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
संवत्सर᳘ञ्चातुष्प्राश्य᳘मोदन᳘म्पच स᳘ ऽएत᳘स्यै᳘वाश्वत्थ᳘स्य तिस्र᳘स्तिस्रः समि᳘धो घृते᳘नान्व᳘ज्य समि᳘द्वतीभिर्घृत᳘वतीभिर्ऋग्भि᳘रभ्या᳘धत्तात्स यस्त᳘तो ऽग्नि᳘र्जनिता स᳘ ऽएव स᳘ भविते᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
संवत्सरं᳘ चातुष्प्राश्य᳘मोदन᳘म् पच स᳘ एत᳘स्यैॗवाश्वत्थ᳘स्य तिस्र᳘स्तिस्रः समि᳘धो घृते᳘नान्व᳘ज्य 27 समि᳘द्वतीभिर्घृत᳘वतीभिरृग्भि᳘रभ्या᳘धत्तात्स यस्त᳘तोऽग्नि᳘र्जनिता स᳘ एव स᳘ भविते᳘ति॥

मूलम् - विस्वरम्

ते होचुः- संवत्सरं चातुष्प्राश्यमोदनं पच । स एतस्यैवाश्वत्थस्य तिस्रस्तिस्रः समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिर्ऋग्भिरभ्याधत्तात् । स यस्ततो ऽग्निर्जनिता, स एव स भवितेति ॥ १४ ॥

सायणः

आगमनप्रयोजनं जानानास्ते गंधर्वाः ‘ऊचुः’ ‘चातुष्प्राश्यं’ चतुर्भिर्ऋत्विग्भिः प्राशनीयं ब्रह्मौदनं ‘संवत्सरं पच’ पचस्व । तत्रैतस्याश्वत्थस्य ‘तिस्रस्तिस्रः समिधः’ गृहीत्वा ‘घृतेनान्वज्य’ मूलादारभ्यांतपर्यंतं आज्येनाक्त्वा ‘समिद्वतीभिः’ समित्पदयुक्ताभिः ‘घृतवतीभिः’ घृतशब्दयुक्ताभिः “समिधा ऽग्निं दुवस्यत” इत्यादिभिर्ऋग्भिः अभ्याधत्स्व । अस्मिन् व्रते कृते सति ‘ततः’ समिदाधानान्निमित्तात् ‘यो ऽग्निर्जनिता’ जनिष्यते । सो ऽयं ‘स एव भविता’ भविष्यति । यो ऽस्माभिः पूर्वं दत्त इति ॥ १४ ॥

Eggeling
  1. They said, ‘Cook for a whole year a mess of rice sufficient for four persons; and taking each time three logs from this Aśvattha tree, anoint them with ghee, and put them on the fire with

verses containing the words “log” and “ghee”: the fire which shall result therefrom will be that very fire (which is required).’

१५

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
परो᳘ ऽक्षमिव वा᳘ ऽएतदा᳘श्वत्थीमे᳘वोत्तरारणिं᳘ कुरुष्व शमीम᳘यीमधरारणिᳫँ᳭ स यस्त᳘तो ऽग्नि᳘र्जनिता स᳘ ऽएव स᳘ भविते᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
परो᳘ ऽक्षमिव वा᳘ ऽएतदा᳘श्वत्थीमे᳘वोत्तरारणिं᳘ कुरुष्व शमीम᳘यीमधरारणिᳫँ᳭ स यस्त᳘तो ऽग्नि᳘र्जनिता स᳘ ऽएव स᳘ भविते᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
परो᳘ऽक्षमिव वा᳘ एतदा᳘श्वत्थीमेॗवोत्तरारणिं᳘ कुरुष्व शमीम᳘यीमधरारणिᳫं स यस्त᳘तोऽग्नि᳘र्जनिता स᳘ एव स᳘ भविते᳘ति॥

मूलम् - विस्वरम्

ते होचुः- परो ऽक्षमिव वा एतत् । अश्वत्थीमेवोत्तरारणिं कुरुष्व; शमीमयीमधरारणिम् । स यस्ततो ऽग्निर्जनिता, स एव स भवितेति ॥ १५ ॥

सायणः

ते होचुरिति । ‘ते’ पुनर्गंधर्वा विचार्योचुः । यदेतत् अश्वत्थसमिदाधानेनाग्नेः पुनः संपादनं ‘एतत्परो ऽक्षमिव’ व्यवहितमिव खलु भवति । तस्मादन्य उपायः कथ्यते । हे पुरूरवः ! त्वं ‘आश्वत्थी’ अश्वत्थविकृतिजामेवोत्तरारणिं ‘कुरुष्व’ ‘अधरारणिं शमीमयीं’ तथा च अग्न्यात्मकस्य उपर्यवस्थानं, स्थाल्यात्मिकायाः शम्या अधस्तात् स्थितिश्चेत्युभयमप्युपपद्यते । ततस्तस्मादरणिद्वयात् मंथनेन यः ‘अग्निर्जनिता’ इत्यादि पूर्ववत् ॥ १५॥

Eggeling
  1. They said, ‘But that is recondite (esoteric), as it were. Make thyself rather an upper araṇi 28 of Aśvattha wood, and a lower araṇi of Sami wood: the fire which shall result therefrom will be that very fire.’

१६

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
परो᳘ ऽक्षमिव वा᳘ ऽएतदा᳘श्वत्थीमे᳘वोत्तरारणिं᳘ कुरुष्वा᳘श्वत्थीमधरारणिᳫँ᳭ स यस्त᳘तो ऽग्नि᳘र्ज्जनिता स᳘ ऽएव स᳘ भविते᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
परो᳘ ऽक्षमिव वा᳘ ऽएतदा᳘श्वत्थीमे᳘वोत्तरारणिं᳘ कुरुष्वा᳘श्वत्थीमधरारणिᳫँ᳭ स यस्त᳘तो ऽग्नि᳘र्ज्जनिता स᳘ ऽएव स᳘ भविते᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
परो᳘ऽक्षमिव वा᳘ एतदा᳘श्वत्थीमे᳘वोत्तरारणिं᳘ कुरुष्वा᳘श्वत्थीमधरारणिᳫं स यस्त᳘तोऽग्नि᳘र्जनिता स᳘ एव स᳘ भविते᳘ति॥

मूलम् - विस्वरम्

ते होचुः- परो ऽक्षमिव वा एतत् । आश्वत्थीमेवोत्तरारणिं कुरुष्व; आश्वत्थीमधरारणिम् । स यस्ततो ऽग्निर्जनिता, स एव स भवितेति ॥ १६ ॥

सायणः

पक्षान्तरमाह- ते होचुरिति । ‘ते’ गंधर्वाः पुनरप्यूचुः । यदेतत् अधरारण्युत्तरारण्योः वृक्षद्वयजत्वम् । ‘एतत्परो ऽक्षमिव’ अंतर्हितमिव भवति । तस्मादरणिद्वयमपि अश्वत्थवृक्षजं कुर्यात् । स यस्ततो ऽग्निरित्यादि पूर्ववत् ॥ १६ ॥

Eggeling
  1. They said, ‘But that also is, as it were, recondite. Make thyself rather an upper araṇi of Aśvattha wood, and a lower araṇi of Aśvattha wood: the fire which shall result therefrom will be that very fire.’

१७

विश्वास-प्रस्तुतिः

स ऽआ᳘श्वत्थीमे᳘वोत्तरारणि᳘ञ्चक्रे[[!!]]॥
(क्र ऽ) आ᳘श्वत्थीमधरारणिᳫँ᳭ स यस्त᳘तो ऽग्नि᳘र्ज्जज्ञे स᳘ ऽएव स᳘ ऽआस ते᳘नेष्ट्वा᳘ गन्धर्व्वा᳘णामे᳘क ऽआस त᳘स्मादा᳘श्वत्थीमे᳘वोत्तरारणिं᳘ कुर्व्वीता᳘श्वत्थीमधरारणिᳫँ᳭स यस्त᳘तो ऽग्निर्ज्जा᳘यते स᳘ ऽएव स᳘ भवति ते᳘नेष्ट्वा᳘ गन्धर्व्वा᳘णामे᳘को भवति॥

मूलम् - श्रीधरादि

स ऽआ᳘श्वत्थीमे᳘वोत्तरारणि᳘ञ्चक्रे[[!!]]॥
(क्र ऽ) आ᳘श्वत्थीमधरारणिᳫँ᳭ स यस्त᳘तो ऽग्नि᳘र्ज्जज्ञे स᳘ ऽएव स᳘ ऽआस ते᳘नेष्ट्वा᳘ गन्धर्व्वा᳘णामे᳘क ऽआस त᳘स्मादा᳘श्वत्थीमे᳘वोत्तरारणिं᳘ कुर्व्वीता᳘श्वत्थीमधरारणिᳫँ᳭स यस्त᳘तो ऽग्निर्ज्जा᳘यते स᳘ ऽएव स᳘ भवति ते᳘नेष्ट्वा᳘ गन्धर्व्वा᳘णामे᳘को भवति॥

मूलम् - Weber

स आ᳘श्वत्थीमेॗवोत्तरारणिं᳘ चक्रे᳟॥
आ᳘श्वत्थीमधरारणिᳫं स यस्त᳘तोऽग्नि᳘र्जज्ञे स᳘ एव स᳘ आस ते᳘नेष्ट्वा᳘ गन्धर्वा᳘णामे᳘क आस त᳘स्मादा᳘श्वत्थीमेॗवोत्तरारणिं᳘ कुर्वीता᳘श्वत्थीमधरारणिᳫं स यस्त᳘तोऽग्निर्जा᳘यते स᳘ एव स᳘ भवति ते᳘नेष्ट्वा᳘ गन्धर्वा᳘णामे᳘को भवति॥

मूलम् - विस्वरम्

स आश्वत्थीमेवोत्तरारणिं चक्रे; आश्वत्थीमधरारणिम् । स यस्ततो ऽग्निर्जज्ञे । स एव स आस । तेनेष्ट्वा गंधर्वाणामेक आस । तस्मादाश्वत्थीमेवोत्तरारणिं कुर्वीत; आश्वत्थीमधरारणिम् । स यस्ततो ऽग्निर्जायते, स एव स भवति । तेनेष्ट्वा गंधर्वाणामेको भवति ॥ १७ ॥

सायणः

स आश्वत्थीमेवेत्यादि । इत्थं गन्धर्वैरुपदिष्टे सति पुरूरवाः ‘आश्वत्थीमेवोत्तराणिं चक्रे’ कृतवान् आश्वत्थीमेवाधरारणिं च ‘चक्रे’ कृतवान् । ततस्ताभ्यां मंथनात् ‘सः’ तादृशो ऽग्निर्जज्ञे यः प्रागरण्ये निहितः । गंधर्वैर्दत्तो ऽग्निः ‘स एव आस’ बभूव । अग्निरूपात्केवलादश्वत्थात् अव्यवधानेन जायमानत्वात् । अथ स पुरूरवाः ‘तेन’ मथितेनाग्निना ‘इष्ट्वा’ गंधर्वाणामेक आस’ बभूव । इत्थमाख्यायिकासिद्धं अरण्योरश्वत्थोपादानत्वं अधुना यजमानस्यापि विधत्ते- तस्मादिति । यस्मादेवं पुरूरवाः अश्वत्थयोन्यग्निना इष्ट्वा स्वाभीष्टमालभत । तस्मादिदानींतनो यजमानो ऽपि ‘आश्वत्थीमेव अधरारणिमुत्तरारणिं च ‘कुर्वीत’ । ‘ततः’ संकाशाद्यो ऽग्निर्जायते ‘स एव’ यज्ञार्हो देवेष्ववस्थितो ऽग्निर्भवति । गतमन्यत् ॥ १७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे पंचमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (११-५-१) ॥

Eggeling
  1. He then made himself an upper araṇi of Aśvattha wood, and a lower araṇi of Aśvattha wood; and the fire which resulted therefrom was that very fire: by offering therewith he became one of the Gandharvas. Let him therefore make himself an upper and a lower araṇi of Aśvattha wood, and the fire which results therefrom will be that very fire: by offering therewith he becomes one of the Gandharvas.

  1. 68:3 King Purūravas, of the lunar race of kings, is considered the son of Budha (the planet Mercury, and son of Soma). On this myth (based on the hymn R̥g-veda S. X, 95) see Prof. Max Müller, Oxford Essays (1856), p. 61 seqq.; (reprinted in Chips from a German Workshop, II, p. 102 seqq.); A. Kuhn, Herabkunft des Feuers and des Göttertranks, p. 81 seqq. (2nd ed. p. 73 seqq.); Weber, Ind. Streifen I, p. 16 seqq.; K. F. Geldner, in Pischel and Geldner’s Vedische Studien I, p. 244 seqq.; cf. H. Oldenberg, Religion des Veda, p. 213. ↩︎

  2. 69:1 Vaitasena daṇḍena hatād,–vaitaso daṇḍaḥ puṁvyañjanasya nāma; uktaṁ hi Yāskena, śepo vaitasa iti puṁsprajananasyeti (Nir. III, 22), Sāy. ↩︎

  3. 69:2 Akāmāṁ kāmarahitāṁ suratābhilāsharahitāṁ ca māṁ mā sma nipadyāsai nigr̥hya māṁ prāpnuyāḥ, Sāy. ↩︎

  4. 69:3 The Gandharvas are the natural companions and mates of the Apsaras, or nymphs. ↩︎

  5. 69:4 Literally, ‘my son,’–madīyaṁ putratvena svīkr̥tam uraṇadvayam, Sāy. ↩︎

  6. ‘ऐत्’ इति साधीयान् । ‘एत्’ इति प्रमादादार्षत्वाद्वा जातं प्रतिभाति । ↩︎

  7. तस्यै हाधि - अन्तेन Sâyaṇa against the accent. ↩︎

  8. 70:1 Cf. C. Gaedicke, Der Accusativ im Veda (1880), p. 211. Previous translators had assigned the words ‘punar emi’ (I come back) to Urvaśī; and in view of the corresponding passage in paragraph 13, the new interpretation is just a little doubtful. ↩︎

  9. 70:2 The text has ‘āti,’ some kind of water-bird–jalacarapakshiviśeshaḥ, Sāy.–(probably Gr. νῆσσα; Lat. anas, anat-is; Anglo-S. æned, Germ. Ente). ↩︎

  10. 70:3 That is, they became visible, or rather recognisable to him by showing themselves in their real forms,–pakshirūpaṁ vihāya svakīyena rūpeṇa prādur babhūvuḥ, Sāy.–In Kālidāsa’s plays, both Urvaśī and Śakuntalā become invisible by means of a magic veil (tiraskariṇī, ‘making invisible’) with which has been compared the magic veil by which the swan-maidens change their form. A. Weber, Ind. Stud. I, p. 197; A. Kuhn, Herabkunft, p. 91. ↩︎

  11. 70:4 Manasā tishṭḥa ghore,–possibly it may mean, ‘O cruel one, be thou constant in (thy) mind;’ or, as Kuhn takes it, ‘pay attention, O cruel one.’ Sāyaṇa, however, takes it as above. ↩︎

  12. अग्र्येव Sây. ↩︎

  13. 71:1 This is a doubtful rendering (Max Müller; Gespiele, A. Weber) of ‘sudeva,’–Göttergenoss (the companion of the gods), Kuhn; ‘dem die Götter einst hold waren’ (he who was formerly favoured by the gods), Grassmann; Sudeva, Ludwig. ↩︎

  14. 71:2 Or, will fall down (Max Müller, Weber); sich in’s Verderben stürzen (will rush to his destruction), Kuhn;–forteilen (hasten away), Grassmann; verloren gehen (get lost), Ludwig; sich in den Abgrund stürzen, Geldner;–‘mahāprasthānaṁ kuryāt’ (he will set out on the great journey, i.e. die), Sāyaṇa. The Brāhmaṇa seems to propose two different renderings,–to throw oneself down (hang oneself), or, to start forth. ↩︎

  15. 71:3 Nirr̥ti is the goddess of decay or death. ↩︎

  16. 71:4 The meaning of ‘sālāvr̥ka,’ also spelled ‘śālāvr̥ka’ (? house-wolves), is doubtful; cf. H. Zimmer, Altindisches Leben, p. 8. Prof. Weber, Ind. Stud. I, p. 413, makes the suggestion that ‘wehrwolves’ may be intended. ↩︎

  17. शांखायणानामेतत्सूक्तम् इति प्रतायत “पंचदशर्चम्” इति श्रुतिप्रत्यासत्त्या । आश्वलायनानां तु एतत्सूक्तमष्टादशर्चम् । शाकलसंहितायां तथा ऽऽम्नानात् । अत्र तन्मध्यात्पञ्च ऋचः श्रुत्योदाहृताः अन्या अवशिष्टा ऋचस्तु ऋग्वेदे ८ । ५ । ३-१३, १७-१८ इत्यतो ऽवगन्तव्याः । नात्र विस्तरभियोद्ध्रियन्ते ॥ ↩︎

  18. 72:1 The words ‘rātrīḥ śaradaś catasraḥ’ may also be taken in the sense of ‘four nights of the autumn’ (Max Müller, A. Kuhn). It needs hardly to be remarked that ’nights’ means days and nights, and ‘autumns’ years.–Sāyaṇa takes the passage in the sense of ‘four delightful (rātrīḥ ramayitrīḥ) autumns or years.’ ↩︎

  19. 72:2 Literally, I walk (or go on, keep) being satisfied therewith. Prof. Geldner, however, takes it in an ironical sense, ‘das Bischen liegt mir jetzt noch schwer im Magen’ (’even now I have quite enough of that little’). ↩︎

  20. 72:3 That is, the theologians of the R̥g-veda. As Prof. Weber points out, the hymn referred to, in the received version, consists not of fifteen but of eighteen verses, three of which would therefore seem to be of later origin (though they might, of course, belong to a different recension from that referred to by the Brāhmaṇa). ↩︎

  21. 72:4 Or, according to Prof. Geldner, ‘Then he touched her heart (excited her pity).’ ↩︎

  22. प्रजिग्युः A. ↩︎

  23. 72:5 Literally, the yearliest night, i.e. the 360th night, the last night of a year from now, or, this night next year: it is the night that completes the year, just as ’the fifth’ completes the number ‘five;’–saṁvatsaratamīṁ saṁvatsarapūraṇīm antimāṁ rātrim, Sāy. Cf. Delbrück, Altind. Syntax, p. 195. ↩︎

  24. 72:6 Hiraṇyavimitāni hiraṇyanirmitāni saudhāni, Sāy. ↩︎

  25. 73:1 Thus also A. Kuhn, and Sāyaṇa, tato hainam ekam ūcur etat, prapadyasveti,–enam Purūravasaṁ tatratyā janā idam ekam ūcuḥ, Sāy.–The word ’ekam’ might also be taken along with ’enam’ (Max Müller, Weber, Geldner),–’they said this to him alone’ (? they bade him enter alone without his attendants). ↩︎

  26. 73:2 See above, paragraph 4 and note on p. 70. According to the other interpretation we should have to translate:–He then deposited the fire in the forest, and went to the village with the boy alone, thinking, ‘I (shall) come back.’ [He came back] and lo! it had disappeared. ↩︎

  27. घृतेनाभ्यज्य Sây. ↩︎

  28. 74:1 That is, a churning-stick used for producing fire; see part i, p. 275; p. 294, note 3. ↩︎