०१
विश्वास-प्रस्तुतिः
अथा᳘तो हवि᳘षः स᳘मृद्धिः॥
ष᳘ड्ढ वै ब्र᳘ह्मणो द्वा᳘रो ऽग्नि᳘र्व्वायुरा᳘पश्चन्द्र᳘मा व्वि᳘द्यु᳘दादित्यः[[!!]]॥
मूलम् - श्रीधरादि
अथा᳘तो हवि᳘षः स᳘मृद्धिः॥
ष᳘ड्ढ वै ब्र᳘ह्मणो द्वा᳘रो ऽग्नि᳘र्व्वायुरा᳘पश्चन्द्र᳘मा व्वि᳘द्यु᳘दादित्यः[[!!]]॥
मूलम् - Weber
अथा᳘तो हवि᳘षः स᳘मृद्धिः॥
ष᳘ड्ढ वै ब्र᳘ह्मणो द्वा᳘रोऽग्नि᳘र्वायुरा᳘पश्चन्द्र᳘मा विद्यु᳘दादित्यः᳟॥
मूलम् - विस्वरम्
हविरादिसमृद्ध्यभिधायकं ब्राह्मणम् ।
अथातो हविषः समृद्धिः । षड् ह वै ब्रह्मणो द्वारः । अग्निर्वायुरापश्चंद्रमा विद्युदादित्यः ॥ १ ॥
सायणः
दाहविपतनादिदोषदुष्टस्यापि हविषः समृद्ध्युपायं उपासनं विधित्सुः प्रतिजानीते- अथातो हविषः समृद्धिरिति । येनोपायेन ‘हविषः समृद्धिः’ भवति स उच्यत इत्यर्थः । विधित्सितस्योपासनस्य विषयभूतमुपास्यं प्रतिपादयति- षड्ढ वा इति । ‘ब्रह्मणः’ ब्रह्मलोकस्य ‘द्वारः’ द्वाराणि ‘षट्’ भवंति । तानि चाग्न्यादीनि ॥ १ ॥
Eggeling
- Now, as to the successful issue of the sacrificial food. Now, indeed, there are six doors to the Brahman 1–to wit, fire, wind, the waters, the moon, lightning, and the sun.
०२
विश्वास-प्रस्तुतिः
स य ऽउ᳘पदग्धेन हवि᳘षा य᳘जते॥
(ते ऽग्नि᳘) अग्नि᳘ना ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते᳘ सो ऽग्नि᳘ना ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - श्रीधरादि
स य ऽउ᳘पदग्धेन हवि᳘षा य᳘जते॥
(ते ऽग्नि᳘) अग्नि᳘ना ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते᳘ सो ऽग्नि᳘ना ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - Weber
स य उ᳘पदग्धेन हवि᳘षा य᳘जते॥
अग्नि᳘ना ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यतेॗ सोऽग्नि᳘ना ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫं सलोक᳘तां जयति॥
मूलम् - विस्वरम्
स य उपदग्धेन हविषा यजते; अग्निना ह स ब्रह्मणो द्वारेण प्रतिपद्यते । सो ऽग्निना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति ॥ २ ॥
सायणः
तत्र यतो ऽग्निर्ब्रह्मणो द्वारं ततः तेनोपदग्धो हविर्यागः अग्न्याख्येन ‘द्वारेण’ ब्रह्मलोकप्राप्त्युपाय इत्याह- स य उपदग्धेनेति । तस्य विदुषो न केवलं ब्रह्मप्रपदनमात्रं, अपि तु तत्सायुज्यादिकमपि फलमित्याह- सो ऽग्निना ब्रह्मणो द्वारेणेति ॥ २ ॥
Eggeling
- He who offers with slightly burnt sacrificial food, enters through the fire-door 2 of the Brahman;
and, by entering through the fire-door of the Brahman, he wins his union with, and participation in the world of, the Brahman.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यो व्वि᳘पतितेन हवि᳘षा य᳘जते॥
व्वायुना[[!!]] ह᳘ स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ व्वायुना[[!!]] ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यो व्वि᳘पतितेन हवि᳘षा य᳘जते॥
व्वायुना[[!!]] ह᳘ स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ व्वायुना[[!!]] ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - Weber
अ᳘थ यो वि᳘पतितेन हवि᳘षा य᳘जते॥
वायु᳘ना ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ वायु᳘ना ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫं सलोक᳘तां जयति॥
मूलम् - विस्वरम्
अथ यो विपतितेन हविषा यजते; वायुना ह स ब्रह्मणो द्वारेण प्रतिपद्यते । स वायुना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति ॥ ३ ॥
सायणः
वायुर्ब्रह्मद्वारमित्याद्युपासनस्य फलमाह- अथ यो विपतितेनेति । ‘यः’ यजमानः प्रमादाद्विपतितेन भूमौ पतितेन ‘हविषा यजते’, तत्र विपतनक्रियाया वाय्वधीनत्वात् वायोर्बुद्धिस्तत्र कार्या । स च वायुलक्षणेन ‘ब्रह्मणो द्वारेण’ ‘प्रतिपद्यते’ । तेन ब्रह्मणा ‘सायुज्यम्’ एकीभावं ‘सलोकतां’ समानलोकतां ‘जयति’ । एवमुत्तरत्रापि योज्यम् ॥ ३ ॥
Eggeling
- And he who offers with sacrificial food that has fallen (on the ground) enters through the wind-door of the Brahman; and, by entering through the wind-door of the Brahman, he wins his union with, and participation in the world of, the Brahman.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यो᳘ ऽशृतेन हवि᳘षा य᳘जते॥
(ते ऽद्भि᳘) अद्भि᳘र्हि स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते᳘ सो ऽद्भिर्ब्र᳘ह्मणो[[!!]] द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यो᳘ ऽशृतेन हवि᳘षा य᳘जते॥
(ते ऽद्भि᳘) अद्भि᳘र्हि स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते᳘ सो ऽद्भिर्ब्र᳘ह्मणो[[!!]] द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - Weber
अ᳘थ यो᳘ऽशृतेन हवि᳘षा य᳘जते॥
अद्भि᳘र्हि स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यतेॗ सोऽद्भि᳘र्ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳟॥
मूलम् - विस्वरम्
अथ यो ऽशृतेन हविषा यजते; अद्भिर्ह स ब्रह्मणो द्वारेण प्रतिपद्यते । सो ऽद्भिर्ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति ॥ ४ ॥
सायणः
अथ यो ऽशृतेनेति । ‘यः’ यजमानः अशृतेनापक्वेन ‘हविषा यजते’ । तत्राशृतत्वं जलावयवकृतमिति तद्बुद्धिस्तत्र कार्या । तस्य फलमाह- अद्भिर्हेति । गतप्रायमेतत् ॥ ४ ॥
Eggeling
- And he who offers with uncooked sacrificial food, enters through the water-door of the Brahman; and, by entering through the water-door of the Brahman, he wins his union with, and participation in the world of, the Brahman.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य ऽउ᳘परक्तेन हवि᳘षा य᳘जते॥
चन्द्र᳘मसा ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ चन्द्र᳘मसा ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य ऽउ᳘परक्तेन हवि᳘षा य᳘जते॥
चन्द्र᳘मसा ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ चन्द्र᳘मसा ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - Weber
अ᳘थ य उ᳘परक्तेन हवि᳘षा य᳘जते॥
चन्द्र᳘मसा ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ चन्द्र᳘मसा ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳟॥
मूलम् - विस्वरम्
अथ य उपरक्तेन हविषा यजते; चंद्रमसा ह स ब्रह्मणो द्वारेण प्रतिपद्यते । स चंद्रमसा ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति ॥ ५ ॥
सायणः
अथ य उपरक्तेनेति । ‘अथ यः’ यजमानः ‘उपरक्तेन’ उपांतस्थितरक्तिमगुणेन ‘हविषा यजते’ । तत्र हविष उपांतरक्तत्वं यत् तत् चंद्रबिंबसदृशमिति, तत्र तद्बुद्धिः कार्या । चंद्रमसा ह स इत्यादि पूर्ववत् योज्यम् ॥ ५ ॥
Eggeling
- And he who offers with slightly browned sacrificial food, enters through the moon-door of the Brahman, and, by entering through the moon-door of the Brahman, he wins his union with, and participation in the world of, the Brahman.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यो लो᳘हितेन हवि᳘षा य᳘जते॥
व्विद्यु᳘ता ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ व्विद्यु᳘ता ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यो लो᳘हितेन हवि᳘षा य᳘जते॥
व्विद्यु᳘ता ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ व्विद्यु᳘ता ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति॥
मूलम् - Weber
अ᳘थ यो लो᳘हितेन हवि᳘षा य᳘जते॥
विद्यु᳘ता ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ विद्यु᳘ता ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳟॥
मूलम् - विस्वरम्
अथ यो लोहितेन हविषा यजते; विद्युता ह स ब्रह्मणो द्वारेण प्रतिपद्यते । स विद्युता ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति ॥ ६ ॥
सायणः
अथ यो लोहितेनेत्यादि । ‘यः’ यजमानः ‘लोहितेन’ सर्वतो रक्तवर्णेन ‘हविषा यजते’ । तत्र लोहितत्वं विद्युद्धर्म इति तद्बुद्धिस्तत्र कार्या । विद्युता हेत्यादि पूर्ववत् ॥ ६ ॥
Eggeling
- And he who offers with browned sacrificial food, enters through the lightning-door of the Brahman, and, by entering through the lightning-door of the Brahman, he wins his union with, and participation in the world of, the Brahman.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यः सु᳘शृतेन हवि᳘षा य᳘जते॥
(त ऽ) आदित्ये᳘न ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ ऽआदित्ये᳘न ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति᳘ सैषा᳘ हवि᳘षः स᳘मृद्धिः स यो᳘ हैव᳘मेता᳘ᳫँ᳘ हवि᳘षः स᳘मृद्धिं व्वे᳘द सर्व्वसमृद्धेन है᳘वास्य हवि᳘षेष्टं[[!!]] भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यः सु᳘शृतेन हवि᳘षा य᳘जते॥
(त ऽ) आदित्ये᳘न ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ ऽआदित्ये᳘न ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति᳘ सैषा᳘ हवि᳘षः स᳘मृद्धिः स यो᳘ हैव᳘मेता᳘ᳫँ᳘ हवि᳘षः स᳘मृद्धिं व्वे᳘द सर्व्वसमृद्धेन है᳘वास्य हवि᳘षेष्टं[[!!]] भवति॥
मूलम् - Weber
अ᳘थ यः सु᳘शृतेन हवि᳘षा य᳘जते॥
आदित्ये᳘न ह स ब्र᳘ह्मणो द्वा᳘रेण प्र᳘तिपद्यते स᳘ आदित्ये᳘न ब्र᳘ह्मणो द्वा᳘रेण प्रतिप᳘द्य ब्र᳘ह्मणः सा᳘युज्यᳫं सलोक᳘तां जयतिॗ सैषा᳘ हवि᳘षः स᳘मृद्धिः स यो᳘ हैव᳘मेता᳘ᳫं᳘ हवि᳘षः स᳘मृद्धिं वे᳘द सर्व᳘समृद्धेन हैॗवास्य हवि᳘षेष्ट᳘म् भवति॥
मूलम् - विस्वरम्
अथ यः सुशृतेन हविषा यजते; आदित्येन ह स ब्रह्मणो द्वारेण प्रतिपद्यते । स आदित्येन ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति । सैषा हविषः समृद्धिः । स यो हैवमेतां हविषः समृद्धिं वेद । सर्वसमृद्धेन हैवास्य हविषेष्टं भवति ॥ ७ ॥
सायणः
इत्थमपाकातिपाकहविषामुपासनानि उक्तानि । सुशृतहविर्विषयमाह- अथ यः सुशृतेनेति । सुष्ठु सम्यक् शृतेन ‘हविषा’ पुरोडाशादिना ‘यः यजते’ तत्र सम्यक् पाक आदित्यधर्मः, अतस्तत्र हविषि आदित्यबुद्धिः कार्या । आदित्येनेत्यादि पूर्ववत् । एवमुपदग्धादीनां हविषां या इयं अग्न्याद्यात्मकता उक्ता ‘सा एषा हविषः समृद्धिः’ । सा उपासकस्यैव उक्तफलहेतुरित्याह- स यो हैवमेतामिति । उपदाहादिदोषस्यापि समृद्धिरूपेण वेदनात् ‘अस्य’ विदुषः ‘सर्वसमृद्धेनैव हविषा’ यागः कृतो भवतीत्यर्थः ॥ ७ ॥
Eggeling
- And he who offers with well-cooked sacrificial food, enters through the sun-door of the Brahman; and, by entering through the sun-door of the Brahman, he wins his union with, and participation in the world of, the Brahman. This, then, is the successful issue of the sacrificial food, and, verily, whosoever thus knows this to be the successful issue of the sacrificial food, by him offering is made with wholly successful sacrificial food.
०८
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो यज्ञ᳘स्य स᳘मृद्धिः॥
(र्य) यद्वै᳘ यज्ञस्य᳘[[!!]] न्यूनं प्रज᳘ननमस्य तद᳘थ यद᳘तिरिक्तं पश᳘व्यमस्य[[!!]] तद᳘थ य᳘त्सङ्क᳘सुकᳫँ᳭ श्रिया᳘ ऽअस्य तद᳘थ यत्स᳘म्पन्नᳫँ᳭ स्व᳘र्ग्ग्यमस्य तत्[[!!]]॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो यज्ञ᳘स्य स᳘मृद्धिः॥
(र्य) यद्वै᳘ यज्ञस्य᳘[[!!]] न्यूनं प्रज᳘ननमस्य तद᳘थ यद᳘तिरिक्तं पश᳘व्यमस्य[[!!]] तद᳘थ य᳘त्सङ्क᳘सुकᳫँ᳭ श्रिया᳘ ऽअस्य तद᳘थ यत्स᳘म्पन्नᳫँ᳭ स्व᳘र्ग्ग्यमस्य तत्[[!!]]॥
मूलम् - Weber
अथा᳘तो यज्ञ᳘स्य स᳘मृद्धिः॥
यद्वै᳘ यज्ञ᳘स्यॗ न्यूनम् प्रज᳘ननमस्य तद᳘थ यद᳘तिरिक्तम् पशव्य᳘मस्य तद᳘थ य᳘त्संक᳘सुकं श्रिया᳘ अस्य तद᳘थ यत्स᳘म्पन्नᳫं स्वर्ग्य᳘मस्य त᳘त्॥
मूलम् - विस्वरम्
अथातो यज्ञस्य समृद्धिः । यद्वै यज्ञस्य न्यूनं प्रजननमस्य तत् । अथ यदतिरिक्तं पशव्यमस्य तत् । अथ यत्संकसुकं श्रिया अस्य तत् । अथ यत्संपन्नं स्वर्ग्यमस्य तत् ॥ ८ ॥
सायणः
इत्थं हविषः समृद्धिमुपपाद्य, अथ तत्साध्यस्य यज्ञस्यापि न्यूनत्वादिदोषपरिहाराय समृद्धिं वक्तुं प्रतिजानीते- अथातो यज्ञस्य समृद्धिरिति । यतो वक्ष्यमाणप्रकारेण न्यूनत्वादिदोषाः परिह्रियंते अतः कारणात् यज्ञस्य समृद्धिरधिक्रियत इत्यर्थः । अथ तां समृद्धिं वक्तुं न्यूनत्वादिधर्माणां तावत् यज्ञावयवत्वमाह- यद्वै यज्ञस्येति । ‘यद्वै’ यत् खलु यज्ञसंबंधि ‘न्यूनं’ प्रमादादनुष्ठितमङ्गम् । ‘तदस्य’ यज्ञस्य ‘प्रजननं’ प्रजोत्पत्तिसाधनमिन्द्रियम् । ‘अथ’ यज्ञसंबंधि ‘यदतिरिक्तं’ प्रमादादनुष्ठितमङ्गम् । ‘तत्पशव्यं’ पशुहितम् । ‘यत् संकसुकं’ दोषसंमिश्रमङ्गं कृतं ‘श्रियै अस्य तत्’ । ‘अथ यत् संपन्नं’ सम्यगनुष्ठितं कर्म ‘तदस्य’ यज्ञस्य ‘स्वर्ग्यं’ स्वर्गप्राप्त्युपायभूतं रूपम् ॥ ८ ॥
Eggeling
- Then, as to the successful issue of the sacrifice. Now, whatever part of the sacrifice is incomplete
(nyūna) that part of it is productive for him 3; and what is redundant in it that is favourable to cattle; and what is broken (disconnected) 4 in it that makes for prosperity; and what is perfect in it that is conducive to heaven.
०९
विश्वास-प्रस्तुतिः
(त्स) स य᳘दि म᳘न्येत᳘॥
न्यूनम्मे य᳘ज्ञे ऽभूदि᳘ति प्रज᳘ननम्म ऽएतत्प्र᳘जनिष्य ऽइ᳘त्येव तदु᳘पासीत॥
मूलम् - श्रीधरादि
(त्स) स य᳘दि म᳘न्येत᳘॥
न्यूनम्मे य᳘ज्ञे ऽभूदि᳘ति प्रज᳘ननम्म ऽएतत्प्र᳘जनिष्य ऽइ᳘त्येव तदु᳘पासीत॥
मूलम् - Weber
स य᳘दि म᳘न्येत᳟᳟॥
न्यूनम् मे यॗज्ञेऽभूदि᳘ति प्रज᳘ननम् म एतत्प्र᳘जनिष्य इ᳘त्येव तदु᳘पासीत॥
मूलम् - विस्वरम्
स यदि मन्येत । न्यूनं मे यज्ञे ऽभूदिति । प्रजननं म एतत् । प्रजनिष्य इत्येव तदुपासीत ॥ ९ ॥
सायणः
अथ एतदुपजीवनेन यज्ञसमृद्ध्यर्थं तदुपास्तिमाह- स यदि मन्येतेति । ‘सः’ यजमानः ‘यदि मन्येत’ जानीयात् । मदीये ‘यज्ञे’ ‘न्यूनं’ किमपि अंगमनुष्ठितमिति । तदानीं स यजमानः ‘मे’ मदीयं ‘एतत् न्यूनं’ यज्ञसंबंधि ‘प्रजननं’ प्रजासाधनम् । अतः अहं ‘प्रजनिष्ये’ पुत्राद्यात्मना प्रकर्षेण जनिष्ये इति अनेन रूपेण तन्न्यूनमुपासीत जानीयात् ध्यायेद्वा । अनया उपासनया न्यूनत्वदोषपरिहारे सति यज्ञसमृद्धिर्भवतीति भावः ॥ ९ ॥
Eggeling
- And if he think, ‘There has been that which was incomplete in my sacrifice,’ let him believe, ‘That is productive for me: I shall have offspring produced (in men and cattle).’
१०
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ य᳘दि म᳘न्येत॥
(ता᳘) अ᳘तिरिक्तं मे य᳘ज्ञे ऽभूदि᳘ति पशव्य᳘म्म एत᳘त्पशुमा᳘न्भविष्यामी᳘त्येव तदु᳘पासीत॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ य᳘दि म᳘न्येत॥
(ता᳘) अ᳘तिरिक्तं मे य᳘ज्ञे ऽभूदि᳘ति पशव्य᳘म्म एत᳘त्पशुमा᳘न्भविष्यामी᳘त्येव तदु᳘पासीत॥
मूलम् - Weber
अ᳘थ य᳘दि म᳘न्येत॥
अ᳘तिरिक्तम् मे यॗज्ञेऽभूदि᳘ति पशव्य᳘म् म एत᳘त्पशुमा᳘न्भविष्यामी᳘त्येव तदु᳘पासीत॥
मूलम् - विस्वरम्
अथ यदि मन्येत । अतिरिक्तं मे यज्ञे ऽभूदिति । पशव्यं म एतत् । पशुमान् भविष्यामीत्येव तदुपासीत ॥ १० ॥
सायणः
अथातिरिक्तस्योपास्त्यां यज्ञसमृद्धिमाह- अथ यदि मन्येतेति । यज्ञसंबंधिपशव्यरूपेणातिरिक्तस्योपासनात् अतिरेकदोषपरिहारेण यज्ञसमृद्धिर्भवतीत्यर्थः ॥ १० ॥
Eggeling
- And if he think, ‘There has been that which was redundant in my sacrifice,’ let him believe, ‘That is favourable to cattle for me: I shall become possessed of cattle.’
११
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ य᳘दि म᳘न्येत॥
सङ्क᳘सुकम्मे य᳘ज्ञे ऽभूदि᳘ति श्रियै᳘ म ऽएतदा᳘ मा श्रीस्ते᳘जसा य᳘शसा ब्रह्मवर्चसे᳘न प᳘रिवृता गमिष्यती᳘त्येव तदु᳘पासीत॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ य᳘दि म᳘न्येत॥
सङ्क᳘सुकम्मे य᳘ज्ञे ऽभूदि᳘ति श्रियै᳘ म ऽएतदा᳘ मा श्रीस्ते᳘जसा य᳘शसा ब्रह्मवर्चसे᳘न प᳘रिवृता गमिष्यती᳘त्येव तदु᳘पासीत॥
मूलम् - Weber
अ᳘थ य᳘दि म᳘न्येत॥
संक᳘सुकम् मे यॗज्ञेऽभूदि᳘ति श्रियै᳘ म एतदा᳘ मा श्रीस्ते᳘जसा य᳘शसा ब्रह्मवर्चसे᳘न प᳘रिवृता गमिष्यती᳘त्येव तदु᳘पासीत॥
मूलम् - विस्वरम्
अथ यदि मन्येत । संकसुकं मे यज्ञे ऽभूदिति । श्रियै म एतत् । आ मा श्रीस्तेजसा यशसा ब्रह्मवर्चसेन परिवृता गमिष्यतीत्येव तदुपासीत ॥ ११ ॥
सायणः
अथ संकसुकत्वदोषस्य उपास्त्या यज्ञस्य समृद्धिमाह- अथ यदि मन्येतेति । पूर्ववद्योज्यम् । श्रियै म एतदिति । ‘एतत्’ संकसुकदोषसंमिश्रमंगम् ‘मे’ मम ‘श्रियै’ लक्ष्म्यै अतो मां सा ‘श्रीः’ ‘तेजसा’ शरीरकांत्या ‘यशसा’ कीर्त्या ‘ब्रह्मवर्चसेन’ ब्रह्मतेजसा ‘परिवृता’ वेष्टिता सती ‘आगमिष्यति’ इत्यनेन प्रकारेण ‘तत्’ संकसुकदोषसंमिश्रयज्ञांगम् ‘उपासीत’ तेन च स दोषो निवर्तत इत्यर्थः ॥ ११ ॥
Eggeling
- And if he think, ‘There has been that which was disconnected in my sacrifice,’ let him believe, ‘That makes for my prosperity: Prosperity, surrounded by splendour, fame and holy lustre, will accrue to me.’
१२
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ य᳘दि म᳘न्येत॥
स᳘म्पन्नम्मे य᳘ज्ञे ऽभूदि᳘ति स्व᳘र्ग्ग्यम्म ऽएत᳘त्स्वर्ग्ग᳘लोको भविष्यामी᳘त्येव तदुपासीत᳘[[!!]] सैषा᳘ यज्ञ᳘स्य स᳘मृद्धिः स यो᳘ हैव᳘मेतां᳘ यज्ञ᳘स्य स᳘मृद्धिं व्वे᳘द सर्व्वं᳘समृद्धेन है᳘वास्य यज्ञे᳘नेष्टं᳘ भवति॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ य᳘दि म᳘न्येत॥
स᳘म्पन्नम्मे य᳘ज्ञे ऽभूदि᳘ति स्व᳘र्ग्ग्यम्म ऽएत᳘त्स्वर्ग्ग᳘लोको भविष्यामी᳘त्येव तदुपासीत᳘[[!!]] सैषा᳘ यज्ञ᳘स्य स᳘मृद्धिः स यो᳘ हैव᳘मेतां᳘ यज्ञ᳘स्य स᳘मृद्धिं व्वे᳘द सर्व्वं᳘समृद्धेन है᳘वास्य यज्ञे᳘नेष्टं᳘ भवति॥
मूलम् - Weber
अ᳘थ य᳘दि म᳘न्येत॥
स᳘म्पन्नम् मे यॗज्ञेऽभूदि᳘ति स्वर्ग्य᳘म् म एत᳘त्स्वर्ग᳘लोको भविष्यामी᳘त्येव तदु᳘पासीतॗ सैषा᳘ यज्ञ᳘स्य स᳘मृद्धिः स यो᳘ हैव᳘मेतां᳘ यज्ञ᳘स्य स᳘मृद्धिं वे᳘द सर्व᳘समृद्धेन हैॗवास्य यज्ञे᳘नेष्ट᳘म् भवति॥
मूलम् - विस्वरम्
अथ यदि मन्येत । संपन्नं मे यज्ञे ऽभूदिति । स्वर्ग्यं म एतत् । स्वर्गलोको भविष्यामीत्येव तदुपासीत । सैषा यज्ञस्य समृद्धिः । स यो हैवमेतां यज्ञस्य समृद्धिं वेद । सर्वसमृद्धेन हैवास्य यज्ञेनेष्टं भवति ॥ १२ ॥
सायणः
इत्थं न्यूनातिरिक्तदोषस्योपासनया समीकरणमुक्त्वा सम्यगनुष्ठितस्यापि अंगस्याधिकफलसिध्यर्थं उपासनमाह- अथ यदि मन्येतेति । स्पष्टमेतत् । प्रतिज्ञातां यज्ञसमृद्धिं निगमयति- सैषा यज्ञस्य समृद्धिरिति । तत्र समृद्धिरूपवेदनस्य फलमाह- स यो हैवमेतामिति । स्पष्टो ऽर्थः ॥ १२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे चतुर्थे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (११-४-४) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे चतुर्थो ऽध्यायः समाप्तः ॥ (११ । ४) ॥
Eggeling
- And if he think, ‘There has been that which was perfect in my sacrifice,’ let him believe, ‘That is conducive to heaven for me: I shall become one of those in the heavenly world.’ This then is the successful issue of the sacrifice; and, verily, whosoever thus knows this to be the successful issue of the sacrifice, by him offering is made by a wholly successful sacrifice.
-
66:3 That is, of the (impersonal) world-spirit. ↩︎
-
66:4 In the text the two words are not compounded, but stand in apposition to each other (with the fire as the door of B.), with, however, much the same force as a compound word. Cf. XII, 2, 2, 2 gādham (eva) pratishṭḥā (a foothold consisting of a ford), and ib. 9 gādha-pratishṭḥa, ‘ford-foothold.’ ↩︎
-
68:1 See XI, 1, 2, 4;–tad asya yajñasya prajananam prajotpattisādhanam. ↩︎
-
68:2 Sāyaṇa’s explanation of the term ‘saṁkasuka’ (? broken, affected with gaps) is not available owing to an omission in the MS. Ind. Off. 1071. ↩︎