०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्वै᳘ प्रजाः᳘ सृज᳘मानो ऽतप्यत॥
त᳘स्माच्छ्रांता᳘त्तेपानाच्छ्रीरु᳘दक्रामत्सा दी᳘प्यमाना भ्रा᳘जमाना लेलाय᳘न्त्यतिष्ठत्तां दी᳘प्यमानां भ्रा᳘जमानां लेलायं᳘तीं देवा᳘ ऽअभ्य᳘ध्यायन्॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्वै᳘ प्रजाः᳘ सृज᳘मानो ऽतप्यत॥
त᳘स्माच्छ्रांता᳘त्तेपानाच्छ्रीरु᳘दक्रामत्सा दी᳘प्यमाना भ्रा᳘जमाना लेलाय᳘न्त्यतिष्ठत्तां दी᳘प्यमानां भ्रा᳘जमानां लेलायं᳘तीं देवा᳘ ऽअभ्य᳘ध्यायन्॥

मूलम् - Weber

प्रजा᳘पतिर्वै᳘ प्रजाः᳘ सृज᳘मानोऽतप्यत॥
त᳘स्माछ्रान्ता᳘त्तपानाछ्रीरु᳘दक्रामत्सा दी᳘प्यमाना भ्रा᳘जमाना लेलाय᳘न्त्यतिष्ठतां दी᳘प्यमानाम् भ्रा᳘जमानां लेलाय᳘न्तीं देवा᳘ अभ्य᳘ध्यायन्॥

मूलम् - विस्वरम्

अथ मित्रविन्देष्टिः ।

प्रजापतिर्वै प्रजाः सृजमानो ऽतप्यत । तस्माच्छ्रांतात्तेपानाच्छ्रीरुदक्रामत् । सा दीप्यमाना भ्राजमाना लेलायंत्यतिष्ठत् । तां दीप्यमानां भ्राजमानां लेलायंतीं देवा अभ्यध्यायन् ॥ १ ॥

सायणः

अथ मित्रविंदाख्यां काम्येष्टिं विधास्यन् तत्र हविरुत्पत्तिक्रमं अन्नाद्यादिकामनोपेतं अधिकारिविशेषं च दर्शयितुं आख्यायिकां रचयन् आदौ श्रिय उत्पत्तिं उत्पन्नायाश्च तस्याः देवैरभिध्यानं चाह- प्रजापतिर्वा इति । देवमनुष्यादिरूपाः ‘प्रजाः’ ‘सृजमानः’ उत्पादयन् ‘प्रजापतिः’ तत्कारणेन तपस्तप्तवान् । ‘तस्माच्छ्रान्तात्’ अखिलसर्जनश्रमोपेतात् तेपानात्तपस्तप्तवतः सकाशात्- ‘श्रीरुदक्रामत्’ सौभाग्यलक्ष्मीरुत्क्रांतवती । तेपानादिति तपेर्लिटः कानचि रूपम् । ‘सा’ चोत्क्रांता ‘दीप्यमाना’ अवयवैः शोभमाना ‘भ्राजमाना’ सर्वं जगत् स्वतेजसा प्रकाशयंती ‘लेलायंती’ स्वकीयेन तेजःपुंजेन सर्वमाश्लिष्यंती ‘अतिष्ठत्’ स्थितवती । ईदृग्गुणविशिष्टां श्रियं वक्ष्यमाणा अग्न्यादयो ‘देवाः’ ‘अभ्यध्यायन्’ तत्संबद्धान्नाद्यादिस्वीकाराय तां हंतुमैच्छन्नित्यर्थः ॥ १ ॥

Eggeling
  1. Prajāpati was becoming heated (by fervid devotion), whilst creating living beings 1. From him, worn out and heated, Śrī (Fortune and Beauty) came forth. She stood there resplendent, shining, and trembling 2. The gods, beholding her thus resplendent, shining, and trembling, set their minds upon her.

०२

विश्वास-प्रस्तुतिः

(यँस्ते᳘) ते᳘ प्रजा᳘पतिमब्रुवन्॥
(न्ह᳘) ह᳘नामेमा᳘मेद᳘मस्या ददामहा ऽइ᳘ति स᳘ होवाच स्त्री वा᳘ ऽएषा यच्छ्री᳘र्न्न वै स्त्रि᳘यं घ्नन्त्युत त्वा᳘ ऽअस्या जी᳘वंत्या ऽएवा᳘ददत ऽइ᳘ति॥

मूलम् - श्रीधरादि

(यँस्ते᳘) ते᳘ प्रजा᳘पतिमब्रुवन्॥
(न्ह᳘) ह᳘नामेमा᳘मेद᳘मस्या ददामहा ऽइ᳘ति स᳘ होवाच स्त्री वा᳘ ऽएषा यच्छ्री᳘र्न्न वै स्त्रि᳘यं घ्नन्त्युत त्वा᳘ ऽअस्या 3 जी᳘वंत्या ऽएवा᳘ददत ऽइ᳘ति॥

मूलम् - Weber

ते᳘ प्रजा᳘पतिमब्रुवन्॥
ह᳘नामेमाॗमेद᳘मस्या ददामहा इ᳘ति स᳘ होवाच स्त्री वा᳘ एषा यछ्रीर्न वै स्त्रि᳘यं घ्नन्त्युत त्वा᳘ अस्या जी᳘वन्त्या एवा᳘ददत इ᳘ति॥

मूलम् - विस्वरम्

ते प्रजापतिमब्रुवन्; हनामेमाम्; आ इदमस्या ददामहा इति । स होवाच- स्त्री वा एषा यच्छ्रीः । न वै स्त्रियं घ्नंति । उत त्वा अस्या जीवंत्या एवाददत इति ॥ २ ॥

सायणः

ते प्रजापतिमित्यादि । ‘इमां’ श्रियं ‘हनाम’ ‘अस्याः’ संबंधि इदमन्नाद्यादिकं ‘आददामहै’ स्वीकुर्याम इति ‘ते’ देवाः ‘प्रजापतिमब्रुवन्’ । ‘सः’ प्रजापतिरेवमुक्तवान् । ‘यत्’ या ‘श्रीः’ ‘एषा स्त्री’ अतो न हननार्हा । ‘न’ खलु लोके क्रूरकर्माणो ऽपि पुरुषाः ‘स्त्रियं घ्नन्ति’ मारयन्ति । ‘उत तु’ अपि तु ‘जीवंत्याः एवास्याः संबंधि धनं ‘आददते’ स्वीकुर्वते इत्यर्थः ॥ २ ॥

Eggeling
  1. They said to Prajāpati, ‘Let us kill her and take (all) this from her.’ He said, ‘Surely, that Śrī is a woman, and people do not kill a woman, but rather take (anything) from her (leaving her) alive.’

०३

विश्वास-प्रस्तुतिः

त᳘स्या ऽअग्नि᳘रन्ना᳘द्यमा᳘दत्त॥
सो᳘मो राज्यं व्व᳘रुणः सा᳘म्म्राज्यं मि᳘त्रः[[!!]] क्षत्त्रमि᳘न्द्रो ब᳘लं बृ᳘हस्प᳘तिर्ब्रह्मवर्च्चस᳘ᳫँ᳘ सविता᳘ राष्ट्र᳘म्पूषा भ᳘गᳫँ᳭ स᳘रस्वती पु᳘ष्टिं त्व᳘ष्टा रूपा᳘णि॥

मूलम् - श्रीधरादि

त᳘स्या ऽअग्नि᳘रन्ना᳘द्यमा᳘दत्त॥
सो᳘मो राज्यं व्व᳘रुणः सा᳘म्म्राज्यं मि᳘त्रः[[!!]] क्षत्त्रमि᳘न्द्रो ब᳘लं बृ᳘हस्प᳘तिर्ब्रह्मवर्च्चस᳘ᳫँ᳘ सविता᳘ राष्ट्र᳘म्पूषा भ᳘गᳫँ᳭ स᳘रस्वती पु᳘ष्टिं त्व᳘ष्टा रूपा᳘णि॥

मूलम् - Weber

त᳘स्या अग्नि᳘रन्ना᳘द्यमा᳘दत्त॥
सो᳘मो राज्यं व᳘रुणः सा᳘म्राज्यम् मित्रः᳘ क्षत्रमि᳘न्द्रो ब᳘लम् बृ᳘हस्प᳘तिर्ब्रह्मवर्चस᳘ᳫं᳘ सविता᳘ राष्ट्र᳘म् पूषा भ᳘गᳫं स᳘रस्वती पु᳘ष्टिं त्व᳘ष्टा रूपा᳘णि॥

मूलम् - विस्वरम्

तस्या अग्निरन्नाद्यमादत्त । सोमो राज्यम् । वरुणः साम्राज्यम् । मित्रः क्षत्त्रम् । इंद्रो बलम् । बृहस्पतिर्ब्रह्मवर्चसम् । सविता राष्ट्रम् । पूषा भगम् । सरस्वती पुष्टिम् । त्वष्टा रूपाणि ॥ ३ ॥

सायणः

एवं प्रजापतिनोक्ते केन देवेन किं स्वीकृतमिति तद्दर्शयति- तस्या अग्निरन्नाद्यमिति । ‘अन्नाद्यं’ अन्नादनसामर्थ्यं, राज्ञः कर्म ‘राज्यं’ ऐश्वर्यमिति यावत्, सम्राजः कर्म ‘साम्राज्यं’ आज्ञाशक्तिरित्यर्थः । क्षतत्राणनिमित्तं सामर्थ्यं ‘क्षत्त्रं’ शरीरसामर्थ्यं ‘बलं’ श्रुताध्ययनसंपत्तितेजो ‘ब्रह्मवर्चसं’ ‘राष्ट्रं’ देशः, ‘भगं’ सौभाग्यं, ‘पुष्टिः’ पोषणं, ‘रूपाणि’ शोभनावयवरचनानि, स्पष्टमन्यत् ॥ ३ ॥

Eggeling
  1. Agni then took her food, Soma her royal power, Varuṇa her universal śovereignty, Mitra her noble rank, Indra her power, Br̥haspati her holy lustre, Savitr̥ her dominion, Pūshan her wealth, Sarasvatī her prosperity, and Tvashṭr̥ her beautiful forms.

०४

विश्वास-प्रस्तुतिः

सा᳘ प्रजा᳘पतिमब्रवीत्॥
(दा) आ वै᳘ म ऽइद᳘मदिषते᳘ति स᳘ होवाच यज्ञे᳘नैनान्पु᳘नर्य्याचस्वे᳘ति᳘॥

मूलम् - श्रीधरादि

सा᳘ प्रजा᳘पतिमब्रवीत्॥
(दा) आ वै᳘ म ऽइद᳘मदिषते᳘ति स᳘ होवाच यज्ञे᳘नैनान्पु᳘नर्य्याचस्वे᳘ति᳘॥

मूलम् - Weber

सा᳘ प्रजा᳘पतिमब्रवीत्॥
आ वै᳘ म इद᳘मदिषते᳘ति स᳘ होवाच यज्ञे᳘नैनान्पु᳘नर्याचस्वेति॥

मूलम् - विस्वरम्

सा प्रजापतिमब्रवीत् । आ वै म इदमदिषतेति । स होवाच- यज्ञेनैनान्पुनर्याचस्वेति ॥ ४ ॥

सायणः

सा प्रजापतिमित्यादि । एवमग्न्यादिभिः अन्नाद्यादिषु बलात् स्वीकृतेषु सत्सु ‘सा’ श्रीः ‘प्रजापतिमब्रवीत्’ ‘मे’ मदीयं इदमन्नाद्यादिकं ‘आदिषत’ देवा अहार्षुरिति । “डुदाञ् दाने” (धा. पा. जु. उ. ९) इत्यस्मात् “आङो दो ऽनास्यविहरणे” (पा. सू. १ । ३ । २०) इत्यात्मनेपदम् । “स्थाध्वोरिच्च” (पा. सू. १ । २ । १७) इति इत्वकित्वे । ‘सः’ प्रजापतिस्तां प्रत्युवाच ‘यज्ञेन’ मूल्यभूतेन त्वदीयानन्नाद्यादीन् अग्न्यादिभ्यः ‘पुनर्याचस्व’ साधयेति ॥ ४ ॥

Eggeling
  1. She said to Prajāpati, ‘Surely, they have taken (all) this from me!’ He said, ‘Do thou ask it back from them by sacrifice!’

०५

विश्वास-प्रस्तुतिः

सैतां द᳘शहविषमि᳘ष्टिमपश्यत्॥
(दा᳘) आ᳘ग्नेय᳘मष्टा᳘कपालं पुरोडा᳘शᳫँ᳭ सौम्यं᳘ चरुं᳘ व्वारुणं द᳘शकपालं पुरोडा᳘शं मैत्रं᳘ चरुमैन्द्रमे᳘कादशकपालं[[!!]] पुरोडा᳘शं बार्हस्पत्यं᳘ चरु᳘ᳫँ᳘ सावित्रं द्वा᳘दशकपालं वा ऽष्टा᳘कपालं वा पुरोडा᳘शं पौष्णं᳘ चरु᳘ᳫँ᳘ सारस्वतं᳘ चरुं᳘ त्वाष्ट्रं द᳘शकपालं पुरोडा᳘शम्॥

मूलम् - श्रीधरादि

सैतां द᳘शहविषमि᳘ष्टिमपश्यत्॥
(दा᳘) आ᳘ग्नेय᳘मष्टा᳘कपालं पुरोडा᳘शᳫँ᳭ सौम्यं᳘ चरुं᳘ व्वारुणं द᳘शकपालं पुरोडा᳘शं मैत्रं᳘ चरुमैन्द्रमे᳘कादशकपालं[[!!]] पुरोडा᳘शं बार्हस्पत्यं᳘ चरु᳘ᳫँ᳘ सावित्रं द्वा᳘दशकपालं वा ऽष्टा᳘कपालं वा पुरोडा᳘शं पौष्णं᳘ चरु᳘ᳫँ᳘ सारस्वतं᳘ चरुं᳘ त्वाष्ट्रं द᳘शकपालं पुरोडा᳘शम्॥

मूलम् - Weber

सैतां द᳘शहविषमि᳘ष्टिमपश्यत्॥
आग्नेय᳘मष्टा᳘कपालम् पुरोडा᳘शᳫं सौम्यं᳘ चरुं᳘ वारुणं द᳘शकपालम् पुरोडा᳘शम् मैत्रं᳘ चरु᳘मैन्द्रमे᳘कादशकपालम् पुरोडा᳘शम् बार्हस्पत्यं᳘ चरु᳘ᳫं᳘ सावित्रं द्वा᳘दशकपालं वाष्टा᳘कपालं वा पुरोडा᳘शम् पौष्णं᳘ चरु᳘ᳫं᳘ सारस्वतं᳘ चरुं᳘ त्वाष्ट्रं द᳘शकपालम् पुरोडा᳘शम्॥

मूलम् - विस्वरम्

सैतां दशहविषमिष्टिमपश्यत् । आग्नेयमष्टाकपालं पुरोडाशम् । सौम्यं चरुम् । वारुणं दशकपालं पुरोडाशम् । मैत्रं चरुम् । ऐंद्रमेकादशकपालं पुरोडाशम् । बार्हस्पत्यं चरुम् । सावित्रं द्वादशकपालं वा ऽष्टाकपालं वा पुरोडाशम् । पौष्णं चरुम् । सारस्वतं चरुम् । त्वाष्ट्रं दशकपालं पुरोडाशम् ॥ ५ ॥

सायणः

सैतां दशहविषमिति । याचे इत्यंगीकृत्यान्नाद्यादिप्राप्तिनिमित्तभूतां ‘एतां’ वक्ष्यमाणां दशहविष्कामिष्टिमपश्यत् । तान्येव हवींषि गणयति- आग्नेयमष्टाकपालमित्यादि । सावित्रस्य हविषः द्वादशाष्टौ वेति संख्याविकल्पः । सावित्रादिशब्देषु सर्वत्र “सा ऽस्य देवता” (पा. सू. ४ । २ । २४) इति देवतार्थे तद्धितोत्पत्तिः ॥ ५ ॥

Eggeling
  1. She perceived this offering with ten sacrificial dishes–a cake on eight potsherds for Agni, a pap for Soma, a cake on ten potsherds for Varuṇa, a pap for Mitra, a cake on eleven potsherds for Indra, a pap for Br̥haspati, a cake on twelve or eight potsherds for Savitr̥, a pap for Pūshan, a pap for Sarasvatī, and a cake on ten potsherds for Tvashṭr̥.

०६

विश्वास-प्रस्तुतिः

ता᳘नेत᳘या ऽनुवा᳘क्यया᳘ ऽन्ववदत्[[!!]]॥
(द) अग्निः सो᳘मो व्व᳘रुणो मित्र ऽइ᳘न्द्रो बृ᳘हस्पतिः[[!!]] सविता यः᳘ सहस्री। पूषा᳘ नो गो᳘भिर᳘वसा स᳘रस्वती त्व᳘ष्टा रूपा᳘णि स᳘मनक्तु यज्ञैरि᳘ति ते᳘ प्रत्यु᳘पातिष्ठंत॥

मूलम् - श्रीधरादि

ता᳘नेत᳘या ऽनुवा᳘क्यया᳘ ऽन्ववदत्[[!!]]॥
(द) अग्निः सो᳘मो व्व᳘रुणो मित्र ऽइ᳘न्द्रो बृ᳘हस्पतिः[[!!]] सविता यः᳘ सहस्री। पूषा᳘ नो गो᳘भिर᳘वसा स᳘रस्वती त्व᳘ष्टा रूपा᳘णि स᳘मनक्तु यज्ञैरि᳘ति ते᳘ प्रत्यु᳘पातिष्ठंत॥

मूलम् - Weber

ता᳘नेत᳘यानुवाक्य᳘या᳘न्ववदत्॥
अग्निः सो᳘मो व᳘रुणो मित्र इ᳘न्द्रो बृ᳘हस्प᳘तिः सविता यः᳘ सहस्री पूषा᳘ नो गो᳘भिर᳘वसा स᳘रस्वती त्व᳘ष्टा रूपा᳘णि स᳘मनक्तु यज्ञैरि᳘ति ते᳘ प्रत्यु᳘पातिष्ठन्त॥

मूलम् - विस्वरम्

तानेतया ऽनुवाक्यया ऽन्ववदत् । “अग्निः सोमो वरुणो मित्र इंद्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैः”- इति । ते प्रत्युपातिष्ठंत ॥ ६ ॥

सायणः

हविषां निर्वापादिसंस्कारेषु समिधो यजतीत्यादाविव पाठप्राप्तः क्रमो ऽवगंतव्यः । प्रदानं तु सर्वेषां सहैवेत्यभिप्रेत्य अग्न्यादिदशदेवतानामाक्षरवतीमनुवाक्यामाह- तानेतयेति । ‘अन्ववदत्’ अग्न्यादिलक्षणेनानुक्रमेणावदत् । एवमेकयैवर्चा समुच्चित्यानुवादे सति ‘ते’ अग्न्यादयः ‘प्रत्युपातिष्ठंत’ प्रत्यागत्य तत्समीपे अतिष्ठन् । ऋगर्थस्तु- अग्न्यादयो देवाः तदीयैर्यज्ञैः यज्ञसाधनैर्हविर्भिः प्रीताः संतः अन्नाद्यादिभिर्मां प्रत्येकं ‘समनक्तु’ संयोजयतु । ‘सहस्री’ सहस्रसंख्याकधनवान् एतत्सवितुर्विशेषणम् । पोषणीयैर्गोभिः सहितः ‘पूषा’ ‘अवसा’ रक्षणेन सहिता ‘सरस्वती’ पशुसंबंधीनि रूपाणि विकुर्वन् ‘त्वष्टा’ ॥ ६ ॥

Eggeling
  1. She invited them by means of this invitatory formula,–‘May Agni, Soma, Varuṇa, Mitra, Indra, Br̥haspati, and the thousandfold-bestowing Savitr̥,–May Pūshan, for our Sacrifices, unite us with cattle, Sarasvatī with favour, Tvashṭr̥ with beautiful forms!’ They accordingly made their appearance again.

०७

विश्वास-प्रस्तुतिः

ता᳘नेत᳘या या᳘ज्यया[[!!]]॥
पर᳘स्तात्प्रतिलोमम्प्र᳘त्यैत्त्व᳘ष्टा रूपा᳘णि द᳘दती स᳘रस्वती पू᳘षा भ᳘गᳫँ᳭ सविता᳘ मे ददातु। बृ᳘हस्प᳘तिर्द᳘ददि᳘न्द्रो ब᳘लं मे मित्रः᳘ क्षत्त्रं व्व᳘रुणः सो᳘मो ऽअग्निरि᳘ति ते पु᳘नर्द्दा᳘नायाध्रियन्त᳘॥

मूलम् - श्रीधरादि

ता᳘नेत᳘या या᳘ज्यया[[!!]]॥
पर᳘स्तात्प्रतिलोमम्प्र᳘त्यैत्त्व᳘ष्टा रूपा᳘णि द᳘दती स᳘रस्वती पू᳘षा भ᳘गᳫँ᳭ सविता᳘ मे ददातु। बृ᳘हस्प᳘तिर्द᳘ददि᳘न्द्रो ब᳘लं मे मित्रः᳘ क्षत्त्रं व्व᳘रुणः सो᳘मो ऽअग्निरि᳘ति ते पु᳘नर्द्दा᳘नायाध्रियन्त᳘॥

मूलम् - Weber

ता᳘नेत᳘या याज्य᳘या॥
पर᳘स्तात्प्रतिलोमम् प्र᳘त्यैत्त्व᳘ष्टा रूपा᳘णि द᳘दती स᳘रस्वती पूषा भ᳘गᳫं सविता᳘ मे ददातु॥
बृ᳘हस्प᳘तिर्द᳘ददि᳘न्द्रो ब᳘लम् मे मित्रं᳘ क्षत्रं व᳘रुणः सो᳘मो अग्निरि᳘ति ते पु᳘नर्दा᳘नायाध्रियन्त॥

मूलम् - विस्वरम्

तानेतया याज्यया परस्तात्प्रतिलोमं प्रत्यैत् । “त्वष्टा रूपाणि ददती सरस्वती पूषा भगं सविता मे ददातु । बृहस्पतिर्दददिंद्रो बलं मे मित्रः क्षत्त्रं वरुणः सोमो अग्निः”- इति । ते पुनर्दानायाध्रियंत ॥ ७ ॥

सायणः

तादृशीं याज्यामाह- तानेतयेति । तानुपस्थितान् देवान् ‘एतया’ वक्ष्यमाणया ‘याज्यया’ परस्तादन्तात् त्वष्टारमारभ्य ‘प्रतिलोमं’ प्रातिलोम्येनावरोहक्रमेणाग्निपर्यंतं ‘प्रत्यैत्’ प्रत्यगच्छत् । त्वष्टा रूपाणीति तत्साधनभूता याज्या । ‘मे’ मह्यं ‘त्वष्टा’ देवः ‘रूपाणि’ पूर्वं मत्सकाशादुपपन्नानि पुनर्ददातु । तथा ‘सरस्वती’ देवी ‘ददती’ इति ‘पुष्टेः’ पुनर्दात्री भवतु । ‘पूषा’ भगं ‘ददातु’ । ‘सविता राष्ट्रं’ ददातु । ‘बृहस्पतिर्ब्रह्मवर्चसं’ ‘ददत्’ प्रयच्छन् भवतु । ‘इंद्रो बलम्’ मह्यम् ददातु । ‘मित्रः क्षत्त्रम्’ मह्यम् ददातु । ‘वरुणः’ साम्राज्यम्, सोमो’ राज्यम्, अग्निरन्नाद्यम् च मह्यम् प्रयच्छत्वित्यर्थः । एवम् याज्यानुवाक्याभ्याम् प्रार्थितास्ते देवाः अन्नाद्यादीनां पुनः प्रदानाय ‘अध्रियंत’ अंगीकृतवंतः ॥ ७ ॥

Eggeling
  1. By this offering-formula she then approached them in inverted order (beginning) from the last:–‘May Tvashṭr̥ grant me forms, and the bountiful Sarasvatī, and Pūshan good fortune, and may Savitr̥ bestow gifts on me, and Indra power, and Mitra noble rank, and Varuṇa, and Soma and Agni!’ They were ready to restore them to her.

०८

विश्वास-प्रस्तुतिः

सैता᳘नुपहोमा᳘नपश्यत्॥
(द) अग्नि᳘रन्नादो᳘ ऽन्नपतिरन्ना᳘द्यमस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वा ऽऽदा᳘याग्नि᳘रुद᳘क्रामत्पु᳘नरस्या ऽअन्ना᳘द्यमददात्॥

मूलम् - श्रीधरादि

सैता᳘नुपहोमा᳘नपश्यत्॥
(द) अग्नि᳘रन्नादो᳘ ऽन्नपतिरन्ना᳘द्यमस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वा ऽऽदा᳘याग्नि᳘रुद᳘क्रामत्पु᳘नरस्या ऽअन्ना᳘द्यमददात्॥

मूलम् - Weber

सैता᳘नुपहोमा᳘नपश्यत्॥
अग्नि᳘रन्नादो᳘ऽन्नपतिरन्ना᳘द्यमस्मि᳘न्यज् ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘याग्नि᳘रुद᳘क्रामत्पु᳘नरस्या अन्ना᳘द्यमददात्॥

मूलम् - विस्वरम्

सैतानुपहोमानपश्यत् । “अग्निरन्नादो ऽन्नपतिरन्नाद्यमस्मिन्यज्ञे मयि दधातु स्वाहा”- इति । आहुतिमेवादायाग्निरुदक्रामत् । पुनरस्या अन्नाद्यमददात् ॥ ८ ॥

सायणः

सैतानुपहोमानित्यादि । प्रधानयागसमीपे स्विष्टकृतः पूर्वं होतव्या होमा उपहोमाः । तानप्येतान् ‘सा’ श्रीरपश्यत् । अथ तानुपहोममंत्रान्पठन् तत्तदाहुत्या तस्य तस्यान्नाद्यादेः परिक्रयेण प्राप्तिमाह- अग्निरन्नाद इत्यादि । अन्नमत्ति जाठररूपेण इति ‘अन्नादः’ ‘अन्नपतिः’ अन्नस्य प्रतिपालयिता ईदृशः ‘अग्निः’ ‘अस्मिन् यज्ञे’ मूलभूते सति प्रागुपपहृतं मदीयमन्नाद्यम् ‘मयि’ पुनर्दधातु धारयतु । तदर्थमिदम् हविः ‘स्वाहा’ सुहुतमस्तु । एवं होमे सति ‘आहुतिमेव’ स्वीकृत्याग्निरुदक्रामत् उदगच्छत् । ‘अस्यै’ श्रियै ‘अन्नाद्यम्’ पुनरददात् । एवमुत्तरत्रापि योज्यम् ॥ ८ ॥

Eggeling
  1. She perceived these additional oblations:–‘May Agni, the food-eater, the food-lord, bestow food upon me at this sacrifice, svāhā!’ Agni, taking the oblation, departed and restored her food to her.

०९

विश्वास-प्रस्तुतिः

(त्सो᳘) सो᳘मो रा᳘जा रा᳘जपतिः॥
(ती) राज्य᳘मस्मि᳘न्यज्ञे मयि᳘[[!!]] दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य सो᳘म ऽउद᳘क्रामत्पु᳘नरस्यै राज्य᳘मददात्॥

मूलम् - श्रीधरादि

(त्सो᳘) सो᳘मो रा᳘जा रा᳘जपतिः॥
(ती) राज्य᳘मस्मि᳘न्यज्ञे मयि᳘[[!!]] दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य सो᳘म ऽउद᳘क्रामत्पु᳘नरस्यै राज्य᳘मददात्॥

मूलम् - Weber

सो᳘मो रा᳘जा रा᳘जपतिः॥
राज्य᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘य सो᳘म उद᳘क्रामत्पु᳘नरस्यै राज्य᳘मददात्॥

मूलम् - विस्वरम्

“सोमो राजा राजपती राज्यमस्मिन्यज्ञे मयि दधातु स्वाहा”- इति । आहुतिमेवादाय सोम उदक्रामत् । पुनरस्यै राज्यमददात् ॥ ९ ॥

सायणः

सोमो राजेति द्वितीयो मंत्रः । राज्ञां पालयिता ‘राजपतिः’ स्वयमपि ‘राजा’ निग्रहानुग्रहक्षमः स्वामी तादृशः ‘सोमः’ । अस्मिन् यज्ञे इत्यादि पूर्ववत् ॥ ९ ॥

Eggeling
  1. ‘May Soma, the king, the lord of kings, bestow royal power upon me at this sacrifice, svāhā!’ Soma, taking the oblation, departed and restored her royal power to her.

१०

विश्वास-प्रस्तुतिः

(द्व᳘) व्व᳘रुणः सम्म्रा᳘ट्सम्म्रा᳘ट्पतिः॥
सा᳘म्म्राज्यमस्मि᳘न् यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य व्व᳘रुण ऽउद᳘क्रामत्पु᳘नरस्यै सा᳘म्म्राज्यमददात्॥

मूलम् - श्रीधरादि

(द्व᳘) व्व᳘रुणः सम्म्रा᳘ट्सम्म्रा᳘ट्पतिः॥
सा᳘म्म्राज्यमस्मि᳘न् यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य व्व᳘रुण ऽउद᳘क्रामत्पु᳘नरस्यै सा᳘म्म्राज्यमददात्॥

मूलम् - Weber

व᳘रुणः सम्रा᳘ट् सम्रा᳘ट्पतिः॥
सा᳘म्राज्यमस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘य व᳘रुण उद᳘क्रामत्पु᳘नरस्यै सा᳘म्राज्यमददात्॥

मूलम् - विस्वरम्

वरुणः सम्राट् सम्राट्पतिः साम्राज्यमस्मिन्यज्ञे मयि दधातु स्वाहा"- इति । आहुतिमेवादाय वरुण उदक्रामत् । पुनरस्यै साम्राज्यमददात् ॥ १० ॥

सायणः

वरुणः सम्राडिति तृतीय उपहोममंत्रः । ये हि राजानः स्वाज्ञया कृत्स्नं भूमंडलं शासति ते सम्राजः, तेषां पतिः ‘सम्राट्पतिः’ स्वयमपि ‘सम्राट्’ ईदृशो ‘वरुणः’ । गतमन्यत् ॥ १० ॥

Eggeling
  1. ‘May Varuṇa, the universal sovereign, the lord of universal sovereigns, bestow universal sovereignty upon me at this sacrifice,

svāhā!’ Varuṇa, taking the oblation, departed and restored her universal sovereignty to her.

११

विश्वास-प्रस्तुतिः

(न्मि) मित्रः᳘ क्षत्त्रं᳘ क्षत्त्र᳘पतिः॥
क्षत्त्र᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य मित्र᳘ ऽउद᳘क्रामत्पु᳘नरस्यै क्षत्त्र᳘मददात्॥

मूलम् - श्रीधरादि

(न्मि) मित्रः᳘ क्षत्त्रं᳘ क्षत्त्र᳘पतिः॥
क्षत्त्र᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य मित्र᳘ ऽउद᳘क्रामत्पु᳘नरस्यै क्षत्त्र᳘मददात्॥

मूलम् - Weber

मित्रः᳘ क्षत्रं᳘ क्षत्र᳘पतिः॥
क्षत्र᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘य मित्र᳘! उद᳘क्रामत्पु᳘नरस्यै क्षत्र᳘मददात्॥

मूलम् - विस्वरम्

“मित्रः क्षत्त्रं क्षत्त्रपतिः क्षत्त्रमस्मिन्यज्ञे मयि दधातु स्वाहा"- इति । आहुतिमेवादाय मित्र उदक्रामत् । पुनरस्यै क्षत्त्रमददात् ॥ ११ ॥

सायणः

चतुर्थमुपहोममंत्रमाह- मित्रः क्षत्रमिति । क्षत्त्रस्य क्षत्रियजातेः पतिः स्वामी ‘क्षत्त्रपतिः’ स्वयमपि ‘क्षत्त्रं’ क्षत्रियजात्यात्मकः । ‘क्षत्त्रं’ क्षतत्राणसामर्थ्यम् । गतमन्यत् ॥ ११ ॥

Eggeling
  1. ‘May Mitra, the Kshatra (nobility), the lord of the Kshatra, bestow noble rank upon me at this sacrifice, svāhā!’ Mitra, taking the oblation, departed and restored her noble rank to her.

१२

विश्वास-प्रस्तुतिः

(दि᳘) इ᳘न्द्रो ब᳘लं ब᳘लपतिः॥
(ब᳘) ब᳘लमस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘येन्द्र᳘ ऽउद᳘क्रामत्पु᳘नरस्यै[[!!]] ब᳘लमददात्॥

मूलम् - श्रीधरादि

(दि᳘) इ᳘न्द्रो ब᳘लं ब᳘लपतिः॥
(ब᳘) ब᳘लमस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘येन्द्र᳘ ऽउद᳘क्रामत्पु᳘नरस्यै[[!!]] ब᳘लमददात्॥

मूलम् - Weber

इ᳘न्द्रो ब᳘लम् ब᳘लपतिः॥
ब᳘लमस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादाये᳘न्द्र उद᳘क्रामत्पु᳘नरस्यै ब᳘लमददात्॥

मूलम् - विस्वरम्

“इन्द्रो बलं बलपतिर्बलमस्मिन्यज्ञे मयि दधातु स्वाहा"- इति । आहुतिमेवादायेन्द्र उदक्रामत् । पुनरस्यै बलमददात् ॥ १२ ॥

सायणः

इंद्रो बलमिति पंचमी मंत्रः । बलस्य पालयिता ‘बलपतिः’ । स्वयमपि बलात्मकः ॥ १२ ॥

Eggeling
  1. ‘May Indra, the power, the lord of power, bestow power upon me at this sacrifice, svāhā!’ Indra, taking the oblation, departed and restored her power to her.

१३

विश्वास-प्रस्तुतिः

(द्बृ) बृ᳘हस्प᳘तिर्ब्र᳘ह्म ब्र᳘हपतिः॥
(र्ब्र) ब्रह्मवर्च्चस᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य बृ᳘हस्प᳘तिरुद᳘क्रामत्पु᳘नरस्यै ब्रह्मवर्च्चस᳘मददात्॥

मूलम् - श्रीधरादि

(द्बृ) बृ᳘हस्प᳘तिर्ब्र᳘ह्म ब्र᳘हपतिः॥
(र्ब्र) ब्रह्मवर्च्चस᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य बृ᳘हस्प᳘तिरुद᳘क्रामत्पु᳘नरस्यै ब्रह्मवर्च्चस᳘मददात्॥

मूलम् - Weber

बृ᳘हस्प᳘तिर्ब्र᳘ह्म ब्र᳘हस्पतिः॥
ब्रह्मवर्चस᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘य बृ᳘हस्प᳘तिरुद᳘क्रामत्पु᳘नरस्यै ब्रह्मवर्चस᳘मददात्॥

मूलम् - विस्वरम्

“बृहस्पतिर्ब्रह्म ब्रह्मपतिर्ब्रह्मवर्च्चसमस्मिन् यज्ञे मयि दधातु स्वाहा”- इति । आहुतिमेवादाय बृहस्पतिरुदक्रामत् । पुनरस्यै ब्रह्मवर्चसमददात् ॥ १३ ॥

सायणः

बृहस्पतिर्ब्रह्मेति षष्ठो मंत्रः । ब्रह्मणो वेदराशेः ब्राह्मणजातेर्वा पतिर्ब्रह्मपतिः । स्वयमपि ब्रह्मात्मकः । गतमन्यत् ॥ १३ ॥

Eggeling
  1. ‘May Br̥haspati, the Brahman (priesthood), the lord of the Brahman, bestow holy lustre upon me at this sacrifice, svāhā!’ Br̥haspati, taking the oblation, departed and restored her holy lustre to her.

१४

विश्वास-प्रस्तुतिः

(त्स) सविता᳘ राष्ट्र᳘ᳫँ᳘ राष्ट्र᳘पतिः॥
(ती) राष्ट्र᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य सवि᳘तोद᳘क्रामत्पु᳘नरस्यै राष्ट्र᳘मददात्॥

मूलम् - श्रीधरादि

(त्स) सविता᳘ राष्ट्र᳘ᳫँ᳘ राष्ट्र᳘पतिः॥
(ती) राष्ट्र᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य सवि᳘तोद᳘क्रामत्पु᳘नरस्यै राष्ट्र᳘मददात्॥

मूलम् - Weber

सविता᳘ राष्ट्रं᳘ राष्ट्र᳘पतिः॥
राष्ट्र᳘मस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘य सविॗतोद᳘क्रामत्पु᳘नरस्यै राष्ट्र᳘मददात्॥

मूलम् - विस्वरम्

“सविता राष्ट्रं राष्ट्रपती राष्ट्रमस्मिन्यज्ञे मयि दधातु स्वाहा”- इति । आहुतिमेवादाय सवितोदक्रामत् । पुनरस्यै राष्ट्रमददात् ॥ १४ ॥

सायणः

सविता राष्ट्रमिति सप्तमो मंत्रः । राष्ट्रस्य देशस्य पतिः पालयिता ‘राष्ट्रपतिः’ स्वयमपि ‘राष्ट्रं’ राष्ट्रात्मकः ॥ १४ ॥

Eggeling
  1. ‘May Savitr̥, the kingdom, the lord of the kingdom, bestow the kingdom upon me at this sacrifice, svāhā!’ Savitr̥, taking the oblation, departed and restored her kingdom to her.

१५

विश्वास-प्रस्तुतिः

(त्पू) पूषा भ᳘गं भ᳘गपतिः॥
(र्भ᳘) भ᳘गमस्मि᳘न्यज्ञे म᳘यि दधातु[[!!]] स्वाहेत्या᳘हुतिमे᳘वादा᳘य पू᳘षोद᳘क्रामत्पुनरस्यै[[!!]] भ᳘गमददात्॥

मूलम् - श्रीधरादि

(त्पू) पूषा भ᳘गं भ᳘गपतिः॥
(र्भ᳘) भ᳘गमस्मि᳘न्यज्ञे म᳘यि दधातु[[!!]] स्वाहेत्या᳘हुतिमे᳘वादा᳘य पू᳘षोद᳘क्रामत्पुनरस्यै[[!!]] भ᳘गमददात्॥

मूलम् - Weber

पूषा भ᳘गम् भ᳘गपतिः॥
भ᳘गमस्मि᳘न्यज्ञे म᳘यि दधा᳘तु स्वाहेत्या᳘हुतिमेवादा᳘य पूॗषोद᳘क्रामत्पु᳘नरस्यै भ᳘गमददात्॥

मूलम् - विस्वरम्

पूषा भगं भगपतिर्भगमस्मिन्यज्ञे मयि दधातु स्वाहा"- इति । आहुतिमेवादाय पूषोदक्रामत् । पुनरस्यै भगमददात् ॥ १५ ॥

सायणः

पूषा भगमित्यष्टमो मंत्रः । भगस्य सौभाग्यस्य पतिः ‘भगपतिः’ । पूषा यं मदीयं भगं पूर्वमगृह्णात् तं ‘भगं’ ‘अस्मिन् यज्ञे’ इति सम्बन्धः ॥ १५ ॥

Eggeling
  1. ‘May Pūshan, wealth, the lord of wealth, bestow wealth upon me at this sacrifice, svāhā!’ Pūshan, taking the oblation, departed and restored her wealth to her.

१६

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘रस्वती पु᳘ष्टिं पु᳘ष्टिपतिः॥
पुष्टि᳘मस्मि᳘न्यज्ञे[[!!]] म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य स᳘रस्वत्युद᳘क्रामत्पु᳘नरस्यै[[!!]] पु᳘ष्टिमददात्॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘रस्वती पु᳘ष्टिं पु᳘ष्टिपतिः॥
पुष्टि᳘मस्मि᳘न्यज्ञे[[!!]] म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य स᳘रस्वत्युद᳘क्रामत्पु᳘नरस्यै[[!!]] पु᳘ष्टिमददात्॥

मूलम् - Weber

स᳘रस्वती पु᳘ष्टिम् पु᳘ष्टिपतिः॥
पु᳘ष्टिमस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘य स᳘रस्वत्यु᳘दक्रामत्पु᳘नरस्यै पु᳘ष्टिमददात्॥

मूलम् - विस्वरम्

“सरस्वती पुष्टिं पुष्टिपतिः पुष्टिमस्मिन्यज्ञे मयि दधातु स्वाहा”- इति । आहुतिमेवादाय सरस्वत्युदक्रामत् । पुनरस्यै पुष्टिमददात् ॥ १६ ॥

सायणः

स्वरस्वती पुष्टिमिति नवमो मंत्रः । पुष्टेः पोषस्य पतिः ‘पुष्टिपतिः’ । सरस्वती यां मदीयां पुष्टिं अगृह्णीत तां ‘पुष्टिं मयि दधातु’ इति संबंधः ॥ १६ ॥

Eggeling
  1. ‘May Sarasvatī, prosperity 4, the lord of prosperity, bestow prosperity upon me at this sacrifice, svāhā!’ Sarasvatī, taking the oblation, departed and restored her prosperity to her.

१७

विश्वास-प्रस्तुतिः

(त्त्व᳘) त्व᳘ष्टा रूपा᳘णाᳫँ᳭ रूपकृ᳘द्रूप᳘पतिः॥
(ती) रूपे᳘ण पशू᳘नस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य त्व᳘ष्टोद᳘क्रामत्पु᳘नरस्यै रूपे᳘ण पशू᳘नददात्॥

मूलम् - श्रीधरादि

(त्त्व᳘) त्व᳘ष्टा रूपा᳘णाᳫँ᳭ रूपकृ᳘द्रूप᳘पतिः॥
(ती) रूपे᳘ण पशू᳘नस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमे᳘वादा᳘य त्व᳘ष्टोद᳘क्रामत्पु᳘नरस्यै रूपे᳘ण पशू᳘नददात्॥

मूलम् - Weber

त्व᳘ष्टा रूपा᳘णां रूपकृ᳘द्रूप᳘पतिः॥
रूपे᳘ण पशू᳘नस्मि᳘न्यज्ञे म᳘यि दधातु स्वाहेत्या᳘हुतिमेॗवादा᳘य त्व᳘ष्टोद᳘क्रामत्पु᳘नरस्यै रूपे᳘ण पशू᳘नददात्श द᳘क्षिणा दशंदशि᳘नी विराट् श्री᳘र्विरा᳘ट् श्रिया᳘ᳫं᳘ 5 हश द᳘क्षिणा दशंदशि᳘नी विराट् श्री᳘र्विरा᳘ट् श्रिया᳘ᳫं᳘ ह॥

मूलम् - विस्वरम्

त्वष्टा रूपाणां रूपकृद् रूपपती रूपेण पशूनस्मिन्यज्ञे मयि दधातु स्वाहा"- इति । आहुतिमेवादाय त्वष्टोदक्रामत् । पुनरस्यै रूपेण पशूनददात् ॥ १७ ॥

सायणः

त्वष्टा रूपाणामिति दशमो मंत्रः । गोमहिष्यादिपशुरूपाणां ‘रूपकृत्’ अवयवसन्निवेशस्वरूपस्य कर्ता । अत एव रूपाणां पतिः स्वामी ईदृशस्त्वष्टा ‘रूपेण’ विशिष्टान् ‘पशून् मयि दधातु’ । गतमन्यत् ॥ १७ ॥

Eggeling
  1. ‘May Tvashṭr̥, the fashioner of forms,

the lord of forms, bestow cattle with form 6 upon me at this sacrifice, svāhā!’ Tvashṭr̥, taking the oblation, departed and restored her cattle with (beautiful) form to her.

१८

विश्वास-प्रस्तुतिः

(त्ता) ता वा᳘ ऽएताः[[!!]]॥
(०) द᳘श देव᳘ता द᳘श हवी᳘ᳫँ᳘षि दशा᳘हुतयो द᳘श द᳘क्षिणा दशंदशि᳘नी व्विराट्च्छ्री᳘र्विरा᳘ट्च्छ्रिया᳘ᳫँ᳘ हैत᳘द्विरा᳘ज्यन्ना᳘द्ये प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(त्ता) ता वा᳘ ऽएताः[[!!]]॥
(०) द᳘श देव᳘ता द᳘श हवी᳘ᳫँ᳘षि दशा᳘हुतयो द᳘श द᳘क्षिणा दशंदशि᳘नी व्विराट्च्छ्री᳘र्विरा᳘ट्च्छ्रिया᳘ᳫँ᳘ हैत᳘द्विरा᳘ज्यन्ना᳘द्ये प्र᳘तितिष्ठति॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
द᳘श देव᳘ता द᳘श हवीं᳘षि दशा᳘हुतयो द᳘इत᳘द्विरा᳘ज्यन्ना᳘द्ये प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

ता वा एता दश देवताः । दश हवींषि । दशाहुतयः । दश दक्षिणाः । दशंदशिनी विराट् । श्रीर्विराट् । श्रियां हैतद्विराज्यन्नाद्ये प्रतितिष्ठति ॥ १८ ॥

सायणः

देवताहविरूपहोमे गवां दशसंख्यामनूद्य स्तौति- ता वा एता इति । ‘दश दक्षिणाः’ आहुतिदक्षिणात्वेन दश गावः अस्यामिष्टौ देया इत्यप्राप्तत्वाद्विधिः । दशंदशिनीति । प्रतिपादं दशभिरक्षरैः संख्यावती ‘विराट्’ सा च विराट् ‘श्रीः’ ‘एतत्’ एतया दशसंख्यविराड्रूपायां तस्यां ‘श्रियां’ ‘अन्नाद्ये’ एतदुपलक्षितेषु प्रागुदीरितेषु अन्नाद्यादिफलेषु च अनया इष्ट्या यजमानः ‘प्रतितिष्ठति’ ॥ १८ ॥

Eggeling
  1. These, then, are ten deities, ten sacrificial dishes, . ten offerings, ten presents to priests,–the Virāj consists of decad after decad (of syllables), and the Virāj (shining one) is Śrī (beauty, prosperity): he thus establishes (the Sacrificer) in the Virāj, in prosperity and food.

१९

विश्वास-प्रस्तुतिः

त᳘स्यै प᳘ञ्चदश सामिधे᳘न्यो भवन्ति॥
(न्त्यु) उपाᳫँ᳭शु᳘ देव᳘ता यजति प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजा ऽए᳘कᳫँ᳭ समिष्टयजुः पु᳘ष्टिमन्तावा᳘ज्यभागावग्नि᳘ना रयिमश्नवत्पो᳘षमेव᳘[[!!]] दिवे᳘दिवे। यश᳘सं व्वीर᳘वत्तमम्॥ गयस्फा᳘नो ऽअमीवहा᳘ व्वसुवि᳘त्पुष्टिव᳘र्द्धनः। सुमित्रः᳘ सोम नो भवेति[[!!]] सह᳘स्रवत्यौ संया᳘ज्ये नू᳘नो रास्व सह᳘स्रवत्तोक᳘वत्पु᳘ष्टिमद्व᳘सु। द्युम᳘दग्ने सुवी᳘र्य्यं व्व᳘र्षिष्ठम᳘नुपक्षितम्॥ उत᳘ नो ब्र᳘ह्मन्नविष ऽउक्थे᳘षु देवहू᳘तमः। श᳘न्नः शोचा मरु᳘द्वृधो᳘ ऽग्ने᳘ सहस्रसा᳘तम ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘स्यै प᳘ञ्चदश सामिधे᳘न्यो भवन्ति॥
(न्त्यु) उपाᳫँ᳭शु᳘ देव᳘ता यजति प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजा ऽए᳘कᳫँ᳭ समिष्टयजुः पु᳘ष्टिमन्तावा᳘ज्यभागावग्नि᳘ना रयिमश्नवत्पो᳘षमेव᳘[[!!]] दिवे᳘दिवे। यश᳘सं व्वीर᳘वत्तमम्॥ गयस्फा᳘नो ऽअमीवहा᳘ व्वसुवि᳘त्पुष्टिव᳘र्द्धनः। सुमित्रः᳘ सोम नो भवेति[[!!]] सह᳘स्रवत्यौ संया᳘ज्ये नू᳘नो रास्व सह᳘स्रवत्तोक᳘वत्पु᳘ष्टिमद्व᳘सु। द्युम᳘दग्ने सुवी᳘र्य्यं व्व᳘र्षिष्ठम᳘नुपक्षितम्॥ उत᳘ नो ब्र᳘ह्मन्नविष ऽउक्थे᳘षु देवहू᳘तमः। श᳘न्नः शोचा मरु᳘द्वृधो᳘ ऽग्ने᳘ सहस्रसा᳘तम ऽइ᳘ति॥

मूलम् - Weber

त᳘स्यै प᳘ञ्चदश सामिधेॗन्यो भवन्ति॥
उपांशु᳘ देव᳘ता यजति प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘योऽनुयाजा ए᳘कᳫं समिष्टयजुः पु᳘ष्टिमन्तावा᳘ज्यभागावग्नि᳘ना रयि᳘मश्नवत्पो᳘षमेव᳘ दिवे᳘-दिवे यश᳘सं वीर᳘वत्तमम्॥
गयस्फा᳘नो अमीवहा᳘ वसुवि᳘त्पुष्टिव᳘र्धनः॥
सुमित्रः᳘ सोम नो भवे᳘ति॥
सह᳘स्रवत्यौ संयाॗज्ये नू᳘ नो रास्व सह᳘स्रवत्तोक᳘वत्पु᳘ष्टिमद्व᳘सु॥
द्युम᳘दग्ने सुवी᳘र्यं व᳘र्षिष्ठम᳘नुपक्षितम्॥
उत᳘ नो ब्र᳘ह्मन्नविष उक्थे᳘षु देवहू᳘तमः॥
शं᳘ नः शोचा मरु᳘द्वृधो᳘ऽग्ने᳘ सहस्रसा᳘तम इ᳘ति॥

मूलम् - विस्वरम्

तस्यै पंचदश सामिधेन्यो भवंति । उपांशु देवता यजति । पंच प्रयाजा भवंति । त्रयो ऽनुयाजाः । एकं समिष्टयजुः । पुष्टिमंतावाज्यभागौ । “अग्निना रयिमश्नवत्पोषमेव दिवदिवे । यशसं वीरवत्तमम्" । “गयस्फानो ऽअमीवहा वसुवित्पुष्टिवर्द्धनः । सुमित्रः सोम नो भव” इति । सहस्रवत्यौ संयाज्ये । “नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु । द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम्"उत नो ब्रह्मन्नविष ऽउक्थेषु देवहूतमः । शन्नः शोचा मरुद्वृधो ऽग्रे सहस्रसातमः" इति ॥ १९ ॥

सायणः

अथ तस्यामिष्टौ चोदकप्राप्तेषु अंगेषु क्वचिद्विशेषं दर्शयितुं तान्यनुक्रामति-तस्यै पंचदश इति । विकृतिषु अनारभ्याधीतेन “सप्तदश सामिधेनीरन्वाह” इति वाक्येन सामिधेनीसाप्तदश्यं नियमितम् । अत एवोक्तमापस्तम्बेन- “पंचदश सामिधेन्यो दर्शपूर्णमासयोः सप्तदशेष्टिपशुबंधानाम्” इति । तस्य साप्तदश्यस्य नियमे प्राकृतं पांचदश्यमेव प्रतिप्रसवार्थं विधीयते । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । २ । ६२ । वा.) । उपांशु देवतेति । अग्न्याद्याः प्रधानदेवताः ‘उपांशु यजति’ । तद्वाचिनः अग्न्यादिशब्दान् उपांशुच्चरेदित्यर्थः । दर्शपूर्णमासविकृतित्वानयनाय इदमंगानां प्रयाजादीनामत्र सिद्धवदनुवचनम् । न हि प्रयाजादीनां पंचत्वादिसंख्यया नियमवतां मंत्रसंख्यांतरं प्रसक्तमस्ति । ‘पुष्टिमंतौ’ पुष्टिशब्दयुक्तावाज्यभागौ कार्यौ । तयोः पुष्टिमत्त्वं याज्यानुवाक्यालिंगवशान्नामधेयं भवति । ते याज्यानुवाक्ये दर्शयति- अग्निना रयिमिति । ‘अग्निना’ देवतया ‘रयिं’ धनं ‘अश्नवत्’ यजमानः प्राप्नुयात् । तस्य धनस्य ‘दिवेदिवे’ प्रतिदिवसं ‘पोषम्’ अतिवृद्धिमेव प्राप्नोति । न तु क्षयम् । तथा ‘वीरवत्तमम्’ वीराः पुत्राः तदतिशयेन तद्युक्तम् । ‘यशसं’ यशःशब्दः अंतोदात्तः पुल्ँलिंगः । उक्तलक्षणं यशः प्राप्नोतीत्यर्थः । एषा आग्नेयस्याज्यभागस्यानुवाक्या । अथ सौम्यस्य गयस्फान इत्येषा । गय इति गृहनाम । तस्य वर्द्धयिता ‘अमीवाः’ रोगास्तेषां हंता । वसुनो धनस्य लंभयिता । पुष्टेः पोषस्य वर्द्धयिता । हे ‘सोम !’ एवंगुणविशिष्टस्त्वं ‘नः’ अस्माकं ‘सुमित्रः’ शोभनसख्ययुक्तः ‘भव’ । अथास्यामिष्टौ स्विष्टकृद्यागस्य याज्या ऽनुवाक्ये विधत्ते- सहस्रवत्यौ संयाज्ये इति । स्विष्टकृद्याज्यानुवाक्ययोः ‘संयाज्ये’ इति संज्ञा सूचितेति । संयाज्ये सौविष्टकृती प्रतीयादिति । ते चात्र ‘सहस्रवत्यौ’ सहस्रयुक्ते भवतः । ते एव दर्शयति- नू नो रास्वेति । हे ‘अग्ने !’ ‘नः’ अस्मभ्यं ‘नु’ क्षिप्रं ‘वसु’ धनं ‘रास्व’ देहि । “रा दाने” (धा. पा. अ. प. ४७) इति धातुः । कीदृशं ‘सहस्रवत्’ सहस्रसंख्यायुक्तम् । तोकमिति अपत्यनाम । बह्वपत्योपेतम् । पुष्ट्या पोषणेन युक्तम् । द्युमद्दीप्तियुक्तम् । ‘सुवीर्यं’ शोभनवीर्योपेतं ‘वर्षिष्ठं’ वृद्धतरम् ‘अनुपक्षितम्’ उपक्षयरहितम् । उत नो ब्रह्मन्निति याज्या । हे अग्ने ! ‘देवहूतमः’ देवानामाह्वाता त्वं ‘उक्थेषु’ शस्त्रेषु सत्सु ‘नः’ अस्मान् ‘अविषः’ रक्ष । अवतेर्लेटि रूपम् । अपि च ‘मरुद्वृधः’ मरुतां देवानां वर्द्धयिता । यद्वा मरुता वायुना वर्द्धितः ‘नः’ अस्मभ्यं ‘सहस्रसातमः’ सहस्रसंख्याकस्य धनस्यातिशयेन दाता सन् ‘शं’ सुखं यथा भवति तथा ‘शोच’ दीप्यस्वेति ॥ १९ ॥

Eggeling
  1. For this (sacrifice) there are fifteen kindling-verses 7: he offers to the deities in a low voice 8. There are five fore-offerings, three after-offerings, and one Samishṭayajus. The (formulas of the) two butter-portions contain the word ‘affluence’:–(R̥g-veda S. I, 1, 3), ‘Through Agni may he obtain wealth and affluence day by day, famous and abounding in heroes;’–(R̥g-veda S. I, 91, 12), ‘An increaser of the house, a remover of trouble, a procurer of wealth, an augmenter of affluence, a kind friend he thou unto us, O Soma!’ The two formulas of the Svishṭakr̥t contain the word ’thousand’:–(R̥g-veda S. III, 13, 7), ‘Grant thou unto us wealth, a thousandfold, with offspring and affluence, and glorious manhood, O Agni, most excellent and never

failing!’–(R̥g-veda S. III, 13, 6), ‘Favour thou our prayer, as the best invoker of the gods for our hymns: blaze up auspiciously for us, wind-fanned, O Agni, the dispenser of a thousand bounties!’

२०

विश्वास-प्रस्तुतिः

ता᳘ᳫँ᳘ हैतां गो᳘तमो राहूगणः᳘॥
(णो᳘) व्विदा᳘ञ्चकार सा᳘ ह जनकं व्वै᳘देहं प्रत्यु᳘त्ससाद ता᳘ᳫँ᳘ हाङ्गजि᳘द्ब्राह्मणेष्व᳘न्वियेष ता᳘मु ह या᳘ज्ञवल्क्ये व्विवेद स᳘ होवाच सह᳘स्रं भो याज्ञवल्क्य दद्मो य᳘स्मिन्वयं त्व᳘यि मित्रविन्दा᳘मन्व᳘विदामे᳘ति व्विन्द᳘ते मित्र᳘ᳫँ᳘ राष्ट्र᳘मस्य भवत्य᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति य᳘ ऽएवं᳘ व्विद्वा᳘नेतये᳘ष्ट्या᳘ य᳘जते यो᳘ वैत᳘देवं व्वे᳘द॥

मूलम् - श्रीधरादि

ता᳘ᳫँ᳘ हैतां गो᳘तमो राहूगणः᳘॥
(णो᳘) व्विदा᳘ञ्चकार सा᳘ ह जनकं व्वै᳘देहं प्रत्यु᳘त्ससाद ता᳘ᳫँ᳘ हाङ्गजि᳘द्ब्राह्मणेष्व᳘न्वियेष ता᳘मु ह या᳘ज्ञवल्क्ये व्विवेद स᳘ होवाच सह᳘स्रं भो याज्ञवल्क्य दद्मो य᳘स्मिन्वयं त्व᳘यि मित्रविन्दा᳘मन्व᳘विदामे᳘ति व्विन्द᳘ते मित्र᳘ᳫँ᳘ राष्ट्र᳘मस्य भवत्य᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति य᳘ ऽएवं᳘ व्विद्वा᳘नेतये᳘ष्ट्या᳘ य᳘जते यो᳘ वैत᳘देवं व्वे᳘द॥

मूलम् - Weber

ता᳘ᳫं᳘ हैतां गो᳘तमो राहूगणः᳟॥
विदां᳘ चकार सा᳘ ह जनकं वै᳘देहम् प्रत्यु᳘त्ससाद ता᳘ᳫं᳘ हाङ्गिजि᳘द्ब्राह्मणेष्व᳘न्वियेष 9 ता᳘मु ह या᳘ज्ञवल्क्ये विवेद स᳘ होवाच सह᳘स्रम् भो याज्ञवल्क्य दद्नो य᳘स्मिन्वयं त्व᳘यि मित्रविन्दा᳘मन्व᳘विदामे᳘ति विन्द᳘ते मित्रं᳘ राष्ट्र᳘मस्य भवत्य᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति य᳘ एवं᳘ विद्वा᳘नेतये᳘ष्ट्या᳘ य᳘जते यो᳘ वैत᳘देवं वे᳘द॥

मूलम् - विस्वरम्

तां हैतां गोतमो राहूगणो विदांचकार । सा ह जनकं वैदेहं प्रत्युत्ससाद । तां हांगजिद्ब्राह्मणेष्वन्वियेष । तामु ह याज्ञवल्क्ये विवेद । स होवाच- सहस्रं भो याज्ञवल्क्य दद्मः । यस्मिन् वयं त्वयि मित्रविन्दामन्वविदामेति । विन्दते मित्रम् । राष्ट्रमस्य भवति । अप पुनर्मृत्युं जयति । सर्वमायुरेति । य एवं विद्वानेतयेष्ट्या यजते । यो वैतदेवं वेद ॥ २० ॥

सायणः

अस्या इष्टेर्मित्रविन्देति नाम निर्वक्तुं संप्रदायागतिमाह- तां हैतामिति । ‘तां’ तादृशीं एतामुक्ताम् इष्टिं रहूगणस्य पुत्रो गोतम ऋषिः ‘विदांचकार’ प्रथमं ददर्श । ‘सा’ च विदेहदेशाधिपतिं जनकाख्यं राजानं ‘प्रति उत्ससाद’ उत्सन्ना बभूव । स जनकः तामिष्टिं वेदांगाभिज्ञेषु ‘ब्राह्मणेषु’ ‘अन्वियेष’ अन्विष्टवान् । तामिष्टिं ‘याज्ञवल्क्ये’ महर्षौ ‘विवेद’ आलेभे । अनंतरं ‘सः’ खलु जनकः ‘उवाच’ भो ‘याज्ञवल्क्य !’ सहस्रसंख्याकं धनं तुभ्यं ‘दद्मः’ प्रयच्छामः । यस्मिंस्त्वयि मित्रविंदाख्यामिमामिष्टिं ‘अन्वविदाम’ अन्विष्य आलभामहे अतो ‘मित्रं विंदते’ लभते अनयेति ‘मित्रविंदा’ नाम संपन्नम् । पुराकल्पव्याजेन साधारण्येन विहितायामिष्टौ अधिकारिणं उपसंहारव्याजेन दर्शयति 10- विंदते मित्रमिति । एवमुक्तप्रकारेण ब्राह्मणार्थं ‘विद्वान्’ ‘यः’ यजमानः ‘एतया इष्ट्या यजते’ ‘यो वा’ एतदर्थजातम् ‘एवं वेद’ जानाति सः ‘मित्रं विंदते’ लभते । ‘अस्य राष्ट्रं’ स्वकीयं ‘भवति’ । ‘पुनर्मृत्युमपजयति’ सकृत् मृत्वा पुनरमर्त्यात्मके स्वर्गे लोके सुखेन वर्तते । सर्वमखंडितं आयुर्जीवनं प्राप्नोति ॥ २० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे चतुर्था ऽध्याये तृतीयं ब्राह्मणम् ॥ (११ । ४ । ३) ॥

Eggeling
  1. Now, indeed, it was Gotama Rāhūgaṇa who discovered this (sacrifice). It went away to Janaka of Videha, and he searched for it in the Brāhmaṇas versed in the Aṅgas 11 (limbs of the Veda), and found it in Yājñavalkya. He said, ‘A thousand we give thee, O Yājñavalkya, in whom we have found that Mitravindā.’ He finds (vind) Mitra, and his is the kingdom, he conquers recurring death 12 and gains all life, whosoever, knowing this, performs this sacrifice; or whosoever thus knows it.

  1. 62:1 That is, gods, men, &c., Sāy. ↩︎

  2. 62:2 Sāyaṇa apparently takes ’lelāyantī’ in the sense of ‘all-embracing’ (from līyate, to nestle against),–dīpyamānā avayavaiḥ śobhamānā bhrājamānā sarvaṁ jagat svatejasā prakāśayantī svakīyena tejaḥpuñjena sarvam āślishyantī atishṭḥat sthitavatī. ↩︎

  3. आख्यं विचार्यप्रयोजनः । ↩︎

  4. 64:1 I read ‘pushṭiḥ’ instead of ‘pushṭim.’ Sāyaṇa takes it thus,–whatever prosperity Sarasvatī, the lord of prosperity, took from me, may he bestow that prosperity upon me! ↩︎

  5. विराट्छ्री᳘विरा᳘ट्छ्रिया᳘ᳫ᳘. ↩︎

  6. 65:1 Sāyaṇa supplies ‘viśishṭān,’–cattle endowed with form. ↩︎

  7. 65:2 That is, the ordinary number of sāmidhenīs at an ishṭi, viz. eleven verses, the first and last of which are recited three times each. See part i, p. 102, note 1; p. 112, note 1. ↩︎

  8. 65:3 That is, the formulas–with the exception of the final ‘om’ of the invitatory formulas, and the introduction ‘ye yajāmahe’ and the final ‘vaushaṭ’ of the offering-formulas–are pronounced in a low voice. ↩︎

  9. Sây. seems to read अङ्गविद्ब्रा. ↩︎

  10. मित्रविन्दा श्रीराष्ट्रमित्रायुष्कामस्य । का. श्रौ. सू. ५ । ३०७ । ↩︎

  11. 66:1 That is, the Vedāṅgas, i.e. the limbs, or supplementary sciences, of the Veda. ↩︎

  12. 66:2 That is to say, his approaching death will deliver him once for all from mundane existence and its constantly repeated round of birth and death. ↩︎