०१

विश्वास-प्रस्तुतिः

अथा᳘तः स्रुचो᳘रादा᳘नस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमाना दक्षिणे᳘नैव᳘ जुहू᳘माद᳘दते सव्ये᳘नोपभृ᳘तन्न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘त्प्रतिप्रतिं न्वा᳘ ऽअय᳘मध्वर्य्युर्य्यज᳘मानस्य द्विष᳘न्तं भ्रा᳘तृव्यमकत्प्रत्युद्यामि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव[[!!]] स्यात्॥

मूलम् - श्रीधरादि

अथा᳘तः स्रुचो᳘रादा᳘नस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमाना दक्षिणे᳘नैव᳘ जुहू᳘माद᳘दते सव्ये᳘नोपभृ᳘तन्न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘त्प्रतिप्रतिं न्वा᳘ ऽअय᳘मध्वर्य्युर्य्यज᳘मानस्य द्विष᳘न्तं भ्रा᳘तृव्यमकत्प्रत्युद्यामि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव[[!!]] स्यात्॥

मूलम् - Weber

अथा᳘तः स्रुचो᳘रादा᳘नस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमाना दक्षिणे᳘नैव᳘ जुहू᳘माद᳘दते सव्ये᳘नोपभृ᳘तं न त᳘था कुर्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘त्प्रतिप्रतिं 1 न्वा᳘ अय᳘मध्वर्युर्य᳘जमानस्य द्विष᳘न्तम् भ्रा᳘तृव्यमकत्प्रत्युद्यामि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - विस्वरम्

अथातः स्रुचोरादानस्य । तद्धैतदेके कुशला मन्यमाना दक्षिणेनैव जुहूमाददते, सव्येनोपभृतम् । न तथा कुर्यात् । यो हैनं तत्र ब्रूयात्- प्रतिप्रतिं न्वा अयमध्वर्युर्यजमानस्य द्विषंतं भ्रातृव्यमकत्प्रत्युद्यामिनमिति । ईश्वरो ह तथैव स्यात् ॥ १ ॥

सायणः

इत्थं दर्शपूर्णमासयोः प्रयाजादियागान् शरीरोत्पत्तिनिमित्तत्वेन प्रतिपाद्य, अथ तेषां यागानां स्रुगादानप्रभृतिहोमांताः केचन धर्मा विचार्यंते; तत्र स्रुगादानस्य प्रकारविशेषं दर्शयितुं प्रस्तौति- अथातः स्रुचोरिति । अथेत्यारंभे आनंतर्ये वा । यतः स्रुगादानविषये वक्ष्यमाणप्रकारेण वैषम्यमस्ति । ‘अतः’ हेतोः ‘स्रुचोः’ जुहूपभृतोर्होमार्थं यदादानम्, तस्य विचारः क्रियत इति शेषः । तत्र एकीयमतं दर्शयति- तद्धैतदिति । तावत् स्रुचोरादानविषये ‘एके’ याज्ञिकाः ‘कुशला मन्यमानाः’ युगपत्पात्रद्वयग्रहणे कौशलयुक्तमात्मानं मन्यमानाः संतो दक्षिणवामहस्ताभ्यां युगपत् जुहूपभृतौ ‘आददते’ गृह्णंति । तदेतत् दूषयति- न तथा कुर्यादिति । ‘तथा’ तेनोक्तप्रकारेण स्रुचोरादानं ‘न कुर्यात्’ । ‘तत्र’ तस्मिन् विषये ‘यो ह’ यः कश्चिदभिज्ञः आगत्य एनमध्वर्युं ‘ब्रूयात्’ किमिति ? ‘नु’ ‘अयमध्वर्युर्यजमानस्य’ ‘प्रतिप्रतिम्’ प्रतिकूलाचरणेन प्रतिभटं ‘द्विषन्तं भ्रातृव्यम्’ शत्रुं ‘प्रत्युद्यामिनं’ प्रत्युद्गमनशीलं ‘अकत्’ कृतवान् । इतिशब्दो वाक्यसमाप्तौ । जुहूर्हि यजमानदेवत्या, उपभृत् भ्रातृव्यरूपा, उभयोर्युगपदेव हस्तद्वयेन ग्रहणे भ्रातृव्यमपि यजमानवत् संस्कृतवान् भवतीत्यभिप्रायः । ईश्वरो हेति । यथैवमुक्तं ‘तथैव’ भवितुं यजमानः ‘ईश्वरः’ समर्थः स्यात् । उक्तदोषः अवश्यं भवेदित्यर्थः ॥ १ ॥

Eggeling
  1. Now, then, as to the taking up of the two offering-spoons 2. Now, in this respect, some people,

thinking themselves clever, take up the (guhū) with the right, and the upabhr̥t with the left (hand); but let him not do so; for if, in that case, any one were to say of him, ‘Surely, this Adhvaryu has made the Sacrificer’s spiteful enemy equal to him, and able to cope with him,’ then that would indeed be likely to come to pass.

०२

विश्वास-प्रस्तुतिः

(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(दु) उभा᳘भ्यामेव᳘ पाणि᳘भ्यां जुहू᳘म्परिगृ᳘ह्योपभृ᳘त्यधिनि᳘दध्यात्त᳘स्य᳘ नोपमीमा᳘ᳫँ᳘सा ऽस्ति त᳘त्पश᳘व्यमायु᳘ष्यं[[!!]] ते ऽअ᳘सᳫँ᳭शिञ्जयन्ना᳘ददीत ते य᳘त्सᳫँ᳭शिञ्ज᳘येद᳘योगक्षेमो य᳘जमानमृच्छेत्त᳘स्माद᳘सᳫँ᳭शिञ्जयन्ना᳘ददीत॥

मूलम् - श्रीधरादि

(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(दु) उभा᳘भ्यामेव᳘ पाणि᳘भ्यां जुहू᳘म्परिगृ᳘ह्योपभृ᳘त्यधिनि᳘दध्यात्त᳘स्य᳘ नोपमीमा᳘ᳫँ᳘सा ऽस्ति त᳘त्पश᳘व्यमायु᳘ष्यं[[!!]] ते ऽअ᳘सᳫँ᳭शिञ्जयन्ना᳘ददीत ते य᳘त्सᳫँ᳭शिञ्ज᳘येद᳘योगक्षेमो य᳘जमानमृच्छेत्त᳘स्माद᳘सᳫँ᳭शिञ्जयन्ना᳘ददीत॥

मूलम् - Weber

इत्थ᳘मेव᳘ कुर्यात्॥
उभा᳘भ्यामेव᳘ प्राणि᳘भ्यां जुहू᳘म् परिगृ᳘ह्योपभृ᳘त्यधिनि᳘दध्यात्त᳘स्यॗ नोपमीमाॗᳫंॗसास्ति त᳘त्पशव्य᳘मायुष्यं᳘ ते अ᳘संशिञ्जयन्ना᳘ददीत 3 य᳘त्संशिञ्ज᳘येद᳘योगक्षेमो य᳘जमानमृछेत्त᳘स्माद᳘संशिञ्जयन्ना᳘ददीत॥

मूलम् - विस्वरम्

इत्थमेव कुर्यात्; उभाभ्यामेव पाणिभ्यां जुहूं परिगृह्योपभृत्यधिनिदध्यात् । तस्य नोपमीमांसा ऽस्ति । तत्पशव्यमायुष्यम् । ते असंशिंजयन्नाददीत । ते यत्संशिंजयेत् । अयोगक्षेमो यजमानमृच्छेत् । तस्मादसंशिंजयन्नाददीत ॥ २ ॥

सायणः

स्वकीयं पक्षमाह- इत्थमेवेति । ‘इत्थं’ अनेन प्रकारेण वक्ष्यमाणप्रकारेणैव स्रुचोरादानं ‘कुर्यात्’ । दक्षिणोत्तराभ्यामुभाभ्यामेव ‘पाणिभ्यां’ ‘जुहूं’ परिगृह्यादाय ‘उपभृत्यधिनिदध्यात्’ निक्षिपेत् । विध्यर्थे लिङ् । पश्चात् जुहूसहितामुपभृतं गृह्णीयात् इति । अस्मिन्पक्षे दोषाभावं ब्रुवन् आनुगुण्यमाह- तस्य नोपमीमांसा ऽस्तीति । ‘तस्य’ एवंविधस्य स्रुगादानस्य ‘उपमीमांसा’ उदीरितदोषोक्तिरिति यावत् । सा नास्ति । न केवलं दोषाभावः, अपि तु तदादानं ‘पशव्यं’ पशुभ्यो हितं पशुवृद्धिकरमित्यर्थः । ‘आयुष्यं’ आयुष्करम् । तत्र विशेषमाह- ते असंशिंजयन्निति । ‘ते’ जुहूपभृतौ ‘असंशिंजयन्’ “शिजि अव्यक्ते शब्दे” (धा. पा. अ. आ. १७) इति धातुः । परस्परसंघट्टजनितं शब्दमकुर्वन् । ‘आददीत’ स्वीकुर्यात् । “डुदाञ् दाने” (धा. पा. जु. उ. ९) इति धातुः । अत एवोक्तमापस्तंबेन- “न च शिंजयति” इति । अथ विपक्षे बाधं दर्शयन् निगमयति- अयोगक्षेम इति । अप्राप्तस्य फलस्य प्राप्तिर्योगः । लब्धस्य परिपालनं क्षेमः । तयोरभावो यजमानम् ‘ऋच्छेत्’ प्राप्नुयात् । गतमन्यत् ॥ २ ॥

Eggeling
  1. Let him rather do it in this way;–having taken the juhū with both hands, let him lay it down on the upabhr̥t; there is no question about this: it is good for (securing) cattle and life. Let him take them up without clinking them together,–were he to let them clink together, insecurity of property would befall the Sacrificer: let him, therefore, take them up without clinking them together.

०३

विश्वास-प्रस्तुतिः

(ता) अथा᳘तो ऽतिक्र᳘मणस्य॥
व्व᳘ज्रेण ह वा᳘ ऽअ᳘न्यो ऽध्वर्य्युर्य्य᳘जमानस्य पशून्वि᳘धमति व्व᳘ज्रेण हास्मा ऽअन्य᳘ ऽउपस᳘मूहत्येष᳘ ह वा᳘ ऽअध्वर्य्युर्व्व᳘ज्रेण य᳘जमानस्य पशून्वि᳘धमति य᳘ ऽआश्रावयिष्य᳘न्दक्षिणे᳘नातिक्रा᳘मति सव्ये᳘नाश्राव्या᳘थ हास्मा ऽएष᳘ ऽउपस᳘मूहति य᳘ ऽआश्रावयिष्य᳘न्त्सव्ये᳘नातिक्रा᳘मति दक्षिणे᳘नाश्रा᳘व्यैष᳘ हास्मा ऽउपस᳘मूहति॥

मूलम् - श्रीधरादि

(ता) अथा᳘तो ऽतिक्र᳘मणस्य॥
व्व᳘ज्रेण ह वा᳘ ऽअ᳘न्यो ऽध्वर्य्युर्य्य᳘जमानस्य पशून्वि᳘धमति व्व᳘ज्रेण हास्मा ऽअन्य᳘ ऽउपस᳘मूहत्येष᳘ ह वा᳘ ऽअध्वर्य्युर्व्व᳘ज्रेण य᳘जमानस्य पशून्वि᳘धमति य᳘ ऽआश्रावयिष्य᳘न्दक्षिणे᳘नातिक्रा᳘मति सव्ये᳘नाश्राव्या᳘थ हास्मा ऽएष᳘ ऽउपस᳘मूहति य᳘ ऽआश्रावयिष्य᳘न्त्सव्ये᳘नातिक्रा᳘मति दक्षिणे᳘नाश्रा᳘व्यैष᳘ हास्मा ऽउपस᳘मूहति॥

मूलम् - Weber

अथा᳘तोऽतिक्र᳘मणस्य॥
व᳘ज्रेण ह वा᳘ अॗन्योऽध्वर्युर्य᳘जमानस्य पशून्वि᳘धमति व᳘ज्रेण हास्मा अन्य᳘ उपस᳘मूहत्येष᳘ ह वा᳘ अध्वर्युर्व᳘ज्रेण य᳘जमानस्य पशून्वि᳘धमति य᳘ आश्रावयिष्य᳘न्दक्षिणे᳘नातिक्रा᳘मति सव्ये᳘नाश्राव्या᳘थ हास्मा एष᳘ उपस᳘मूहति य᳘ आश्रावयिष्य᳘न्त्सव्ये᳘नातिक्रा᳘मति दक्षिणे᳘नाश्रा᳘व्यैष᳘ हास्मा उपस᳘मूहति॥

मूलम् - विस्वरम्

अथातो ऽतिक्रमणस्य । वज्रेण ह वा अन्यो ऽध्वर्युर्यजमानस्य पशून्विधमति । वज्रेण हास्मा अन्य उपसमूहति । एष ह वा अध्वर्युर्वज्रेण यजमानस्य पशून्विधमति, य आश्रावयिष्यन् दक्षिणेनातिक्रामति सव्येनाश्राव्य । अथ हास्मा एष उपसमूहति, यः आश्रावयिष्यन् सव्येनातिक्रामति दक्षिणेनाश्राव्य । एष हास्मा उपसमूहति ॥ ३ ॥

सायणः

अतिक्रमणविषयं विचारं प्रस्तौति- अथातो ऽतिक्रमणस्येति । ‘अथातः’ शब्दायुक्तार्थौ विद्येते । अतिक्रमणप्रकारविशेष उच्यते इति शेषः । तं दर्शयितुं अध्वर्युद्वैविध्यमाह- वज्रेण ह वा इति । ‘अन्य’ एको ऽध्वर्युः ‘यजमानस्य पशून्’ गवादीन् ‘वज्रेण’ खलु ‘विधमति’ विगमयति यजमानात् वियोजयतीत्यर्थः । ‘अन्यः’ खलु अध्वर्युः ‘अस्मै’ यजमानाय । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) वज्रेणैव तान्पशून् ‘उपसमूहति’ समीपं प्रापयति । तत्र यो विधमति तं दर्शयति- एष ह वा अध्वर्युरिति । ‘यः’ अध्वर्युः आश्रावणं करिष्यन् ‘दक्षिणेन’ पदा दक्षिणा ‘अतिक्रामति’, ‘आश्राव्य’ आश्रावणं कृत्वा ‘सव्येन’ पादेनापक्रामति । एषो ऽध्वर्युर्विधमति । इत्थं अध्वर्युविशेषप्रदर्शनेन अतिक्रमणविषयं निंदापक्षमुक्त्वा सिद्धांतयति- अथ हास्मा इति । अथशब्दः पक्षव्यावृत्त्यर्थः । ‘यः’ अध्वर्युः उक्तवैपरीत्येन अतिक्रमणं करोति । सः ‘अस्मै’ यजमानाय पशून् ‘उपसमूहति’ प्रापयतीत्यर्थः ॥ ३ ॥

Eggeling
  1. Now as to the stepping past (the Vedi). By a thunderbolt, indeed, one, Adhvaryu scatters the Sacrificer’s cattle, and by a thunderbolt another drives them together for him. Now that Adhvaryu, doubtless, scatters the Sacrificer’s cattle by a thunderbolt, who steps past with his right (foot) 4 when he is

about to call (on the Āgnīdhra) for the Sraushaṭ, and with his left (foot) when he has called for the Śraushaṭ; and that (other) one drives them together for him who steps past with his left (foot) When he is about to call for the Śraushaṭ, and with his right (foot) when he has called for the Sraushaṭ; for he does indeed drive them together for him.

०४

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो धा᳘रणस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमानाः प्रगृ᳘ह्य बाहू स्रु᳘चौ धारयन्ति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयाच्छू᳘लौ न्वा ऽअय᳘मध्वर्य्यु᳘र्बाहू᳘ ऽअकृत शू᳘लबाहुर्भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्याद᳘थ हैष᳘ मध्यमः᳘ प्राणस्त᳘स्मादु त᳘मुपन्य᳘च्येवैव᳘ धारयेत्॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो धा᳘रणस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमानाः प्रगृ᳘ह्य बाहू स्रु᳘चौ धारयन्ति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयाच्छू᳘लौ न्वा ऽअय᳘मध्वर्य्यु᳘र्बाहू᳘ ऽअकृत शू᳘लबाहुर्भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्याद᳘थ हैष᳘ मध्यमः᳘ प्राणस्त᳘स्मादु त᳘मुपन्य᳘च्येवैव᳘ धारयेत्॥

मूलम् - Weber

अथा᳘तो धा᳘रणस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमानाः प्रगृ᳘ह्य बाहू स्रु᳘चौ धारयन्ति न त᳘था कुर्याद्यो᳘ हैनं त᳘त्र ब्रूयाछू᳘लौ न्वा अय᳘मध्वर्यु᳘र्बाहू᳘ अकृत शू᳘लबाहुर्भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्याद᳘थ हैष᳘ मध्यमः᳘ प्राणस्त᳘स्मादु त᳘मुपन्य᳘च्येवैव᳘ धारयेत्॥

मूलम् - विस्वरम्

अथातो धारणस्य । तद्धैतत् एके कुशला मन्यमानाः प्रगृह्य बाहू स्रुचौ धारयंति । न तथा कुर्यात् । यो हैनं तत्र ब्रूयात्; शूलौ न्वा अयमध्वर्युर्बाहू अकृत । शूलबाहुर्भविष्यतीति । ईश्वरो ह तथैव स्यात् । अथ हैष मध्यमः प्राणः, तस्मादु तमुपन्यच्येवैव धारयेत् ॥ ४ ॥

सायणः

अथ स्रुग्धारणविषयं धर्मविशेषं विधातुं प्रस्तौति- अथातो धारणस्येति । प्रकार उच्यते इति शेषः । तत्र पूर्वपक्षयति- तद्धैतदेक इति । ‘तत्’ एतस्मिन् स्रुग्धारणविषये ‘एके’ याज्ञिकाः- कुशलत्वेनात्मानं मन्यमानाः ‘प्रगृह्य’ प्रकर्षेणोर्ध्वमुद्यम्य तथाविधाभ्यां बाहुभ्यां ‘स्रुचौ धारयंति’ । तन्निषिद्धं दूषयति- न तथा कुर्यादिति । शूलौ न्वा इति । नुशब्द उपमार्थः । उक्तं हि यास्केन- “अथाप्युपमार्थे भवति । वृक्षस्य नु ते पुरुहूत वयाः”- (निरु. १ । ४ । १८) इति । ‘अयमध्वर्युः’ ‘बाहू’ प्रगृह्य धारयन् तौ शूलाविव ‘अकृत’ कृतवान् । अतो यजमानः ‘शूलबाहुर्भविष्यति’ इति । गतमन्यत् । कर्तव्यं पक्षमाह- अथ हैष इति । यः ‘एषः’ ‘मध्यमः’ देहमध्यवर्ती ‘प्राणः’ वाय्वाधारत्वात् प्राणो नाभिः । ‘तस्मात् उ’ तस्मात् मध्यमात्प्राणात् ‘उपन्यच्येवैव’ नीचैः कृत्वैव ‘तं’ मध्यमं प्राणं उपनतस्य मध्यमप्राणस्य समीपे धारयेत् । अत एवोक्तं सूत्रकृता- “नाभिदेशे धारणम्”- (का. श्रौ. सू. ३ । ४४) इति ॥ ४ ॥

Eggeling
  1. Now as to the holding (of the spoons). In this respect, some people, thinking themselves clever, hold the two spoons whilst stretching forward both arms; but let him not do so, for if, in that case, any one were to say of him, ‘Surely, this Sacrificer has made two spears of his arms: he will become a spear-holder,’ then that would indeed be likely to come to pass. But that (navel is the channel of the) central breathing: let him therefore hold (the spoon) by lowering them 5 to that (breathing).

०५

विश्वास-प्रस्तुतिः

(द) अथा᳘त ऽआश्रा᳘वणस्य॥
ष᳘ड्ढ वा ऽआ᳘श्रावितानि᳘ न्यक्तिर्य्य᳘गूर्ध्वं᳘[[!!]] कृपणं᳘ बहिः᳘श्र्यन्तः᳘श्रि॥

मूलम् - श्रीधरादि

(द) अथा᳘त ऽआश्रा᳘वणस्य॥
ष᳘ड्ढ वा ऽआ᳘श्रावितानि᳘ न्यक्तिर्य्य᳘गूर्ध्वं᳘[[!!]] कृपणं᳘ बहिः᳘श्र्यन्तः᳘श्रि॥

मूलम् - Weber

अथा᳘त आश्रा᳘वणस्य॥
ष᳘डु वा आ᳘श्रावितानि न्य᳘क्तिर्य᳘गूर्ध्वं᳘ कृपण᳘म् बहिः᳘श्र्यन्तः᳘श्रि॥

मूलम् - विस्वरम्

अथात आश्रावणस्य । षड् ह वा आश्रावितानि । न्यक् तिर्यक् ऊर्ध्वं कृपणं बहिःश्रि अंतःश्रि ॥ ५ ॥

सायणः

एवमाश्रावणेऽपि स्वाभिमतं पक्षं दर्शयितुं प्रस्तौति- अथात आश्रावणस्येति । यतो वक्ष्यमाणप्रकारेण तत्र भूयसी विप्रतिपत्तिरस्ति, अतः कारणात् ‘अथ’ तस्याश्रावणस्य विशेषानादौ संपरिचष्टे- षड्ढ वा आश्रावणानीति । ‘न्यक्, तिर्यग्’ इत्यादिशब्दाः तेषामाश्रावणविशेषाणां क्रमेणान्वर्थसंज्ञाः ॥ ५ ॥

Eggeling
  1. Now as to calling for the Śraushaṭ 6: there are six (modes of) calling for the Sraushaṭ,–the descending, the level, the ascending, the feeble, the outward-tending, and the inward-tending.

०६

विश्वास-प्रस्तुतिः

(श्र्ये) एत᳘द्ध वै न्य᳘क्[[!!]]॥
(ग्यो) यो ऽय᳘मुच्चै᳘रादा᳘य शनै᳘र्निद᳘धाति स य᳘मिच्छेत्पा᳘पीयान्त्स्यादि᳘ति त᳘स्योच्चै᳘रादा᳘य शनैर्नि᳘दध्यात्ते᳘न स पा᳘पीयान्भवति॥

मूलम् - श्रीधरादि

(श्र्ये) एत᳘द्ध वै न्य᳘क्[[!!]]॥
(ग्यो) यो ऽय᳘मुच्चै᳘रादा᳘य शनै᳘र्निद᳘धाति स य᳘मिच्छेत्पा᳘पीयान्त्स्यादि᳘ति त᳘स्योच्चै᳘रादा᳘य शनैर्नि᳘दध्यात्ते᳘न स पा᳘पीयान्भवति॥

मूलम् - Weber

एत᳘द्ध वै न्य᳘क्᳟᳟॥
योऽय᳘मुच्चै᳘रादा᳘य शनै᳘र्निद᳘धाति स य᳘मिछेत्पा᳘पीयान्त्स्यादि᳘ति त᳘स्योच्चैरादा᳘य शनैर्नि᳘दध्यात्ते᳘न स पा᳘पीयान्भवति॥

मूलम् - विस्वरम्

एतद्ध वै न्यक्, यो ऽयमुच्चैरादाय शनैर्निदधाति । स यमिच्छेत्पापीयान् स्यादिति; तस्योच्चैरादाय शनैर्निदध्यात् । तेन स पापीयान् भवति ॥ ६ ॥

सायणः

तत्र प्रथमस्वरूपमाह- एतद्ध वा इति । ‘यो ऽयं’ अध्वर्युः ‘उच्चैः’ ऊर्ध्वस्वरेणादायाश्रावणं प्रारभ्य ‘शनैः’ नीचस्वरेण ‘निदधाति’ परिसमापयति । एतत् न्यक्संज्ञकमाश्रावणम् । एतस्य प्रयोगविषयमाह- स यमिच्छेदिति । ‘यं’ यजमानं द्वेष्यम् ‘पापीयान्’ अतिशयेन दरिद्रः ‘स्यात्’ इतीच्छेदध्वर्युः ‘तस्य’ एतदाश्रावितं येन यजमानः ‘पापीयान् भवति’ ॥ ६ ॥

Eggeling
  1. Now the descending mode, indeed, it is when he begins in a high tone and concludes in a low tone: whoever should wish that any one 7 should be poorer,

let him begin for him in a high tone and conclude in a low tone; and he will thereby become poorer.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हैत᳘त्तिर्य्य᳘क्[[!!]]॥
(ग्यो) यो ऽयं या᳘वतै᳘वाददीत ता᳘वता निद᳘धाति स य᳘मिच्छे᳘न्नैव श्रे᳘यान्त्स्यान्न पा᳘पीयानि᳘ति त᳘स्य या᳘वतै᳘वाद᳘दीत ता᳘वता नि᳘दध्यात्ते᳘न स[[!!]] नैव श्रे᳘यान्न पा᳘पीयान्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हैत᳘त्तिर्य्य᳘क्[[!!]]॥
(ग्यो) यो ऽयं या᳘वतै᳘वाददीत ता᳘वता निद᳘धाति स य᳘मिच्छे᳘न्नैव श्रे᳘यान्त्स्यान्न पा᳘पीयानि᳘ति त᳘स्य या᳘वतै᳘वाद᳘दीत ता᳘वता नि᳘दध्यात्ते᳘न स[[!!]] नैव श्रे᳘यान्न पा᳘पीयान्भवति॥

मूलम् - Weber

अ᳘थ हैत᳘त्तिर्यक्᳟᳟॥
योऽयं या᳘वतैॗवादत्ते ता᳘वता निद᳘धाति स य᳘मिछेॗन्नैव श्रे᳘यान्त्स्यान्न पा᳘पीयानि᳘ति त᳘स्य या᳘वतैॗवाद᳘दीत ता᳘वता नि᳘दध्यात्ते᳘न सॗ नैव श्रे᳘यान्न पा᳘पीयान्भवति॥

मूलम् - विस्वरम्

अथ हैतत्तिर्यक्, यो ऽयं यावतैवाददीत तावता निदधाति । स यमिच्छेन्नैव श्रेयान् स्यान्न पापीयानिति; तस्य यावतैवाददीत तावता निदध्यात् । तेन स नैव श्रेयान्न पापीयान् भवति ॥ ७ ॥

सायणः

द्वितीयमाश्रावणं लक्षयति- अथ हैतत्तिर्यगिति । ‘यः अयम्’ अध्वर्युः ‘यावता’ यावत्परिमाणेन स्वरेणाश्रावणम् ‘आददीत’ आरभते, तावतैव स्वरेण ‘निदधाति’, तस्य तत् आश्रावणं तिर्यक्संज्ञम् । तस्य प्रयोगफलमाह- स यमिच्छेदिति । श्रेयानपि न स्यात्, पापीयानपि नैव स्यात्, अपि तु मध्यस्थ एव ‘भवतु’ इति यं यजमानं कामयेत, तस्य एतत् तिर्यक् संज्ञकमाश्रावणं प्रयोज्यम् । स्पष्टमन्यत् ॥ ७ ॥

Eggeling
  1. And the level one, indeed, it is when he concludes in the same tone in which he has begun: whoever should wish that any one should be neither more prosperous nor poorer, let him conclude for him in the same tone in which he has begun; and he will thereby become neither more prosperous nor poorer.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हैत᳘दूर्द्धम्[[!!]]॥
यो ऽय᳘ᳫँ᳘ शनै᳘रादा᳘योच्चै᳘र्न्निद᳘धाति स य᳘मिच्छेच्छ्रे᳘यान्त्स्यादि᳘ति त᳘स्य᳘ शनै᳘रादा᳘योच्चैर्न्नि᳘दध्यात्ते᳘न स श्रे᳘यान्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हैत᳘दूर्द्धम्[[!!]]॥
यो ऽय᳘ᳫँ᳘ शनै᳘रादा᳘योच्चै᳘र्न्निद᳘धाति स य᳘मिच्छेच्छ्रे᳘यान्त्स्यादि᳘ति त᳘स्य᳘ शनै᳘रादा᳘योच्चैर्न्नि᳘दध्यात्ते᳘न स श्रे᳘यान्भवति॥

मूलम् - Weber

अ᳘थ हैत᳘दूर्ध्व᳘म्᳟᳟॥
योऽयं᳘ शनै᳘रादा᳘योच्चै᳘र्निद᳘धाति स य᳘मिछेछ्रे᳘यान्त्स्यादि᳘ति त᳘स्य शनै᳘रादा᳘योच्चैर्नि᳘दध्यात्ते᳘न स श्रे᳘यान्भवति॥

मूलम् - विस्वरम्

अथ हैतदूर्ध्वम्, यो ऽयं शनैरादायोच्चैर्निदधाति । स यमिच्छेच्छ्रेयान् स्यादिति; तस्य शनैरादायोच्चैर्निदध्यात् । तेन स श्रेयान् भवति ॥ ८ ॥

सायणः

अथ तृतीयस्याश्रावणस्य स्वरूपमाह- अथ हैतदूर्ध्वमिति । ‘अथ’ खलु ‘एतत्’ वक्ष्यमाणं आश्रावणं ‘ऊर्ध्वं’ यो ऽयमध्वर्युः ‘शनैरादाय’ नीचैः स्वरेणारभ्य ‘उच्चैर्निदधाति’ उन्नतस्वरेण परिसमापयति तदाश्रावणमूर्ध्वम् । एतस्य प्रयोगविषयमाह- स यमिच्छेदिति । स्पष्टो ऽर्थः ॥ ८ ॥

Eggeling
  1. And the ascending one, indeed, it is when he begins in a low tone and concludes in a high tone: whoever should wish that any one should be more prosperous, let him begin for him in a low tone and conclude in a high tone; and he will thereby become more prosperous.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हैत᳘त्कृपण᳘म्[[!!]]॥
(णं यो) यो ऽय᳘मणु[[!!]] दीर्घ᳘मस्वर᳘माश्राव᳘यति यो᳘ हैनं त᳘त्र ब्रूया᳘त्कृपणं न्वा᳘ ऽअय᳘मध्वर्य्युर्य्य᳘जमानमकद्द्विषतो भ्रा᳘तृव्यस्योपावसायि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव[[!!]] स्यात्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हैत᳘त्कृपण᳘म्[[!!]]॥
(णं यो) यो ऽय᳘मणु[[!!]] दीर्घ᳘मस्वर᳘माश्राव᳘यति यो᳘ हैनं त᳘त्र ब्रूया᳘त्कृपणं न्वा᳘ ऽअय᳘मध्वर्य्युर्य्य᳘जमानमकद्द्विषतो भ्रा᳘तृव्यस्योपावसायि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव[[!!]] स्यात्॥

मूलम् - Weber

अ᳘थ हैत᳘त्कृपणम्᳟᳟ 8
योऽय᳘मणु᳘ दीर्घ᳘मस्वर᳘माश्राव᳘यति यो᳘ हैनं त᳘त्र ब्रूया᳘त्कृपणं न्वा᳘ अय᳘मध्वर्युर्य᳘जमानमकद्द्विषतो भ्रा᳘तृव्यस्योपावसायि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - विस्वरम्

अथ हैतत्कृपणम्, यो ऽयमणु दीर्घमस्वरमाश्रावयति । यो हैनं तत्र ब्रूयात्; कृपणं न्वा अयुमध्वर्युर्यजमानमकत्; द्विषतो भ्रातृव्यस्योपावसायिनमिति । ईश्वरो ह तथैव स्यात् ॥ ९ ॥

सायणः

चतुर्थं लक्षयति- अथ हैतत् कृपणमिति । ‘अथ’ खलु एतदाश्रावणं कार्पण्यदोषयुक्तं, यः अयमध्वर्युः ‘अणु’ अल्पं कंठस्याल्पता यथा भवति तथा, दीर्घमायामवत्, ‘अस्वरं’ स्वररहितं क्षीणस्वरं च यथा भवति तथा ‘आश्रावयति’ तस्य तादृगाश्रावणं कृपणमित्युच्यते । एतस्याप्रयोज्यतामभिप्रेत्य दूषणमाह- यो हैनमिति । ‘कृपणं तु वै’ कृपणं दीनमिव खलु अयमध्वर्युर्यजमानं ‘अकत्’ कृतवान् । तथा विद्वेषणं कुर्वतः ‘भ्रातृव्यस्य’ शत्रोः ‘उपावसायिनं’ समीपे अवस्थायिनं अकार्षीदिति यः कश्चिदभिज्ञो ब्रूयात् तथैव स यजमानो भवितुमीश्वरः ‘स्यात्’ ॥ ९ ॥

Eggeling
  1. And the feeble one, indeed, it is when he calls for the Sraushaṭ in a thin, long-drawn, toneless way: if, in that case, any one were to say of him, ‘Surely, this Adhvaryu has made the Sacrificer feeble, and submissive to his spiteful enemy,’ then that would indeed be likely to cone to pass.

१०

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ हैत᳘द्बहिः᳘श्रि᳘॥
यो ऽय᳘मपव्यादायौ᳘ष्ठा ऽउच्चै᳘रस्वर᳘माश्राव᳘यति श्रीर्वै स्व᳘रो बाह्यत᳘ ऽएव तच्छ्रि᳘यं धत्ते ऽशना᳘युको भवति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ हैत᳘द्बहिः᳘श्रि᳘॥
यो ऽय᳘मपव्यादायौ᳘ष्ठा ऽउच्चै᳘रस्वर᳘माश्राव᳘यति श्रीर्वै स्व᳘रो बाह्यत᳘ ऽएव तच्छ्रि᳘यं धत्ते ऽशना᳘युको भवति॥

मूलम् - Weber

अ᳘थ हैत᳘द्बहिः᳘श्रि᳟᳟॥
योऽय᳘मपव्यादायौ᳘ष्ठा उच्चै᳘रस्वर᳘माश्राव᳘यति श्रीर्वै स्व᳘रो बाह्यत᳘ एव तछ्रि᳘यं धत्तेऽशना᳘युको भवति॥

मूलम् - विस्वरम्

अथ हैतत् बहिःश्रि, यो ऽयमपव्यादायौष्ठा उच्चैरस्वरमाश्रावयति । श्रीर्वै स्वरः । बाह्यत एव तच्छ्रियं धत्ते । अशनायुको भवति ॥ १० ॥

सायणः

पंचमस्याश्रावितस्य स्वरूपमाह- अथ हैतद्बहिःश्रीति । यः अयमध्वर्युः ‘ओष्ठौ अपव्यादाय’ अपकृष्य विवृतौ कृत्या ‘अस्वरं’ उदात्तादिस्वररहितं यथा भवति तथा केवलं उच्चैर्घोषेण ‘आश्रावयति’ तस्य तदाश्रावणं ‘बहिःश्रि’ इत्युच्यते । आस्यबाह्यदेशे श्रयति वर्तते इति शब्दव्युत्पत्तिः । अथैतत् पूर्ववत् दूषयति- श्रीर्वै स्वर इति । उदात्तादिलक्षणः ‘स्वरः’ स ‘श्रीर्वै’ वेदवाक्यस्य संपद्रूपः । तत्तथा सति ओष्ठयोरपव्यादानेन स्वरस्य बहिर्भावात् ‘बाह्यत एव’ यजमानाद्बहिर्भूत एव देशे ‘श्रियं’ संपदं ‘धत्ते’ धारयति । स यजमानः ‘अशनायुकः’ क्षुत्पीडितो ‘भवति’ तस्मादेतदपि आश्रावणं नोपादेयमिति भावः ॥ १० ॥

Eggeling
  1. And the outward-tending (bahiḥ-śri) one, indeed, it is when he opens his lips wide and utters his call at a high, toneless pitch: tone being prosperity, he thereby puts prosperity (śrī) outside (bahis) himself, and becomes hungry (poor).

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हैत᳘दन्तः᳘श्रि᳘॥
यो ऽयं᳘ᳫँ᳘ सन्धायौ᳘ष्ठा ऽउच्चैः स्व᳘रवदाश्राव᳘यति श्रीर्वै स्व᳘रो ऽन्तरत᳘ ऽएव तच्छ्रि᳘यं धत्ते ऽन्नादो᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हैत᳘दन्तः᳘श्रि᳘॥
यो ऽयं᳘ᳫँ᳘ सन्धायौ᳘ष्ठा ऽउच्चैः स्व᳘रवदाश्राव᳘यति श्रीर्वै स्व᳘रो ऽन्तरत᳘ ऽएव तच्छ्रि᳘यं धत्ते ऽन्नादो᳘ भवति॥

मूलम् - Weber

अ᳘थ हैत᳘दन्तः᳘श्रि᳟᳟॥
योऽय᳘ᳫं᳘ संधायौ᳘ष्ठा उच्चैः स्व᳘रवदाश्राव᳘यति श्रीर्वै स्व᳘रोऽन्तरत᳘ एव तछ्रि᳘यं धत्तेऽन्नादो᳘ भवति॥

मूलम् - विस्वरम्

अथ हैतदंतःश्रि, यो ऽयं संधायौष्ठा उच्चैःस्वरवदाश्रावयति । श्रीर्वै स्वरः । अंतरत एव तच्छ्रियं धत्ते । अन्नादो भवति ॥ ११ ॥

सायणः

षष्ठं लक्षयति- अथ हैतदंतःश्रीति । यः अयमध्वर्युः ‘ओष्ठौ’ ‘संघाय’ संकुचितौ कृत्वा ‘उच्चैः स्वरवत्’ उदात्तादिविविक्तस्वरयुक्तं यथा भवति तथा उच्चैराश्रावयति । तस्य तदाश्रावणं ओष्ठसंधानेन श्रीरूपस्य स्वरस्यांतर्भावात् ‘अंतःश्रि’ इत्युच्यते । एतदेव सर्वत्र प्रयोक्तव्यम् इत्यभिप्रेत्य प्रशंसति- श्रीर्वै स्वर इति । ‘तत्’ तेन प्रकारेण ओष्ठसंधानेन श्रीरूपस्य स्वरस्य अंतर्धारणात् श्रीकरत्वम् । स्पष्टमन्यत् ॥ ११ ॥

Eggeling
  1. And the inward-tending (antaḥ-śri) one, indeed, it is when he closes his lips, and utters his call at a loud, toneful pitch: tone being prosperity, he thereby puts prosperity (śrī) inside (antaḥ) himself, and becomes an eater of food (rich).

१२

विश्वास-प्रस्तुतिः

स वै᳘ मन्द्र᳘मिवो᳘रसि॥
परास्त᳘भ्योभय᳘तो बार्हतमुच्चै᳘रंततो नि᳘दध्यात्त᳘स्य᳘ नोपमीमा᳘ᳫँ᳘सा ऽस्ति त᳘त्पश᳘व्यमायुष्यम्[[!!]]॥

मूलम् - श्रीधरादि

स वै᳘ मन्द्र᳘मिवो᳘रसि॥
परास्त᳘भ्योभय᳘तो बार्हतमुच्चै᳘रंततो नि᳘दध्यात्त᳘स्य᳘ नोपमीमा᳘ᳫँ᳘सा ऽस्ति त᳘त्पश᳘व्यमायुष्यम्[[!!]]॥

मूलम् - Weber

स वै᳘ मन्द्र᳘मिवो᳘रसि॥
परास्त᳘भ्योभय᳘तोबार्हतमुच्चै᳘रन्ततो नि᳘दध्यात्त᳘स्यॗ नोपमीमाॗᳫंॗसास्ति त᳘त्पशव्य᳘मायुष्य᳘म्॥

मूलम् - विस्वरम्

स वै मंद्रमिवोरसि परास्तभ्य उभयतो बार्हतम् उच्चैरंततो निदध्यात्; तस्य नोपमीमांसा ऽस्ति । तत्पशव्यमायुष्यम् ॥ १२ ॥

सायणः

अस्मिन्नेवाश्रावणे स्वरविशेषं विधत्ते- स वै मंद्रमिवेति । ‘सः’ खलु आश्रावयन्नध्वर्युः ‘उरसि’ उरःप्रदेशे ‘मंद्रमिव परास्तभ्य’ गंभीरध्वनियुक्तमिव पराचीनं संस्तभ्य ‘उभयतः’ आद्यंतयोः ‘बाहर्तम्’ बृहत्सामसंबंधी मध्यमस्वरो यथा भवति तथा ‘अंततः’ आश्रावणस्यावसाने उच्चैर्निदध्यान्निक्षिपेत् । त्रीणि ह वाचः स्थानानि मंद्रमध्यताराख्यानि, तत्र मंद्रस्वरेणाश्रावणं प्रारभ्य मध्यमस्वरगर्भितेन तारस्वरेण परिसमापयेदित्यर्थः । अस्यैव षष्ठस्याश्रावणस्य दोषाभावं ब्रुवन् पश्वादिहेतुतामाह- तस्य नोपमीमांसा ऽस्तीति । व्याख्यातमेतत् ॥ १२ ॥

Eggeling
  1. Having kept back (the tone) deep in the breast, as it were, let him (keep up the middle pitch of) the Br̥hat (sāman) in both (words ‘oṁ śrāvaya’), and finally leave off at a high pitch; there is no question about this: it is good for (securing) cattle and life.

१३

विश्वास-प्रस्तुतिः

(म) अथा᳘तो हो᳘मस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमानाः प्रा᳘चीᳫँ᳭ स्रु᳘चमुपावहृ᳘त्य हुत्वा᳘ पर्य्याहृ᳘त्योपभृ᳘त्यधिनि᳘दधति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘दनुयु᳘वन्न्वा᳘ अय᳘मध्वर्य्युर्य्य᳘जमानमकद्द्विषतो भ्रा᳘तृव्यस्यान्ववसायि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(म) अथा᳘तो हो᳘मस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमानाः प्रा᳘चीᳫँ᳭ स्रु᳘चमुपावहृ᳘त्य हुत्वा᳘ पर्य्याहृ᳘त्योपभृ᳘त्यधिनि᳘दधति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘दनुयु᳘वन्न्वा᳘ अय᳘मध्वर्य्युर्य्य᳘जमानमकद्द्विषतो भ्रा᳘तृव्यस्यान्ववसायि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - Weber

अथा᳘तो हो᳘मस्य॥
त᳘द्धैतदे᳘के कु᳘शला म᳘न्यमानाः प्रा᳘चीᳫं स्रु᳘चमुपावहृ᳘त्य हुत्वा᳘ पर्याहृ᳘त्योपभृ᳘त्यधिनि᳘दधति न त᳘था कुर्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘दनुयु᳘वं 9 न्वा᳘ अय᳘मध्वर्युर्य᳘जमानमकद्द्विषतो भ्रा᳘तृव्यस्यान्ववसायि᳘नमि᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - विस्वरम्

अथातो होमस्य । तद्धैतत्, एके कुशला मन्यमानाः प्राचीं स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति । न तथा कुर्यात् । यो हैनं तत्र ब्रूयात्- अनुयुवन्न्वा अयमध्वर्युर्यजमानमकत्; द्विषतो भ्रातृव्यस्यान्ववसायिनमिति । ईश्वरो ह तथैव स्यात् ॥ १३ ॥

सायणः

आश्रावणानंतरंभाविनो होमस्य विशेषं वक्तुं प्रस्तौति- अथातो होमस्येति । ‘अथातः’ शब्दौ पूर्ववत् योज्यौ । होमस्य विचारः अधिक्रियते इति शेषः । तत्र एकीयपक्षमाह- तद्धैतदिति । ‘तत्’ तत्र होमविषये ‘एतत्’ इत्थं ‘एके’ केचन याज्ञिकाः कौशलयुक्तमात्मानं मन्यमानाः ‘स्रुचं’ जुहूं च ‘प्राचीं’ प्रागग्राम् ‘उपावहृत्य’ उपभृतः अग्रदेशात् प्रागवरोप्य तया स्रुचा ‘हुत्वा’ ‘पर्याहृत्य’ उपभृन्मूलदेशात् उपरि नीत्वा तस्यामुपभृति ‘निदधति’ स्थापयंति । ‘अधिः’ सप्तम्यर्थानुवादी । तन्निषिध्य दूषयति- न तथा कुर्यादिति । अनुयुवन्न्वा इति । नुशब्द उपमार्थः । यजमानदेवत्यायाः जुह्वाः पर्याहरणात् ‘अनुयुवन्निव’ भ्रातृव्येण संमिश्रयन्निव ‘अयमध्वर्युः’ ‘द्विषतः’ द्वेषणं कुर्वतः ‘भ्रातृव्यस्य’ शत्रोः ‘अन्ववसायिनं’ अनुगमनशीलं यजमानम् ‘अकत्’ अकार्षीत् ‘इति’ । इतिशब्दो वाक्यसमाप्तौ ॥ १३ ॥

Eggeling
  1. Now as to the oblation. In this respect, some people, thinking themselves clever, having turned down the spoon eastwards, and poured out the oblation, turn it round and place it over the upabhr̥t. But let him not do this; for if, in that case, any one were to say of him, ‘Surely, this Adhvaryu has made the Sacrificer dependent on, and submissive to, his spiteful enemy,’ then that would indeed be likely to come to pass.

१४

विश्वास-प्रस्तुतिः

(त्पा) पार्श्वत᳘ ऽउ है᳘के॥
स्रु᳘चमुपावहृ᳘त्य हुत्वा᳘ पर्य्याहृ᳘त्योपभृ᳘त्यधिनि᳘दधति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयाद᳘तीर्थेन न्वा᳘ ऽअय᳘मध्वर्य्युरा᳘हुतीः प्रा᳘रौत्सीत्सं᳘ वा शरिष्य᳘ते घु᳘णिर्वा भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(त्पा) पार्श्वत᳘ ऽउ है᳘के॥
स्रु᳘चमुपावहृ᳘त्य हुत्वा᳘ पर्य्याहृ᳘त्योपभृ᳘त्यधिनि᳘दधति न त᳘था कुर्य्याद्यो᳘ हैनं त᳘त्र ब्रूयाद᳘तीर्थेन न्वा᳘ ऽअय᳘मध्वर्य्युरा᳘हुतीः प्रा᳘रौत्सीत्सं᳘ वा शरिष्य᳘ते घु᳘णिर्वा भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - Weber

पार्श्वत᳘ उ है᳘के॥
स्रुचमुपावहृ᳘त्य हुत्वा᳘ पर्याहृ᳘त्योपभृ᳘त्यधिनि᳘दधति न त᳘था कुर्याद्यो᳘ हैनं त᳘त्र ब्रूयादतीर्थेन न्वा᳘ अय᳘मध्वर्युरा᳘हुतीः प्रा᳘रौत्सीत्सं᳘ वा शरिष्य᳘ते घु᳘णिर्वा भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - विस्वरम्

पार्श्वत उ हैके स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति । न तथा कुर्यात् । यो हैनं तत्र ब्रूयात्; अतीर्थेन न्वा अयमध्वर्युराहुतीः प्रारौत्सीत् । सं वा शरिष्यते घुणिर्वा भविष्यतीति । ईश्वरो ह तथैव स्यात् ॥ १४ ॥

सायणः

अन्यं पक्षमुपन्यस्य दूषयति- पार्श्वत उ हैक इति । ‘एके’ याज्ञिकाः ‘पार्श्वत उ ह’ उपभृतः पार्श्वदेशादेव ‘स्रुचं’ जुहूम् ‘उपावहृत्य’ अवरोप्य आहवनीये ‘हुत्वा’ पुनस्तेनैव ‘पर्यादृत्य’ ‘उपभृति’ जुहूं स्थापयंति । अतीर्थेन न्वा इत्यादि । ‘अयमध्वर्युः’ ‘अतीर्थेन नु वै’ तरति अनेनेति तीर्थं मार्गः । अमार्गेण खलु ‘आहुतीः’ ‘प्रारौत्सीत्’ प्रकर्षेण रुद्धगतीरकार्षीत्, तस्मात् कारणात् यजमानः ‘संशरिष्यते वा’ संशीर्णो भविष्यति । ‘घुणिर्वा’ भ्रांतो वा ‘भविष्यतीति’ । अन्यत् पूर्ववत् ॥ १४ ॥

Eggeling
  1. And some, having turned down the spoon sideways, and poured out the oblation, turn it round and place it over the upabhr̥t. But let him not do so; for if, in that case, any one were to say of him, ‘Surely, this Advaryu has stopped the oblations by (following) the wrong way, he (the Sacrificer) will either be shattered, or become worm-eaten,’ then that would indeed be likely to come to pass.

१५

विश्वास-प्रस्तुतिः

(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(त्प्रा᳘) प्रा᳘चीमेव स्रु᳘चमुपावहृत्य[[!!]] हुत्वा ते᳘नै᳘वाधिहृ᳘त्योपभृ᳘त्यधिनि᳘दध्यात्त᳘स्य᳘ नोपमीमा᳘ᳫँ᳘सा ऽस्ति त᳘त्पश᳘व्यमायु᳘ष्यम्[[!!]]॥

मूलम् - श्रीधरादि

(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(त्प्रा᳘) प्रा᳘चीमेव स्रु᳘चमुपावहृत्य[[!!]] हुत्वा ते᳘नै᳘वाधिहृ᳘त्योपभृ᳘त्यधिनि᳘दध्यात्त᳘स्य᳘ नोपमीमा᳘ᳫँ᳘सा ऽस्ति त᳘त्पश᳘व्यमायु᳘ष्यम्[[!!]]॥

मूलम् - Weber

इत्थ᳘मेव᳘ कुर्यात्॥
प्रा᳘चीमेव स्रु᳘चमुपावहृ᳘त्य हुत्वा ते᳘नैॗवाधिहृ᳘त्योपभृ᳘त्यधिनि᳘दध्यात्त᳘स्यॗ नोपमीमाॗᳫंॗसास्ति त᳘त्पशव्य᳘मायुष्य᳘म्॥

मूलम् - विस्वरम्

इत्थमेव कुर्यात् । प्राचीमेव स्रुचमुपावहृत्य हुत्वा तेनैवाधिहृत्योपभृत्यधिनिदध्यात्; तस्य नोपमीमांसा ऽस्ति । तत्पशव्यमायुष्यम् ॥ १५ ॥

सायणः

इत्थं पूर्वपक्षमुपन्यस्य दूषयित्वा सिद्धांतयति- इत्थमेव कुर्यादिति । इत्थमनेनैव वक्ष्यमाणप्रकारेण होमं ‘कुर्यात्’ । स प्रदर्श्यते । आदिपक्षे इव ‘प्राचीं’ प्रागग्रामेव ‘स्रुचं’ जुहूं ‘उपावहृत्य हुत्वा तेनैव’ उपभृतो ऽग्रप्रदेशेनैव ‘अधिहृत्य’ उपरि हृत्वा उपभृत्युपरि जुहूं स्थापयेत् । अस्य पक्षस्य उक्तपक्षदोषविरहेण प्राशस्त्यमाह- तस्य नोपमीमांसा ऽस्तीति ॥ १५ ॥

Eggeling
  1. Let him rather do it in this way:–having turned down the spoon eastwards, and poured out the oblation, let him carry it up in the same way and place it over the upabhr̥t;–there is no question about this: it is good for (securing) cattle and life.

१६

विश्वास-प्रस्तुतिः

(म्प्र᳘) प्र᳘दग्धाहुतिर्ह वा᳘ ऽअ᳘न्यो ऽध्वर्य्युः[[!!]]॥
(रा᳘) आ᳘हुतीर्हान्यः स᳘न्तर्प्पयत्येष᳘ ह वै प्र᳘दग्धाहुतिरध्वर्य्यु᳘र्य्यो ऽयमा᳘ज्यᳫँ᳭ हु᳘त्वा ऽवदा᳘नानि जुहो᳘त्येत᳘ᳫँ᳘ ह वै तद᳘दृश्यमाना व्वा᳘ग᳘भ्युवाद प्र᳘दग्धाहुतिर्वा᳘ ऽअय᳘मध्वर्य्युरित्य᳘थ हैना ऽएष स᳘न्तर्प्पयति᳘ यो ऽयमा᳘ज्यᳫँ᳭ हु᳘त्वा ऽवदा᳘नानि जुहोत्य᳘थ पु᳘नरंतत ऽआ᳘ज्येनाभि᳘जुहोत्येष᳘ हैनाः स᳘न्तर्प्पयति ता᳘साᳫँ᳭ स᳘न्तृप्तानां देवा᳘ हिरण्म᳘यांश्चमसा᳘न्पूरयंते॥

मूलम् - श्रीधरादि

(म्प्र᳘) प्र᳘दग्धाहुतिर्ह वा᳘ ऽअ᳘न्यो ऽध्वर्य्युः[[!!]]॥
(रा᳘) आ᳘हुतीर्हान्यः स᳘न्तर्प्पयत्येष᳘ ह वै प्र᳘दग्धाहुतिरध्वर्य्यु᳘र्य्यो ऽयमा᳘ज्यᳫँ᳭ हु᳘त्वा ऽवदा᳘नानि जुहो᳘त्येत᳘ᳫँ᳘ ह वै तद᳘दृश्यमाना व्वा᳘ग᳘भ्युवाद प्र᳘दग्धाहुतिर्वा᳘ ऽअय᳘मध्वर्य्युरित्य᳘थ हैना ऽएष स᳘न्तर्प्पयति᳘ यो ऽयमा᳘ज्यᳫँ᳭ हु᳘त्वा ऽवदा᳘नानि जुहोत्य᳘थ पु᳘नरंतत ऽआ᳘ज्येनाभि᳘जुहोत्येष᳘ हैनाः स᳘न्तर्प्पयति ता᳘साᳫँ᳭ स᳘न्तृप्तानां देवा᳘ हिरण्म᳘यांश्चमसा᳘न्पूरयंते॥

मूलम् - Weber

प्र᳘दग्धाहुतिर्ह वा᳘ अॗन्योऽध्वर्युः᳟॥
आ᳘हुतीर्हान्यः सं᳘तर्पयत्येष᳘ ह वै प्र᳘दग्धाहुतिरध्वयुॗर्योऽयमा᳘ज्यᳫं हुॗत्वावदा᳘नानि जुहो᳘त्येत᳘ᳫं᳘ ह वै तद᳘दृश्यमाना वा᳘गॗभ्युवाद प्र᳘दग्धाहुतिर्न्वा᳘ अय᳘मध्वर्युरित्य᳘थ हैना एष सं᳘तर्पयतिॗ योऽयमा᳘ज्यᳫं हुॗत्वावदा᳘नानि जुहोत्य᳘थ पु᳘नरन्तत आ᳘ज्येनाभि᳘जुहोत्येष᳘ हैनाः सं᳘तर्पयति ता᳘साᳫं सं᳘तृप्तानां देवा᳘ हिरण्म᳘यांश्चमसा᳘न्पूरयन्ते॥

मूलम् - विस्वरम्

प्रदग्धाहुतिर्ह वा अन्यो ऽध्वर्युः । आहुतीर्हान्यः सन्तर्पयति । एष ह वै प्रदग्धाहुतिरध्वर्युः । यो ऽयमाज्यं हुत्वा ऽवदानानि जुहोति । एतं ह वै तददृश्यमाना वागभ्युवाद । प्रदग्धाहुतिर्वा अयमध्वर्य्युरिति । अथ हैना एष सन्तर्पयति । यो ऽयमाज्यं हुत्वा ऽवदानानि जुहोति । अथ पुनरंतत आज्येनाभिजुहोति । एष हैनाः सन्तर्पयति । तासां संतृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्ते ॥ १६ ॥

सायणः

अथ संतृप्ताहुतीनां फलहेतुतां वदन् तदर्थमध्वर्युद्वैविध्यमाह- प्रदग्धाहुतिरिति । ‘अन्यः’ इत्येको ऽध्वर्युः ‘प्रदग्धाहुतिर्वै’ प्रकर्षेण दग्धाः भस्मसात्कृताः आहुतयो येन स प्रदग्धाहुतिः । ‘अन्यः’ अपरो ऽध्वर्युः ‘आहुतीः’ ‘संतर्पयति’ संतृप्ताः करोति । स संतृप्ताहुतिरन्यो ऽध्वर्युरित्यर्थः । आद्यस्य स्वरूपमाह- एष ह वा इति । ‘यः’ खलु अध्वर्युः उपस्तरणाभिघारणसंपन्नमाज्यं प्रथमं जुह्वा ‘हुत्वा’ पश्चात् ‘अवदानानि जुहोति’ ‘एष खलु प्रदग्धाहुति’ एष खलु प्रदग्धाहुतिर्नाम अध्वर्युः, पूर्वमेव आज्यस्य हुतत्वात् शुष्कस्यैव पुरोडाशादेः प्रकर्षेण दह्यमानत्वात् । एतदेवोपपादयति- एतँ ह वा इति । तत्तत्र ‘एतम्’ पूर्वोक्तमेव अध्वर्युम् ‘वाग्’ वाग्देवता स्वयमदृश्यमाना सती ‘अभ्युवाद’ अभिलक्ष्योक्तवती । ‘अयमध्वर्युः’ ‘प्रदग्धाहुतिर्वै’ प्रदग्धाहुतिः संपन्नः । ‘नु अथ वै’ शब्दाः प्रसिद्धौ । यस्मादेवं वाचा अभ्युदितं तस्मात् ईदृशो ऽध्वर्युः प्रदग्धाहुतिरित्यर्थः । द्वितीयस्याध्वर्योः स्वरूपमाह- अथ हैना इति । अथशब्दस्तुशब्दार्थे । ‘एषः तु’ खलु अध्वर्युः ‘एताः’ आहुतीः ‘संतर्पयति’ संतृप्ताः स्नेहयुक्ताः करोति । यः अयमध्वर्युः प्रथमं अभिघारणायावत्तं ‘आज्यं हुत्वा’ पश्चात् अवप्तद्रव्याणि ‘जुहोति’ । अथानंतरं ‘अंततः’ अवसाने उपस्तरणलब्धेनावस्थितेनाज्येन हुतं पुरोडाशं पुनरभिजुहोति । अग्नौ प्रक्षितस्यापि पुरोडाशादेरधस्तादुपरिष्टाच्चाज्येन संतर्पणात् संतृप्ताहुतिर्नामाध्वर्युरित्यर्थः । उक्तं सन्तर्पणं उपसंहारव्याजेनानूद्य सन्तृप्ताहुतीनां विशिष्टफलमाह- एष हैना इति । तासां संतृप्तानामाहुतीनां भोक्तारः ‘देवाः’ प्रीताः सन्तः ‘हिरण्मयान्’ हिरण्यविकारांश्चमसान् यजमानाय दातुं अन्नेन ‘पूरयन्ते’ । इममेव होमपक्षमापस्तंबो ऽप्याह स्म- “आज्यं प्रश्चोत्यापिदधाति वा प्रक्षिपन् हुतानाज्येनावश्चोतयति” इति ॥ १६ ॥

Eggeling
  1. One Adhvaryu, indeed, burns the oblations, and another satisfies the oblations; and that Adhvaryu, assuredly, burns the oblations who, having offered ghee, offers portions (of sacrificial dishes): indeed, it is with reference to him that an invisible voice has said, ‘Surely, this Adhvaryu burns the oblations.’ And he, indeed, satisfies them who

having offered ghee, offers sacrificial portions, and finally again offers ghee thereon: such a one certainly satisfies them; and, these (oblations) having been satisfied, the gods fill gold cups (for him) 10.

१७

विश्वास-प्रस्तुतिः

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) यद्वा᳘ ऽउपस्ती᳘र्य्यावदा᳘याभिघार᳘यति त᳘दे᳘वैनाः स᳘न्तर्प्पयति ता᳘साᳫँ᳭ सन्तृप्तानां देवा᳘ हिरण्म᳘यांश्चमसा᳘न्पूरयंते᳘ ऽयस्थूणगृहपतीनाᳫँ᳭ ह वै᳘ शौल्बाय᳘नो ऽध्वर्य्यु᳘रास॥

मूलम् - श्रीधरादि

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) यद्वा᳘ ऽउपस्ती᳘र्य्यावदा᳘याभिघार᳘यति त᳘दे᳘वैनाः स᳘न्तर्प्पयति ता᳘साᳫँ᳭ सन्तृप्तानां देवा᳘ हिरण्म᳘यांश्चमसा᳘न्पूरयंते᳘ ऽयस्थूणगृहपतीनाᳫँ᳭ ह वै᳘ शौल्बाय᳘नो ऽध्वर्य्यु᳘रास॥

मूलम् - Weber

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
यद्वा᳘ उपस्ती᳘र्यावदा᳘याभिघार᳘यति त᳘देॗवैनाः सं᳘तर्पयति ता᳘साᳫं सं᳘तृप्तानां देवा᳘ हिरण्म᳘यांश्चमसा᳘न्पूरयन्ते᳘ऽयस्थूणगृहपतीनां वै᳘ शौल्बायॗनोऽध्वर्यु᳘रास॥

मूलम् - विस्वरम्

तदु होवाच याज्ञवल्क्यः । यद्वा उपस्तीर्यावदायाभिघारयति । तदेवैनाः संतर्पयति । तासां संतृप्तानां देवा हिरण्मयांश्चमसान् पूरयन्ते । अयस्थूणगृहपतीनां ह वै शौल्बायनो ऽध्वर्युरास ॥ १७ ॥

सायणः

एवं श्रुतिः स्वाभिमतं आहुतिसंतर्पणं प्रदर्श्य याज्ञवल्कीयं मतं पक्षांतरत्वेन दर्शयति- तदु होवाचेति । ‘तदु ह’ तत्रैव खलु सन्तर्पणविषये उक्तवान् ‘याज्ञवल्क्यः’ । ‘यद्वै’ यस्मिन्नेव अवदानकाले प्रथमं जुह्वामुपस्तीर्य तस्मिन्नेवाज्ये पुरोडाशमवदायाभिघारयति तत्तस्मिन्नेव काले ‘एताः’ आहुतीः उपस्तरणाभिघारणाभ्यां ‘सन्तर्पयति’ । अत्रापि पूर्वोक्तफलमाह- तासां संतृप्तानामिति । गतमेतत् । यदिदं स्रुगादानादि होमांतं कर्म सविशेषं निरूपितं तत्परिज्ञानवतैवा ऽध्वर्युणा भवितव्यमिति दर्शयितुं आख्यायिकां प्रस्तौति- अयस्थूणगृहपतीनामिति । अयस्थूणाख्यः कश्चित् ऋषिः । अथस्थूणो गृहपतिर्येषां ते तथोक्ताः । तेषां सत्रयागमनुतिष्ठतां ‘शौल्बायनः’ शौल्बायनाख्यः ऋषिः ‘अध्वर्युरास’ बभूव ॥ १७ ॥

Eggeling
  1. Concerning this, Yājñavalkya said 11, ‘When, after making an underlayer (of ghee), and cutting portions (from the sacrificial dish), he bastes them (with ghee), then, indeed, he satisfies them; and, they being satisfied, the gods fill (for him) gold cups 12.’ Now Śaulvāyana was Adhvaryu to those who had Ayasthūṇa 13 for their Gr̥hapati 14.

१८

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चे) इदम᳘हेद᳘ᳫँ᳘ सत्रं᳘ कृश᳘पश्व᳘ल्पाज्यम᳘थायं᳘ गृह᳘पतिरस्मी᳘ति मन्यत ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चे) इदम᳘हेद᳘ᳫँ᳘ सत्रं᳘ कृश᳘पश्व᳘ल्पाज्यम᳘थायं᳘ गृह᳘पतिरस्मी᳘ति मन्यत ऽइ᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
इदम᳘हेद᳘ᳫं᳘ सत्त्रं᳘ कृश᳘पश्व᳘ल्पाज्यमथायं᳘ गृह᳘पतिरस्मी᳘ति मन्यत इ᳘ति॥

मूलम् - विस्वरम्

स होवाच । इदमहेदं सत्रं कृशपश्वल्पाज्यम् । अथायं गृहपतिरस्मीति मन्यत इति ॥ १८ ॥

सायणः

तत्र तेनाध्वर्युणा कृतं गृहपतेरधिक्षेपं तावदाह- स होवाचेति । ‘सः’ अध्वर्युः ‘उवाच’ उक्तवान् । किमिति ? ‘इदं सत्रं’ अयं प्रारब्धः सत्रयागः ‘इदमह’ ईदृक्किल ईदृग्लक्षणं ‘कृशपश्वल्पाज्यम्’ कृशाः अल्पतनवः पशवो यस्मिन्, अल्पमाज्यं यस्मिन्, ईदृशमेव विकलं जातम् । ‘अथायं गृहपतिरस्मीति मन्यते’ अभिमानयुक्तो भवति । हीनद्रव्यकत्वात् गृहपतित्वाभावात् गार्हपत्याभासो हीत्यधिक्षेपः । इतिशब्दो वाक्यपरिसमाप्तौ ॥ १८ ॥

Eggeling
  1. He said, ‘Surely, this sacrificial session is supplied with lean cattle and scanty ghee; and yet this one, forsooth, thinks himself a Gr̥hapati!’

१९

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चा᳘) अ᳘ध्वर्य्यवा वै᳘ नो ऽक्रुक्ष ऽएते वै ते स्रु᳘चौ ये त्व᳘ᳫँ᳘ सम्वत्सरन्ना᳘शक ऽआ᳘दातुं यद्वै᳘ त्वा ऽह᳘मेत᳘योरनुशिष्याम्प्र᳘ प्रज᳘या पशु᳘भिर्जा᳘येथा ऽअभि᳘ स्वर्ग्गं᳘ लोकं᳘ व्वहेरि᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चा᳘) अ᳘ध्वर्य्यवा वै᳘ नो ऽक्रुक्ष ऽएते वै ते स्रु᳘चौ ये त्व᳘ᳫँ᳘ सम्वत्सरन्ना᳘शक ऽआ᳘दातुं यद्वै᳘ त्वा ऽह᳘मेत᳘योरनुशिष्याम्प्र᳘ प्रज᳘या पशु᳘भिर्जा᳘येथा ऽअभि᳘ स्वर्ग्गं᳘ लोकं᳘ व्वहेरि᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
अ᳘ध्वर्यवा वै᳘ नोऽक्रुक्ष एते वै ते स्रु᳘चौ ये त्व᳘ᳫं᳘ संवत्सरं ना᳘शक आ᳘दातुं यद्वै᳘ त्वाह᳘मेत᳘योरनुशिष्याम् प्र᳘ प्रज᳘या पशु᳘भिर्जा᳘येथा अभि᳘ स्वर्गं᳘ लोकं᳘ वहेरि᳘ति॥

मूलम् - विस्वरम्

स होवाच । अध्वर्यो आ वै नो ऽक्रुक्षः । एते वै ते स्रुचौ, ये त्वं संवत्सरन्नाशक आदातुम् । यद्वै त्वा ऽहम् एतयोरनुशिष्यां, प्र प्रजया पशुभिर्जायेथाः । अभि स्वर्गं लोकं वहेरिति ॥ १९ ॥

सायणः

तस्योत्तरमाह- स होवाचेत्यादि । ‘सः’ अधिक्षिप्तः गृहपतिः ‘उवाच’ उक्तवान् । हे ‘अध्वर्यो !’ ‘नः’ अस्मान् ‘आक्रुक्षः’ आक्रोशं कृतवानसि । अस्तु नाम स आक्रोशः । त्वदीयमिति सामर्थ्यं कीदृग् इति निन्दसीत्यभिप्रायः । ‘यद्वा’ पश्य ‘एते’ खलु ‘ते’ ‘स्रुचौ’ जुहूपभृतौ ‘ये त्वं संवत्सरं’ “कालाध्वनोरत्यंतसंयोगे” (पा. सू. २ । ३ । ५) इति द्वितीया । संवत्सरपर्यंतं ‘आदातुं’ उद्यंतुं ‘नाशकः’ शक्तो नाभवः । संवत्सरकालेनापि स्रुगादानं कर्तुमशक्तो ऽसि । ईदृशं स्वदोषमपश्यन् किमिति अस्मदीयं सत्रं कृशपश्वल्पाज्यमिति निन्दसीत्यभिप्रायः । यदि खलु त्वां ‘एतयोः’ स्रुचोरादाने ‘अनुशिष्यां’ अनुशिष्टं शिक्षितं कुर्याम् । तदा त्वं ‘प्रजया पशुभिः’ च ‘प्रजायेथाः’ तथा यजमानं ‘स्वर्गं लोकमभिवहेः’ अभिप्रापयेः । इतिशब्दो गृहपतिवाक्यसमाप्तौ ॥ १९ ॥

Eggeling
  1. He (Ayasthūṇa) said, ‘Adhvaryu, thou hast insulted us; and there now are those two spoons which, for a whole year, thou hast not been able to take up (in the proper manner): if I were to instruct thee in (the use of) them, thou wouldst become multiplied in offspring and cattle, and wouldst lead (the Sacrificer) to heaven.’

२०

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चो᳘) उ᳘प त्वा ऽऽयानी᳘ति स᳘ होवाचा᳘त्र वाव ख᳘ल्वर्हसि यो᳘ नः सम्वत्स᳘रे ऽध्वर्य्युर᳘भूर᳘नुपेतायैव᳘ त ऽएनद्ब्रवाणी᳘ति त᳘स्मा ऽउ हैत᳘देव᳘ स्रुचो᳘रादा᳘नमुवाच य᳘देतद्व्या᳘ख्याम त᳘स्मादेवंवि᳘दमे᳘वाध्वर्य्यं᳘ कुर्व्वीत ना᳘नेवंविदम्॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चो᳘) उ᳘प त्वा ऽऽयानी᳘ति स᳘ होवाचा᳘त्र वाव ख᳘ल्वर्हसि यो᳘ नः सम्वत्स᳘रे ऽध्वर्य्युर᳘भूर᳘नुपेतायैव᳘ त ऽएनद्ब्रवाणी᳘ति त᳘स्मा ऽउ हैत᳘देव᳘ स्रुचो᳘रादा᳘नमुवाच य᳘देतद्व्या᳘ख्याम त᳘स्मादेवंवि᳘दमे᳘वाध्वर्य्यं᳘ कुर्व्वीत ना᳘नेवंविदम्॥

मूलम् - Weber

स᳘ होवाच॥
उ᳘प त्वायानी᳘ति स᳘ होवाचा᳘त्र वाव ख᳘ल्वर्हसि यो᳘ नः संवत्सॗरेऽध्वर्युर᳘भूर᳘नुपेतायैव᳘ त एत᳘द्ब्रवाणी᳘ति त᳘स्मा उ हैत᳘देव᳘ स्रुचो᳘रादा᳘नमुवाच य᳘देतद्व्या᳘ख्याम् त᳘स्मादेवंवि᳘दमेॗवाध्वर्युं᳘ कुर्वीतना᳘नेवंविदम्॥

मूलम् - विस्वरम्

स होवाच । उप त्वा ऽऽयानीति । स होवाच- अत्र वाव खल्वर्हसि । यो नः संवत्सरे ऽध्वर्युरभूः । अनुपेतायैव त एनत् ब्रवाणीति । तस्मा उ हैतदेव स्रुचोरादानमुवाच । यदेतद्व्याख्याम । तस्मादेवंविदमेवाध्वर्युं कुर्वीत । नानेवंविदम् ॥ २० ॥

सायणः

एवं प्रत्युक्तो ऽध्वर्युः किमुक्तवानिति तदाह- स होवाचेति । अथ शौल्बायनः ‘उवाच’ हे गृहपते ! त्वां ‘उपायानि’ विद्यार्थमुपगच्छामि । उपगतं मां अनुशाधीति । ‘सः’ गृहपतिरुवाच । ‘अत्र’ अस्मिन् काले ‘खलु’ ‘त्वमर्हसि’ विद्योपदेशार्हो भवसि । यस्त्वं ‘नः’ अस्माकं संवत्सरकालसाध्ये सत्रयागे ‘अध्वर्युरभूः’ । ‘अनुपेतायैव’ उपनयनसंस्काररहितायैव च तुभ्यं ‘एनत्’ स्रुगादानं ‘ब्रवाणि’ उपदिशानीति । एवमुक्त्वा ‘तस्मै’ शौल्बायनायाध्वर्यवे ‘एतदेव स्रुचोरादानं’ गृहपतिः ‘उवाच’ उक्तवान् अवदत् । ‘यदेतत्’ ‘अथातः स्रुचोरादानस्य’ इत्यादिना ‘व्याख्याम’ अवोचाम । ख्यातेर्लुङि “अस्यतिवक्ति”- (पा. सू. ३ । १ । ५२) इत्यादिना च्लेरङादेशः । एतद्ब्राह्मणार्थविदमेवाध्वर्युं वृणीत इति निगमयति- तस्मादिति ॥ २० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे चतुर्थे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (११ । ४ । २) ॥

द्वितीयः प्रपाठकश्च समाप्तः ॥ ११-२ ॥

Eggeling
  1. He said, ‘Let me become thy pupil.’ He answered, ‘Even now, indeed, art thou worthy (of being instructed), who hast been our Adhvaryu for a year: I will teach thee this even without thy

becoming my pupil.’ And so, indeed, he taught him that taking up of the two spoons as we have here explained it: hence one ought only to make one who knows this his Adhvaryu, and not one who does not know it.


  1. प्रतिप्रति न्वा AP. - ibid. अकृत् Sây. ↩︎

  2. 56:2 At the time when the sacrificial food (havis) is to be placed on the Vedi, the two offering-spoons, juhū and upabhr̥t, are filled with ghee, and then placed, the former on the Prastara-bunch (lying on the Vedi) with the bowl towards the east, and the latter north of it on the grass-cover of the Vedi; a third spoon, the dhruvā, being again placed north of the upabhr̥t. The first libation of ghee (āghāra) is made from the dipping-spoon (sruva); but when about to make the second libation, as also prior to each of the two butter-portions, to the first of the five fore-offerings, as well as before each of the chief offerings (when, however, portions of the respective sacrificial dishes are added to the ghee in the juhū), the Adhvaryu takes up the two spoons in the manner mentioned, viz. holding them together with both hands so as to be parallel to each other, the bowl of the juhū being just above that of the upabhr̥t without touching it. While thus holding them he goes forward to the Āhavanīya, and, after the other necessary rites, pours the oblation from the juhū, over the spout of the upabhr̥t, into the fire. At the fourth fore-offering the ghee contained in the upabhr̥t is for the first time made use of, half of it being poured into the juhū for the last two fore-offerings, whilst the remainder is used for the after-offerings. ↩︎

  3. संसिंज Sây. ↩︎

  4. 57:1 When the Adhvaryu betakes himself from his place behind the Vedi (on which the sacrificial material is laid out) to the Āhavanīya in order to perform an offering, he is to proceed in such a way as constantly to keep his left foot before the right one; whilst in returning to his place he keeps the right foot before the left. Of the two ways of procedure mentioned in the paragraph, the second way is thus the right one. ↩︎

  5. 58:1 Whilst the Adhvaryu is standing by the side of the Āhavanīya, ready to make the offering, he holds the spoons to his navel till the. moment when he has to pour the oblation into the fire. ↩︎

  6. 58:2 The Adhvaryu’s call is ‘oṁ śrāvaya’ (make him hear!) whereupon the Āgnīdhra responds ‘astu śraushaṭ’ (yea, may he hear!). ↩︎

  7. 58:3 Viz. any one for whom he (the Adhvaryu) performs a sacrifice, in case he (the priest) thinks he has not been treated liberally enough by his patron, or for some other reason. ↩︎

  8. त्कृपण न्वा᳘ A. त्कृपणंमन्वा P. कृपणं नु वै Sây. - ibid. अकृत् Sây. ↩︎

  9. दनुयुव न्वा AP. Sâyana’s explanation is अनुयुयन्निव (instead of युवन्निव). The कण्वशाखा reads at १.२.५.१ अनुयुवमिवासुः instead of the अनुव्यमिवासुः of the माध्यन्दिनाः. ↩︎

  10. 61:1 Tasāṁ saṁtr̥ptānām āhutīnāṁ bhoktāro devāḥ prītāḥ santo hiraṇmayān hiraṇyavikārāṁś camasān yajamānāya dātuṁ yena pūrayante, Sāy. ↩︎

  11. 61:2 Cf. I, 7, 2, 7-10; and part i, p. 192, note 1, where the procedure is explained. ↩︎

  12. 61:3 One would expect an ‘iti’ here. ↩︎

  13. 61:4 According to Sāyaṇa, Ayasthūṇa is the name of a R̥shi. ↩︎

  14. 61:5 Literally, ‘house-lord’ or householder–the title of the Sacrificer at sacrificial sessions. ↩︎