०१

विश्वास-प्रस्तुतिः

उद्दा᳘लको हा᳘रुणिः॥
(रु) उदीच्या᳘न्वृतो᳘ धावया᳘ञ्चकार त᳘स्य निष्क᳘ ऽउपा᳘हित ऽआसैत᳘द्ध स्म वै तत्पू᳘र्व्वेषां व्वृता᳘नां धाव᳘यतामेकधन᳘मुपा᳘हितं भवत्युपवह्ला᳘य बि᳘भ्यतां ता᳘न्होदीच्या᳘नां ब्राह्मणान्भी᳘र्व्विवेद॥

मूलम् - श्रीधरादि

उद्दा᳘लको हा᳘रुणिः॥
(रु) उदीच्या᳘न्वृतो᳘ धावया᳘ञ्चकार त᳘स्य निष्क᳘ ऽउपा᳘हित ऽआसैत᳘द्ध स्म वै तत्पू᳘र्व्वेषां व्वृता᳘नां धाव᳘यतामेकधन᳘मुपा᳘हितं भवत्युपवह्ला᳘य बि᳘भ्यतां ता᳘न्होदीच्या᳘नां ब्राह्मणान्भी᳘र्व्विवेद॥

मूलम् - Weber

उद्दा᳘लको हा᳘रुणिः॥
उदीच्या᳘न्वृतो᳘ 1 धावयां᳘ चकार त᳘स्य निष्क᳘ उपा᳘हित आसैत᳘द्ध स्म वै तत्पू᳘र्वेषां वृता᳘नां धाव᳘यतामेकधन᳘मुपा᳘हितम् भवत्युपवल्हा᳘य बि᳘भ्यतां ता᳘न्होदीच्या᳘नाम् ब्राह्मणान्भी᳘र्विवेद॥

मूलम् - विस्वरम्

उद्दालको हारुणिरुदीच्यान्वृतो धावयांचकार । तस्य निष्क उपाहित आस । एतद्ध स्म वै तत्पूर्वेषां वृत्तानां धावयतामेकधनमुपाहितं भवति । उपवह्लाय बिभ्यतां तान्होदीच्यानां ब्राह्मणान् भीर्विवेद ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

इत्थं तृतीये अग्निहोत्रं प्रशस्य तत्प्रसंगात् ब्रह्मचारिधर्माश्च निरूपिताः । अथ चतुर्थे दर्शपूर्णमासयागस्यैव भावनाविशिष्टाः केचन धर्माः मित्रविंदादयश्च प्रतिपाद्यंते । तत्र प्रथमं विजिगीषुकथारूपेण प्रश्नप्रतिवचनाभ्यां दर्शपूर्णमासावेव सर्वोत्पत्तिनिमित्तत्वेन स्तोतुकामः तत्प्रश्नप्रतिप्रश्नोपयोगिनीमाख्यायिकामवतारयति- उद्दालको हारुणिरिति । पुरा खलु ‘आरुणिः’ अरुणस्य पुत्रः उद्दालकाख्यः ऋषिः आर्त्विज्यया ‘वृतः’ सन् ‘उदीच्यान्’ उदग्देशान् ‘धावयांचकार’ जगाम । अथ तेषूदीच्यदेशेषु गतस्य उद्दालकस्य ‘निष्कः’ हिरण्मयो दीनारः ‘उपाहितः’ तदुपार्जितः ‘आस’ उपायनत्वेन निक्षिप्तो बभूव । एतस्य प्रयोजनमाह- एतद्ध स्मेति । ‘पूर्वेषां’ पुरातनानाम् आर्त्विज्याय ‘वृतानां’ ‘धावयतां’ जनपदं गच्छतां ब्राह्मणानां श्रैष्ठ्यपरीक्षार्थं ‘एकधनं’ मुख्यं धनं ‘उपाहितं’ निक्षिप्तं भवति स्म । तदेतदत्र क्रियत इत्यर्थः । निष्कोपधानस्य कारणमाह- उपवह्लाय बिभ्यतामिति । बहूनां मध्ये कस्यचित् ज्ञानाधिक्यतारतम्येन जयपराजयाध्यवसानहेतुकं प्राधान्यमुपवह्लः । तत्कर्तुं ‘बिभ्यतां’ भीतिं प्राप्नुवतां ‘उदीच्यानां’ केवलं निष्क एव ‘उपाहित आस’ । तद्ग्रहणाय परस्परं विवदमानानां ज्ञानाधिक्यं स्वयमेव ज्ञास्यते इत्यनेनाभिप्रायेणेत्यर्थः । अथोदीच्यदेशसंबन्धिनः ‘ब्राह्मणान्’ ‘भीः’ भीतिः ‘विवेद’ प्राप्नोत् ॥ १ ॥

Eggeling
  1. Now Uddālaka Āruṇi 2 was driving about 3, as a chosen (offering-priest), amongst the people of

the northern country. By him a gold coin was offered; for in the time of our forefathers a prize used to be offered by chosen (priests) when driving about, for the sake of calling out the timid 4 to a disputation. Fear then seized the Brāhmaṇas of the northern people:–

०२

विश्वास-प्रस्तुतिः

कौ᳘रुपाञ्चालो वा᳘ ऽअय᳘म्ब्रह्मा᳘ ब्रह्मपुत्रः[[!!]]॥
(त्रो) यद्वै᳘ नो ऽयम᳘र्द्धन्न᳘ पर्य्याद᳘दीत ह᳘न्तैनम्ब्रह्मो᳘द्यमाह्व᳘यामहा ऽइ᳘ति के᳘न व्वीरेणे᳘ति स्वैदायनेने᳘ति शौ᳘नको ह स्वैदायन᳘ ऽआस॥

मूलम् - श्रीधरादि

कौ᳘रुपाञ्चालो वा᳘ ऽअय᳘म्ब्रह्मा᳘ ब्रह्मपुत्रः[[!!]]॥
(त्रो) यद्वै᳘ नो ऽयम᳘र्द्धन्न᳘ पर्य्याद᳘दीत ह᳘न्तैनम्ब्रह्मो᳘द्यमाह्व᳘यामहा ऽइ᳘ति के᳘न व्वीरेणे᳘ति स्वैदायनेने᳘ति शौ᳘नको ह स्वैदायन᳘ ऽआस॥

मूलम् - Weber

कौ᳘रुपञ्चालो वा᳘ अय᳘म् ब्रह्मा᳘ ब्रह्मपुत्रः᳟॥
यद्वै᳘ नोऽयम᳘र्धं न᳘ पर्याद᳘दीत ह᳘न्तैनम् ब्रह्मो᳘द्यमाह्व᳘यामहा इ᳘ति के᳘न वीरेणे᳘ति स्वैदायनेने᳘ति शौ᳘नको ह स्वैदायन᳘ आस॥

मूलम् - विस्वरम्

कौरुपांचालो वा अयं ब्रह्मा ब्रह्मपुत्रः । यद्वै नो ऽयमर्द्धं न पर्याददीत । हंतैनं ब्रह्मोद्यमाह्वयामहा इति । केन वीरेणेति । स्वैदायनेनेति । शौनको ह स्वैदायन आस ॥ २ ॥

सायणः

कौरुपांचालो वा इत्यादि । कुरुपंचालाख्यदेशनिवासी अयमुद्दालकः ‘ब्रह्मा’ वेदाढ्यः ‘ब्रह्मपुत्रः’ ब्रह्मिष्ठस्य पुत्रश्च, अतो ऽयं महाप्रभाववान् ‘नः’ अस्माकं ‘अर्द्धं’ अर्द्धशब्दो देशवाची । अस्मत्समीपदेशं प्राप्य येन हेतुना निष्कं ‘न पर्याददीत’ तादृगुपायदर्शनहर्षद्योतको हंतशब्दः । ‘हंत’ तत्कारणमस्माभिर्दृष्टम् । ‘एनं’ उद्दालकं ‘ब्रह्मोद्यं’ ब्रह्म वेदः तदेकसमधिगम्यं रहस्यं अर्थं प्रति उद्यम् ‘आह्वयामहै इति’ तेन चास्य मुनेः प्राशस्त्यं ज्ञास्यत इत्यर्थः । केन वीरेणेत्यादि । ते ब्राह्मणाः केन वीर्यवता प्रतिवादिना एतत् ब्रह्मोद्यं कर्तुं शक्यत इति विचार्य स्वैदायनाख्येन महर्षिणेति निश्चितवंतः । तत्र शुनकगोत्रजः स्वैदायनाख्यो महर्षिः ‘आस’ आगतो ऽभवत् ॥ २ ॥

Eggeling
  1. ‘This fellow is a Kurupañcāla Brahman, and son of a Brahman–let us take care lest he should deprive us of our domain: come, let us challenge him to a disputation on spiritual matters.’–‘With whom for our champion?’–‘With Svaidāyana.’ Svaidāyana, to wit, was Śaunaka.

०३

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
स्वै᳘दायन त्व᳘या व्वीरे᳘णेमं᳘ प्रतिसं᳘यतामहा ऽइ᳘ति स᳘ होवाचोपा᳘त्र ख᳘लु रमताहं᳘[[!!]] न्वेनं व्वेदानी᳘ति त᳘ᳫँ᳘ हाभिप्र᳘पेदे त᳘ᳫँ᳘ हाभिप्र᳘पन्नम᳘भ्युवाद स्वै᳘दायना३ ऽइ᳘ति हो᳘३ गौतमस्य पुत्रेती᳘तरः प्र᳘तिशुश्राव त᳘ᳫँ᳘ ह त᳘त ऽएव प्र᳘ष्टुं दध्रे॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
स्वै᳘दायन त्व᳘या व्वीरे᳘णेमं᳘ प्रतिसं᳘यतामहा ऽइ᳘ति स᳘ होवाचोपा᳘त्र ख᳘लु रमताहं᳘[[!!]] न्वेनं व्वेदानी᳘ति त᳘ᳫँ᳘ हाभिप्र᳘पेदे त᳘ᳫँ᳘ हाभिप्र᳘पन्नम᳘भ्युवाद स्वै᳘दायना३ ऽइ᳘ति हो᳘३ गौतमस्य पुत्रेती᳘तरः प्र᳘तिशुश्राव त᳘ᳫँ᳘ ह त᳘त ऽएव प्र᳘ष्टुं दध्रे॥

मूलम् - Weber

ते᳘ होचुः॥
स्वै᳘दायन त्व᳘या वीरे᳘णेम᳘म् प्रतिसं᳘यतामहा इ᳘ति स᳘ होवाचोपा᳘त्र खलु र᳘मताॗहं न्वेनं वेदानी᳘ति त᳘ᳫं᳘ हाभिप्र᳘पेदे त᳘ᳫं᳘ हाभिप्र᳘पन्नमॗभ्युवाद स्वै᳘दायना३ इ᳘ति हो᳘३ गौतमस्य पुत्रेती᳘तरः प्र᳘तिशुश्राव त᳘ᳫं᳘ ह त᳘त एव प्र᳘ष्टुं दध्रे॥

मूलम् - विस्वरम्

ते होचुः । स्वैदायन त्वया वीरेणेमं प्रतिसंयतामहा इति । स होवाच- उपात्र खलु रमत । अहं न्वेनं वेदानीति । तं हाभिप्रपेदे । तं हाभिप्रपन्नमभ्युवाद स्वैदायना ३ इति । हो ३ गौतमस्य पुत्रेति इतरः प्रतिशुश्राव । तं ह तत एव प्रष्टुं दध्रे ॥ ३ ॥

सायणः

‘ते होचुः’ तमवोचन्- हे ‘स्वैदायन !’ ‘वीरेण’ श्रौताध्ययनजनितवीर्यवता ‘त्वया इमम्’ उद्दालकम् ‘संयतामहा इति’ प्रतिवादित्वेन सम्यक्प्रपन्नं करवामहा इति । त्वमनेन सर्वं संवदस्वेत्यर्थः । एवमुक्तः ‘सः’ खलु स्वैदायनः ‘उवाच’ उक्तवान् । अत्रास्मिन् विषये यूयं खलु सर्वे ‘उपरमत’ तूष्णीमवस्थिताः भवत । ‘अहं नु’ अहमेवाद्य ‘एनम्’ ऋषिं ‘वेदानि’ अस्य सामर्थ्यं इयदिति जानामि । एवमुक्त्वा तमुद्दालकम् ‘अभिप्रपेदे’ अभिजगाम । ‘तम्’ ‘अभिप्रपन्नम्’ उद्दालकः ‘अभ्युवाद’ स्वैदायनेत्यामंत्रितवान् । “दूराद्धूते च" (पा. सू. ८ । २ । २४) इति प्लुतः । ‘इतरः’ स्वैदायनो ऽपि तं ‘हो३’ ‘गौतमस्य पुत्रेति’ ‘प्रतिशुश्राव’ प्रतिबभाषे । हो इति अभिमुखीकरणार्थो निपातः । अत्रापि प्लुतः पूर्ववत् । ‘ततः’ अनन्तरमेव स्वैदायनः तमुद्दालकं ‘प्रष्टुम्’ ‘दध्रे’ उपचक्रमे ॥ ३ ॥

Eggeling
  1. They said, ‘Svaidāyana, with thee as our champion we will fight this fellow.’ He said, ‘Well, then, stay ye here quietly: I will just make his acquaintance 5.’ He went up to him, and when he had come up, he (Uddālaka) greeted him saying,

‘Svaidāyana!’–‘Halloo, son of Gautama!’ replied the other, and straightway, began to question him.

०४

विश्वास-प्रस्तुतिः

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्यो᳘) यो᳘ दर्शपूर्णमास᳘योरष्टौ᳘ पुर᳘स्ता᳘दा᳘ज्यभागान्विद्यात्प᳘ञ्च मध्यतो᳘ हवि᳘र्भागान्ष᳘ट् प्राजापत्या᳘नष्टा᳘ ऽउप᳘रिष्टादा᳘ज्यभागान्॥

मूलम् - श्रीधरादि

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्यो᳘) यो᳘ दर्शपूर्णमास᳘योरष्टौ᳘ पुर᳘स्ता᳘दा᳘ज्यभागान्विद्यात्प᳘ञ्च मध्यतो᳘ हवि᳘र्भागान्ष᳘ट् प्राजापत्या᳘नष्टा᳘ ऽउप᳘रिष्टादा᳘ज्यभागान्॥

मूलम् - Weber

स वै᳘ गौतमस्य पुत्र वृतो ज᳘नं धावयेत्॥
यो᳘ दर्शपूर्णमास᳘योरष्टौ᳘ पुर᳘स्तादा᳘ज्यभागान्विद्यात्प᳘ञ्च मध्यतो᳘ हवि᳘र्भागान्ष᳘ट् प्राजापत्यानष्टा᳘ उप᳘रिष्टादा᳘ज्यभागान्॥

मूलम् - विस्वरम्

स वै गौतमस्य पुत्र वृतो जनं धावयेत् । यो दर्शपूर्णमासयोरष्टौ पुरस्तादाज्यभागान् विद्यात् । पंच मध्यतो हविर्भागान् । षट् प्राजापत्यान् । अष्टा उपरिष्टादाज्यभागान् ॥ ४ ॥

सायणः

स वै गौतमस्य पुत्रेत्यादि । हे ‘गौतमस्य पुत्र !’ स खलु आर्त्विज्याय ‘वृतः’ सन् ‘जनं’ जनपदम् ‘धावयेत्’ ‘यः’ दर्शपूर्णमासयागयोः ‘पुरस्तात्’ पूर्वभागे अनुष्ठेयान् ‘आज्यभागान् आज्यविष्कानष्टौ यागान् ‘विद्यात्’ जानीयात् । ‘मध्यतः’ मध्यभागे अनुष्ठेयान् ‘हविर्भागान्’ पुरोडाशादिहविःसाध्यान् पंचसंख्याकान् विद्यात् । तथा ‘प्राजापत्यान्’ प्रजापतिदेवताकान् ‘षट्’- संख्याकान् विद्यात् । तथा ‘उपरिष्टाद्’ अवसानभागे क्रियमाणान् ‘अष्टौ’ ‘आज्यभागान्’ यो विद्यात् । स एव जनपदं धावयेदित्येकः प्रश्नः ॥ ४ ॥

Eggeling
  1. ‘He alone, O son of Gautama, may drive about amongst people as chosen (offering-priest), who knows in the Full and New-moon sacrifices eight butter-portions (offered) previously, five portions of sacrificial food in the middle, six (portions) of Prajāpati, and eight butter-portions (offered) subsequently.

०५

विश्वास-प्रस्तुतिः

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्य) यस्त᳘द्दर्शपूर्णमास᳘योर्व्विद्याद्य᳘स्मादिमाः᳘ प्रजा᳘ ऽअदं᳘तका जा᳘यंते य᳘स्मादासां जा᳘यंते य᳘स्मादासां प्रभिद्यं᳘ते य᳘स्मादासाᳫँ᳭ संस्ति᳘ष्ठन्ते य᳘स्मादासां पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व᳘ ऽएव᳘ प्रभिद्य᳘न्ते य᳘स्माद᳘धर ऽएवा᳘ग्रे[[!!]] जा᳘यन्ते ऽथो᳘त्तरे य᳘स्माद᳘णीयाᳫँ᳭स ऽएवा᳘धरे प्र᳘थीयाᳫँ᳭स ऽउ᳘त्तरे य᳘स्माद्द᳘ᳫँ᳘ष्ट्रा व्व᳘र्षीयाᳫँ᳘सो य᳘स्मात्समा ऽएव[[!!]] ज᳘म्भ्याः॥

मूलम् - श्रीधरादि

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्य) यस्त᳘द्दर्शपूर्णमास᳘योर्व्विद्याद्य᳘स्मादिमाः᳘ प्रजा᳘ ऽअदं᳘तका जा᳘यंते य᳘स्मादासां जा᳘यंते य᳘स्मादासां प्रभिद्यं᳘ते य᳘स्मादासाᳫँ᳭ संस्ति᳘ष्ठन्ते य᳘स्मादासां पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व᳘ ऽएव᳘ प्रभिद्य᳘न्ते य᳘स्माद᳘धर ऽएवा᳘ग्रे[[!!]] जा᳘यन्ते ऽथो᳘त्तरे य᳘स्माद᳘णीयाᳫँ᳭स ऽएवा᳘धरे प्र᳘थीयाᳫँ᳭स ऽउ᳘त्तरे य᳘स्माद्द᳘ᳫँ᳘ष्ट्रा व्व᳘र्षीयाᳫँ᳘सो य᳘स्मात्समा ऽएव[[!!]] ज᳘म्भ्याः॥

मूलम् - Weber

स वै᳘ गौतमस्य पुत्र वृतो ज᳘नं धावयेत्॥
यस्त᳘द्दर्शपूर्णमास᳘योर्विद्याद्य᳘स्मादिमाः᳘ प्रजा᳘ अद᳘न्तका जायन्ते य᳘स्मादासां जा᳘यन्ते य᳘स्मादासाम् प्रभिद्य᳘न्ते य᳘स्मादासाᳫं संस्ति᳘ष्ठन्ते य᳘स्मादासाम् पु᳘नरुत्तमे व᳘यसि स᳘र्व एव᳘ प्रभिद्य᳘न्ते य᳘स्माद᳘धर एॗवाग्रे जा᳘यन्तेऽथो᳘त्तरे य᳘स्माद᳘णीयांस एवा᳘धरे प्र᳘थीयांस उ᳘त्तरे य᳘स्माद्दं᳘ष्ट्रा व᳘र्षीयांसो य᳘स्मात्समा᳘ एव ज᳘म्भ्याः॥

मूलम् - विस्वरम्

स वै गौतमस्य पुत्र वृतो जनं धावयेत् । यस्तद्दर्शपूर्णमासयोर्विद्यात् । यस्मादिमाः प्रजा अदंतका जायंते । यस्मादासां जायंते । यस्मादासां प्रभिद्यंते । यस्मादासां संतिष्ठन्ते । यस्मादासां पुनरुत्तमे वयसि सर्व एव प्रभिद्यंते । यस्मादधर एवाग्रे जायंते । अथोत्तरे । यस्मादणीयांस एवाधरे । प्रथीयांस उत्तरे । यस्माद्दंष्ट्रा वर्षीयांसः । यस्मात्समा एव जंभ्याः ॥ ५ ॥

सायणः

अन्यं प्रश्नं दर्शयति- स वा इति । ‘तत्’ वक्ष्यमाणमर्थजातम् । गतमन्यत् । यस्मादिमाः प्रजा इत्यादि । ‘यस्मात्’ कारणात् ‘इमाः प्रजाः’ ‘अदंतकाः’ दंतरहिताः ‘जायन्ते’ । ‘यस्मात्’ ‘आसां’ प्रजानां जननादूर्ध्वं पंचमासेषु गतेषु दन्ता जायन्ते । यस्मादेव कारणात् ‘आसां’ प्रजानां सप्तमाष्टमादिवर्षेषु ते दन्ताः ‘प्रभिद्यंते’ पतंतीत्यर्थः । यस्माच्च कारणात् ‘आसां’ प्रजानां ‘संतिष्ठते’ दंताः सम्यक् स्थिताः भवंति । यस्मादेव कारणात् ‘उत्तमे’ चरमे ‘वयसि’ ‘सर्वे एव’ दंताः पतिताः भवंति । उत्पत्त्यवस्थायामपि ‘अग्रे’ प्रथमं ‘यस्मात्’ कारणात् ‘अधरे’ अधोभागवर्तिन एव दंताः ‘जायंते’ । अथानंतरं ‘उत्तरे’ उपरिभागवर्तिनो दन्ता जायंते । अयं पौर्वापर्यनियमो यस्मादित्यर्थः । यस्मादणीयांस इत्यादि । तेषामधरोत्तरदंतानां यथाक्रममणुतरत्वं स्थूलतरत्वं च किंनिबंधनमिति प्रश्नः । तथा ‘यस्मात्’ कारणात् ‘दंष्ट्राः’ दशनसाधनीभूताः पुरोवर्तिनो दंताः ‘वर्षीयांसः’ वृद्धतराः उन्नततराः । यस्माच्च कारणात् ‘जंभ्याः’ पार्श्ववर्तिनो दंताः ‘समाः’ समानाकृतय एव । यदेतत् कारणजातं दर्शपूर्णमासावयवेषु यो वक्तुं जानाति, स आर्त्विज्यमर्हति । जानासि चेत् ब्रूहि इति प्रश्नाभिप्रायः ॥ ५ ॥

Eggeling
  1. ‘He alone, O son of Gautama, may drive about amongst people as chosen (priest), who knows from the Full and New-moon sacrifices 6 whereby it is that creatures here are born toothless, whereby they (the teeth) grow with them, whereby they decay with them, whereby they come to remain permanently with them; whereby, in the last stage of life, they all decay again with them; whereby the lower ones grow first, then the upper ones; whereby the lower ones are smaller, and the upper ones broader; whereby the incisors are larger, and whereby the molars are of equal size.

०६

विश्वास-प्रस्तुतिः

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्य) यस्त᳘द्दर्शपूर्णमास᳘योर्व्विद्याद्य᳘स्मादिमाः᳘ प्रजा᳘ लोमशा जा᳘यन्ते य᳘स्मादासां पु᳘नरिव श्म᳘श्रूण्यौ᳘पपक्ष्याणि दु᳘र्बीरिणानि जा᳘यन्ते य᳘स्माच्छीर्ष᳘ण्येवा᳘ग्रे पलितो भ᳘वत्य᳘थ पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व ऽएव᳘ पलितो᳘ भवति॥

मूलम् - श्रीधरादि

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्य) यस्त᳘द्दर्शपूर्णमास᳘योर्व्विद्याद्य᳘स्मादिमाः᳘ प्रजा᳘ लोमशा जा᳘यन्ते य᳘स्मादासां पु᳘नरिव श्म᳘श्रूण्यौ᳘पपक्ष्याणि दु᳘र्बीरिणानि जा᳘यन्ते य᳘स्माच्छीर्ष᳘ण्येवा᳘ग्रे पलितो भ᳘वत्य᳘थ पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व ऽएव᳘ पलितो᳘ भवति॥

मूलम् - Weber

स वै᳘ गौतमस्य पुत्र वृतो ज᳘नं धावयेत्॥
यस्त᳘द्दर्शपूर्णमास᳘योर्विद्याद्य᳘स्मादिमाः᳘ प्रजा᳘ लोमशा जायन्ते य᳘स्मादासाम् पु᳘नरिव श्म᳘श्रूण्यौ᳘पपक्ष्याणि दु᳘र्बीरिणानि 7जा᳘यन्ते य᳘स्माछीर्ष᳘ण्येवा᳘ग्रे पलितो भ᳘वत्य᳘थ पु᳘नरुत्तमे व᳘यसि स᳘र्व एव᳘ पलितो᳘ भवति॥

मूलम् - विस्वरम्

स वै गौतमस्य पुत्र वृतो जनं धावयेत् । यस्तद्दर्शपूर्णमासयोर्विद्यात् । यस्मादिमाः प्रजा लोमशा जायंते । यस्मादासां पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायंते । यस्माच्छीर्षण्येवाग्रे पलितो भवति । अथ पुनरुत्तमे वयसि सर्व एव पलितो भवति ॥ ६ ॥

सायणः

पुनरन्यं प्रश्नमुद्भावयति- स वै गौतमस्य पुत्रेति । यस्मात्कारणात् ‘इमाः’ जायमानाः ‘प्रजाः’ ‘लोमशाः’ केशयुक्ता एव ‘जायंते’ । यस्मात्कारणात् ‘आसां’ प्रजानां ‘औपपक्ष्याणि’ उपपक्षो बाहुमूलं तत्संबंधीनि रोमाणि, मुखप्रांतवर्तीनि श्मश्रूणि च ‘दुर्बीरिणानि’ बीरणास्तृणविशेषाः । लुप्तोपममेतत् । दुष्टानि बीरणानीव । पुनरेव यौवनावस्थायां ‘अग्रे’ प्रथमं ‘शिर्षणि’ शिरस्येव ‘पलितो भवति’ केशेषु शौक्ल्यं भवति । अनंतरं ‘उत्तमे’ चरमे वयसि । सर्वदेहः ‘पलितो भवति’ श्वेतरोमांकित इत्यर्थः ॥ ६ ॥

Eggeling
  1. ‘He alone, O son of Gautama, may drive about amongst people as chosen (priest), who knows from the Full and New-moon sacrifices, whereby creatures here are born with hair; whereby, for the second time, as it were, the hair of the beard and the arm-pits and other parts of the body 8 grow on them; whereby it is on the head that one first

becomes grey, and then, again, in the last stage of life, one becomes grey all over.

०७

विश्वास-प्रस्तुतिः

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्य) यस्त᳘द्दर्शपूर्णमास᳘योर्व्विद्याद्य᳘स्मात्कुमार᳘स्य रे᳘तः सिक्तं न᳘ संभ᳘वति य᳘स्मादस्य मध्यमे व्व᳘यसि संभ᳘वति य᳘स्मादस्य पु᳘नरुत्तमे व्व᳘यसि न᳘ संभ᳘वति॥

मूलम् - श्रीधरादि

स वै᳘ गौतमस्य पुत्र व्वृतो ज᳘नं धावयेत्॥
(द्य) यस्त᳘द्दर्शपूर्णमास᳘योर्व्विद्याद्य᳘स्मात्कुमार᳘स्य रे᳘तः सिक्तं न᳘ संभ᳘वति य᳘स्मादस्य मध्यमे व्व᳘यसि संभ᳘वति य᳘स्मादस्य पु᳘नरुत्तमे व्व᳘यसि न᳘ संभ᳘वति॥

मूलम् - Weber

स वै᳘ गौतमस्य पुत्र वृतो ज᳘नं धावयेत्॥
यस्त᳘द्दर्शपूर्णमास᳘योर्विद्याद्य᳘स्मात्कुमार᳘स्य रे᳘तः सिक्तं न᳘ सम्भ᳘वति य᳘स्मादस्य मध्यमे व᳘यसि सम्भ᳘वति य᳘स्मादस्य पु᳘नरुत्तमे व᳘यसि न᳘ सम्भ᳘वति॥

मूलम् - विस्वरम्

स वै गौतमस्य पुत्र वृतो जनं धावयेत् । यस्तद्दर्शपूर्णमासयोर्विद्यात् । यस्मात् कुमारस्य रेतः सिक्तं न संभवति । यस्मादस्य मध्यमे वयसि संभवति । यस्मादस्य पुनरुत्तमे वयसि न संभवति ॥ ७ ॥

सायणः

अन्यं प्रश्नमुद्भावयति- स वै गौतमस्य पुत्रेति । ‘यस्मात्’ कुमारावस्थायां ‘सिक्तं रेतः’ अपत्यरूपेण नोत्पद्यते । ‘मध्यमे’ यौवने ‘वयसि’ यस्मादपत्यरूपेण तदुत्पद्यते । यस्मादेव कारणात् पुनः ‘उत्तमे’ वार्द्धक्ये ‘वयसि’ पुनरपत्यरूपेण नोत्पद्यते । तत्कारणं कीदृगिति वद ॥ ७ ॥

Eggeling
  1. ‘He alone, O son of Gautama, may drive about amongst people as chosen (priest), who knows from the Full and New-moon sacrifices whereby the seed of the boy is not productive, whereby in his middle age it is productive, and whereby again in his last stage of life it is not productive;–

०८

विश्वास-प्रस्तुतिः

यो᳘ गायत्रीᳫँ᳭ ह᳘रिणीम्॥
(ञ्ज्यो᳘) ज्यो᳘तिष्पक्षां य᳘जमानᳫँ᳭ स्वर्ग्गं᳘ लोक᳘मभिव᳘हंतीं व्विद्यादि᳘ति त᳘स्मै ह निष्कं प्र᳘ददावनूचानः᳘ स्वैदायनासि सुव᳘र्णं वाव[[!!]] सुवर्णवि᳘दे ददती᳘ति त᳘ᳫँ᳘ होपगु᳘ह्य नि᳘श्चक्राम त᳘ᳫँ᳘ ह पप्रच्छुः कि᳘मिवैष᳘ गौतम᳘स्य पु᳘त्रो ऽभूदि᳘ति॥

मूलम् - श्रीधरादि

यो᳘ गायत्रीᳫँ᳭ ह᳘रिणीम्॥
(ञ्ज्यो᳘) ज्यो᳘तिष्पक्षां य᳘जमानᳫँ᳭ स्वर्ग्गं᳘ लोक᳘मभिव᳘हंतीं व्विद्यादि᳘ति त᳘स्मै ह निष्कं प्र᳘ददावनूचानः᳘ स्वैदायनासि सुव᳘र्णं वाव[[!!]] सुवर्णवि᳘दे ददती᳘ति त᳘ᳫँ᳘ होपगु᳘ह्य नि᳘श्चक्राम त᳘ᳫँ᳘ ह पप्रच्छुः कि᳘मिवैष᳘ गौतम᳘स्य पु᳘त्रो ऽभूदि᳘ति॥

मूलम् - Weber

यो᳘ गायत्रीᳫं ह᳘रिणीम्॥
ज्यो᳘तिष्पक्षां य᳘जमानᳫं स्वर्गं᳘ लोक᳘मभिव᳘हन्तीं विद्यादि᳘ति त᳘स्मै ह निष्कम् प्र᳘ददावनूचानः᳘ स्वैदायनासि सुव᳘र्णं वाव᳘ सुवर्णवि᳘दे ददती᳘ति त᳘ᳫं᳘ होपगु᳘ह्य नि᳘श्चक्राम त᳘ᳫं᳘ ह पप्रछुः कि᳘मिवैष᳘ गौतम᳘स्य पुॗत्रोऽभूदि᳘ति॥

मूलम् - विस्वरम्

यो गायत्रीं हरिणीं ज्योतिष्पक्षां यजमानं स्वर्गं लोकमभिवहंतीं विद्यादिति । तस्मै ह निष्कं प्रददौ । अनूचानः स्वैदायनासि । सुवर्णं वाव सुवर्णविदे ददतीति । तं होपगुह्य निश्चक्राम । तं ह पप्रच्छुः । किमिवैष गौतमस्य पुत्रो ऽभूदिति ॥ ८ ॥

सायणः

अपिच ‘हरिणीं’ हरितवर्णां ‘ज्योतिष्पक्षां’ ज्योतिर्मयपक्षोपेतां ‘यजमानं स्वर्गं लोकमभिवहंतीं’ ‘गायत्रीं’ ‘यो विद्यात्’ जानीयात् स एवार्त्विजीनो भवति । तस्मै ह निष्कमित्यादि । एवं स्वैदायनेन पृष्टः प्रतिवक्तुमसमर्थः सन्नुद्दालकः स्वस्योपायनत्वेन कल्पितं ‘निष्कं’ ‘तस्मै’ स्वैदायनाय ‘प्रददौ’ । ‘स्वैदायन !’ त्वम् ‘अनूचानः’ रहस्यविद्यामधीतवान् भवसि अस्मत्तो ऽधिकं जानासि । ‘सुवर्णविदे’ सुष्ठुवर्णनीयमर्थं जानते पुरुषाय ‘सुवर्णं’ शोभनवर्णयुक्तं हिरण्यं ‘ददति’ धनिनः प्रयच्छति । अतो हेतोः हे स्वैदायन ! त्वमेव निष्कमुपादातुमर्हसीत्यर्थः । तं होपगुह्येत्यादि । ‘तं’ स्वैदायनं ‘उपगुह्य’ ‘आलिंग्य उद्दालकस्तस्मात् स्थानात् ‘निश्चक्राम’ निष्क्रान्तवान् । तं ह पप्रच्छुरित्यादि । ‘एषः’ ‘गौतमस्य पुत्रः’ उद्दालकः किमात्मकः अभूदिति स्वैदायनं ‘पप्रच्छुः’ ते उदीच्याः ब्राह्मणाः पृष्टवंतः ॥ ८ ॥

Eggeling
  1. ‘And he who knows the golden, brilliant-winged Gāyatrī who bears the Sacrificer to the heavenly world.’ Then he (Uddālaka) gave up to him the gold coin, saying, ‘Thou art learned, Svaidāyana; and, verily, gold is given unto him who knows gold;’ and he (Svaidāyana), having concealed it 9, went away. They asked him, ‘How did that son of Gautama behave?’

०९

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
य᳘था ब्रह्मा᳘ ब्रह्मपुत्रो᳘ मू᳘र्द्धा ऽस्य व्वि᳘पतेद्य᳘ ऽएनमुपव᳘ह्लेते᳘ति ते᳘ ह त᳘त ऽएव᳘ व्विप्रे᳘युस्त᳘ᳫँ᳘ ह त᳘त ऽएव᳘ समि᳘त्पाणिः प्र᳘तिचक्रम ऽउ᳘प त्वा ऽऽयानी᳘नि कि᳘मध्येष्य᳘माण ऽइ᳘ति या᳘नेव᳘ मा प्रश्नान᳘प्राक्षीस्ता᳘नेव᳘ मे व्वि᳘ब्रूही᳘ति स᳘ होवाचा᳘नुपेतायैव᳘ त ऽएनान्ब्रवाणी᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
य᳘था ब्रह्मा᳘ ब्रह्मपुत्रो᳘ मू᳘र्द्धा ऽस्य व्वि᳘पतेद्य᳘ ऽएनमुपव᳘ह्लेते᳘ति ते᳘ ह त᳘त ऽएव᳘ व्विप्रे᳘युस्त᳘ᳫँ᳘ ह त᳘त ऽएव᳘ समि᳘त्पाणिः प्र᳘तिचक्रम ऽउ᳘प त्वा ऽऽयानी᳘नि कि᳘मध्येष्य᳘माण ऽइ᳘ति या᳘नेव᳘ मा प्रश्नान᳘प्राक्षीस्ता᳘नेव᳘ मे व्वि᳘ब्रूही᳘ति स᳘ होवाचा᳘नुपेतायैव᳘ त ऽएनान्ब्रवाणी᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
य᳘था ब्रह्मा᳘ ब्रह्मपुत्रो᳘ मूॗर्धास्य वि᳘पतेद्य᳘ एनमुपव᳘ल्हेते᳘ति ते᳘ ह त᳘त एव᳘ विप्रे᳘युस्त᳘ᳫं᳘ ह त᳘त एव᳘ समि᳘त्प्राणिः प्र᳘तिचक्रम् उ᳘प त्वायानी᳘ति कि᳘मध्येष्य᳘माण इ᳘ति या᳘नेव᳘ मा प्रश्नान᳘प्राक्षीस्ता᳘नेव᳘ मे वि᳘ब्रूही᳘ति स᳘ होवाचा᳘नुपेतायैव᳘ त एनान्ब्रवाणी᳘ति॥

मूलम् - विस्वरम्

स होवाच- यथा ब्रह्मा ब्रह्मपुत्रः । मूर्द्धा ऽस्य विपतेत्, य एनमुपवह्लेतेति । ते ह तत एव विप्रेयुः । तं ह तत एव समित्पाणिः प्रतिचक्रमे, उप त्वा ऽऽयानीति । किमध्येष्यमाण इति । यानेव मा प्रश्नानप्राक्षीः । तानेव मे विब्रूहीति । स होवाच- अनुपेतायैव त एनान् ब्रवाणीति ॥ ९ ॥

सायणः

स होवाचेति । ‘स’ खलु पृष्टः स्वैदायन ‘उवाच’ ‘ब्रह्मा’ स्वयं वेदाढ्यः ‘ब्रह्मपुत्रः’ ब्रह्मिष्ठस्य गौतमस्य पुत्रः इत्येतावत् ‘यथा’ वृत्तमेव । अपितु ‘यः’ पुरुषः ‘एनं’ उद्दालकम् ‘उपवह्लेत’ प्रधानं श्रेष्ठं कुर्यात् । “बर्ह वल्ह प्राधान्ये”- (धा. पा. भ्वा. आ. ६३९) इति धातुः । ‘अस्य’ पुरुषस्य ‘मूर्द्धा विपतेत्’ अल्पज्ञानस्याधिक्येन विपर्ययग्रहणात् तन्निमित्तं शिरःपतनं भवतीत्यर्थः । ततः ‘ते’ ब्राह्मणाः ‘विप्रेयुः’ विविधं स्वकीयं देशं जग्मुरित्यर्थः । तं ह तत एवेत्यादि । ततस्तस्मात्प्रश्नादेव हेतोः उद्दालकः ‘समित्पाणिः’ हस्ते समिधं धारयन् शिष्यभावं प्राप्तः उपनयनकालेनैव स्वैदायनं ‘प्रतिचक्रमे’ प्राप । उप त्वेत्यादि । तयोरुक्तिप्रत्युक्ती । यानेवेति । ‘यान्’ दर्शपूर्णमासयोः अष्टौ पुरस्तादाज्यभागानित्यादिना यानेव प्रश्नान् ‘मा’ माम् ‘अप्राक्षीः’ पृष्टवानसि । ‘तानेव मे’ विविच्य ‘ब्रूहि’ कथयेति । ‘सः’ खलु स्वैदायनः ‘उवाच’ महतस्तव उपनयनमनुचितम् अतः ‘अनुपेताय एव’ ‘ते’ तुभ्यं ‘एनान्’ पृष्टानर्थान् अहं ‘ब्रवाणि’ इति ॥ ९ ॥

Eggeling
  1. He said, ‘Even as a Brahman, and the son of a Brahman: the head would fly off of whosoever should (dare to) challenge him to a disputation 10.’ They then went away in all directions. He (Uddālaka) then came back to him, with fire-wood

in his hand 11, and said, ‘I want to become thy pupil.’–‘What wouldst thou study?’–‘Even those questions which thou didst ask me–explain them to me!’ He said, ‘I will tell them to thee even without thy becoming my pupil.’

१०

विश्वास-प्रस्तुतिः

त᳘स्मा ऽउ हैत᳘दुवाच॥
द्वा᳘वाघारौ प᳘ञ्च प्रयाजा᳘ ऽआग्नेय ऽआ᳘ज्यभागो ऽष्टम᳘ ऽए᳘ते ऽष्टौ᳘ पुर᳘स्तादा᳘ज्यभागाः सौम्य ऽआ᳘ज्यभागो हवि᳘र्भागाणां प्रथमो᳘ हविर्हि सो᳘म ऽआग्नेयः᳘ पुरोडा᳘शो ऽग्नीषोमी᳘य ऽउपाᳫँ᳭शुया᳘जो ऽग्नीषोमी᳘यः पुरोडा᳘शो ऽग्निः᳘ स्विष्टकृ᳘देते प᳘ञ्च मध्यतो᳘ हवि᳘र्भागाः॥

मूलम् - श्रीधरादि

त᳘स्मा ऽउ हैत᳘दुवाच॥
द्वा᳘वाघारौ प᳘ञ्च प्रयाजा᳘ ऽआग्नेय ऽआ᳘ज्यभागो ऽष्टम᳘ ऽए᳘ते ऽष्टौ᳘ पुर᳘स्तादा᳘ज्यभागाः सौम्य ऽआ᳘ज्यभागो हवि᳘र्भागाणां प्रथमो᳘ हविर्हि सो᳘म ऽआग्नेयः᳘ पुरोडा᳘शो ऽग्नीषोमी᳘य ऽउपाᳫँ᳭शुया᳘जो ऽग्नीषोमी᳘यः पुरोडा᳘शो ऽग्निः᳘ स्विष्टकृ᳘देते प᳘ञ्च मध्यतो᳘ हवि᳘र्भागाः॥

मूलम् - Weber

त᳘स्मा उ हैत᳘दुवाच॥
द्वा᳘वाघारौ प᳘ञ्च प्रयाजा᳘ आग्नेय आ᳘ज्यभागोऽष्टम᳘ एॗतेऽष्टौ᳘ पुर᳘स्तादा᳘ज्यभागाः सौम्य आ᳘ज्यभागो हवि᳘र्भागाणाम् प्रथमो᳘ हविर्हि सो᳘म आग्नेयः᳘ पुरोडा᳘शोऽग्नीषोमी᳘य उपांशुयाॗजोऽग्नीषोमी᳘यः पुरोडा᳘शोऽग्निः᳘ स्विष्टकृ᳘देते प᳘ञ्च मध्यतो᳘ हवि᳘र्भागाः॥

मूलम् - विस्वरम्

तस्मा उ हैतदुवाच- द्वावाघारौ पंच प्रयाजा आग्नेय आज्यभागो ऽष्टमः, एते ऽष्टौ पुरस्तादाज्यभागाः । सौम्य आज्यभागो हविर्भागाणां प्रथमः । हविर्हि सोमः । आग्नेयः पुरोडाशः । अग्नीषोमीय उपांशुयाजः । अग्नीषोमीयः पुरोडाशः । अग्निः स्विष्टकृत् । एते पंच मध्यतो हविर्भागाः॥ १० ॥

सायणः

तस्मा उ हैतदुवाचेति । एवमुक्त्वा ‘तस्मै’ उद्दालकाय ‘एतत्’ वक्ष्यमाणं सर्वमुवाच । पूषा आख्यायिका वक्ष्यमाणविद्यास्तुत्यर्था । तत्र तावदष्टौ पुरस्तादाज्यभागानाह- द्वावाघारावित्यादि । ‘पुरस्तात्’ प्रधानयागात्पूर्वं अनुष्ठेया आज्यहविष्का यागाः ‘आज्यभागाः’ । अथ पंच हविर्भागान् दर्शयति- सौम्य आज्यभाग इति । सोमदेवताको द्वितीयः ‘आज्यभागः’ ‘हविर्भागाणां प्रथमः’ आदिमः । ननु- आज्यहविष्कस्य सोमयागस्य कथं हविर्भागत्वं तत्राह- हविर्हीति । यद्यपि अस्य आज्यद्रव्यकत्वं तथापि देवताभूतः ‘सोमः’ स्वयं हविरात्मकः “सोमेन यजेत” इति श्रुतेः । अग्नीषोमीय उपांशुयाज इति । “तावब्रूतामग्नीषोमौ आज्यस्यैव नौ उपांशु पौर्णमास्यां यजेत” इति श्रुतत्वात् उपांशुयाजस्याग्नीषोमदेवताकत्वम् । तथाच स्विष्टकृद्यागांताः ‘एते पंच मध्यतः’ मध्ये अनुष्ठेया ‘हविर्भागाः’ हविः पुरोडाशादि द्रव्यं भागो भागधेयं येषां ते तथोक्ताः ॥ १० ॥

Eggeling
  1. And he then spoke thus to him:–The two libations of ghee, the five fore-offerings, and, eighth, Agni’s butter-portion–these are the eight butter-portions (offered) previously. Soma’s butter-portion, being the first of the portions of sacrificial food–for Soma is sacrificial food,—Agni’s cake, Agni-Soma’s low-voiced offering, Agni-Soma’s cake, and (the offering to) Agni Svishṭakr̥t–these are the five portions of sacrificial food in the middle.

११

विश्वास-प्रस्तुतिः

प्राशित्रं᳘ चे᳘डा च॥
य᳘च्चाग्नी᳘ध ऽआद᳘धाति ब्रह्मभागो᳘ यजमानभा᳘गो ऽन्वाहा᳘र्य्य ऽएते᳘ ष᳘ट् प्राजापत्यास्त्र᳘यो ऽनुयाजा᳘श्चत्वा᳘रः पत्नीसंयाजाः᳘ समिष्टयजु᳘रष्टम᳘मे᳘ते ऽष्टा᳘ ऽउप᳘रिष्टादा᳘ज्यभागाः॥

मूलम् - श्रीधरादि

प्राशित्रं᳘ चे᳘डा च॥
य᳘च्चाग्नी᳘ध ऽआद᳘धाति ब्रह्मभागो᳘ यजमानभा᳘गो ऽन्वाहा᳘र्य्य ऽएते᳘ ष᳘ट् प्राजापत्यास्त्र᳘यो ऽनुयाजा᳘श्चत्वा᳘रः पत्नीसंयाजाः᳘ समिष्टयजु᳘रष्टम᳘मे᳘ते ऽष्टा᳘ ऽउप᳘रिष्टादा᳘ज्यभागाः॥

मूलम् - Weber

प्राशित्रं चे᳘डा च॥
य᳘च्चाग्नी᳘ध आद᳘धाति ब्रह्मभागो᳘ यजमानभाॗगोऽन्वाहा᳘र्य एते ष᳘ट् प्राजापत्यास्त्र᳘योऽनुयाजा᳘श्चत्वा᳘रः पत्नीसंयाजाः᳘ समिष्टयजु᳘रष्टम᳘मेॗतेऽष्टा उप᳘रिष्टादा᳘ज्यभागाः॥

मूलम् - विस्वरम्

प्राशित्रं चेडा च यच्चाग्नीध आदधाति ब्रह्मभागो यजमानभागो ऽन्वाहार्य एते षट् प्राजापत्याः । त्रयो ऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टममेते ऽष्टा उपरिष्टादाज्यभागाः ॥ ११ ॥

सायणः

षट् प्राजापत्यानाह- प्राशित्रं चेति । यच्चाग्नीध इति । ‘अग्नीधे’ आग्नीध्राय यं चतुर्द्धाकृतपुरोडाशभागं 12 ‘आदधाति’ हस्ते प्रक्षिपति, अयं तृतीयः प्राजापत्यः । ‘एते’ प्राशित्राद्यन्वाहार्यांताः ‘षट् प्राजापत्याः’ प्रजापतिदेवताकाः । अथाष्टसंख्यान् उपरिष्टादाज्यभागानाह- त्रयो ऽनुयाजा इति । ‘अष्टमं’ अष्टसंख्यापूरकम् ॥ ११ ॥

Eggeling
  1. The fore-portion, the Iḍā, what he hands to the Agnīdh 13, the Brahman’s portion, the Sacrificer’s portion, and the Anvāhārya (mess of rice)–these are the six (portions) of Prajāpati. The three after-offerings, the four Patnīsaṁyājas, and, eighth, the Samishṭayajus–these are the eight butter-portions (offered) subsequently.

१२

विश्वास-प्रस्तुतिः

(०) अ᳘थ य᳘दपुरो ऽनुवा᳘क्यकाः[[!!]] प्रयाजा भ᳘वन्ति॥
त᳘स्मादिमाः᳘ प्रजा᳘ ऽअद᳘न्तका जायन्ते᳘ ऽथ य᳘त्पुरोनुवा᳘क्यवन्ति[[!!]] हवी᳘ᳫँ᳘षि भ᳘वन्ति त᳘स्मादासां जायन्ते ऽथ[[!!]] य᳘दपुरोऽनुवा᳘क्यका ऽअनुयाजा[[!!]] भ᳘वन्ति त᳘स्मादासां प्र᳘भिद्यन्ते᳘ ऽथ य᳘त्पुरोनुवा᳘क्यवन्तः[[!!]] पत्नीसंयाजा भ᳘वन्ति त᳘स्मादासाᳫँ᳭ सं᳘तिष्ठन्ते᳘ ऽथ य᳘दपुरोनुवा᳘क्यकᳫँ᳭[[!!]] समिष्टयजुर्भ᳘वति त᳘स्मादासां पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व ऽएव प्र᳘भिद्यन्ते᳘॥ शतम् ॥५७००॥

मूलम् - श्रीधरादि

(०) अ᳘थ य᳘दपुरो ऽनुवा᳘क्यकाः[[!!]] प्रयाजा भ᳘वन्ति॥
त᳘स्मादिमाः᳘ प्रजा᳘ ऽअद᳘न्तका जायन्ते᳘ ऽथ य᳘त्पुरोनुवा᳘क्यवन्ति[[!!]] हवी᳘ᳫँ᳘षि भ᳘वन्ति त᳘स्मादासां जायन्ते ऽथ[[!!]] य᳘दपुरोऽनुवा᳘क्यका ऽअनुयाजा[[!!]] भ᳘वन्ति त᳘स्मादासां प्र᳘भिद्यन्ते᳘ ऽथ य᳘त्पुरोनुवा᳘क्यवन्तः[[!!]] पत्नीसंयाजा भ᳘वन्ति त᳘स्मादासाᳫँ᳭ सं᳘तिष्ठन्ते᳘ ऽथ य᳘दपुरोनुवा᳘क्यकᳫँ᳭[[!!]] समिष्टयजुर्भ᳘वति त᳘स्मादासां पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व ऽएव प्र᳘भिद्यन्ते᳘॥ शतम् ॥५७००॥

मूलम् - Weber

अ᳘थ य᳘दपुरोऽनुवाक्य᳘काः प्रयाजा भ᳘वन्ति॥
त᳘स्मादिमाः᳘ प्रजा᳘ अद᳘न्तका जायन्ते᳘ऽथ य᳘त्पुरोऽनुवाक्य᳘वन्ति हवीं᳘षि भवन्ति त᳘स्मादासां जायन्ते᳘ऽथ य᳘दपुरोऽनुवाक्य᳘का अनुयाजा भ᳘वन्ति त᳘स्मादासाम् प्र᳘भिद्यन्ते᳘ऽथ य᳘त्पुरोऽनुवाक्य᳘वन्तः पत्नीसंयाजा भ᳘वन्ति त᳘स्मादासाᳫं सं᳘तिष्ठन्ते᳘ऽथ य᳘दपुरोऽनुवाक्य᳘कᳫं समिष्टयजुर्भ᳘वति त᳘स्मादासाम् पु᳘नरुत्तमे व᳘यसि स᳘र्व एव प्र᳘भिद्यन्ते॥

मूलम् - विस्वरम्

अथ यदपुरो ऽनुवाक्यकाः प्रयाजा भवंति । तस्मादिमाः प्रजा अदंतका जायंते । अथ यत्पुरो ऽनुवाक्यवंति हवींषि भवंति, तस्मादासां जायंते । अथ यदपुरो ऽनुवाक्यका अनुयाजा भवंति, तस्मादासां प्रभिद्यंते । अथ यत्पुरो ऽनुवाक्यवंतः पत्नीसंयाजा भवंति, तस्मादासां संतिष्ठंते । अथ यदपुरो ऽनुवाक्यकं समिष्टयजुर्भवति, तस्मादासां पुनरुत्तमे वयसि सर्व एव प्रभिद्यंते ॥ १२ ॥

सायणः

इत्थं प्रथमप्रश्नविषयमुक्त्वा द्वितीयेन प्रश्नेन पृष्टानाह- अथ यदपुरो ऽनुवाक्यका इति । यस्मात् पुरो ऽनुवाक्यारहिताः केवलं याज्यावंतः ‘प्रयाजा भवंति’ तस्मात् ‘इमाः’ उत्पद्यमानाः ‘प्रजा अदंतकाः’ दंतरहिताः ‘जायंते’ । यस्मात् ‘हवींषि’ आग्नेयादीनि अनुवाक्योपेतानि भवंति ‘तस्मादासां’ प्रजानां दंताः ‘जायंते’ । पुनरनुयाजा अनुवाक्यारहिता भवंतीति ‘यत्’ यस्मात् तस्मादुत्पन्ना दंताः ‘प्रभिद्यंते’ । पुनः ‘पत्नीसंयाजा’ अनुवाक्योपेता भवंतीति यत् ‘तस्मादासां’ प्रजानां पुनरुत्पन्ना दंताः ‘संतिष्ठते’ सम्यक् स्थिता भवंति । अथ समिष्टयजुराख्यं कर्म पुरो ऽनुवाक्यारहितमिति यत् ‘तस्मादासां’ प्रजानां ‘पुनरुत्तमे’ चरमे ‘वयसि’ ‘सर्वे एव’ दंताः प्रभिन्ना भवन्ति ॥ १२ ॥

Eggeling
  1. And inasmuch as the fore-offerings are without invitatory formulas 14, therefore creatures are horn here without teeth; and inasmuch as the chief oblations have invitatory formulas, therefore they (the teeth) grow in them; and inasmuch as the after-offerings are without invitatory formulas, therefore they (the teeth) decay in them; and inasmuch as the Patnīsaṁyājas as have invitatory formulas,

therefore they (the teeth) come to remain permanently with them; and inasmuch as the Samishṭayajus is without invitatory formula, therefore they all decay again in the last stage of life.

१३

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ य᳘दनुवा᳘क्यामनू᳘च्य॥
याज्य᳘या य᳘जति त᳘स्माद᳘धर ऽएवा᳘ग्रे जा᳘यन्ते ऽथो᳘त्तरे᳘ ऽथ य᳘द्गायत्री᳘मनू᳘च्य त्रिष्टुभा[[!!]] य᳘जति त᳘स्माद᳘णीयाᳫँ᳭स ऽएवा᳘धरे प्र᳘थीयाᳫँ᳭स ऽउ᳘त्तरे᳘ ऽथ यत्प्रा᳘ञ्चावाघारा᳘वाघार᳘यति त᳘स्माद्द᳘ᳫँ᳘ष्ट्रा व्व᳘र्षीयाᳫँ᳭सो᳘ ऽथ यत्स᳘च्छन्दसावेव᳘ संया᳘ज्ये भ᳘वतस्त᳘स्मात्समा᳘ ऽएव जं᳘भ्याः॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ य᳘दनुवा᳘क्यामनू᳘च्य॥
याज्य᳘या य᳘जति त᳘स्माद᳘धर ऽएवा᳘ग्रे जा᳘यन्ते ऽथो᳘त्तरे᳘ ऽथ य᳘द्गायत्री᳘मनू᳘च्य त्रिष्टुभा[[!!]] य᳘जति त᳘स्माद᳘णीयाᳫँ᳭स ऽएवा᳘धरे प्र᳘थीयाᳫँ᳭स ऽउ᳘त्तरे᳘ ऽथ यत्प्रा᳘ञ्चावाघारा᳘वाघार᳘यति त᳘स्माद्द᳘ᳫँ᳘ष्ट्रा व्व᳘र्षीयाᳫँ᳭सो᳘ ऽथ यत्स᳘च्छन्दसावेव᳘ संया᳘ज्ये भ᳘वतस्त᳘स्मात्समा᳘ ऽएव जं᳘भ्याः॥

मूलम् - Weber

अ᳘थ य᳘दनुवाॗक्यामनू᳘च्य॥
याज्य᳘या य᳘जति त᳘स्माद᳘धर एवा᳘ग्रे जा᳘यन्तेऽथो᳘त्तरे᳘ऽथ य᳘द्गायत्री᳘मनू᳘च्य त्रिष्टु᳘भा य᳘जति त᳘स्माद᳘णीयांस एवा᳘धरे प्र᳘थीयांस उ᳘त्तरे᳘ऽथ यत्प्रा᳘ञ्चावाघारा᳘वाघार᳘यति त᳘स्माद्दं᳘ष्ट्रा व᳘र्षीयांसो᳘ऽथ यत्स᳘छन्दसावेव᳘ संयाॗज्ये भ᳘वतस्त᳘स्मात्समा᳘ एव ज᳘म्भ्याः॥

मूलम् - विस्वरम्

अथ यदनुवाक्यामनूच्य याज्यया यजति । तस्मादधर एवाग्रे जायंते । अथोत्तरे । अथ यद्गायत्रीमनूच्य त्रिष्टुभा यजति । तस्मादणीयांस एवाधरे । प्रथीयांस उत्तरे । अथ यत्प्रांचावाघारावाघारयति, तस्माद्दंष्ट्रा वर्षीयांसः । अथ यत्सच्छंदसावेव संयाज्ये भवतः, तस्मात्समा एव जंभ्याः ॥ १३ ॥

सायणः

यस्मादधर एवाग्रे जायंते इत्यस्योत्तरमाह- अथ यदनुवाक्यामनूच्येति । ‘यत्’ यतः पूर्वमनुवाक्यावचनं अधरदंतानां प्रथमोत्पत्तौ निमित्तं, अनुवाक्याया गायत्रीरूपं न्यूनच्छंदस्त्वं तदणीयस्त्वनिमित्तं, याज्यानां पश्चात्प्रयोगः उपरितनदंतानां पश्चादुत्पत्तौ कारणं, याज्यानां त्रिष्टुप्छंदस्कत्वेनाप्येकादशाक्षरत्वं तत्प्रथीयस्त्वनिमित्तमित्यर्थः । ‘यस्मात् दंष्ट्रा वर्षीयांसः’ इत्यस्योत्तरमाह- अथ यत्प्रांचाविति । यद्यस्मात् कारणात् आघाराख्यौ होमौ ‘प्रांचौ’ प्रागपवर्गौ दीर्घधारया ‘आघारयति’ तस्मात्कारणात् दंष्ट्राख्या दंताः द्राघीयांसः । ‘अथ’ यद्यस्मात् कारणात् ‘संयाज्ये’ स्विष्टकृतो याज्यानुवाक्ये ‘सच्छंदसौ’ समानच्छंदस्कर्चां ‘भवतः’ । ते च- “पिप्रीहि देवान्,” “अग्ने यदद्य विशः” इत्यादी । ते ‘त्रिष्टुभौ’ 15 यस्मात् तस्मात् कारणात् ‘जंभ्याः’ दंताः ‘समाः’ समानाकृतयो भवंतीति ॥ १३ ॥

Eggeling
  1. And inasmuch as, after uttering the invitatory formula, he offers with the offering-formula, therefore the lower (teeth) grow first, then the upper ones; and inasmuch as, after uttering a gāyatrī verse as invitatory formula, he offers with a trishṭubh verse 16, therefore the lower (teeth) are smaller, and the upper ones broader; and inasmuch as he pours out the two libations of ghee in a forward direction 17, therefore the incisors are larger; and inasmuch as the two saṁyājyās 18 are in the same metre, therefore the molars are of equal size.

१४

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थ य᳘द्बर्हि᳘ स्तृणा᳘ति॥
त᳘स्मादिमाः᳘ प्रजा᳘ लोमशा᳘ जायन्ते᳘ ऽथ यत्पु᳘नरिव प्रस्तर᳘ᳫँ᳘ स्तृणा᳘ति त᳘स्मादासां पु᳘नरिव श्म᳘श्रूण्यौ᳘पपक्ष्याणि दु᳘र्बीरिणानि जायन्ते᳘ ऽथ यत्के᳘वलमेवा᳘ग्रे प्रस्तर᳘मनुप्रह᳘रति त᳘स्माच्छीर्ष᳘ण्येवा᳘ग्रे पलितो[[!!]] भ᳘वत्य᳘थ यत्स᳘र्व्वमेव᳘ बर्हि᳘रनुप्रह᳘रति[[!!]] त᳘स्मात्पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व ऽएव᳘ पलितो᳘ भवति॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थ य᳘द्बर्हि᳘ स्तृणा᳘ति॥
त᳘स्मादिमाः᳘ प्रजा᳘ लोमशा᳘ जायन्ते᳘ ऽथ यत्पु᳘नरिव प्रस्तर᳘ᳫँ᳘ स्तृणा᳘ति त᳘स्मादासां पु᳘नरिव श्म᳘श्रूण्यौ᳘पपक्ष्याणि दु᳘र्बीरिणानि जायन्ते᳘ ऽथ यत्के᳘वलमेवा᳘ग्रे प्रस्तर᳘मनुप्रह᳘रति त᳘स्माच्छीर्ष᳘ण्येवा᳘ग्रे पलितो[[!!]] भ᳘वत्य᳘थ यत्स᳘र्व्वमेव᳘ बर्हि᳘रनुप्रह᳘रति[[!!]] त᳘स्मात्पु᳘नरुत्तमे व्व᳘यसि स᳘र्व्व ऽएव᳘ पलितो᳘ भवति॥

मूलम् - Weber

अ᳘थ य᳘द्बर्हि᳘ स्तृणा᳘ति॥
त᳘स्मादिमाः प्रजा᳘ लोमशा᳘ जायन्ते᳘ऽथ यत्पु᳘नरिव प्रस्तर᳘ᳫं᳘ स्तृणा᳘ति त᳘स्मादासाम् पु᳘नरिव श्म᳘श्रूण्यौ᳘पपक्ष्याणि दु᳘र्बीरिणानि जायन्ते᳘ऽथ यत्के᳘वलमेवा᳘ग्रे प्रस्तर᳘मनुप्रह᳘रति त᳘स्माछीर्ष᳘ण्येवा᳘ग्रे पलितो᳘ भवत्य᳘थ 19 यत्स᳘र्वमेव᳘ बर्हि᳘रनुप्रहर᳘ति त᳘स्मात्पु᳘नरुत्तमे व᳘यसि स᳘र्व एव पलितो᳘ भवति॥

मूलम् - विस्वरम्

अथ यद्बर्हिः स्तृणाति; तस्मादिमाः प्रजा लोमशा जायंते । अथ यत्पुनरिव प्रस्तरं स्तृणाति; तस्मादासां पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायंते । अथ यत्केवलमेवाग्रे प्रस्तरमनुप्रहरति; तस्माच्छीर्षण्येवाग्रे पलितो भवति । अथ यत्सर्वमेव बर्हिरनुप्रहरति; तस्मात्पुनरुत्तमे वयसि सर्व एव पलितो भवति ॥ १४ ॥

सायणः

अथ ‘यस्मादिमाः प्रजाः लोमशा जायंते’ इत्यस्योत्तरमाह- अथ यद्बर्हिरिति । यद्यस्मात् वेद्यां ‘बर्हिः स्तृणाति’ स्तीर्यमाणं तद्बर्हिर्लोमस्थानीयम् । अत एवान्यत्राम्नातम्- “लोमानि बर्हिर्वेदः शिखा” (तै. आ. अन्तिमानुवाके) इति । श्मश्रूपपक्ष्यरोम्णां जन्मनः पुरस्तादुत्पत्तौ कारणमाह- अथ यत्पुनरिवेति । यद्यस्मात् कारणात् स्तीर्णे बर्हिषि ‘पुनरिव’ प्रस्तराख्यं दर्भमुष्टिं ‘स्तृणाति’ तस्मात् कारणात् ‘आसां’ प्रजानां पुनर्यौवने वयसि श्मश्रुप्रभृतीनि उत्पद्यंते । प्रथमं शिरस्येव पलिताविर्भावे निमित्तमाह- अथ यत् केवलमेवेति । यद्यस्मात् ‘अग्रे’ आदौ बर्हिषः प्रहरणात्पूर्वमेव ‘केवलं’ प्रस्तरमेव ‘अनुप्रहरति’ अनूच्यमाने सूक्तवाके अग्नौ प्रक्षिपति । तस्मादित्यादि सिद्धम् । अथ जीर्यदवस्थायां सर्वावयवेषु पलितत्वे कारणमाह- अथ यत्सर्वमेवेति । यद्यस्मात् समिष्टयजुर्होमकाले ‘सर्वं’ निःशेषमेव कृत्स्नं स्तीर्णं ‘बर्हिः’ अग्नौ ‘अनुप्रहरति’ । तस्मादित्यादि गतम् ॥ १४ ॥

Eggeling
  1. And inasmuch as he spreads a cover of sacrificial grass (on the Vedi), therefore creatures here are born with hair; and inasmuch as he for the second time, as it were, spreads the Prastara-bunch 20, therefore, for the second time, as it were, the hair of the beard and the arm-pits, and other parts of the body grow; and inasmuch as at first he only throws the Prastara-bunch after (the oblations into the fire), therefore it is on the head that one first becomes grey; and inasmuch as he then throws after it all the sacrificial grass of the altar-ground, therefore,

in the last stage of life, one again becomes grey all over.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यदा᳘ज्यहविषः प्रयाजा भ᳘वन्ति॥
त᳘स्मात्कुमार᳘स्य रे᳘तः सिक्तं न स᳘म्भवत्युदक᳘मिवैव᳘ भवत्युदक᳘मिव ह्या᳘ज्यम᳘थ यन्म᳘ध्ये यज्ञ᳘स्य दध्ना᳘ पुरोडा᳘शेने᳘ति चरन्ति त᳘स्मादस्य मध्यमे व्व᳘यसि स᳘म्भवति द्र᳘प्सीवैव᳘ भवति द्र᳘प्सीव हि रेतो᳘ ऽथ यदा᳘ज्यहविष ऽए᳘वानुयाजा भ᳘वन्ति त᳘स्मादस्य पु᳘नरुत्तमे व्व᳘यसि न स᳘म्भवत्युदक᳘मिवैव᳘ भवत्युदक᳘मिव ह्या᳘ज्यम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यदा᳘ज्यहविषः प्रयाजा भ᳘वन्ति॥
त᳘स्मात्कुमार᳘स्य रे᳘तः सिक्तं न स᳘म्भवत्युदक᳘मिवैव᳘ भवत्युदक᳘मिव ह्या᳘ज्यम᳘थ यन्म᳘ध्ये यज्ञ᳘स्य दध्ना᳘ पुरोडा᳘शेने᳘ति चरन्ति त᳘स्मादस्य मध्यमे व्व᳘यसि स᳘म्भवति द्र᳘प्सीवैव᳘ भवति द्र᳘प्सीव हि रेतो᳘ ऽथ यदा᳘ज्यहविष ऽए᳘वानुयाजा भ᳘वन्ति त᳘स्मादस्य पु᳘नरुत्तमे व्व᳘यसि न स᳘म्भवत्युदक᳘मिवैव᳘ भवत्युदक᳘मिव ह्या᳘ज्यम्॥

मूलम् - Weber

अ᳘थ यदा᳘ज्यहविषः 21 प्रयाजा भ᳘वन्ति॥
त᳘स्मात्कुमार᳘स्य रे᳘तः सिक्तं न स᳘म्भवत्युदक᳘मिवैव᳘ भवत्युदक᳘मिव ह्या᳘ज्यम᳘थ यन्म᳘ध्ये यज्ञ᳘स्य दध्ना᳘ पुरोडा᳘शेने᳘ति यजन्ति त᳘स्मादस्य मध्यमे व᳘यसि स᳘म्भवति द्रॗप्सीवैव᳘ भवति द्रॗप्सीव हि रेतो᳘ऽथ यदा᳘ज्यहविष एॗवानुयाजा भ᳘वन्ति त᳘स्मादस्य पु᳘नरुत्तमे व᳘यसि न स᳘म्भवत्युदक᳘मिवैव᳘ भवत्युदक᳘मिव ह्या᳘ज्यम्॥

मूलम् - विस्वरम्

अथ यदाज्यहविषः प्रयाजा भवंति; तस्मात्कुमारस्य रेतः सिक्तं न संभवति, उदकमिवैव भवति, उदकमिव ह्याज्यम् । अथ यन्मध्ये यज्ञस्य दध्ना पुरोडाशेनेति चरंति; तस्मादस्य मध्यमे वयसि संभवति, द्रप्सीवैव भवति, द्रप्सीव हि रेतः । अथ यदाज्यहविष एवानुयाजा भवंति; तस्मादस्य पुनरुत्तमे वयसि न संभवति, उदकमिवैव भवति, उदकमिव ह्याज्यम् ॥ १५ ॥

सायणः

अथ यस्मात् कुमारस्य रेतः सिक्तं न संभवतीत्यादेः प्रश्नस्योत्तरमाह- अथ यदाज्यहविष इति । अथेत्यारंभे । यद्यस्मात्प्रयाजाः ‘आज्यहविषः’ आज्यहविष्का भवंति, ‘तस्मात्कुमारस्य रेतः’ उदकात्मना स्रवति; न तु देहरूपेण घनीभवतीत्यर्थः । अथ मध्यमे वयसि रेतसो देहरूपपरिणामे कारणमाह- अथ यन्मध्य इति । ‘यज्ञस्य’ दर्शपूर्णमासाख्यस्य ‘मध्ये’ मध्यभागे ‘दध्ना’ सान्नाय्येन । इतिशब्दश्चार्थे । आग्नेयादि- ‘पुरोडाशेन’ च ‘चरंति’ यजंति ‘तस्मात्’ कारणात् । गतमन्यत् । उक्त कार्यकारणभावं योजयति- द्रप्सीवैव भवतीति । एवशब्दश्चार्थे । आग्नेयादिपुरोडाशे तद्दध्यादिहविः ‘द्रप्सीव’ द्रप्साः घनीभूता बिंदवः तद्युक्तमेव भवति । पुनश्च ‘रेतः’ सिक्तमपि ‘द्रप्सीव’ द्रप्सयुक्तमिव भवति । यस्मादेवमनयोः साम्यं तस्मान्मध्यगतदध्यादियोगेन मध्यमवयस्कस्य रेतः द्रप्सयुक्तं सर्वशरीराकारेण घनीभवतीत्यर्थः । चरमे वयसि निषिक्तरेतसः प्रजारूपानुत्पत्तौ कारणमाह- अथ यदाज्यहविष एवानुयाजा इति । यद्यस्मात् कारणात् प्रधानयागानंतरम् अनुष्ठेयाः अनुयाजाख्या यागाः प्रयाजवत् पुनः ‘आज्यहविष एव’ ‘भवंति’ तस्मात् कारणात् अस्य पुरुषस्य बाल्ये वयसीव पुनरपि ‘उत्तमे’ चरमे ‘वयसि’ रेतः शरीराकारेण नोत्पद्यते । पूर्ववदेव तदुपपादयति- उदकमिवैवेति । सिद्धमेतत् ॥ १५ ॥

Eggeling
  1. And inasmuch as the fore-offerings have ghee for their offering-material, a boy’s seed is not productive, but is like water, for ghee is like water; and inasmuch as, in the middle of the sacrifice, they sacrifice with sour curds 22 and with cake, therefore it is productive in his middle stage of life, for thick-flowing, as it were, is (that havis), and thick-flowing, as it were, is seed; and inasmuch as the after-offerings have ghee for their offering-material, it again is not productive in his last stage of life, and is like water, for ghee, indeed, is like water.

१६

विश्वास-प्रस्तुतिः

(म्वे᳘) व्वे᳘दिरेव᳘ गायत्री[[!!]]॥
त᳘स्यै᳘ ये ऽष्टौ᳘ पुर᳘स्तादा᳘ज्यभागाः स द᳘क्षिणः पक्षो᳘ ये ऽष्टा᳘ ऽउप᳘रिष्टादा᳘ज्यभागाः स ऽउ᳘त्तरः पक्षः᳘[[!!]] सैषा᳘ गायत्री ह᳘रिणी ज्यो᳘तिष्पक्षा य᳘जमानᳫँ᳭ स्वर्गं᳘ लोक᳘मभि᳘वहति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(म्वे᳘) व्वे᳘दिरेव᳘ गायत्री[[!!]]॥
त᳘स्यै᳘ ये ऽष्टौ᳘ पुर᳘स्तादा᳘ज्यभागाः स द᳘क्षिणः पक्षो᳘ ये ऽष्टा᳘ ऽउप᳘रिष्टादा᳘ज्यभागाः स ऽउ᳘त्तरः पक्षः᳘[[!!]] सैषा᳘ गायत्री ह᳘रिणी ज्यो᳘तिष्पक्षा य᳘जमानᳫँ᳭ स्वर्गं᳘ लोक᳘मभि᳘वहति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

वे᳘दिरेव᳘ गायत्री᳟॥
त᳘स्यैॗ येऽष्टौ᳘ पुर᳘स्तादा᳘ज्यभागाः स द᳘क्षिणः पक्षोॗ येऽष्टा᳘ उप᳘रिष्टादा᳘ज्यभागाः स उ᳘त्तरः पॗक्षः सैषा᳘ गायत्री ह᳘रिणी ज्यो᳘तिष्पक्षा य᳘जमानᳫं स्वर्गं᳘ लोक᳘मभि᳘वहति य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

वेदिरेव गायत्री । तस्यै ये ऽष्टौ पुरस्तादाज्यभागाः; स दक्षिणः पक्षः । ये ऽष्टा उपरिष्टादाज्यभागाः; स उत्तरः पक्षः । सैषा गायत्री हरिणी ज्योतिष्पक्षा, यजमानं स्वर्गं लोकमभिवहति । य एवमेतद्वेद ॥ १६ ॥

सायणः

यो गायत्रीमिति प्रश्नस्योत्तरमाह- वेदिरेव गायत्रीति । ज्योतिष्पक्षरूपा या पूर्वं पृष्टा गायत्री सा ‘वेदिरेव’ । तस्याः पक्षादिकं संपादयति- तस्यै ये ऽष्टाविति । आघारादयः ‘ये ऽष्टौ पुरस्तादाज्यभागाः’ अनुक्रांताः ‘तस्यै’ षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ बा.) इति । ‘तस्याः’ गायत्र्याः ‘स दक्षिणः पक्षः’ । ‘उपरिष्टादाज्यभागाः’ अनुयाजादयः ‘ये अष्टौ’ च अनुक्रांताः ‘स उत्तरः पक्षः’ । ‘सैषा’ वेदिरूपा ‘गायत्री’ ‘हरिणी’ अभितो दीप्यमानैरग्निभिर्हरितवर्णा ‘ज्योतिष्पक्षा’ ज्योतिर्मयाहुत्यात्मकपक्षोपेता सती ‘यजमानं स्वर्गं लोकमभिवहति’ अभिलक्ष्य प्रापयति । एतत् कृत्स्नफलं ब्राह्मणार्थवेदिन इत्याह- य एवमेतद्वेदेति । ‘एवं’ उक्तेन प्रकारेण अष्टौ पुरस्तादाज्यभागानित्यादिनोक्तमर्थजातं ‘यः’ यजमानः ‘वेद’ तमेवोपासकमेव गायत्री स्वर्गं वहतीत्यर्थः ॥ १६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे चतुर्थे ऽध्याये प्रथमं ब्राह्मणम् ॥ (११-४-१) ॥

Eggeling
  1. The Vedi (altar-ground), doubtless, is the Gāyatrī: the eight butter-portions (offered) previously are her right wing, and the eight butter-portions (offered) subsequently are her left wing: that same golden, brilliant-winged Gāyatrī, indeed, bears the Sacrificer who knows this to the heavenly world.

  1. उदीच्यां᳘न्वृतो᳘ AP. ↩︎

  2. 50:3 For another version of this legend see Gopatha-Brāhmaṇa I, 3, 6. See also Prof. Geldner’s translation in Pischel and G.’s Vedische Studien II, p. 185. ↩︎

  3. 50:4 Prof. Geldner takes ‘dhāvayāṁ cakāra in a causal sense , ’er verursachte einen Anflauf’ (he caused people to crowd together, or to come to him in crowds). Sāyaṇa, however, takes it in the same sense as we have. done,–ārtvijyāya vr̥taḥ sann udagdeśān jagāma. The Gopatha-Br., further on, has the remark ‘sa vai gotamasya putra ūrdhvaṁ vr̥todhāvīt’ (!). ↩︎

  4. 51:1 It is by no means certain whether the interpretation of the paragraph as here adapted is the right one. Prof. Geldner takes it thus,–‘He (Udd.) had taken a gold piece with him; for in times of old the chosen (priests) who caused a crowd to gather round them, used to take a single gold piece with them with a view to their proposing a riddle (or problem) whenever they were afraid.’ The Gopatha-Br. has a different reading, which is likewise far from clear:–tasya ha nishka upāhito babhūva, upavādād bibhyato yo ma brāhmaṇonūcāna upavadishyati tasmā etam pradāsyāmīti;–by him a gold coin was offered (? by him a gold plate had been put on, i.e. was worn round the neck) being afraid of obloquy (?): ‘I shall give this to any learned Brahman who will speak up against me,’ thus (he thought). ↩︎

  5. 51:2 Or, I’ll just find out what kind of man he is. ↩︎

  6. 52:1 Literally, who knows that (element) in the Full and New-moon sacrifices whereby . . . ↩︎

  7. दुर्वीरणानि Sây. ↩︎

  8. 52:2 The word ‘durbīriṇāni’ is of doubtful meaning, the etymology proposed by Sāyaṇa having little claim to being seriously considered. In the St. Petersb. Dict. the meaning ‘bristly’ is assigned to it, as applied to the hair of the beard. ↩︎

  9. 53:1 Sāyaṇa takes ‘upaguhya’ in the sense of ‘having embraced (him),’ that being the meaning the verb has in classical Sanskrit;–taṁ Svaidāyanam upaguhya āliṅgya Uddālakas tasmāt sthānān niścakrāma nishkrāntavān. The Gopatha-Br. has ’tad upayamya’ (having taken it) instead. Svaidāyana evidently did not wish the other Brahmans to know that he had had the better of the Kurupañcāla. ↩︎

  10. 53:2 ? Or, to catechize him; Brahma svayaṁ vedādyaḥ brahmaputro brahmishṭḥasya Gotamasya putra ity etad yathāvr̥ttam eva, api to yaḥ purusha enam Uddālakam upavalheta pradhānaṁ śreshṭḥyaṁ (? śreshṭḥaṁ) kuryāt–varha valha prādhānya iti dhātuḥ–asya purushasya mūrdhā vipatet, alpajñānasya ādhikyena viparyayagrahaṇāt tannimitta-śiraḥpatanam bhavatīty arthaḥ, Sāy.–Prof. Geldner translates,–‘He must rack his brains (muss sich den Kopf zerbrechen) who wants to outdo him in questions (überfragen).’ ↩︎

  11. 54:1 That is, as a pupil (brahmacārin) would to his teacher. ↩︎

  12. शतपथश्रुतिमूलककात्यायनश्रौतसूत्रक्रमेण- न चतुर्द्धाकृतः पुरोडाशभागः प्राजापत्यो भवितुमर्हति । तदितरेषां ब्रह्मादिचतुर्द्धाकृतानां प्राजापत्यत्वानुक्तेः । ब्रह्मभागो यजमानभाग इति भागसाहित्यात् अग्नीत्संप्रदानकः षडवत्तभागस्तृतीयः प्राजापत्यः । तथा च सूत्रक्रमः “संचरमभ्युक्ष्य प्राशित्रमवद्यति यवमात्रं पिप्पलमात्रं वा अन्यतरत आज्यमुभयतो वा ऽऽग्नेयात् । भागांश्च” इत्युपक्रम्य “द्यावापृथिव्योरुपह्वाने ऽग्नीधे षडवत्तम्” इति । अत्र कर्कभाष्ये उपन्यस्ता श्रुतिः “अथ यत्राहोपहूते द्यावापृथिवी इति तदग्नीध आदधाति” (का. श्रौ. सू. ३ । ७२ । ७३ । ८८) इति हि श्रूयत इति । अत्रापि “यच्चाग्नीध आदधाति” इति श्रुतिः । उभे अपि श्रुत्यौ समानतिङन्ते इति ॥ ↩︎

  13. 54:2 Viz. the ‘shaḍavatta,’ or share consisting of six ‘cuttings,’ for which see I, 8, 1, 41 with note. ↩︎

  14. 54:3 With these oblations there is no puronuvākyā, but only a yājyā, or offering-formula. ↩︎

  15. तथा ऽऽह हौत्रपरिशिष्टे कात्यायनः- “त्रिष्टुभावृतुवत्यौ संयाज्ये, पिप्रीहि देवाँ उशतो यविष्ठाग्ने यदद्य विशो अध्वरस्य” इति दर्शयागे । पौर्णमासे तु- विराजौ संयाज्ये, प्रेद्धौ अग्ने, इमो अग्ने इति ॥ ↩︎

  16. 55:1 Whilst the gāyatrī verse consists of 3 × 8 syllables, the trishṭubh has 4 × 11 syllables. ↩︎

  17. 55:2 That is, pouring the second into the fire at a place immediately to the front, or eastward, of the first. ↩︎

  18. 55:3 That is, the invitatory and offering-formulas used for the oblation to Agni Svishṭakr̥t; see part i, p. 307, note 1. ↩︎

  19. पलितो भ᳘वत्य᳘थ AP. ↩︎

  20. 55:4 For this bunch taken from the sacrificial grass before it is spread on the altar-ground, and symbolically representing the Sacrificer, see I, 3, 3, 4 seqq.; and part i, p. 84, note 2. ↩︎

  21. यदा᳘ज्यहविषा ए᳘वानु A. ↩︎

  22. 56:1 That is, at the New-moon sacrifice, with the Sānnāyya, or mixture of sour curds with sweet boiled milk. The ‘iti’ after ‘puroḍāśena’ is taken by Sāyaṇa in the sense of ‘ca’; and though this cannot be accepted, it is not very easy to see what force it can have here. ↩︎