०१

विश्वास-प्रस्तुतिः

ब्र᳘ह्म वै᳘ मृत्य᳘वे प्रजाः प्रा᳘यच्छत्॥
(त्त᳘) त᳘स्मै ब्रह्मचारि᳘णमेव न᳘ प्रा᳘यच्छ᳘त्सो ऽब्रवीद᳘स्तु म᳘ह्यम᳘प्येत᳘स्मिन्भाग ऽइ᳘ति या᳘मेव रा᳘त्रिᳫँ᳭ समि᳘धं᳘ नाह᳘राता ऽइ᳘ति त᳘स्माद्याᳫँ᳭ रा᳘त्रिम्ब्रह्मचारी᳘ समि᳘ध᳘न्नाह᳘रत्या᳘युष ऽएव ता᳘मवदा᳘य व्वसति त᳘स्माद्ब्रह्मचारी᳘ समि᳘धमा᳘हरेन्नेदा᳘युषो ऽवदा᳘य व्वसानी᳘ति॥

मूलम् - श्रीधरादि

ब्र᳘ह्म वै᳘ मृत्य᳘वे प्रजाः प्रा᳘यच्छत्॥
(त्त᳘) त᳘स्मै ब्रह्मचारि᳘णमेव न᳘ प्रा᳘यच्छ᳘त्सो ऽब्रवीद᳘स्तु म᳘ह्यम᳘प्येत᳘स्मिन्भाग ऽइ᳘ति या᳘मेव रा᳘त्रिᳫँ᳭ समि᳘धं᳘ नाह᳘राता ऽइ᳘ति त᳘स्माद्याᳫँ᳭ रा᳘त्रिम्ब्रह्मचारी᳘ समि᳘ध᳘न्नाह᳘रत्या᳘युष ऽएव ता᳘मवदा᳘य व्वसति त᳘स्माद्ब्रह्मचारी᳘ समि᳘धमा᳘हरेन्नेदा᳘युषो ऽवदा᳘य व्वसानी᳘ति॥

मूलम् - Weber

ब्र᳘ह्म वै᳘ मृत्य᳘वे प्रजाः प्रा᳘यछत्॥
त᳘स्मै ब्रह्मचारि᳘णमेव न᳘ प्रा᳘यछॗत्सोऽब्रवीद᳘स्तु म᳘ह्यम᳘प्येत᳘स्मिन्भाग इ᳘ति या᳘मेव रा᳘त्रिᳫं समिॗधं नाह᳘राता इ᳘ति त᳘स्माद्यां रा᳘त्रिम् ब्रह्मचारी᳘ समिॗधं नाह᳘रत्या᳘युष एव ता᳘मवदा᳘य वसति त᳘स्माद्ब्रह्मचारी᳘ समि᳘धमा᳘हरेन्नेदा᳘युषोऽवदा᳘य वसानी᳘ति॥

मूलम् - विस्वरम्

ब्रह्मचारिधर्मनिरूपकं ब्राह्मणम् ।

ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् । तस्मै ब्रह्मचारिणमेव न प्रायच्छत् । सो ऽब्रवीत् । अस्तु मह्यमप्येतस्मिन् भाग इति । यामेव रात्रिं समिधं नाहराता इति । तस्माद्यां रात्रिं ब्रह्मचारी समिधं नाहरति । आत्यायुष एव तामवदाय वसति । तस्मात् ब्रह्मचारी समिधमाहरेत् । नेत् आयुषो ऽवदाय वसानीति ॥ १ ॥

सायणः

अथाग्निहोत्रादिनियमप्रसंगादागतं ब्रह्मचारिधर्मं निरूपयितुमाख्यायिकामाह- ब्रह्म वै मृत्यव इति । जगत्कारणं ‘ब्रह्म’ सर्वाः ‘प्रजाः’ सृष्टा तस्मै ‘मृत्यवे’ ताः ‘प्रजाः’ ‘प्रायच्छत्’ । ‘तस्मै’ ब्रह्मचारिणमेकमेव ‘न प्रायच्छत्’ । ‘सः’ मृत्युरब्रवीत् ‘एतस्मिन्’ ब्रह्मचारिण्यपि ‘मह्यं’ भागो ऽस्त्विति । ततो ब्रह्मणा उक्तम्- ‘यामेव रात्रिं’ असौ ब्रह्मचारी ‘समिधं’ ‘नाहरातै’ समिदाहरणमग्न्यर्थं न कुर्यात् । सा रात्रिस्तव भागो ऽस्त्विति । इत्थमाख्यायिकासिद्धमर्थं श्रुतिः स्वयमेव व्याचष्टे- तस्माद्यां रात्रिमिति । यस्मादेवं ब्रह्मणा भागत्वेन परिकल्पितं ‘तस्मात्’ ‘यां रात्रिं’ ‘ब्रह्मचारी’ समिधमग्न्यर्थं नाहरति ‘आयुषः’ सकाशादेव तां रात्रिमवदायावखंड्य ‘वसति’ । यस्मादेवं दोषः, ‘तस्माद्ब्रह्मचारी’ सर्वदा रात्रौ ‘समिधमाहरेत्’ नैवायुषो जीवनात् तां रात्रिमवखंड्य वसानीत्यभिप्रायेण ॥ १ ॥

Eggeling
  1. The Brahman delivered the creatures over to Death, the Brahmacārin (religious student) alone it did not deliver over to him. He (Death) said, ‘Let me have a share in this one also.’–‘Only the night on which he shall not bring his 1 fire-wood,’ said (the Brahman). On whatever night, therefore, the Brahmacārin does not bring fire-wood, that

(night) he passes 2 cutting it off from his own life: therefore the Brahmacārin should bring fire-wood, lest he should pass (his nights) cutting off (as much) from his life.

०२

विश्वास-प्रस्तुतिः

दीर्घसत्रं वा᳘ ऽएष ऽउ᳘पैति॥
यो᳘ ब्रह्मच᳘र्य्यमुपै᳘ति स या᳘मुपय᳘न्त्समि᳘धमाद᳘धाति सा᳘ प्रायणी᳘या या᳘ᳫँ᳘ स्नास्य᳘न्त्सोदयनीया᳘ ऽथ या ऽअं᳘तरेण स᳘त्र्या ऽए᳘वास्य ता᳘ ब्राह्मणो᳘ ब्रह्मच᳘र्य्यमुपय᳘न्॥

मूलम् - श्रीधरादि

दीर्घसत्रं वा᳘ ऽएष ऽउ᳘पैति॥
यो᳘ ब्रह्मच᳘र्य्यमुपै᳘ति स या᳘मुपय᳘न्त्समि᳘धमाद᳘धाति सा᳘ प्रायणी᳘या या᳘ᳫँ᳘ स्नास्य᳘न्त्सोदयनीया᳘ ऽथ या ऽअं᳘तरेण स᳘त्र्या ऽए᳘वास्य ता᳘ ब्राह्मणो᳘ ब्रह्मच᳘र्य्यमुपय᳘न्॥

मूलम् - Weber

दीर्घसत्त्रं वा᳘ एष उ᳘पैति॥
यो᳘ ब्रह्मच᳘र्यमुपै᳘ति स या᳘मुपय᳘न्त्समि᳘धमाद᳘धाति सा᳘ प्रायणी᳘या या᳘ᳫं᳘ स्नास्यॗन्त्सोदयनीया᳘थ या अ᳘न्तरेण सॗत्त्र्या 3 एॗवास्य ता᳘ ब्राह्मणो᳘ ब्रह्मच᳘र्यमुपय᳘न्॥

मूलम् - विस्वरम्

दीर्घसत्रं वा एष उपैति । यो ब्रह्मचर्यमुपैति । स यामुपयन् समिधमादधाति; सा प्रायणीया । यां स्नास्यन्; सोदयनीया । अथ या अंतरेण सत्र्या एवास्य ताः । ब्राह्मणो ब्रह्मचर्यमुपयन् ॥ २ ॥

सायणः

ब्रह्मचर्यधर्माचरणं सत्रयागात्मना निरूपयति- दीर्घसत्रं वा एष उपैतीति । दीर्घं चिरसाध्यं सत्रं यागः ‘दीर्घसत्रं’ । ‘यः’ ब्रह्मचर्याश्रमविहितं कर्म ‘ब्रह्मचर्यं’ तद्ब्रह्मचर्यमुपैति ‘एषः’ दीर्घसत्रमेवोपैति उपगच्छति । तत्र प्रायणीयोदयनीये संपादयति- स यामुपयन्निति । ‘उपयन्’ प्रथमं गुरुसमीपमुपगच्छन् उपनयनकाले ‘यां’ समिधमग्नावादधाति सैव समित्प्रायणीयेष्टिः । ‘स्नास्यन्’ स्नानं करिष्यन् ‘यां’ समिधमादधाति सैव समित् उदयनीयेष्टिः । ‘अथ’ ‘याः’ समिधः ‘अंतरेण’ तयोर्मध्ये अग्नावादधाति । ‘ताः’ ‘सत्र्याः’ सत्रियाः सत्रसंबंधिन्यः समिधः । एवं समिदाधानं 4 सत्रयागात्मना स्तुत्वा आत्मनिष्क्रयहेतुत्वेनापि स्तौति- ब्राह्मणो ब्रह्मचर्यमुपयन्निति । ‘उपयन्’ उपगच्छन् ‘चतुर्धा’ चतुर्विधेन ‘पदा’ पादेन चतुर्थांशेन ‘आचार्यं’ सावित्रीप्रदानपुरःसरं अध्यापयितारम् । स्मर्यते हि- “उपनीय गुरुः शिष्यं वेदमध्यापयेत् द्विजम् । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते” (म. स्मृ. २ । १४० ।) इति । आत्मन्येवेत्यादि । ‘आत्मनि’ स्वस्मिन्नेव ‘अस्य’ ब्रह्मचारिणः ‘चतुर्थः पादः परिशिष्यते’ अतः स्वरूपहानिशंका न कार्येति भावः ॥ २ ॥ ३ ॥

Eggeling
  1. He who enters on a Brahmacārin’s life, indeed, enters on a long sacrificial session: the log he puts on the fire in entering thereon is the opening (offering), and that which (he puts on the fire) when he is about to bathe 5 is the concluding (offering); and what (logs) there are between these, are just his (logs) of the sacrificial session. When a Brāhmaṇa enters on a Brahmacārin’s life–

०३

विश्वास-प्रस्तुतिः

(यं᳘श्च) चतुर्द्धा᳘ भूता᳘नि प्र᳘विशति॥
(त्य) अग्नि᳘म्पदा᳘ मृत्यु᳘म्प᳘दा ऽऽचार्य्यम्प᳘दा ऽऽत्म᳘न्ये᳘वास्य चतुर्थः पा᳘दः प᳘रिशिष्यते॥

मूलम् - श्रीधरादि

(यं᳘श्च) चतुर्द्धा᳘ भूता᳘नि प्र᳘विशति॥
(त्य) अग्नि᳘म्पदा᳘ मृत्यु᳘म्प᳘दा ऽऽचार्य्यम्प᳘दा ऽऽत्म᳘न्ये᳘वास्य चतुर्थः पा᳘दः प᳘रिशिष्यते॥

मूलम् - Weber

चतुर्धा᳘ भूता᳘नि प्र᳘विशति॥
अग्नि᳘म् पदा᳘ मृत्यु᳘म् पॗदाचार्य᳘म् पॗदात्म᳘न्येॗवास्य चतुर्थः पा᳘दः प᳘रिशिष्यते॥

मूलम् - विस्वरम्

चतुर्द्धा भूतानि प्रविशति । अग्निं पदा । मृत्युं पदा । आचार्यं पदा । आत्मन्येवास्य चतुर्थः पादः परिशिष्यते ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. He enters beings in four parts: with one fourth part (he enters) the fire, with another part death, with another part his religious teacher; and his fourth part remains in his own self.

०४

विश्वास-प्रस्तुतिः

स य᳘दग्न᳘ये समि᳘धमाह᳘रति॥
य᳘ ऽए᳘वास्याग्नौ पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्यात्म᳘न्धत्ते स᳘ ऽएनमा᳘विशति᳘॥

मूलम् - श्रीधरादि

स य᳘दग्न᳘ये समि᳘धमाह᳘रति॥
य᳘ ऽए᳘वास्याग्नौ पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्यात्म᳘न्धत्ते स᳘ ऽएनमा᳘विशति᳘॥

मूलम् - Weber

स य᳘दग्न᳘ये समि᳘धमाह᳘रति॥
य᳘ एॗवास्याग्नौ पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫं᳘ संस्कृ᳘त्यात्म᳘न्धत्ते स᳘ एनमा᳘!विशति॥

मूलम् - विस्वरम्

स यदग्नये समिधमाहरति । य एवास्याग्नौ पादः, तमेव तेन परिक्रीणाति । तं संस्कृत्यात्मन् धत्ते । स एनमाविशति ॥ ४ ॥

सायणः

तत्र समिदाधानेनाग्नौ प्रविष्टस्य चतुर्थांशस्य परिक्रयं दर्शयति- स यदग्नय इति । ‘परिक्रीणाति’ समिधो मूल्यत्वेन अग्नये समर्प्य स्वकीयं तुरीयमंशं पुनरादत्ते । यतः ‘पदा’ अंशेन समिदाधानेन च ‘संस्कृत्य’ उत्कृष्टं कृत्वा पुनः ‘आत्मन्’ आत्मनि स्वरूपे धारयति । स भागो ऽप्यग्नेः सकाशात् प्रतिनिवृत्य ‘एनं’ ब्रह्मचारिणम् ‘आविशति’ ॥ ४ ॥

Eggeling
  1. Now, when he brings a log for the fire, he redeems that fourth part of his which is in the fire; and having cleansed 6 it, he takes it to his own self, and it enters him.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दात्मा᳘नं दरिद्रीकृ᳘त्येव᳘॥
(वा᳘ ऽ) अ᳘ह्रीर्भूत्वा भि᳘क्षते य᳘ ऽए᳘वास्य मृत्यौ पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्यात्म᳘न्धत्ते स᳘ ऽएनमा᳘विशति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दात्मा᳘नं दरिद्रीकृ᳘त्येव᳘॥
(वा᳘ ऽ) अ᳘ह्रीर्भूत्वा भि᳘क्षते य᳘ ऽए᳘वास्य मृत्यौ पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्यात्म᳘न्धत्ते स᳘ ऽएनमा᳘विशति॥

मूलम् - Weber

अ᳘थ य᳘दात्मा᳘नं दरिद्रीकृ᳘त्येव᳟॥
अ᳘ह्रीर्भूत्वा भि᳘क्षते य᳘ एॗवास्य मृत्यौ पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫं᳘ संस्कृ᳘त्यात्म᳘न्धत्ते स᳘ एनमा᳘विशति॥

मूलम् - विस्वरम्

अथ यदात्मानं दरिद्रीकृत्येवाह्रीर्भूत्वा भिक्षते । य एवास्य मृत्यौ पादः, तमेव तेन परिक्रीणाति । तं संस्कृत्यात्मन् धत्ते । स एनमाविशति ॥ ५ ॥

सायणः

मृत्यौ प्रविष्टस्य पादस्य परिक्रयार्थत्वेन भिक्षाचर्यं विधत्ते- अथ यदात्मानमिति । ‘अथ’ उपनयनानंतरम् ‘आत्मानं’ ‘दरिद्रीकृत्य’ दरिद्रमिव कृत्वा ‘अह्रीः’ लज्जारहितः ‘भूत्वा’ ‘भिक्षेत’ 7 वृत्त्यर्थं याचेत । य एवास्येत्यादि पूर्ववद्योज्यम् ॥ ५ ॥

Eggeling
  1. And when, having made himself poor, as it were, and become devoid of shame, he begs alms, then he redeems that part of his which is in death;

and, having cleansed it, he takes it to himself, and it enters him.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दाचार्य्यवचसं᳘ करो᳘ति॥
य᳘दाचा᳘र्य्याय क᳘र्म्म करो᳘ति य᳘ ऽए᳘वास्याचा᳘र्य्ये पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्यात्म᳘न्धत्ते स᳘ ऽएनमा᳘विशति᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दाचार्य्यवचसं᳘ करो᳘ति॥
य᳘दाचा᳘र्य्याय क᳘र्म्म करो᳘ति य᳘ ऽए᳘वास्याचा᳘र्य्ये पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्यात्म᳘न्धत्ते स᳘ ऽएनमा᳘विशति᳘॥

मूलम् - Weber

अ᳘थ य᳘दाचार्यवचसं᳘ करोति॥
य᳘दाचाॗर्याय क᳘र्म करो᳘ति य᳘ एॗवास्याचाॗर्ये पा᳘दस्त᳘मेव ते᳘न प᳘रिक्रीणाति त᳘ᳫं᳘ संस्कृ᳘त्यान्म᳘न्धत्ते स᳘ एनमा᳘विशति॥

मूलम् - विस्वरम्

अथ यदाचार्यवचसं करोति । यदाचार्याय कर्म करोति । य एवास्याचार्ये पादः, तमेव तेन परिक्रीणाति । तं संस्कृत्यात्मन् धत्ते । स एनमाविशति ॥ ६ ॥

सायणः

आचार्यगतस्य पादस्य तत्परिचर्यया परिक्रयणं दर्शयति- अथ यदाचार्यवचसमिति । आचार्यवाक्यं तत्र युक्तायुक्तचिन्ता न कार्येत्यर्थः । तथा तस्मै ‘आचार्याय’ पादसंवाहनादिलक्षणं परिचर्यारूपं ‘कर्म करोति’ इति च यदस्ति तेनेति संबंधः । गतमन्यत् ॥ ६ ॥

Eggeling
  1. And when he does the teacher’s bidding, and when he does any work for the teacher, he redeems that part of his which is in the teacher; and, having cleansed it, he takes it to himself, and it enters him.

०७

विश्वास-प्रस्तुतिः

न᳘ ह वै᳘ स्नात्वा᳘ भिक्षेत᳘॥
(ता᳘) अ᳘प ह वै᳘ स्नात्वा᳘ भिक्षां᳘ जयत्य᳘प ज्ञातीना᳘मशनायाम᳘प पितॄणाᳫँ᳭ स᳘ ऽएवं᳘ व्विद्वान्य᳘स्या ऽएव भू᳘यिष्ठᳫँ᳭ श्ला᳘घेत तां᳘ भिक्षेते᳘त्याहुस्त᳘ल्लोक्यमि᳘ति[[!!]] स य᳘द्यन्यां᳘ भिक्षित᳘व्यान्न᳘ व्विन्देद᳘पि स्वा᳘मे᳘वाचार्य्यजायां᳘ भिक्षेता᳘थो स्वा᳘म्मात᳘र᳘न्नैनᳫँ᳭[[!!]] सप्तम्य᳘भिक्षिता᳘ ऽतीयात्त᳘मेवं᳘ व्विद्वा᳘ᳫँ᳘समेवं च᳘रंतᳫँ᳭ स᳘र्व्वे व्वे᳘दा ऽआ᳘विशंति य᳘था ह वा᳘ ऽअग्निः स᳘मिद्धो रो᳘चत ऽएव᳘ᳫँ᳘ ह वै स᳘ स्नात्वा᳘ रोचते य᳘ ऽएवं᳘ व्विद्वा᳘न् ब्रह्मच᳘र्य्यं च᳘रति॥

मूलम् - श्रीधरादि

न᳘ ह वै᳘ स्नात्वा᳘ भिक्षेत᳘॥
(ता᳘) अ᳘प ह वै᳘ स्नात्वा᳘ भिक्षां᳘ जयत्य᳘प ज्ञातीना᳘मशनायाम᳘प पितॄणाᳫँ᳭ स᳘ ऽएवं᳘ व्विद्वान्य᳘स्या ऽएव भू᳘यिष्ठᳫँ᳭ श्ला᳘घेत तां᳘ भिक्षेते᳘त्याहुस्त᳘ल्लोक्यमि᳘ति[[!!]] स य᳘द्यन्यां᳘ भिक्षित᳘व्यान्न᳘ व्विन्देद᳘पि स्वा᳘मे᳘वाचार्य्यजायां᳘ भिक्षेता᳘थो स्वा᳘म्मात᳘र᳘न्नैनᳫँ᳭[[!!]] सप्तम्य᳘भिक्षिता᳘ ऽतीयात्त᳘मेवं᳘ व्विद्वा᳘ᳫँ᳘समेवं च᳘रंतᳫँ᳭ स᳘र्व्वे व्वे᳘दा ऽआ᳘विशंति य᳘था ह वा᳘ ऽअग्निः स᳘मिद्धो रो᳘चत ऽएव᳘ᳫँ᳘ ह वै स᳘ स्नात्वा᳘ रोचते य᳘ ऽएवं᳘ व्विद्वा᳘न् ब्रह्मच᳘र्य्यं च᳘रति॥

मूलम् - Weber

न᳘ ह वै᳘ स्नात्वा᳘ भिक्षेत॥
अ᳘प ह वै᳘ स्नात्वा᳘ भिक्षां᳘ जयत्य᳘प ज्ञातीना᳘मशनायाम᳘प पितॄणाᳫं स᳘ एवं᳘ विद्वान्य᳘स्या एव भू᳘यिष्ठं श्ला᳘घेत ता᳘म् भिक्षेते᳘त्याहुस्त᳘ल्लोक्य᳘मि᳘ति स य᳘द्यन्यां᳘ भिक्षित᳘व्यां न᳘ विन्देद᳘पि स्वा᳘मेॗवाचार्यजाया᳘म् भिक्षेता᳘थो स्वा᳘म् माॗत᳘रं नैनᳫं सप्तम्य᳘भिक्षिता᳘तीयात्त᳘मेवं᳘ विद्वा᳘ᳫं᳘समेवं च᳘रन्तᳫं स᳘र्वे वे᳘दा आ᳘विशन्ति य᳘था ह वा᳘ अग्निः स᳘मिद्धो रो᳘चत एव᳘ᳫं᳘ ह वै स᳘ स्नात्वा᳘ रोचते य एवं᳘ विद्वा᳘न्ब्रह्मच᳘र्यं च᳘रति॥

मूलम् - विस्वरम्

न ह वै स्नात्वा भिक्षेत । अप ह वै स्नात्वा भिक्षां जयत्यप ज्ञातीनामशनायामप पितॄणाम् । स एवं विद्वान्यस्या एव भूयिष्ठं श्लाघेत । तां भिक्षेतेत्याहुः । तल्लोक्यमिति । स यद्यन्यां भक्षितव्यां न विंदेत् । अपि स्वामेवाचार्यजायां भिक्षेत । अथो स्वां मातरम् । नैनं सप्तम्यभिक्षिता ऽतीयात् । तमेवं विद्वांसमेवं चरंतं सर्वे वेदा आविशंति । यथा ह वा अग्निः समिद्धो रोचते । एवं ह वै स स्नात्वा रोचते । य एवं विद्वान् ब्रह्मचर्यं चरति ॥ ७ ॥

सायणः

ब्रह्मचर्यायां क्रियमाणस्य परिचरणस्य परिक्रयार्थत्वमुक्तम्, इदानीं समृद्ध्यादिहेतुतामप्याह- न ह वा इति । ‘न’ खलु ‘स्नात्वा’ स्नानेन गुरुकुलात् प्रतिनिवृत्य ‘भिक्षेत’ । कस्य हेतोः ? स्नानानंतरं हि भिक्षाभक्षणं ‘अपजयति’ अतिक्रामति । पुनस्तस्य याचनखेदो न भवतीत्यर्थः । न केवलं स्वस्यैवैतत्फलम् । अपि तु स्ववंश्यानां सर्वेषामित्याह- अप ज्ञातीनामिति । ‘ज्ञातीनां’ स्वगोत्रजानां संबंधिनी या ‘अशनाया’ अशनेच्छा क्षुत्पिपासा तामपि ‘अपजयति’ तथा ‘पितॄणां’ संबन्धिनीमपि अशनायामपजयति । अशनशब्दात् क्वचित् “अशनायोदन्यधनाया बुभुक्षापिपासा.” (पा. सू. ७ । ४ । ३४) इति निपात्यते । स एवं विद्वानित्यादि । ‘एवं’ उक्तरीत्या भिक्षाचरणस्य प्राशस्त्यं ‘विद्वान्’ ‘सः’ ब्रह्मचारी ‘यस्याः’ एव भिक्षितायाः स्त्रियः सकाशात् ‘भूयिष्ठं’ बहुतरमन्नं लभ्यत इति ‘श्लाघेत’ 8 ‘तां भिक्षेत’ ‘इत्याहुः’ अभिज्ञाः कथयंति । तत्र निमित्तमप्याह- तल्लोक्यमिति । यद्धि भूयिष्ठमन्नं भिक्षातो लब्धम् । तदेव हि स्नानादूर्ध्वमतिवृद्धं सत् ‘लोक्यं’ लोकहितं भवति । भिक्षितव्याभावात् भिक्षालोपशंका न कार्येत्याह- स यद्यन्यामिति । निगदसिद्धमेतत् । नैनं सप्तमीत्यादि । ‘सप्तमी’ सप्तसंख्यापूरणी रात्रिः ‘अभिक्षिता’ भिक्षाचरणरहिता सती ‘एनं’ ब्रह्मचारिणं ‘नातीयात्’ नातिक्रामेत् । स्मर्यते अतिक्रमणे महान् दोषः- “अकृत्वा भैक्ष्यचरणमसमिद्ध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णव्रतं चरेत्” (मनुस्मृ. २ । १८७) इति । विदुषो ब्रह्मचारिणः फलमाह- तमेवं विद्वांसमिति । उक्तमर्थजातं ‘विद्वांसं’ जानंतम् । ज्ञात्वा च एवमेव समिदाहरणादीनि ‘चरंतं’ कुर्वंतम् । ‘स्नात्वा’ समावर्तनं कृत्वा । ‘रोचते’ दीप्यते । स्पष्टमन्यत् ॥ ७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे तृतीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (११ । ३ । ३) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे तृतीयो ऽध्यायः समाप्तः ॥ (११ । ३) ॥

Eggeling
  1. Let him not beg alms after he has bathed (at the end of his studentship), for by bathing he drives off beggary, and drives off hunger from his kinsmen and his deceased ancestors, ‘Let him who knows this beg alms only from her in whom he has the greatest confidence 9,’ they say, ‘for that makes for heaven.’ And should he find no other woman from whom alms could be begged, he may even beg from his own teacher’s wife, and thereafter from his own mother 10. The seventh (night) should not pass by for him without begging: him who knows this and practises this all the Vedas enter; for, verily, even as the fire shines when kindled, so does he, after bathing, shine, who, knowing this, lives a Brahmacārin’s life.

  1. 48:2 Prof. Delbrück, Altind. Syntax, p. 260, doubtless rightly takes the middle form (āharātai) here to imply ‘for his own self,’ i.e. for his own protection from death. ↩︎

  2. 49:1 Or, perhaps better,–that (night) he keeps cutting off from his life,–in which case the verb ‘vas’ would be construed with the gerund in much the same way as ‘sthā’ commonly is. This construction would suit even better the second passage (without the object ’tām’) at the end of the paragraph. In any case we have to understand that, during every night passed with his teacher without his having brought fire-wood, he cuts off a night, or day, from (the latter end of) his life. Cf. Delbrück, Altind. Syntax, pp. 260, 334, 405. ↩︎

  3. सत्रियाः Sây. ↩︎

  4. अत्र (पार. गृ. सू. २ । ४) इत्येतत्समिदाधानसूत्रमप्यनुसन्धेयम् ॥ ↩︎

  5. 49:2 That is, prior to his leaving the house of his teacher and returning to his own family. ↩︎

  6. 49:3 Saṁskr̥tya = utkr̥shṭaṁ kr̥tvā, Sāyaṇa. ↩︎

  7. भिक्षायां षडधिकारिण इत्याहात्रिः- “यतिष्य ब्रह्मचारी च विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः” (अ. स्मृ. १६२ ।) इति । तत्रापि- “यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ” इति विशेषः । तेनात्र ब्रह्मचारिणा पक्वान्नमेव भिक्षितव्यम् । न कदाचिदप्यामम् इति गम्यते ॥ ↩︎

  8. तिस्रो ऽप्रत्याख्यायिन्यः । षड् द्वादशापरिमिता वा । मातरं प्रथमामेके । (पार. गृ. सू. २। ५ । ५-७) इति । ↩︎

  9. 50:1 That is, from whom he is perfectly sure of getting something. Sāyaṇa, however, takes it in the sense of ‘from whom he feels sure he will get most,’–Sa brahmacārī yasyā eva bhikshitāyāḥ striyaḥ sakāśād bhūyishṭḥam bahutaram annam labhyata iti ślāgheta tāṁ bhikshetety āhuḥ, Sāy. ↩︎

  10. 50:2 That is, after leaving his teacher’s house and returning home. ↩︎