०१
विश्वास-प्रस्तुतिः
यो᳘ ह वा᳘ ऽअग्निहोत्रे[[!!]]॥
ष᳘ण्मिथुना᳘नि व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिर्य्य᳘जमानश्च प᳘त्नी च तदे᳘कम्मिथुनं त᳘स्मादस्य प᳘त्नीवदग्निहोत्र᳘ᳫँ᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानी᳘ति व्वत्स᳘श्चाग्निहोत्री᳘ च तदे᳘कम्मिथुनं त᳘स्मादस्य पुम्वत्सा ऽग्निहोत्री᳘[[!!]] स्यादेत᳘न्मिथुनमु᳘पाप्नवानीति᳘ स्थाली चा᳘ङ्गाराश्च तदे᳘कम्मिथुनᳫँ᳭ स्रु᳘क्च स्रुव᳘श्च तदे᳘कम्मिथुन᳘माहवनी᳘यश्च समि᳘च्च तदे᳘कम्मिथुनमा᳘हुतिश्च स्वाहाकार᳘श्च तदे᳘कम्मिथुन᳘मेता᳘नि ह वा ऽअग्निहोत्रे ष᳘ण्मिथुना᳘नि ता᳘नि य᳘ ऽएवं व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिः॥
मूलम् - श्रीधरादि
यो᳘ ह वा᳘ ऽअग्निहोत्रे[[!!]]॥
ष᳘ण्मिथुना᳘नि व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिर्य्य᳘जमानश्च प᳘त्नी च तदे᳘कम्मिथुनं त᳘स्मादस्य प᳘त्नीवदग्निहोत्र᳘ᳫँ᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानी᳘ति व्वत्स᳘श्चाग्निहोत्री᳘ च तदे᳘कम्मिथुनं त᳘स्मादस्य पुम्वत्सा ऽग्निहोत्री᳘[[!!]] स्यादेत᳘न्मिथुनमु᳘पाप्नवानीति᳘ स्थाली चा᳘ङ्गाराश्च तदे᳘कम्मिथुनᳫँ᳭ स्रु᳘क्च स्रुव᳘श्च तदे᳘कम्मिथुन᳘माहवनी᳘यश्च समि᳘च्च तदे᳘कम्मिथुनमा᳘हुतिश्च स्वाहाकार᳘श्च तदे᳘कम्मिथुन᳘मेता᳘नि ह वा ऽअग्निहोत्रे ष᳘ण्मिथुना᳘नि ता᳘नि य᳘ ऽएवं व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिः॥
मूलम् - Weber
यो᳘ ह वा᳘ अग्निहोत्रे᳟॥
ष᳘ण्मिथुना᳘नि वे᳘द मिथुने᳘न-मिथुनेन ह प्र᳘जायते स᳘र्वाभिः प्र᳘जातिभिर्य᳘जमानश्च प᳘त्नी च तदे᳘कम् मिथुनं त᳘स्मादस्य प᳘त्नीवदग्निहोत्र᳘ᳫं᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानी᳘ति वत्स᳘श्चाग्निहोत्री᳘ च तदे᳘कम् मिथुनं त᳘स्मादस्य पुं᳘वत्साग्निहोत्री᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानीति᳘ स्थाली चा᳘ङ्गाराश्च तदे᳘कम् मिथुनᳫं स्रु᳘क्च स्रुव᳘श्च तदे᳘कम् मिथुन᳘माहवनी᳘यश्च समि᳘च्च तदे᳘कम् मिथुनमा᳘हुतिश्च स्वाहाकार᳘श्च तदे᳘कम् मिथुन᳘मेता᳘नि ह वा अग्निहोत्रे ष᳘ण्मिथुना᳘नि ता᳘नि य᳘ एवं वे᳘द मिथुने᳘न-मिथुनेन ह प्र᳘जायते स᳘र्वाभिः प्र᳘जातिभिः॥
मूलम् - विस्वरम्
षणिमैथुनब्राह्मणम् । 1
यो ह वा अग्निहोत्रे षण्मिथुनानि वेद । मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः । यजमानश्च पत्नी च तदेकं मिथुनम् । तस्मादस्य पत्नीवदग्निहोत्रं स्यात् । एतन्मिथुनमुपाप्नवानीति । वत्सश्चाग्निहोत्री च तदेकं मिथुनम् । तस्मादस्य पुंवत्सा ऽग्निहोत्री स्यात् । एतन्मिथुनमुपाप्नवानीति । स्थाली चांगाराश्च तदेकं मिथुनम् । स्रुक् च स्रुवश्च तदेकं मिथुनम् । आहवनीयश्च समिच्च तदेकं मिथुनम् । आहुतिश्च स्वाहाकारश्च तदेकं मिथुनम् । एतानि ह वा अग्निहोत्रे षण्मिथुनानि । तानि य एवं वेद । मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः ॥ १ ॥
सायणः
अथ तस्मिन्नेवाग्निहोत्रे मिथुनवेदनं विधत्ते- यो ह वा इति । ‘मिथुनानि’ स्त्रीपुंसरूपाणि द्वंद्वानि । तद्वेदनस्य फलमाह- मिथुनेनेति । वीप्साया अर्थो विव्रियते- सर्वाभिः प्रजातिभिरिति । पुरुषगोमहिषाश्वादिरूपाभिः सर्वाभिरुत्पत्तिभिः प्रजायत इत्यर्थः । तत्र प्रथमं मिथुनं दर्शयति- यजमानश्चेति । यस्मादेवं यजमानपत्न्यौ प्रधानमेकं मिथुनम् । ‘तस्मादस्य’ यजमानस्य ‘अग्निहोत्रं’ पत्नीयुक्तमेव ‘स्यात्’ न कदाचित्तया विरहितं भवेत् । ‘एतन्मिथुनमुपाप्नवानि’ उपगच्छानीत्यनेनाभिप्रायेण । द्वितीयं मिथुनं दर्शयति- वत्सश्चाग्निहोत्री चेति । अग्निहोत्रसाधनस्य पयसो दोहनार्था या धेनुः सा ‘अग्निहोत्री’ यस्मादिदमेकं ‘मिथुनं’ तस्माद्वत्सस्य पुंस्त्वमावश्यकमित्याह- तस्मादस्येति । पुमान् वत्सो यस्याः सा ‘पुंवत्सा’ । अवशिष्टानि चत्वारि मिथुनानि अनुक्रामति- स्थाली चांगाराश्चेति । निगदसिद्धो ऽर्थः । तद्वेदनस्य उक्तफलसाधनत्वं निगमयति- य एवमिति । उक्तार्थमन्यत् ॥ १ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (११-३-२) ॥
Eggeling
- Verily, whosoever knows the six pairs in the Agnihotra, has offspring born to him by pair after pair, by all generations. The Sacrificer and his wife–this is one pair: through it his Agnihotra would be possessed of a wife,–‘May I obtain this pair!’ he thinks 2. The calf and the Agnihotra-cow–this is another pair: through it his Agnihotra-cow would become possessed of a male calf,–‘May I obtain this pair!’ he thinks. The pot and the coals–this is another pair; the offering-spoon and the dipping-spoon–this is another pair; the Āhavanīya fire and the log–this is another pair; the libation and the Svāhā-call–this is another pair: these, doubtless, are the six pairs in the Agnihotra; and he who thus knows them, has offspring born to him by pair after pair, by all generations.