०१

विश्वास-प्रस्तुतिः

व्वा᳘ग्घ वा᳘ ऽएत᳘स्याग्निहोत्र᳘स्याग्निहोत्री[[!!]]॥
म᳘न ऽएव᳘ व्वत्सस्त᳘दिदम्म᳘नश्च व्वाक्च[[!!]] समान᳘मेव सन्ना᳘नेव त᳘स्मात्समान्या र᳘ज्ज्वा व्वत्सं᳘ च मात᳘रं चाभि᳘दधति ते᳘ज ऽएव᳘ श्रद्धा᳘ सत्यमा᳘ज्यम्॥

मूलम् - श्रीधरादि

व्वा᳘ग्घ वा᳘ ऽएत᳘स्याग्निहोत्र᳘स्याग्निहोत्री[[!!]]॥
म᳘न ऽएव᳘ व्वत्सस्त᳘दिदम्म᳘नश्च व्वाक्च[[!!]] समान᳘मेव सन्ना᳘नेव त᳘स्मात्समान्या र᳘ज्ज्वा व्वत्सं᳘ च मात᳘रं चाभि᳘दधति ते᳘ज ऽएव᳘ श्रद्धा᳘ सत्यमा᳘ज्यम्॥

मूलम् - Weber

वा᳘ग्घ वा᳘ एत᳘स्याग्निहोत्र᳘स्याग्निहोत्री᳟॥
म᳘न एव᳘ वत्सस्त᳘दिदम् म᳘नश्च वा᳘क्च समान᳘मेव सन्ना᳘नेव त᳘स्मात्समान्या र᳘ज्ज्वा वत्सं᳘ च मात᳘रं चाभि᳘दधति॥
ते᳘ज एव᳘ श्रद्धा᳘ सत्यमा᳘ज्यम्॥

मूलम् - विस्वरम्

वाग् ह वा एतस्याग्निहोत्रस्याग्निहोत्री । मन एव वत्सः । तदिदं मनश्च वाक् च समानमेव सन्नानेव । तस्मात्समान्या रज्ज्वा वत्सं च मातरं चाभिदधति । तेज एव श्रद्धा । सत्यमाज्यम् ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

इत्थं दर्शपूर्णमासाववलंब्य तत्प्रशंसाव्याजेन तदंगावबद्धानि उपासनानि विहितानि । अथाग्निहोत्रमाश्रित्य तत्प्रशंसामुखेन तदवयवाश्रितानि उच्यंते-वाग्घ वा इत्यादिना । अग्निहोत्रमिति 1 कर्मनामधेयम् । अग्नये होत्रं होमो ऽस्मिन्निति व्युत्पत्तिः । उपचारात्तदर्थं पयो ऽप्यग्निहोत्रम् । तस्य दोग्ध्री धेनुरपि अग्निहोत्रीत्युच्यते । तस्यैतस्याग्निहोत्राख्यस्य कर्मणः वागेव ‘अग्निहोत्री’ धेनुः । ‘मनः’ तस्याः ‘एव वत्सः’ गवि वाग्बुद्धिः, वत्से मनोबुद्धिश्च कार्येत्यर्थः । तदेतत्समानधर्मयोगेन प्रतिपादयति- तदिदमिति । ‘तदिदं’ वाङ्मनसलक्षणं द्वयं ‘समानं’ इदंप्रदेश एकीभूतमेव ‘सत्’ पश्चान्नानेव विभक्तमिव भवति । यस्मादेवं तस्माल्लोके दोग्धारः ‘समान्या’ एकयैव ‘रज्ज्वा’ ‘वत्सं मातरं च’ ‘अभिदधति’ बध्नंति । तत्र तेजसो हविषश्च श्रद्धासत्यरूपतामाह- तेज एव श्रद्धेति । होमाधिकरणभूतं यत्तेजः तच्छ्रद्धात्मकत्वेन ध्यातव्यम् । तत्र होमद्रव्यमाज्यं तत्सत्यात्मकमिति ॥ १ ॥

Eggeling
  1. Verily, the Agnihotrī cow is the speech of the Agnihotra, and her calf is its mind. Now these two, mind and speech, whilst being one and the same, are, as it were, distinct from each other: therefore they tie up the calf and its mother with one and the same rope; and the fire 2, indeed, is faith, and the ghee truth.

०२

विश्वास-प्रस्तुतिः

(न्त᳘) त᳘द्धैत᳘ज्जनको व्वै᳘देहः॥
(हो) या᳘ज्ञवल्क्यं पप्रच्छ व्वे᳘त्थाग्निहोत्रं᳘ याज्ञवल्क्या३ ऽइ᳘ति व्वे᳘द सम्म्राडि᳘ति किमि᳘ति प᳘य ऽएवे᳘ति॥

मूलम् - श्रीधरादि

(न्त᳘) त᳘द्धैत᳘ज्जनको व्वै᳘देहः॥
(हो) या᳘ज्ञवल्क्यं पप्रच्छ व्वे᳘त्थाग्निहोत्रं᳘ याज्ञवल्क्या३ ऽइ᳘ति व्वे᳘द सम्म्राडि᳘ति किमि᳘ति प᳘य ऽएवे᳘ति॥

मूलम् - Weber

त᳘द्धैत᳘ज्जनको वै᳘देहः॥
या᳘ज्ञवल्क्यम् पप्रछ वे᳘त्थाग्निहोत्रं᳘ याज्ञवल्क्या३ इ᳘ति वे᳘द सम्राडि᳘ति किमि᳘ति प᳘य एवे᳘ति॥

मूलम् - विस्वरम्

तद्धैतज्जनको वैदेहो याज्ञवल्क्यं पप्रच्छ । वेत्थाग्निहोत्रं याज्ञवल्क्या ३ इति । वेद सम्राडिति । किमिति । पय एवेति ॥ २ ॥

सायणः

इममर्थं जनकयाज्ञवल्क्ययोरुक्तिप्रत्युक्तिभ्यां समर्थयते- तद्धैतदिति । तत्र खलु अग्निहोत्रविषय एतदुक्तं तेजआज्ययोः श्रद्धासत्यरूपत्वं विदेहानां राजा ‘वैदेहः’ जनकाख्यो राजा ‘याज्ञवल्क्यं’ महर्षिं ‘पप्रच्छ’ पृष्टवान् । “प्रच्छ ज्ञीप्सायाम्” (धा. पा. तु. प. १३२) इति धातुः । हे ‘याज्ञवल्क्य !’ त्वं अग्निहोत्रं वेत्सि जानासि किम् ? इति प्रश्नः । “विचार्यमाणानाम्” (पा. सू. ८ । २ । ९७) इति प्लुतिः । ‘सम्राट्’ ‘वेद’ अहं जानामि अग्निहोत्रमिति प्रतिवचनम् । पुनः किन्तदिति प्रश्नः । ‘पय एवेति’ तस्योत्तरम् । पयः खलु नित्यतया अग्निहोत्रहोमसाधनत्वेन श्रुतं, अतः पय एवाग्निहोत्रमित्यर्थः ॥ २ ॥

Eggeling
  1. Now, as to this Janaka of Videha once asked Yājñavalkya, ‘Knowest thou the Agnihotra, Yājñavalkya?’–‘I know it, O king,’ he said.–‘What is it?’–‘Milk, indeed.’

०३

विश्वास-प्रस्तुतिः

यत्प᳘यो न स्यात्[[!!]]॥
(त्के᳘) के᳘न जुहुया ऽइ᳘ति व्व्री᳘हियवा᳘भ्यामि᳘ति य᳘द्व्रीहियवौ न स्या᳘तां के᳘न जुहुया ऽइ᳘ति या᳘ ऽअन्या ऽओ᳘षधय ऽइ᳘ति य᳘दन्या ऽओ᳘षधयो न᳘ स्युः के᳘न जुहुया ऽइति᳘[[!!]] या ऽआरण्या ऽओ᳘षधय ऽइ᳘ति य᳘दारण्या ऽओ᳘षधयो न᳘ स्युः के᳘न जुहुया ऽइ᳘ति व्वानस्पत्येने᳘ति यद्वानस्पत्यं[[!!]] न स्यात्के᳘न जुहुया ऽइ᳘त्यद्भिरि᳘ति यदापो[[!!]] न स्युः के᳘न जुहुया ऽइ᳘ति॥

मूलम् - श्रीधरादि

यत्प᳘यो न स्यात्[[!!]]॥
(त्के᳘) के᳘न जुहुया ऽइ᳘ति व्व्री᳘हियवा᳘भ्यामि᳘ति य᳘द्व्रीहियवौ न स्या᳘तां के᳘न जुहुया ऽइ᳘ति या᳘ ऽअन्या ऽओ᳘षधय ऽइ᳘ति य᳘दन्या ऽओ᳘षधयो न᳘ स्युः के᳘न जुहुया ऽइति᳘[[!!]] या ऽआरण्या ऽओ᳘षधय ऽइ᳘ति य᳘दारण्या ऽओ᳘षधयो न᳘ स्युः के᳘न जुहुया ऽइ᳘ति व्वानस्पत्येने᳘ति यद्वानस्पत्यं[[!!]] न स्यात्के᳘न जुहुया ऽइ᳘त्यद्भिरि᳘ति यदापो[[!!]] न स्युः के᳘न जुहुया ऽइ᳘ति॥

मूलम् - Weber

यत्प᳘यो न स्या᳘त्॥
के᳘न जुहुया इ᳘ति व्रीहियवा᳘भ्यामि᳘ति य᳘द्व्रीहियवौ न स्या᳘तां के᳘न जुहुया इ᳘ति या᳘ अन्या ओ᳘षधय इ᳘ति य᳘दन्या ओ᳘षधयो न᳘ स्युः के᳘न जुहुया इ᳘ति या᳘ आरण्या ओ᳘षध्त्येने᳘ति य᳘द्वानस्पत्यं न स्यात्के᳘न जुहुया इ᳘त्यद्भिरि᳘ति यदा᳘पो न स्युः के᳘न जुहुया इ᳘ति॥

मूलम् - विस्वरम्

यत्पयो न स्यात्; केन जुहुया इति । व्रीहियवाभ्यामिति । यद्व्रीहियवौ न स्यातां; केन जुहुया इति । या अन्या ओषधय इति । यदन्या ओषधयो न स्युः; केन जुहुया इति । या आरण्या ओषधय इति । यदारण्या ओषधयो न स्युः; केन जुहुया इति । वानस्पत्येनेति । यद्वानस्पत्यं न स्यात्; केन जुहुया इति । अद्भिरिति । यदापो न स्युः; केन जुहुया इति ॥ ३ ॥

सायणः

यदि तर्हि ‘पयो न स्यात्’ तदा ‘केन’ द्रव्येण जुहुया इति प्रश्नस्योत्तरं- व्रीहियवाभ्यामिति । व्रीहियवयोरन्यतरत्साधनमित्यर्थः । एवमुत्तरेष्वपि प्रश्नप्रतिवचनेषु योजना । अन्या ओषधय इति । व्रीहियवातिरिक्ता ग्राम्या ओषधयो होमसाधनमित्यर्थः । आरण्या ओषधय इति । वैणवश्यामाकधान्यादय आरण्याः । वानस्पत्येनेति । वनस्पतिर्वृक्षः, तज्जन्यं फलादिकं वानस्पत्यं तेनेत्यर्थः । तस्याप्यभावे आप एव होमद्रव्यमित्याह- अद्भिरिति ॥ ३ ॥

Eggeling
  1. ‘If there were no milk, wherewith wouldst thou sacrifice?’–‘With rice and barley.’–‘If there were no rice and barley, wherewith wouldst thou sacrifice?’–‘With what other herbs there are.’–‘If there were no other herbs, wherewith wouldst thou sacrifice?’–‘With what forest herbs there are.’–‘If there were no forest herbs, wherewith wouldst thou sacrifice?’–‘With fruit of trees.’–‘If there were no fruit of trees, wherewith wouldst thou sacrifice?’–‘With water.’–‘If there were no water, wherewith wouldst thou sacrifice?’

०४

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
न वा᳘ ऽइह त᳘र्हि कि᳘ञ्च᳘नासीद᳘थैतद᳘हूयतैव᳘ सत्य᳘ᳫँ᳘ श्रद्धा᳘यामि᳘ति व्वे᳘त्थाग्निहोत्रं᳘ याज्ञवल्क्य धेनुशतं᳘ ददामी᳘ति होवाच॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
न वा᳘ ऽइह त᳘र्हि कि᳘ञ्च᳘नासीद᳘थैतद᳘हूयतैव᳘ सत्य᳘ᳫँ᳘ श्रद्धा᳘यामि᳘ति व्वे᳘त्थाग्निहोत्रं᳘ याज्ञवल्क्य धेनुशतं᳘ ददामी᳘ति होवाच॥

मूलम् - Weber

स᳘ होवाच॥
न वा᳘ इह त᳘र्हि किं᳘ चॗनासीद᳘थैतद᳘हूयतैव᳘ सत्यं᳘ श्रद्धा᳘यामि᳘ति वे᳘त्थाग्निहोत्रं᳘ याज्ञवल्क्य धेनुशतं᳘ ददामी᳘ति होवाच॥

मूलम् - विस्वरम्

स होवाच । न वा इह तर्हि किंचनासीत् । अथैतदहूयतैव । सत्यं श्रद्धायामिति । वेत्थाग्निहोत्रं याज्ञवल्क्य ! धेनुशतं ददामीति होवाच ॥ ४ ॥

सायणः

तासामभावे केन होम इति पृष्टे मनसि रहस्यत्वेन स्थापितमर्थमाह- स होवाचेति । इत्थं खलु याज्ञवल्क्य उवाच- ‘तर्हि’ तथा सति इहास्मिन् लोके ‘किंचन’ किमपि होमसाधनमन्यत् द्रव्यं नैवासीत् । तथापि एतदग्निहोत्रं ‘अहूयतैव’ न लुप्यते । तत्किंरूपमित्युच्यते- यत्सत्यवदनरूपो यो धर्मः स एव श्रद्धारूपाग्नौ हूयत इति अंतरतिगूढमर्थमाविष्कृतवान् । विद्योपदेशात्तुष्टस्य जनकस्य वाक्यम्- वेत्थाग्निहोत्रमिति । हे याज्ञवल्क्य ! त्वमेवाग्निहोत्रं जानासि । अतस्तुभ्यं रहस्यवेदिने धेनूनां शतं पारितोषिकं प्रयच्छामीत्यर्थः ॥ ४ ॥

Eggeling
  1. He spake, ‘Then, indeed, there would be nothing whatsoever here, and yet there would be offered–the truth in faith.’–‘Thou knowest the Agnihotra, Yājñavalkya: I give thee a hundred cows,’ said Janaka.

०५

विश्वास-प्रस्तुतिः

तद᳘प्येते श्लो᳘काः॥
कि᳘ᳫँ᳘ स्विद्विद्वान्प्र᳘वसत्यग्निहोत्री᳘ गृहे᳘भ्यः॥
कथ᳘ᳫँ᳘ स्विदस्य का᳘व्यं कथᳫँ᳭ सं᳘ततो ऽअग्नि᳘भिरि᳘ति कथ᳘ᳫँ᳘ स्विदस्या᳘नपप्रोषितं भवती᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

तद᳘प्येते श्लो᳘काः॥
कि᳘ᳫँ᳘ स्विद्विद्वान्प्र᳘वसत्यग्निहोत्री᳘ गृहे᳘भ्यः॥
कथ᳘ᳫँ᳘ स्विदस्य का᳘व्यं कथᳫँ᳭ सं᳘ततो ऽअग्नि᳘भिरि᳘ति कथ᳘ᳫँ᳘ स्विदस्या᳘नपप्रोषितं भवती᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

तद᳘प्येते श्लो᳘काः॥
कि᳘ᳫं᳘ स्विद्विद्वान्प्र᳘वसत्यग्निहोत्री᳘ गृहे᳘भ्यः॥
कथ᳘ᳫं᳘ स्विदस्य का᳘व्यं कथᳫं सं᳘ततो अग्नि᳘भिरि᳘ति कथ᳘ᳫं᳘ स्विदस्या᳘नपप्रोषितम् भवती᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

तदप्येते श्लोकाः- “किंस्वित् विद्वान्प्रवसत्यग्निहोत्री गृहेभ्यः । कथं स्विदस्य काव्यं कथं सन्ततो अग्निभिः” इति । कथं स्विदस्यानपप्रोषितं भवति- इत्येवैतदाह ॥ ५ ॥

सायणः

अथ प्रवसद्विषये अग्निहोत्रहोमस्य मनःप्राणात्मना सांतत्यं श्लोकमन्त्रैः प्रतिपादयति- तदप्येते श्लोका इति । तत्तस्मिन्नग्निहोत्रविषये ‘अपि’ खलु ‘एते श्लोकाः’ पठ्यंते । तत्तत्र प्रथमेन श्लोकेन प्रवासविषयं प्रश्नमुद्भावयति- किं स्विदिति । ‘अग्निहोत्री’ यावज्जीवसंकल्पिताग्निहोत्रवान् यजमानः किं विद्वान् किंरूपमग्निहोत्रं जानन् ‘गृहेभ्यः’ ‘प्रवसति’ तथा ‘अस्य’ प्रवसतो यजमानस्य ‘कथं’ वा तत् ‘काव्यं’ कविकर्म यावज्जीवमग्निहोत्रं जुहुयादिति वाक्यं समर्थं भवति । तथा ‘अग्निभिः’ गार्हपत्यादिभिः ‘कथं संततः’ संबद्धो भवतीति । अस्य मंत्रस्य तात्पर्यार्थमाह- कथं स्विदिति । ‘अस्य’ प्रवसतो यजमानस्य ‘अनपप्रोषितं’ प्रवासदोषाभावः कथं सिद्ध्यतीति एतत् प्रथमश्लोकरूपमंत्रवाक्यं प्रतिपादयतीत्यर्थः ॥ ५ ॥

Eggeling
  1. Concerning this point there are also these

verses:–‘Knowing what 3, does the offerer of the Agnihotra stay away from his house? how is his wisdom (manifested) 4? how is he kept up by his fires 5?’–whereby he means to say, ‘How, then, is there no staying away from home on his part 6?’

०६

विश्वास-प्रस्तुतिः

यो ज᳘विष्ठो भु᳘वनेषु॥
स᳘ व्विद्वा᳘न्प्रव᳘सन्विदे। त᳘था त᳘दस्य का᳘व्यं त᳘था सं᳘ततो ऽअग्नि᳘भिरिति[[!!]] म᳘न ऽए᳘वैत᳘दाह म᳘नसै᳘वास्या᳘नपप्रोषितं भवती᳘ति॥

मूलम् - श्रीधरादि

यो ज᳘विष्ठो भु᳘वनेषु॥
स᳘ व्विद्वा᳘न्प्रव᳘सन्विदे। त᳘था त᳘दस्य का᳘व्यं त᳘था सं᳘ततो ऽअग्नि᳘भिरिति[[!!]] म᳘न ऽए᳘वैत᳘दाह म᳘नसै᳘वास्या᳘नपप्रोषितं भवती᳘ति॥

मूलम् - Weber

यो ज᳘विष्ठो भु᳘वनेषु॥
स᳘ विद्वा᳘न्प्रव᳘सन्विदे त᳘था त᳘दस्य का᳘व्यं त᳘था सं᳘ततो अग्नि᳘भिरि᳘ति म᳘न ए᳘वैत᳘दाह म᳘नसैॗवास्या᳘नपप्रोषितम् भवती᳘ति॥

मूलम् - विस्वरम्

“यो जविष्ठो भुवनेषु स विद्वान्प्रवसन्विदे । तथा तदस्य काव्यं तथा संततो अग्निभिः" इति । मन एवैतदाह । मनसैवास्यानपप्रोषितं भवतीति ॥ ६ ॥

सायणः

अस्योत्तरं द्वितीयेन श्लोकमंत्रेण प्रतिपादयति- यो जविष्ठ इति । ‘यः’ यजमानः ‘भुवनेषु’ लोकेष्वनुष्ठेयपदार्थेषु ‘जविष्ठः’ अतिशयेन जववान् मनसा कृत्स्नं दूरवर्त्यपि प्रयोगजातमनुसंधातुं कुशल इत्यर्थः । ‘स विद्वान्’ ‘विदे’ लाभाय ‘प्रवसन्’ प्रवासकारी भवति । ‘तथा’ तेन वेदनेन ‘अस्य’ प्रवसतः ‘तत् काव्यं’ यावज्जीववाक्यमपि सार्थकं भवति । ‘तथा’ तेनैव वेदनेन दूरे वर्तमानो ऽपि ‘अग्निभिः’ ‘संततः’ अव्यवहितसंबंध एव भवति । इमं मन्त्रं तात्पर्यकथनेन व्याचष्टे- मन एवैतदिति । एतन्मंत्रवाक्यं प्रवासजनितदोषनिवृत्तेः मन एव साधनमिति ‘आह’ तात्पर्यतो ब्रूत इत्यर्थः । तदेव विवृणोति- मनसैवास्यानपप्रोषितमिति । ‘अनपप्रोषितं’ प्रवासदोषविरहः ॥ ६ ॥

Eggeling
  1. ‘He who is the swiftest in the worlds 7, that wise one is found staying abroad: thus (is manifested) his wisdom, thus he is kept up by his fires;’–he thereby means the mind: it is owing to his mind that there is no staying away from home on his part.

०७

विश्वास-प्रस्तुतिः

यत्स᳘ दूरं᳘ परेत्य᳘[[!!]]॥
(त्या᳘) अ᳘थ त᳘त्र प्रमा᳘द्यति॥
क᳘स्मि᳘न्त्सा ऽस्य हुता᳘ ऽऽहुतिर्गृहे या᳘मस्य जु᳘ह्वती᳘ति यत्स᳘ दूरं᳘ परेत्या᳘थ त᳘त्र प्रमा᳘द्यति क᳘स्मिन्नस्य सा᳘ ऽऽहुतिर्हुता᳘ भवती᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

यत्स᳘ दूरं᳘ परेत्य᳘[[!!]]॥
(त्या᳘) अ᳘थ त᳘त्र प्रमा᳘द्यति॥
क᳘स्मि᳘न्त्सा ऽस्य हुता᳘ ऽऽहुतिर्गृहे या᳘मस्य जु᳘ह्वती᳘ति यत्स᳘ दूरं᳘ परेत्या᳘थ त᳘त्र प्रमा᳘द्यति क᳘स्मिन्नस्य सा᳘ ऽऽहुतिर्हुता᳘ भवती᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

यत्स᳘ दूर᳘म् परे᳘त्य॥
अ᳘थ त᳘त्र प्रमा᳘द्यति॥
क᳘स्मिॗन्त्सास्य हुता᳘हुतिर्गृहे या᳘मस्य जु᳘ह्वती᳘ति यत्स᳘ दूर᳘म् परेत्या᳘थ त᳘त्र प्रमा᳘द्यति क᳘स्मिन्नस्य सा᳘हुतिर्हुता᳘ भवती᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

यत्स दूरं परेत्याथ तत्र प्रमाद्यति । कस्मिन् सा ऽस्य हुता ऽऽहुतिः, गृहे यामस्य जुह्वति" इति । यत्स दूरं परेत्याथ तत्र प्रमाद्यति । कस्मिन्नस्य सा ऽऽहुतिर्हुता भवतीति- एवैतदाह ॥ ७ ॥

सायणः

यत्स दूरमिति तृतीयश्लोकः । यत् यदि ‘सः’ यजमानः ‘दूरं परेत्य’ ‘अथ तत्र प्रमाद्यति’ अनवधानयुक्तो भवति । तदा ‘अस्य’ यजमानस्य ‘गृहे’ ‘यां’ आहुतिं ऋत्विजः ‘जुह्वति’ ‘सा’ ‘आहुतिरस्य’ प्रमाद्यतो यजमानस्य तस्मिन् गृहे एव ‘हुता’ भवति । न त्वनेन संगच्छत इत्यर्थः । इमं मंत्रं व्याचष्टे- यत्स दूरमिति । निगदसिद्धो ऽर्थः ॥ ७ ॥

Eggeling
  1. ‘When, having gone far away, he heedeth not there his duty, wherein is that offering of his offered; (and wherein) do they, at his house, perform the offering of the progress?’–that is to say,–‘When, having gone far away, he there heeds not his duty, wherein does that offering of his come to be offered?’

०८

विश्वास-प्रस्तुतिः

यो᳘ जागा᳘र भुवनेषु[[!!]]॥
व्वि᳘श्वा जाता᳘नि यो᳘ ऽबिभः॥
त᳘स्मि᳘न्त्सा ऽस्य हुता᳘ ऽऽहुतिर्गृहे या᳘मस्य जु᳘ह्वती᳘ति प्राण᳘मे᳘वैत᳘दाह त᳘स्मादाहुः प्राण᳘ ऽए᳘वाग्निहोत्रमि᳘ति॥

मूलम् - श्रीधरादि

यो᳘ जागा᳘र भुवनेषु[[!!]]॥
व्वि᳘श्वा जाता᳘नि यो᳘ ऽबिभः॥
त᳘स्मि᳘न्त्सा ऽस्य हुता᳘ ऽऽहुतिर्गृहे या᳘मस्य जु᳘ह्वती᳘ति प्राण᳘मे᳘वैत᳘दाह त᳘स्मादाहुः प्राण᳘ ऽए᳘वाग्निहोत्रमि᳘ति॥

मूलम् - Weber

यो᳘ जागा᳘र भु᳘वनेषु॥
वि᳘श्वा जाता᳘नि यो᳘ऽबिभः॥
त᳘स्मिॗन्त्सास्य हुता᳘हुतिर्गृहे या᳘मस्य जु᳘ह्वती᳘ति प्राण᳘मेॗवैत᳘दाह त᳘स्मादाहुः प्राण᳘ एॗवाग्निहोत्रमि᳘ति॥

मूलम् - विस्वरम्

“यो जागार भुवनेषु विश्वा जातानि यो ऽबिभः । तस्मिन् सा ऽस्य हुता ऽऽहुतिः, गृहे यामस्य जुह्वति" इति । प्राणमेवैतदाह । तस्मादाहुः । प्राण एवाग्निहोत्रमिति ॥ ८ ॥

सायणः

एवं हि तन्मनस्कस्य प्रवसतो मनसैवाग्निहोत्रसंपत्तिमभिधाय प्राणरूपतामप्याह- यो जागारेति । ‘यः’ प्राणवायुः ‘भुवनेषु’ शरीरेषु ‘जागार’ जागर्ति अनिद्रः सदा वर्तते । तथा ‘विश्वा’ सर्वाणि ‘जातानि’ भूतजातानि ‘यो ऽबिभः’ तत्रात्मरूपतया बिभर्ति ‘तस्मिन्’ अनिरुक्तरूपिणि तस्मिन् प्राणवायौ ‘अस्य’ उक्तं प्राणत्वं विदुषः प्रवसतो यजमानस्य ‘सा’ अग्निहोत्राहुतिः ‘हुता’ भवति । गतमन्यत् । इमं मंत्रं व्याचष्टे- प्राणमेवैतदाहेति । एतन्मंत्रवाक्यं प्राणमेव होमाधारत्वेन प्रतिपादयतीत्यर्थः । अत्र विद्वत्प्रसिद्धिं संवादयति- तस्मादाहुरिति । इत्थमाहुत्यधिकरणत्वात् ‘प्राण एव’ अग्निहोत्राख्यं कर्मेति तत्र प्राणबुद्धिः कार्येत्यर्थः । प्राणस्तु सर्वदा यजमानेन संबद्धः इति न प्रवासजनितदोषावकाश इत्यर्थः ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (११-३-१) ॥

Eggeling
  1. ‘He who waketh in the worlds and sustaineth all beings, in him that offering of his is offered, (and in him) do they, at his house, perform the offering

of the progress;’–he thereby means the breath; whence they say, ‘The Agnihotra is breath.’


  1. “अग्निहोत्रीं दोहयति पुंवत्साम्" (का. श्रौ. सू. ४ । ३१५) इति सूत्रीयं कर्कभाष्यम् । अग्निहोत्रशब्दः कर्मवाची सन्निहिततत्साधनभूते द्रव्ये द्रष्टव्यः । तदग्निहोत्राख्यं द्रव्यं यस्यां विद्यते सेयमग्निहोत्रिणी । अत्रापि मतुब्लोपे कृते अग्निहोत्रीमिति भवति । तथा च दृश्यते- यथा ऽग्निहोत्री दोह्यमाना वाश्येतेति । पयस्यपि च अग्निहोत्रशब्दो दृश्यते, यस्याग्निहोत्रं दोह्यमानममेध्यमापद्येतेति । ↩︎

  2. 46:1 That is, according to Sāyaṇa, the fire, or heat, produced by the rope. Instead of ’teja eva śraddhā,’ one would rather expect ‘śraddhaiva tejaḥ.’ ↩︎

  3. 47:1 That is, according to Sāyaṇa,–What form of Agnihotra does he recognise, when he goes to stay abroad? ↩︎

  4. 47:2 That is,–How does he show his knowledge of the sacred obligation that one ought to perform the Agnihotra regularly twice a day for life? ↩︎

  5. 47:3 That is to say, How is the continuity in the constant attendance to his sacred fires kept up by him? ↩︎

  6. 47:4 Literally, ‘How is non-staying abroad (brought about)?’ that is to say,–How, though having to stay abroad, does he ensure the spiritual benefits of remaining at home? or, as Sāyaṇa puts it, How is the fault of staying abroad, avoided?–asya pravasato yajamānasya anapaproshitam pravāsadoshābhāvaḥ. ↩︎

  7. 47:5 Or, among (or in) beings. Sāyaṇa supplies ‘yajamānaḥ’ to ‘yo javishṭḥaḥ.’ ↩︎