०१

विश्वास-प्रस्तुतिः

संवत्सरो᳘ यज्ञः[[!!]]॥
स यो᳘ ह वै᳘ संवत्सरो᳘ यज्ञ ऽइ᳘ति व्वेदा᳘न्ते है᳘वास्य संवत्सर᳘स्येष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्च संवत्सरे᳘ क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - श्रीधरादि

संवत्सरो᳘ यज्ञः[[!!]]॥
स यो᳘ ह वै᳘ संवत्सरो᳘ यज्ञ ऽइ᳘ति व्वेदा᳘न्ते है᳘वास्य संवत्सर᳘स्येष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्च संवत्सरे᳘ क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - Weber

संवत्सरो᳘ यज्ञः᳟॥
स यो᳘ ह वै संवत्सरो᳘ यज्ञ इ᳘ति वेदा᳘न्ते हैॗवास्य संवत्सर᳘स्येष्ट᳘म् भवत्य᳘थो यत्किं᳘ च संवत्सरे᳘ क्रिय᳘ते स᳘र्वᳫं हैॗवास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितम् भवति॥

मूलम् - विस्वरम्

संवत्सरो यज्ञः । स यो ह वै संवत्सरो यज्ञ इति वेद । अंते हैवास्य संवत्सरस्येष्टं भवति । अथो यत्किंच संवत्सरे क्रियते । सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ॥ १ ॥

सायणः

अथ यज्ञादीनां संवत्सराद्यात्मना उपासनं विधाय तत्तद्वैशिष्ट्येन दर्शपूर्णमासयागस्य विशिष्टफलसाधनतां प्रतिपादयति- संवत्सरो यज्ञ इत्यादिना । यो ऽयं प्रकृतो दर्शपूर्णमासात्मकः ‘यज्ञः’ संवत्सरात्मकः । यज्ञे संवत्सरात्मकत्वमुपासनार्थमारोप्यमित्यर्थः । तदुपासनं विधत्ते- स यो ह वा इति । ‘यः’ खलु एनं यज्ञं संवत्सरं ‘वेद’ उपास्ते । ‘अस्य’ यजमानस्य संवत्सरसमीप एव ‘इष्टं भवति’ यागः कृतो भवति । ‘अथो’ अपि च संवत्सरसामीप्यलाभात् तस्मिन् संवत्सरमध्ये यत्किमपि कर्मजातम् ‘क्रियते’ अस्य यजमानस्य तत्सर्वमाप्तं सत् ‘अवरुद्धं’ लब्धम् ‘अभिजितं’ स्वाधीनं ‘भवति’ । एवमुत्तरत्र सर्वत्र योज्यम् ॥ १ ॥

Eggeling
  1. The Sacrifice is the Year; and, verily, sacrifice is offered at the end of the year of him whoso knows that the sacrifice is the year; and all that is done in the year comes to be gained, secured, and won for him.

०२

विश्वास-प्रस्तुतिः

(त्यृ) ऋत᳘व ऽऋत्वि᳘जः॥
स यो᳘ ह वा᳘ ऽऋत᳘व ऽऋत्वि᳘ज ऽइ᳘ति व्वेदा᳘न्ते है᳘वास्यर्तूना᳘मिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्चर्तुषु[[!!]] क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - श्रीधरादि

(त्यृ) ऋत᳘व ऽऋत्वि᳘जः॥
स यो᳘ ह वा᳘ ऽऋत᳘व ऽऋत्वि᳘ज ऽइ᳘ति व्वेदा᳘न्ते है᳘वास्यर्तूना᳘मिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्चर्तुषु[[!!]] क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - Weber

ऋत᳘व ऋत्वि᳘जः॥
स यो᳘ ह वा᳘ ऋत᳘व ऋत्वि᳘ज इ᳘ति वेदा᳘न्ते हैॗवास्यर्तूना᳘मिष्ट᳘म् भवत्य᳘थो यत्किं᳘ चर्तु᳘षु क्रिय᳘ते स᳘र्वᳫं हैॗवास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितम् भवति॥

मूलम् - विस्वरम्

ऋतव ऋत्विजः । स यो ह वा ऋतव ऋत्विज इति वेद । अंते हैवास्यर्तूनामिष्टं भवति । अथो यत्किंचर्तुषु क्रियते । सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ॥ २ ॥

सायणः

ऋत्विक्षु वसंतादिऋतुरूपत्वोपासनं विधत्ते- ऋतव ऋत्विज इति । यज्ञस्य संवत्सरात्मकत्वात् तन्निष्पादकानामृत्विजामृतुत्वाध्यारोपः ॥ २ ॥

Eggeling
  1. The officiating priests are the seasons; and, verily, sacrifice is offered at the end of the seasons of him whoso knows that the officiating priests are the seasons; and all that is done in the seasons comes to be gained, secured, and won for him.

०३

विश्वास-प्रस्तुतिः

मा᳘सा हवी᳘ᳫँ᳘षि॥
स यो᳘ ह वै मा᳘सा हवीᳫँ᳭षी᳘ति व्वेदा᳘न्ते है᳘वास्य मा᳘सानामिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्च मा᳘सेषु क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - श्रीधरादि

मा᳘सा हवी᳘ᳫँ᳘षि॥
स यो᳘ ह वै मा᳘सा हवीᳫँ᳭षी᳘ति व्वेदा᳘न्ते है᳘वास्य मा᳘सानामिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्च मा᳘सेषु क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - Weber

मा᳘सा हवीं᳘षि॥
स यो᳘ ह वै मा᳘सा हवींषी᳘ति वेदा᳘न्ते हैॗवास्य मा᳘सानामिष्ट᳘म् भवत्य᳘थो यत्किं᳘ च मा᳘सेषु क्रिय᳘ते स᳘र्वᳫं हैॗवास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितम् भवति॥

मूलम् - विस्वरम्

मासा हवींषि । स यो ह वै मासा हवींषीति वेद । अंते हैवास्य मासानामिष्टं भवति । अथो यत्किंच मासेषु क्रियते । सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ॥ ३ ॥

सायणः

हविःषु मासबुद्धिं विधत्ते- मासा हवींषीति । आज्यसान्नाय्यादीनि ‘हवींषि’ मासात्मना ध्यातव्यानि । मासानां ऋत्ववयवत्वात् हविषामृत्विक्संपाद्यतया तादात्म्याध्यारोपः । एवमुत्तरत्रापि तादात्म्यमूहनीयम् ॥ ३ ॥

Eggeling
  1. The oblations are the months; and, verily, sacrifice is offered at the end of the months of him whoso knows that the oblations are the months;

and all that is done in the months comes to be gained, secured, and won for him.

०४

विश्वास-प्रस्तुतिः

(त्य) अर्द्धमासा᳘ हविष्पात्रा᳘णि॥
स यो᳘ ह वा᳘ ऽअर्द्धमासा᳘ हविष्पात्राणी᳘ति व्वेदा᳘न्ते है᳘वास्यार्द्धमासा᳘नामिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्चार्द्धमासे᳘षु क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - श्रीधरादि

(त्य) अर्द्धमासा᳘ हविष्पात्रा᳘णि॥
स यो᳘ ह वा᳘ ऽअर्द्धमासा᳘ हविष्पात्राणी᳘ति व्वेदा᳘न्ते है᳘वास्यार्द्धमासा᳘नामिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्चार्द्धमासे᳘षु क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितं भवति॥

मूलम् - Weber

अर्धमासा᳘ हविष्पात्रा᳘णि॥
स यो᳘ ह वा᳘ अर्धमासा᳘ हविष्पात्राणी᳘ति वेदा᳘न्ते हैॗवास्यार्धमासा᳘नामिष्ट᳘म् भवत्य᳘थो यत्किं᳘ चार्धमासे᳘षु क्रिय᳘ते स᳘र्वᳫं हैॗवास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितम् भवति॥

मूलम् - विस्वरम्

अर्द्धमासा हविष्पात्राणि । स यो ह वा अर्द्धमासा हविष्पात्राणीति वेद । अंते हैवास्यार्द्धमासानामिष्टं भवति । अथो यकिंचार्द्धमासेषु क्रियते । सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ॥ ४ ॥

सायणः

हविषां संबंधीनि यानि उलूखलमुसलादीनि पात्राणि तेषामर्द्धमासात्मनोपासनं विधत्ते- अर्द्धमासा हविष्पात्राणीति ॥ ४ ॥

Eggeling
  1. The oblation-vessels are the half-months; and, verily, sacrifice is offered at the end of the half-months of him whoso knows that the oblation-vessels are the half-months; and all that is done in the half-months comes to be gained, secured, and won for him.

०५

विश्वास-प्रस्तुतिः

(त्य) अहोरात्रे᳘ परिवेष्ट्री[[!!]]॥
स यो᳘ ह वा᳘ ऽअहोरात्रे᳘ परिवेष्ट्री ऽइ᳘ति व्वेदा᳘न्ते है᳘वास्याहोरात्र᳘योरिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्चाहोरात्र᳘योः क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य तदाप्तम᳘वरुद्धमभि᳘जितं[[!!]] भवति॥

मूलम् - श्रीधरादि

(त्य) अहोरात्रे᳘ परिवेष्ट्री[[!!]]॥
स यो᳘ ह वा᳘ ऽअहोरात्रे᳘ परिवेष्ट्री ऽइ᳘ति व्वेदा᳘न्ते है᳘वास्याहोरात्र᳘योरिष्टं᳘ भवत्य᳘थो यत्कि᳘ञ्चाहोरात्र᳘योः क्रिय᳘ते स᳘र्व्वᳫँ᳭ है᳘वास्य तदाप्तम᳘वरुद्धमभि᳘जितं[[!!]] भवति॥

मूलम् - Weber

अहोरात्रे᳘ परिवेष्ट्री᳟॥
स यो᳘ ह वा᳘ अहोरात्रे᳘ परिवेष्ट्री इ᳘ति वेदा᳘न्ते हैॗवास्याहोरात्र᳘योरिष्ट᳘म् भवत्य᳘थो यत्किं᳘ चाहोरात्र᳘योः क्रिय᳘ते स᳘र्वᳫं हैॗवास्य त᳘दाप्तम᳘वरुद्धमभि᳘जितम् भवति॥

मूलम् - विस्वरम्

अहोरात्रे परिवेष्ट्री । स यो ह वा अहोरात्रे परिवेष्ट्री इति वेद । अंते हैवास्याहोरात्रयोरिष्टं भवति । अथ यत्किंचाहोरात्रयोः क्रियते । सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ॥ ५ ॥

सायणः

ये परिवेषणसाधने धृष्टी तयोरहोरात्रबुद्धिं विधत्ते- अहोरात्रे परिवेष्ट्री इति ॥ ५ ॥

Eggeling
  1. The two attendants 1 are the day and night; and, verily, sacrifice is offered at the end of the day and night of him whoso knows that the two attendants are the day and night; and all that is done in the day and night comes to be gained, secured, and won for him.

०६

विश्वास-प्रस्तुतिः

(ती) इय᳘मेव᳘ प्रथमा᳘ सामिधे᳘नी॥
(न्य) अग्नि᳘र्द्विती᳘या व्वायु᳘स्तृती᳘या ऽन्त᳘रिक्षं चतुर्थी द्यौ᳘ष्पंच᳘म्यादित्यः᳘ षष्ठी᳘ चन्द्र᳘माः सप्तमी म᳘नो ऽष्टमी व्वा᳘ङ्नवमी त᳘पो दशमी ब्र᳘ह्मैकाद᳘श्येता हि वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ समिंध᳘त ऽएता᳘भिरिदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘मिद्धं त᳘स्मात्सामिधे᳘न्यो नाम[[!!]]॥

मूलम् - श्रीधरादि

(ती) इय᳘मेव᳘ प्रथमा᳘ सामिधे᳘नी॥
(न्य) अग्नि᳘र्द्विती᳘या व्वायु᳘स्तृती᳘या ऽन्त᳘रिक्षं चतुर्थी द्यौ᳘ष्पंच᳘म्यादित्यः᳘ षष्ठी᳘ चन्द्र᳘माः सप्तमी म᳘नो ऽष्टमी व्वा᳘ङ्नवमी त᳘पो दशमी ब्र᳘ह्मैकाद᳘श्येता हि वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ समिंध᳘त ऽएता᳘भिरिदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘मिद्धं त᳘स्मात्सामिधे᳘न्यो नाम[[!!]]॥

मूलम् - Weber

इय᳘मेव᳘ प्रथमा᳘ सामिधेॗनी॥
अग्नि᳘र्द्विती᳘या वायु᳘स्तृती᳘यान्त᳘रिक्षं चतुर्थी द्यौ᳘ष्पञ्चॗम्यादित्यः᳘ षष्ठी᳘ चन्द्र᳘माः सप्तमी म᳘नोऽष्टमी वा᳘ङ्नवमी त᳘पो दशमी ब्र᳘ह्मैकादॗश्येता हि वा᳘ इदᳫं स᳘र्वᳫं समिन्ध᳘त एता᳘भिरिदᳫं स᳘र्वᳫं स᳘मिद्धं त᳘स्मात्सामिधेॗन्यो ना᳘म॥

मूलम् - विस्वरम्

इयमेव प्रथमा सामिधेनी । अग्निर्द्वितीया । वायुस्तृतीया । अंतरिक्षं चतुर्थी । द्यौष्पंचमी । आदित्यः षष्ठी । चंद्रमाः सप्तमी । मनो ऽष्टमी । वाङ्नवमी । तपो दशमी । ब्रह्मैकादशी । एता हि वा इदं समिंधते । एताभिरिदं सर्वं समिद्धम् । तस्मात्सामिधेन्यो नाम ॥ ६ ॥

सायणः

अथ सामिधेनीनां पृथिव्यादिदेवतारूपेणोपासनं विधत्ते- इयमेव प्रथमा सामिधेनीति । ‘इयं’ पृथिव्येव ‘प्रथमा’ “प्र वो वाजाः” इत्येषा ‘सामिधेनी’ समिदाधानार्था ऋक्, ‘अग्निः’ तदधिष्ठातृदेवता ‘द्वितीया’ सामिधेनी, वायुरन्तरिक्षाधिदेवता सा ‘तृतीया’ एवमुत्तरत्रापि संबंधो द्रष्टव्यः । उक्तपृथिव्यादीनां यन्मूलकारणं ‘ब्रह्म’ सा ‘एकादशी’ सामिधेनी । एतासां देवतानां सामिधेन्यात्मकत्वं समर्थयते- एता हि वा इति । ‘एताः’ खलु देवताः ‘इदं सर्वं’ स्थावरजंगमात्मकं जगत् ‘समिधते’ संदीपयंति । तथा च एताभिरेवेदं ‘सर्वं समिद्धं’ संदीप्तं सत् इदानीं दृश्यते । तस्मात्समिंधनहेतुत्वात् एताः सामिधेनीनाम्ना प्रतिपादयितुमर्हा इत्यर्थः । इत्थं यो यजमानः पृथिव्याद्यात्मना सामिधेनीरुपास्ते स पृथिव्यादीन् लोकान् जयतीत्यभिप्रायः ॥ ६ ॥

Eggeling
  1. The first kindling-verse is this (earth), the second the fire, the third the wind, the fourth the air, the fifth the sky, the sixth the sun, the seventh the moon, the eighth the mind, the ninth speech, the tenth fervid devotion, and the eleventh the Brahman; for it is these that kindle all this (universe), and by them all this (universe) is kindled, whence they are called kindling-verses.

०७

विश्वास-प्रस्तुतिः

स वै त्रिः᳘ प्रथमाम᳘न्वाह॥
स य᳘त्प्रथम᳘मन्वा᳘ह प्रा᳘चीं ते᳘न दि᳘शं जयति य᳘द्द्विती᳘यं द᳘क्षिणां ते᳘न दि᳘शं जयति य᳘त्तृती᳘यमूर्ध्वा᳘मेव ते᳘न दि᳘शं जयति॥

मूलम् - श्रीधरादि

स वै त्रिः᳘ प्रथमाम᳘न्वाह॥
स य᳘त्प्रथम᳘मन्वा᳘ह प्रा᳘चीं ते᳘न दि᳘शं जयति य᳘द्द्विती᳘यं द᳘क्षिणां ते᳘न दि᳘शं जयति य᳘त्तृती᳘यमूर्ध्वा᳘मेव ते᳘न दि᳘शं जयति॥

मूलम् - Weber

स वै त्रिः᳘ प्रथमाम᳘न्वाह॥
स य᳘त्प्रथम᳘मन्वा᳘ह प्रा᳘चीं ते᳘न दि᳘शं जयति य᳘द्द्विती᳘यं द᳘क्षिणां ते᳘न दि᳘शं जयति य᳘त्तृती᳘यमूर्ध्वा᳘मेव ते᳘न दि᳘शं जयति॥

मूलम् - विस्वरम्

स वै त्रिः प्रथमामन्वाह । स यत्प्रथममन्वाह । प्राचीं तेन दिशं जयति । यद्द्वितीयं- दक्षिणां तेन दिशं जयति । यत्तृतीयम्- ऊर्ध्वामेव तेन दिशं जयति ॥ ७ ॥

सायणः

तत्र प्रथमोत्तमयोस्त्रिरावृत्तिर्विहिता तया जेतव्यं दर्शयति- स वै त्रिः प्रथमामिति । इमामेव तेनेति । ‘तेन’ तृतीयेन ‘इमां’ पृथिवीमेव ‘प्रतिष्ठां’ प्रतिष्ठाहेतुभूतां तदुपलक्षितां अधोदिशं जयतीत्यर्थः । इत्थं सामिधेन्युपासनस्य प्रतिष्ठाफलं निगमयति- एवमु हाभिरिति । ‘आभिः’ सामिधेनीभिः ‘इमान्’ पृथिव्यादीन् अग्न्याद्यधिष्ठातृसहितान् । गतमन्यत् ॥ ७ ॥ ८ ॥

Eggeling
  1. Thrice he recites the first (kindling-verse): by reciting it the first time he gains the eastern region, by the second time he gains the southern region, and by the third time he gains the upper region.

०८

विश्वास-प्रस्तुतिः

त्रि᳘र्व्वे᳘वोत्तमाम᳘न्वाह॥
स य᳘त्प्रथम᳘मन्वा᳘ह प्रती᳘चीं ते᳘न दि᳘शं जयति य᳘द्द्विती᳘यमु᳘दीचीं ते᳘न दि᳘शं जयति य᳘त्तृती᳘यमिमा᳘मेव ते᳘न प्रतिष्ठां᳘ जयत्येव᳘मु हाभिरिमाल्ँ᳘लोकाञ्ज᳘यत्येताः दि᳘शः॥

मूलम् - श्रीधरादि

त्रि᳘र्व्वे᳘वोत्तमाम᳘न्वाह॥
स य᳘त्प्रथम᳘मन्वा᳘ह प्रती᳘चीं ते᳘न दि᳘शं जयति य᳘द्द्विती᳘यमु᳘दीचीं ते᳘न दि᳘शं जयति य᳘त्तृती᳘यमिमा᳘मेव ते᳘न प्रतिष्ठां᳘ जयत्येव᳘मु हाभिरिमाल्ँ᳘लोकाञ्ज᳘यत्येताः दि᳘शः॥

मूलम् - Weber

त्रि᳘र्वेॗवोत्तमाम᳘न्वाह॥
स य᳘त्प्रथम᳘मन्वा᳘ह प्रती᳘चीं ते᳘न दि᳘शं जयति य᳘द्द्विती᳘यमु᳘दीचीं ते᳘न दि᳘शं जयति य᳘त्तृती᳘यमिमा᳘मेव ते᳘न प्रतिष्ठां᳘ जयत्येव᳘मु हाभिरिमां᳘लोकान्ज᳘यत्येता दि᳘शः॥

मूलम् - विस्वरम्

त्रिर्वैवोत्तमामन्वाह । स यत्प्रथममन्वाह । प्रतीचीं तेन दिशं जयति । यद्द्वितीयम्- उदीचीं तेन दिशं जयति । यत्तृतीयम्- इमामेव तेन प्रतिष्ठां जयति । एवमु हाभिरिमाल्ँ लोकाञ्जयत्येता दिशः॥ ८ ॥

सायणः

[व्याख्यानं सप्तमे]

Eggeling
  1. And thrice he recites the last (verse): by reciting it the first time he gains the western region, by the second time he gains the northern region, by the third time he gains this same (earth as a) resting-place;

and by those (kindling-verses) he thus gains these worlds, and these regions.

०९

विश्वास-प्रस्तुतिः

(०) ऋत᳘मेव पू᳘र्व्व ऽआघारः᳘॥
सत्य᳘मु᳘त्तरो᳘ ऽव ह वा᳘ ऽऋतसत्ये᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्चर्तसत्या᳘भ्यां ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - श्रीधरादि

(०) ऋत᳘मेव पू᳘र्व्व ऽआघारः᳘॥
सत्य᳘मु᳘त्तरो᳘ ऽव ह वा᳘ ऽऋतसत्ये᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्चर्तसत्या᳘भ्यां ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - Weber

ऋत᳘मेव पू᳘र्व आघारः᳟॥
सत्यमु᳘त्तरो᳘ऽव ह वा᳘ ऋतसत्ये᳘ रुन्द्धे᳘ऽथो यत्किं᳘ चर्तसत्या᳘भ्यां ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति॥

मूलम् - विस्वरम्

ऋतमेव पूर्व आघारः । सत्यमुत्तरः । अव ह वा ऋतसत्ये रुंधे । अथो यत्किंचर्तसत्याभ्यां जय्यम् । सर्वं हैव तज्जयति ॥ ९ ॥

सायणः

अथाघारयोः ऋतसत्यात्मना उपासनं विधत्ते- ऋतमेवेति । मनसा यथार्थसंकल्पनम् ‘ऋतं’, यथार्थभाषणं ‘सत्यं’, एतावाघारौ यथाक्रमं ऋतसत्यात्मना ध्यातव्यावित्यर्थः । तत्फलमाह- अव ह वा इति ॥ ९ ॥

Eggeling
  1. The first libation of ghee is the sacred law, and the second the truth; and, verily, he secures for himself law and truth, and whatsoever is to be gained by law and truth all that he now gains.

१०

विश्वास-प्रस्तुतिः

त्वि᳘षिरेव᳘ प्रथमः᳘ प्रयाजः᳘॥
(जो᳘ ऽप) अ᳘पचितिर्द्विती᳘यो य᳘शस्तृती᳘यो ब्रह्मवर्च्चसं᳘ चतु᳘र्थो ऽन्ना᳘द्यं पञ्चमः[[!!]]॥

मूलम् - श्रीधरादि

त्वि᳘षिरेव᳘ प्रथमः᳘ प्रयाजः᳘॥
(जो᳘ ऽप) अ᳘पचितिर्द्विती᳘यो य᳘शस्तृती᳘यो ब्रह्मवर्च्चसं᳘ चतु᳘र्थो ऽन्ना᳘द्यं पञ्चमः[[!!]]॥

मूलम् - Weber

त्वि᳘षिरेव᳘ प्रथमः᳘ प्रयाजः᳟॥
अ᳘पचितिर्द्विती᳘यो य᳘शस्तृती᳘यो ब्रह्मवर्चसं᳘ चतुॗर्थोऽन्ना᳘द्यम् पञ्चमः᳟॥

मूलम् - विस्वरम्

त्विषिरेव प्रथमः प्रयाजः । अपचितिर्द्वितीयः । यशस्तृतीयः । ब्रह्मवर्चसं चतुर्थः । अन्नाद्यं पंचमः ॥ १० ॥

सायणः

अथ प्रयाजेषु त्विष्याद्युपासनं विधत्ते- त्विषिरेवेति । ‘त्विषिः’ शरीरकांतिः, ‘अपचितिः’ पूजा, ‘यशः’ कीर्तिः, ‘ब्रह्मवर्चसं’ श्रुताध्ययनजनितसंपत्तिः ब्राह्मं तेजः, ब्रह्मणो वर्च इति विगृह्य “ब्रह्महस्तिभ्यां वर्चसः” (पा. सू. ५ । ४ । ७८) इति अकारः समासांतः । ‘अन्नाद्यं’ अन्नादनसामर्थ्यम् ॥ १० ॥

Eggeling
  1. The first fore-offering is brilliance, the second honour, the third fame, the fourth holy lustre, the fifth food (prosperity).

११

विश्वास-प्रस्तुतिः

स᳘ प्रथमं᳘ प्रयाजम᳘नुमंत्रयते॥
त्वि᳘षिमान्भूयासमित्य᳘पचितिमान्भूयासमि᳘ति द्विती᳘यं यशस्वी᳘ भूयासमि᳘ति तृती᳘यम्ब्रह्मवर्च्चसी᳘ भूयासमि᳘ति चतुर्थ᳘मन्नादो᳘ भूयासमि᳘ति पंचमं त्वि᳘षिमान्ह वा ऽअ᳘पचितिमान्यशस्वी᳘ ब्रह्मवर्च्च᳘स्यन्नादो᳘[[!!]] भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

स᳘ प्रथमं᳘ प्रयाजम᳘नुमंत्रयते॥
त्वि᳘षिमान्भूयासमित्य᳘पचितिमान्भूयासमि᳘ति द्विती᳘यं यशस्वी᳘ भूयासमि᳘ति तृती᳘यम्ब्रह्मवर्च्चसी᳘ भूयासमि᳘ति चतुर्थ᳘मन्नादो᳘ भूयासमि᳘ति पंचमं त्वि᳘षिमान्ह वा ऽअ᳘पचितिमान्यशस्वी᳘ ब्रह्मवर्च्च᳘स्यन्नादो᳘[[!!]] भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

स᳘ प्रथम᳘म् प्रयाजम᳘नुमन्त्रयेत॥
त्वि᳘षिमान्भूयासमित्य᳘पचितिमान्भूयासमि᳘ति द्विती᳘यं यशस्वी᳘ भूयासमि᳘ति तृती᳘यम् ब्रह्मवर्चसी᳘ भूयासमि᳘ति चतुर्थ᳘मन्नादो᳘ भूयासमि᳘ति पञ्चमं त्वि᳘षिमान्ह वा अ᳘पचितिमान्यशस्वी᳘ ब्रह्मवर्चस्य᳘न्नादो᳘ भवति य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

स प्रथमं प्रयाजमनुमंत्रयते “त्विषिमान् भूयासम्” इति । “अपचितिमान् भूयासम्” इति द्वितीयम् । “यशस्वी भूयासम्” इति तृतीयम् । “ब्रह्मवर्चसी भूयासम्” इति चतुर्थम् । “अन्नादो भूयासम्" इति पंचमम् । त्विषिमान् ह वा अपचितिमान् यशस्वी ब्रह्मवर्चस्यन्नादो भवति, य एवमेतद्वेद ॥ ११ ॥

सायणः

एतच्चोपासनमनुमंत्रणमंत्रैः कार्यमित्याह- स प्रथमं प्रयाजमिति । एवं अनुमंत्रणमंत्रैः कृतस्य त्विष्याद्युपासनस्य फलमाह- त्विषिमान्ह वा अपचितिमानिति । यशस्वीति । “अस्मायामेधा” (पा. सू. ५ । २ । १२१) इति विनिः । ब्रह्मवर्चसशब्दात् “अत इनिठनौ” (पा. सू. ५ । २ । ११५) इति इनिः ॥ ११ ॥

Eggeling
  1. After the first fore-offering let him utter (the anumantraṇa 2), ‘May I become brilliant;’ after the second, ‘May I become honoured; after the third, ‘May I become glorious;’ after the fourth, ‘May I become endowed with holy lustre;’ after the fifth, ‘May I become prosperous;’–and, verily, whosoever knows this becomes brilliant, and honoured, and glorious, and endowed with holy lustre, and prosperous.

१२

विश्वास-प्रस्तुतिः

(दै) एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह॥
श्वेत᳘केतुरारुणेयः क᳘ᳫँ᳘ स्विदे᳘वापरी᳘षु महानाग᳘मिवाभिसᳫँ᳭सा᳘रं दिदृक्षिता᳘रो य᳘ ऽएव᳘मेत᳘त्प्रयाजा᳘नां य᳘शो व्वेदिते᳘ति॥

मूलम् - श्रीधरादि

(दै) एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह॥
श्वेत᳘केतुरारुणेयः क᳘ᳫँ᳘ स्विदे᳘वापरी᳘षु महानाग᳘मिवाभिसᳫँ᳭सा᳘रं दिदृक्षिता᳘रो य᳘ ऽएव᳘मेत᳘त्प्रयाजा᳘नां य᳘शो व्वेदिते᳘ति॥

मूलम् - Weber

एत᳘द्ध स्म वै त᳘द्विद्वानाह॥
श्वेत᳘केतुरारुणेयः क᳘ᳫं᳘ स्विदेॗवापरी᳘षु महानाग᳘मिवाभिसंसा᳘रं दिदृक्षिता᳘रो य᳘ एव᳘मेत᳘त्प्रयाजा᳘नां य᳘शो वेदिते᳘ति॥

मूलम् - विस्वरम्

एतद्ध स्म वै तद्विद्वानाह श्वेतकेतुरारुणेयः । कं स्विदेवापरीषु महानागमिवाभिसंसारं दिदृक्षितारः । य एवमेतत्प्रयाजानां यशो वेदितेति ॥ १२ ॥

सायणः

उक्तमर्थं महर्षिवाक्येन द्रढयति- एतद्ध स्म वै तदिति । ‘एतद्ध’ एतदेव उक्तप्रकारेण प्रयाजानां त्विष्याद्यात्मकत्वं ‘विद्वान्’ जानन् ‘श्वेतकेतुरारुणेयः’ अरुणेः पुत्रः श्वेतकेतुः एतत्संज्ञको महर्षिः पुरा खलु ‘आह स्म’ उक्तवान् । कथमिति ? ‘यः’ पुरुषः एवमुक्तप्रकारेण ‘प्रयाजानां’ एतद्यशः त्विष्यादिरूपं माहात्म्यं ‘वेदिता’ ज्ञास्यति । “विद ज्ञाने” (धा. पा. अ. प. ५४) इत्यस्मात् लुटि रूपम् । ‘कं स्विदेव’ कंचिदेव बहूनां मध्ये ज्ञानप्रभावेण असाधारणं संतं महानागमत्यद्भुतं महासर्पमिव ‘अभिसंसारं’ अभिगम्याभिगम्य ‘दिदृक्षितारः’ दिदृक्षंते । पूर्ववल्लुट् । इत्थं प्रयाजानां त्विष्यादिरूपं विद्वान् यशः अतिशयेन दर्शनीयो भवतीति विदुषः श्वेतकेतोरभिप्रायः ॥ १२ ॥

Eggeling
  1. Now, Śvetaketu Āruṇeya 3, who knew this, said once, ‘To him who will thus know that glory of the fore-offerings, people will in days to come be flocking from all sides as if wishing to see some great serpent.’

१३

विश्वास-प्रस्तुतिः

भूत᳘मेव पू᳘र्व्व ऽआ᳘ज्यभागः॥
(गो) भविष्यदु᳘त्तरो᳘ ऽव ह वै भूतं᳘ च भविष्य᳘च्च रुन्धे᳘ ऽथो यत्कि᳘ञ्च भूते᳘न च भविष्यता᳘ च ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - श्रीधरादि

भूत᳘मेव पू᳘र्व्व ऽआ᳘ज्यभागः॥
(गो) भविष्यदु᳘त्तरो᳘ ऽव ह वै भूतं᳘ च भविष्य᳘च्च रुन्धे᳘ ऽथो यत्कि᳘ञ्च भूते᳘न च भविष्यता᳘ च ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - Weber

भूत᳘मेव पू᳘र्व आ᳘ज्यभागः॥
भविष्यदु᳘त्तरो᳘ऽव ह वै भूतं᳘ च भविष्य᳘च्च रुन्द्धे᳘ऽथो यत्किं᳘ च भूते᳘न च भविष्यता᳘ च ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति॥

मूलम् - विस्वरम्

भूतमेव पूर्व आज्यभागः, भविष्यदुत्तरः । अव ह वै भूतं च भविष्यच्च रुंधे । अथो यत्किंच भूतेन च भविष्यता च जय्यम् । सर्वं हैव तज्जयति ॥ १३ ॥

सायणः

भूतभविष्यदात्मना आज्यभागयोर्ध्यानं विधत्ते- भूतमेव पूर्व आज्यभाग इति । भूतकालावच्छिन्नं वस्तु ‘भूतं’ आगामिकालावच्छिन्नं वस्तु ‘भविष्यत्’ । भूतभविष्यद्रूपतायाश्चाज्यभागयोर्विधानात् ‘भूतं’ भविष्यच्च’ अतीतमनागतं च सकलं वस्तुजातं ‘अवरुंधे’ अथ ताभ्यां जेतव्यं यत्किमपि फलमस्ति तत्सर्वं जयति ॥ १३ ॥

Eggeling
  1. The first butter-portion, doubtless, is the past, and the second the future: verily, he secures for himself both the past and the future; and whatever is to be gained by the past and the future, all that he now gains.

१४

विश्वास-प्रस्तुतिः

ब्र᳘ह्मा ऽऽग्नेयः᳘ पुरोडा᳘शः॥
स यो᳘ ह वै ब्र᳘ह्मा ऽऽग्नेयः᳘ पुरोडा᳘श ऽइ᳘ति व्वेदा᳘व ह ब्र᳘ह्म रुन्धे᳘ ऽथो यत्कि᳘ञ्च ब्र᳘ह्मणा ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - श्रीधरादि

ब्र᳘ह्मा ऽऽग्नेयः᳘ पुरोडा᳘शः॥
स यो᳘ ह वै ब्र᳘ह्मा ऽऽग्नेयः᳘ पुरोडा᳘श ऽइ᳘ति व्वेदा᳘व ह ब्र᳘ह्म रुन्धे᳘ ऽथो यत्कि᳘ञ्च ब्र᳘ह्मणा ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - Weber

ब्र᳘ह्माग्नेयः᳘ पुरोडा᳘शः॥
स यो᳘ ह वै ब्र᳘ह्माग्नेयः᳘ पुरोडा᳘श इ᳘ति वेदा᳘व ह ब्र᳘ह्म रुन्द्धे᳘ऽथो यत्किं च ब्र᳘ह्मणा ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति॥

मूलम् - विस्वरम्

ब्रह्मा ऽऽग्नेयः पुरोडाशः । स यो ह वै ब्रह्मा ऽ ऽग्नेयः पुरोडाश इति वेद । अव ह ब्रह्म रुंधे । अथो यत्किंच ब्रह्मणा जय्यम् । सर्वं हैव तज्जयति ॥ १४ ॥

सायणः

ब्रह्माग्नेय इत्यादि । ‘ब्रह्म’ ब्राह्मणजातिरेव ‘आग्नेयः पुरोडाशः’ । एतद्वेदनस्य फलमाह- स यो ह वा इति । अव ह ब्रह्म रुंध इति । ब्राह्मणजातिरवरुद्धा वेदितुः स्वाधीना भवतीत्यर्थः । ततः किमित्याह- अथो यत्किंचेति ॥ १४ ॥

Eggeling
  1. The cake offered to Agni is the Brahman (priesthood); and, verily, whosoever knows Agni’s cake to be the priesthood secures for himself the priesthood; and whatever is to be gained by the priesthood all that he now gains.

१५

विश्वास-प्रस्तुतिः

क्षत्त्र᳘मुपाᳫँ᳭शुयाजः[[!!]]॥
स यो᳘ ह वै᳘ क्षत्त्र᳘मुपाᳫँ᳭शुयाज ऽइ᳘ति व्वेदा᳘व ह क्षत्त्र᳘ᳫँ᳭ रुन्धे᳘ ऽथो यत्कि᳘ञ्च क्षत्त्रे᳘ण ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति तद्य᳘दुपाᳫँ᳭शुयाजं᳘ कुर्व्वंत्ये᳘के नै᳘के त᳘स्मादुच्चै᳘श्चोपाᳫँ᳭शु᳘ च क्षत्त्राया᳘चक्षते॥

मूलम् - श्रीधरादि

क्षत्त्र᳘मुपाᳫँ᳭शुयाजः[[!!]]॥
स यो᳘ ह वै᳘ क्षत्त्र᳘मुपाᳫँ᳭शुयाज ऽइ᳘ति व्वेदा᳘व ह क्षत्त्र᳘ᳫँ᳭ रुन्धे᳘ ऽथो यत्कि᳘ञ्च क्षत्त्रे᳘ण ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति तद्य᳘दुपाᳫँ᳭शुयाजं᳘ कुर्व्वंत्ये᳘के नै᳘के त᳘स्मादुच्चै᳘श्चोपाᳫँ᳭शु᳘ च क्षत्त्राया᳘चक्षते॥

मूलम् - Weber

क्षत्र᳘मुपांशुयाजः᳟॥
स यो᳘ ह वै᳘ क्षत्र᳘मुपांशुयाज इ᳘ति वेदा᳘व ह क्षत्रं᳘ रुन्द्धे᳘ऽथो यत्किं᳘ च क्षत्रे᳘ण ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति तद्य᳘दुपांशुयाजं᳘ कुर्वन्त्ये᳘के नै᳘के त᳘स्मादुच्चै᳘श्चोपांशु᳘ च क्षत्राया᳘चक्षते॥

मूलम् - विस्वरम्

क्षत्त्रमुपांशुयाजः । स यो ह वै क्षत्त्रमुपांशुयाज इति वेद । अव ह क्षत्त्रं रुंधे । अथो यत्किंच क्षत्त्रेण जय्यम् । सर्वं हैव तज्जयति । तद्यदुपांशुयाजं कुर्वंत्येके, नैके । तस्मादुच्चैश्चोपांशु च क्षत्त्रायाचक्षते ॥ १५ ॥

सायणः

क्षत्त्रमुपांशुयाज इति । उपांशुयाजाख्यो यागः क्षत्रियजात्यात्मना ध्यातव्यः । तद्वेदनस्य फलमाह- स यो ह वा इति । पूर्ववद्योज्यम् । क्षत्त्रात्मकत्वमुपांशुयागस्य समर्थयते- तद्यदिति । तत्तत्र यद्यस्मात् ‘एके’ शाखिनः उपांशुयाजं कुर्वंति । एके न कुर्वंति, अत एवोक्तमाश्वलायनेन- “अग्नीषोमीयेण पौर्णमास्यां वैष्णवममावास्यायामेके नैके” (आश्व. श्रौ. सू.) इति । तस्मादुपांशुयाजस्य पाक्षिकत्वात् ‘क्षत्त्राय’ क्षत्रियजातये विज्ञापयंतो जनाः ‘उच्चैश्चोपांशु च’ ‘आचक्षते’ वाक्यं प्रयुंजते । यद्वा उपांशुयाजाख्यं यागं केचिदुपांशुधर्मेण कुर्वंति, अन्ये तु नोपांशुधर्मेण, तमपि उच्चैरेव कुर्वंति ॥ १५ ॥

Eggeling
  1. The low-voiced offering is the Kshatra (nobility); and, verily, whosoever knows the low-voiced offering to be the nobility secures for himself the nobility; and whatever is to be gained by the nobility all that he now gains. And inasmuch as some perform the low-voiced offering, and others do not. therefore people speak (give information) to the noble both in a loud voice and in a low voice.

१६

विश्वास-प्रस्तुतिः

व्विडु᳘त्तरः पुरोडा᳘शः॥
स यो᳘ ह वै व्विडुत्तरः पुरोडा᳘श ऽइ᳘ति व्वेदा᳘व ह व्वि᳘शᳫँ᳭ रुन्धे᳘ ऽथो यत्कि᳘ञ्च व्विशा ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति तद्य᳘दाग्नेय᳘श्च पुरोडा᳘श ऽउपाᳫँ᳭शुयाज᳘श्च पू᳘र्व्वौ भ᳘वतस्त᳘स्मादुभे ब्र᳘ह्म च क्षत्त्रं᳘ च व्विशि प्र᳘तिष्ठिते॥

मूलम् - श्रीधरादि

व्विडु᳘त्तरः पुरोडा᳘शः॥
स यो᳘ ह वै व्विडुत्तरः पुरोडा᳘श ऽइ᳘ति व्वेदा᳘व ह व्वि᳘शᳫँ᳭ रुन्धे᳘ ऽथो यत्कि᳘ञ्च व्विशा ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति तद्य᳘दाग्नेय᳘श्च पुरोडा᳘श ऽउपाᳫँ᳭शुयाज᳘श्च पू᳘र्व्वौ भ᳘वतस्त᳘स्मादुभे ब्र᳘ह्म च क्षत्त्रं᳘ च व्विशि प्र᳘तिष्ठिते॥

मूलम् - Weber

विदु᳘त्तरः पुरोडा᳘शः॥
स यो᳘ ह वै विदु᳘त्तरः पुरोडा᳘श इ᳘ति वेदा᳘व ह वि᳘शं रुन्द्धे᳘ऽथो यत्किं᳘ च विशा ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति तद्य᳘दाग्नेय᳘श्च पुरोडा᳘श उपांशुयाज᳘श्च पू᳘र्वौ भ᳘वतस्त᳘स्मादुभे ब्र᳘ह्म च क्षत्रं᳘ च विशि प्रतिष्ठिते॥

मूलम् - विस्वरम्

विडुत्तरः पुरोडाशः । स यो ह वै विडुत्तरः पुरोडाश इति वेद । अव ह विशं रुंधे । अथो यत्किंच विशा । जय्यम् । सर्वं हैव तज्जयति । तद्यदाग्नेयश्च पुरोडाश उपांशुयाजश्च पूर्वौ भवतः । तस्मादुभे ब्रह्म च क्षत्रं च विशि प्रतिष्ठिते ॥ १६ ॥

सायणः

तदेतत् आग्नेयादीनां पौर्वापर्यक्रमं स्तौति- तद्यदाग्नेयश्चेति । यस्मादग्नीषोमीयात् वैश्यजात्यात्मकात् आग्नेयोपांशुयाजौ ब्रह्मक्षत्रात्मकौ पूर्वौ भवतः । तस्मात् ‘विशि’ वैश्यजातौ ‘ब्रह्म क्षत्त्रं’ च ‘प्रतिष्ठिते’ करोतीत्यर्थः ॥ १६ ॥

Eggeling
  1. The second cake is the Viś (people); and, verily, whosoever knows the second cake to be the people secures for himself the people; and whatever is to be gained by the people all that he gains. And inasmuch as Agni’s cake and the low-voiced offering come first therefore the priesthood and nobility are established upon the people.

१७

विश्वास-प्रस्तुतिः

राष्ट्र᳘ᳫँ᳘ सान्नाय्यम्[[!!]]॥
(ᳫँ᳭) स यो᳘ ह वै᳘ राष्ट्र᳘ᳫँ᳘ सान्नाय्यमि᳘ति व्वेदा᳘व ह राष्ट्र᳘ᳫँ᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्च राष्ट्रे᳘ण ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति तद्य᳘त्सन्नयन्त्ये᳘के नै᳘के त᳘स्माद्राष्ट्रᳫँ᳭ सञ्चै᳘ति व्वि᳘ च॥

मूलम् - श्रीधरादि

राष्ट्र᳘ᳫँ᳘ सान्नाय्यम्[[!!]]॥
(ᳫँ᳭) स यो᳘ ह वै᳘ राष्ट्र᳘ᳫँ᳘ सान्नाय्यमि᳘ति व्वेदा᳘व ह राष्ट्र᳘ᳫँ᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्च राष्ट्रे᳘ण ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति तद्य᳘त्सन्नयन्त्ये᳘के नै᳘के त᳘स्माद्राष्ट्रᳫँ᳭ सञ्चै᳘ति व्वि᳘ च॥

मूलम् - Weber

राष्ट्र᳘ᳫं᳘ सांनाय्यं᳟॥
स यो ह वै᳘ राष्ट्र᳘ᳫं᳘ सांनाय्यमि᳘ति वेदा᳘व ह राष्ट्रं᳘ रुन्द्धे᳘ऽथो यत्किं᳘ च राष्ट्रे᳘ण ज᳘ य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति तद्य᳘त्संन᳘यन्त्ये᳘के नै᳘के त᳘स्माद्राष्ट्रᳫं सं चै᳘ति वि᳘ च॥

मूलम् - विस्वरम्

राष्ट्रं सान्नाय्यम् । स यो ह वै राष्ट्रं सान्नाय्यमिति वेद । अव ह राष्ट्रं रुंधे । अथो यत्किंच राष्ट्रेण जय्यम् । सर्वं हैव तज्जयति । तद्यत्सन्नयंत्येके, नैके । तस्माद्राष्ट्रं सं चैति वि च ॥ १७ ॥

सायणः

अथ दधिपयोलक्षणस्य सान्नाय्यस्य राष्ट्ररूपताध्यानं विधत्ते- राष्ट्रं सान्नाय्यमिति । ‘राष्ट्रं सान्नाय्यं’ तदात्मना सान्नाय्यं ध्येयमित्यर्थः । स यो ह वा इत्यादि पूर्ववत् । राष्ट्रात्मकत्वं सान्नाय्यस्य समर्थयते- तद्यत्सन्नयंत्येके नैक इति । तत्तत्र यस्मात् ‘एके’ केचन यजमानाः कृतसोमयागाः ‘सन्नयंति’ अकृतसोमयागास्त्वेके न सन्नयंति । ‘तस्मात्’ कारणात् ‘राष्ट्रं’ ‘समेति’ च ‘व्येति’ च परस्परं संगच्छते विश्लिष्यति चेत्यर्थः ॥ १७ ॥

Eggeling
  1. The Sānnāyya 4 is royal dignity; and, verily, whosoever knows the Sānnāyya to be royal dignity secures for himself royal dignity; and whatever is to be gained by royal dignity all that he gains. And inasmuch as some pour (sweet and sour milk) together 5, and others do not, therefore the royal dignity both (combines) together and (keeps) asunder 6.

१८

विश्वास-प्रस्तुतिः

त᳘पः स्विष्टकृत्[[!!]]॥
(त्स) स यो᳘ ह वै त᳘पः स्विष्टकृदि᳘ति व्वेदा᳘व ह त᳘पो रुन्धे᳘ ऽथो यत्कि᳘ञ्च त᳘पसा ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - श्रीधरादि

त᳘पः स्विष्टकृत्[[!!]]॥
(त्स) स यो᳘ ह वै त᳘पः स्विष्टकृदि᳘ति व्वेदा᳘व ह त᳘पो रुन्धे᳘ ऽथो यत्कि᳘ञ्च त᳘पसा ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - Weber

त᳘पः स्विष्टकृ᳘त्॥
स यो᳘ ह वै त᳘पः स्विष्टकृदि᳘ति वेदा᳘व ह त᳘पो रुन्द्धे᳘ऽथो यत्किं᳘ च त᳘पसा ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति॥

मूलम् - विस्वरम्

तपः स्विष्टकृत् । स यो ह वै तपः स्विष्टकृदिति वेद । अव ह तपो रुंधे । अथ यत्किंच तपसा जय्यम् । सर्वं हैव तज्जयति ॥ १८ ॥

सायणः

स्विष्टकृतस्तपोरूपतामाह- तपः स्विष्टकृदिति । कृच्छ्रचांद्रायणादिजन्यमदृष्टं ‘तपः’ तदात्मना स्विष्टकृद्यागो ध्यातव्यः । तत्फलमाह- स यो ह वा इति ॥ १८ ॥

Eggeling
  1. The Svishṭakr̥t is fervid devotion; and, verily, whosoever knows the Svishṭakr̥t to be fervid devotion

secures for himself fervid devotion; and whatever is to be gained by fervid devotion all that he now gains.

१९

विश्वास-प्रस्तुतिः

लोकः᳘ प्राशित्रम्[[!!]]॥
(ᳫँ᳭) स यो᳘ ह वै᳘ लोकः᳘ प्राशित्रमि᳘ति व्वेदा᳘व ह लोक᳘ᳫँ᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्च लोके᳘न ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति᳘ नो ह ल᳘वेन लोका᳘द्व्यथते ल᳘वेन ह वा᳘ ऽअमु᳘ष्मिंल्लोके᳘ लोका᳘द्व्यथंते᳘ ऽथ य᳘ ऽएवं व्वे᳘द न᳘ ह बहु᳘ चन᳘ पापं᳘ कृत्वा᳘ लोका᳘द्व्यथते॥

मूलम् - श्रीधरादि

लोकः᳘ प्राशित्रम्[[!!]]॥
(ᳫँ᳭) स यो᳘ ह वै᳘ लोकः᳘ प्राशित्रमि᳘ति व्वेदा᳘व ह लोक᳘ᳫँ᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्च लोके᳘न ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति᳘ नो ह ल᳘वेन लोका᳘द्व्यथते ल᳘वेन ह वा᳘ ऽअमु᳘ष्मिंल्लोके᳘ लोका᳘द्व्यथंते᳘ ऽथ य᳘ ऽएवं व्वे᳘द न᳘ ह बहु᳘ चन᳘ पापं᳘ कृत्वा᳘ लोका᳘द्व्यथते॥

मूलम् - Weber

लोकः᳘ प्राशित्रं᳟॥
स यो᳘ ह वै᳘ लोकः᳘ प्राशित्रमि᳘ति वेदा᳘व ह लोकं᳘ रुन्द्धे᳘ऽथो यत्किं᳘ च लोकेन ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयतिॗ नो ह ल᳘वेन लोका᳘द्व्यथथे ल᳘वेन ह वा᳘ अमु᳘ष्मिंलोके᳘ लोका᳘द्व्यथन्ते᳘ऽथ य᳘ एवं वे᳘द न᳘ ह बहु᳘ चन᳘ पापं᳘ कृत्वा᳘ लोका᳘द्व्यथते॥

मूलम् - विस्वरम्

लोकः प्राशित्रम् । स यो ह वै लोकः प्राशित्रमिति वेद । अव ह लोकं रुंधे । अथो यत्किंच लोकेन जय्यम् । सर्वं हैव तज्जयति । नो ह लवेन लोकाद्व्यथते । लवेन ह वा अमुष्मिंल्लोके लोकाद्व्यथन्ते । अथ य एवं वेद । न ह बहु चन पापं कृत्वा लोकाद्व्यथते ॥ १९ ॥

सायणः

लोकः प्राशित्रमित्यादि । यत्प्राशित्राख्यमवदानं क्रियते तल्लोकबुद्ध्योपास्यम् । स यो ह वा इत्यादि । पूर्ववत् । नो ह लवेनेति । लवो लेशः अल्पीयस्त्वमिति यावत् । एवं लोकवित् ‘लोकात्’ लोक्यमानात् कर्मफलात् लवेनाल्पीयस्त्वेन हेतुना नैव ‘व्यथते’ न कंपते न बिभेति वा । “व्यथ भयकंपनयोः” (धा. पा. भ्वा.आ. ७६३) इति धातुः । निमित्तसद्भावस्तत्र विद्यते इत्याह- लवेन ह वा इति । ‘लवेन’ लेशेन खलु हेतुना ‘अमुष्मिन्’ स्वर्गे ‘लोके’ ‘लोकात्’ लोक्यमानात् ‘व्यथंते’ बिभ्यति । यस्त्वेवंवित् तस्य नोक्तो दोष इत्याह- अथ य एवमिति । अथशब्दस्त्वर्थे । यस्त्वेवं प्राशित्रस्य लोकात्मतां ‘वेद’ राष्ट्रकृतमपि ‘पापं’ दुष्कृतं जयति । निमित्तं कृत्वा लोकान्न व्यथते । चनशब्दः अप्यर्थे ॥ १९ ॥

Eggeling
  1. The fore-portion is the place (in heaven); and, verily, whosoever knows the fore-portion to be the place (in heaven) secures for himself the place (in heaven); and whatever is to be gained by the place (in heaven) all that he now gains; and, indeed, he does not by ever so little fall from his place, for it is by ever so little that in yonder world men fall from their place; and whosoever knows this does not fall from his place however much evil he may have done.

२०

विश्वास-प्रस्तुतिः

श्रद्धे᳘डा॥
स यो᳘ ह वै᳘ श्रद्धेडे᳘ति व्वेदा᳘व ह श्रद्धा᳘ᳫँ᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्च श्रद्ध᳘या ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - श्रीधरादि

श्रद्धे᳘डा॥
स यो᳘ ह वै᳘ श्रद्धेडे᳘ति व्वेदा᳘व ह श्रद्धा᳘ᳫँ᳘ रुन्धे᳘ ऽथो यत्कि᳘ञ्च श्रद्ध᳘या ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - Weber

श्रद्धे᳘डा॥
स यो᳘ ह वै᳘ श्रद्धेडे᳘ति वेदा᳘व ह श्रद्धां᳘ रुन्द्धे᳘ऽथो यत्किं᳘ च श्रद्ध᳘या ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति॥

मूलम् - विस्वरम्

श्रद्धेडा । स यो ह वै श्रद्धेडेति वेद । अव ह श्रद्धां रुंधे । अथो यत्किंच श्रद्धया जय्यम् । सर्वं हैव तज्जयति ॥ २० ॥

सायणः

इडायाः श्रद्धारूपेणोपासनं विधत्ते- श्रद्धेडेति । नित्यनैमित्तिकानुष्ठानगोचरः अभिरतिविशेषः ‘श्रद्धा’ स्पष्टमन्यत् ॥ २० ॥

Eggeling
  1. The Iḍā is faith; and, verily, whosoever knows the Iḍā to be faith secures for himself faith, and whatever is to be gained by faith all that he now gains.

२१

विश्वास-प्रस्तुतिः

(त्य) अश᳘निरेव᳘ प्रथ᳘मो ऽनुयाजः᳘॥
(जो᳘) ह्रादु᳘निर्द्वि᳘ती᳘य ऽउल्कुषी᳘ तृती᳘यः॥

मूलम् - श्रीधरादि

(त्य) अश᳘निरेव᳘ प्रथ᳘मो ऽनुयाजः᳘॥
(जो᳘) ह्रादु᳘निर्द्वि᳘ती᳘य ऽउल्कुषी᳘ तृती᳘यः॥

मूलम् - Weber

अश᳘निरेव᳘ प्रथॗमोऽनुयाजः᳟॥
ह्रादु᳘निर्द्विती᳘य उल्कुषी᳘ तृती᳘यः॥

मूलम् - विस्वरम्

अशनिरेव प्रथमो ऽनुयाजः । ह्रादुनिर्द्वितीयः । उत्कुषी तृतीयः ॥ २१ ॥

सायणः

अशनिरेव प्रथमो ऽनुयाज इति । ‘अशनिः’ दंभोलिः । ‘ह्रादुनिः’ विद्युत् । ‘उल्कुषी’ उल्का । क्रमेण एतत्त्रयात्मकास्त्रयो ऽनुयाजा ज्ञातव्याः ॥ २१ ॥

Eggeling
  1. The first after-offering is the thunderbolt, the second the hail-stone, the third the (heavenly) firebrand (meteor).

२२

विश्वास-प्रस्तुतिः

स᳘ प्रथमम᳘नुयाजम᳘नुमन्त्रयेत॥
(ता᳘) अ᳘शन्यमु᳘ञ्जही᳘ति यं᳘ द्विष्याद्ध्रा᳘दुन्यमु᳘ञ्जही᳘ति द्विती᳘यमु᳘ल्कुष्यमु᳘ञ्जही᳘ति तृती᳘यम्॥

मूलम् - श्रीधरादि

स᳘ प्रथमम᳘नुयाजम᳘नुमन्त्रयेत॥
(ता᳘) अ᳘शन्यमु᳘ञ्जही᳘ति यं᳘ द्विष्याद्ध्रा᳘दुन्यमु᳘ञ्जही᳘ति द्विती᳘यमु᳘ल्कुष्यमु᳘ञ्जही᳘ति तृती᳘यम्॥

मूलम् - Weber

स᳘ प्रथमम᳘नुयाजम᳘नुमन्त्रयेत॥
अ᳘शन्यमुं᳘ जही᳘ति यं᳘ द्विष्याद्ध्रा᳘दुन्यमुं᳘ जही᳘ति द्विती᳘यमु᳘ल्कुष्यमुं᳘ जही᳘ति तृती᳘यम्॥

मूलम् - विस्वरम्

स प्रथममनुयाजमनुमंत्रयेत- अशन्यमुं जहीति । यं द्विष्याद् । ह्रादुन्यमुं जहीति द्वितीयम् । उल्कुष्यमुं जहीति तृतीयम् ॥ २२ ॥

सायणः

उक्तरूपोपजीवनेनाभिचरतः प्रयोगे अनुयाजानामनुमंत्रणमंत्रान् विधत्ते- स प्रथममिति । यजमानो ‘यं’ शत्रुं ‘द्विष्यात्’ तन्नाम मंत्रेषु अमुमित्यस्य स्थाने द्वितीयांतेन निर्देष्टव्यम् । अयमर्थः- हे अशन्यात्मक प्रथमानुयाज । ‘अमुं’ देवदत्तं शत्रुं ‘जहि’ बाधस्व । लोण्मध्यमैकवचने “हंतेर्जः” (पा. सू. ६ । ४ । ३६) इति जादेशः । तस्य “असिद्धवदत्राभात्” (पा. सू. ६ । ४ । २३) इत्यसिद्धत्वेनानकारांतत्वात् हेर्लुगभावः । एवमुत्तरयोरपि मंत्रयोर्योजना ॥ २२ ॥

Eggeling
  1. After the first after-offering let him utter (the anumantraṇa), ‘O thunderbolt, smite N.N.!’ (naming) him whom he hates; after the second, O hail-stone, smite N.N.!’ after the third, ‘O firebrand, smite N.N.!’

२३

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स य᳘ ऽएष᳘ क्षिप्रं᳘ म्रिय᳘ते॥
(ते ऽश᳘) अश᳘निर्ह त᳘मनुयाजो᳘ हन्त्य᳘थ यो᳘ व्विस्रवन्मिश्र᳘ ऽइव ह्रादु᳘निर्ह त᳘मनुयाजो᳘ हन्त्य᳘थ᳘ यो ऽभ्युष्टमिश्र᳘ ऽइवोल्कुषी᳘ ह त᳘मनुयाजो᳘ हन्ति᳘॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स य᳘ ऽएष᳘ क्षिप्रं᳘ म्रिय᳘ते॥
(ते ऽश᳘) अश᳘निर्ह त᳘मनुयाजो᳘ हन्त्य᳘थ यो᳘ व्विस्रवन्मिश्र᳘ ऽइव ह्रादु᳘निर्ह त᳘मनुयाजो᳘ हन्त्य᳘थ᳘ यो ऽभ्युष्टमिश्र᳘ ऽइवोल्कुषी᳘ ह त᳘मनुयाजो᳘ हन्ति᳘॥

मूलम् - Weber

स य᳘ एष᳘ क्षिप्र᳘म् म्रिय᳘ते॥
अश᳘निर्ह त᳘मनुयाजो᳘ हन्त्य᳘थ यो᳘ विस्रवन्मिश्र᳘ 7 इव ह्रादु᳘निर्ह त᳘मनुयाजो᳘ हन्त्य᳘थॗ योऽभ्युष्टमिश्र᳘ इवोल्कुषी᳘ ह त᳘मनुयाजो᳘ हन्ति᳟᳟॥

मूलम् - विस्वरम्

स य एष क्षिप्रं म्रियते । अशनिर्ह तमनुयाजी हंति । अथ यो विस्रवन्मिश्र इव । ह्रादुनिर्ह तमनुयाजो हंति । अथ यो ऽभ्युष्टमिश्र इव उल्कुषी ह तमनुयाजो हंति ॥ २३ ॥

सायणः

‘स एषः’ खलु शत्रुः अनुमंत्रणमंत्रसामर्थ्यात् ‘क्षिप्रं म्रियते’ नश्यति । तत्र कारणमाह- अशनिर्हेति । ‘तं’ शत्रुं यस्मात् अनुयाजात्मकः अशनिः ‘हंति’ हिनस्ति । न खलु अशनिहतो जीवितुमर्हतीत्यर्थः । अथ यो विस्रवन्मिश्र इवेत्यादि । अथशब्दस्तुशब्दार्थः । यस्तु शत्रुः द्वितीये ऽनुमंत्रणमंत्रे निर्दिश्यते । स ‘विस्रवन्मिश्र इव’ विद्रवन् भयकंपादिभिर्मिश्र इव भवति । तं ह्रादुन्यात्मको द्वितीयो ऽनुयाजो हिनस्ति । यस्तु द्वेष्यः ‘अभ्युष्टमिश्र एव’ अभित ओषणं अभ्युष्टं सर्वतो दाहः तेन मिश्र इव भवति । तमुल्कुष्यात्मको ऽनुयाजस्तृतीयो हन्ति । एवमनुमंत्रणमंत्राणामभिचारप्रयोगविषयं प्रयोजनमुक्तम् ॥ २३ ॥

Eggeling
  1. And if such a one dies suddenly, then, indeed, it is that after-offering, the thunderbolt, that smites him; and if he is, as it were, covered with out-flowing (blood), then it is that after-offering, the hail-stone, that smites him; and if he is, as it were, covered with scorching, then it is that after-offering, the (heavenly) firebrand, that smites him.

२४

विश्वास-प्रस्तुतिः

सैषा᳘ यज्ञमेनिः᳘॥
(रे) एत᳘या वै᳘ मेन्या᳘ देवा ऽअ᳘सुरान् पराभावयां᳘चक्रुस्त᳘थो ऽए᳘वैवंविद्य᳘जमानः पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यम्प᳘राभावयति॥

मूलम् - श्रीधरादि

सैषा᳘ यज्ञमेनिः᳘॥
(रे) एत᳘या वै᳘ मेन्या᳘ देवा ऽअ᳘सुरान् पराभावयां᳘चक्रुस्त᳘थो ऽए᳘वैवंविद्य᳘जमानः पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यम्प᳘राभावयति॥

मूलम् - Weber

सैषा᳘ यज्ञमेनिः᳟॥
एत᳘या वै᳘ मेन्या᳘ देवा अ᳘सुरान्पराभावयां᳘ चक्रुस्त᳘थो एॗवैवंविद्य᳘जमानः पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यम् प᳘राभावयति॥

मूलम् - विस्वरम्

सैषा यज्ञमेनिः । एतया वै मेन्या देवा असुरान्पराभावयांचक्रुः । तथो एवैवंविद्यजमानः पाप्मानं द्विषंतं भ्रातृव्यं पराभावयति ॥ २४ ॥

सायणः

अथैताननुमंत्रणमंत्रान् विधाय अशन्याद्यात्मकत्ववेदनस्य फलमाह- सैषा यज्ञमेनिरिति । यज्ञरूपा मेनिः आयुधं ‘एतया’ खलु ‘मेन्या’ ‘देवा असुरान्’ ‘पराभावयांचक्रुः’ पराभूतान् कृतवंतः । तथैव ‘एवंवित्’ अनुयाजानां शत्रुनिबर्हणायुधरूपतां जानन् यजमानः पापरूपं ‘द्विषंतं’ द्वेषणं कुर्वंतं ‘भ्रातृव्यं’ शत्रुं ‘पराभावयति’ नाशयति ॥ २४ ॥

Eggeling
  1. Such is the bolt of the sacrifice: it was by that bolt, indeed, that the gods overcame the Asuras;

and in like manner does the Sacrificer who knows this overcome his wicked, spiteful enemy.

२५

विश्वास-प्रस्तुतिः

स य᳘दनुयाजा᳘न्तो यज्ञः स्या᳘त्॥
(द) अश᳘न्यन्तः स्याद्ध्रादु᳘न्यन्त ऽउल्कु᳘ष्यंतस्त᳘स्माद्वै᳘ देवा᳘नां यज्ञ ऽइ᳘डान्तो वैव᳘ शंय्वंतो वा॥

मूलम् - श्रीधरादि

स य᳘दनुयाजा᳘न्तो यज्ञः स्या᳘त्॥
(द) अश᳘न्यन्तः स्याद्ध्रादु᳘न्यन्त ऽउल्कु᳘ष्यंतस्त᳘स्माद्वै᳘ देवा᳘नां यज्ञ ऽइ᳘डान्तो वैव᳘ शंय्वंतो वा॥

मूलम् - Weber

स य᳘दनुयाजा᳘न्तो यज्ञः स्या᳘त्॥
अश᳘न्यन्तः स्याद्ध्रादु᳘न्यन्त उत्कुष्य᳘न्तस्त᳘स्माद्वै᳘ देवा᳘नां यज्ञ इ᳘डान्तो वैव᳘ शम्य्व᳘न्तो वा॥

मूलम् - विस्वरम्

स यदनुयाजांतो यज्ञः स्यात् । अशन्यंतः स्यात्, ह्रादुन्यंत उल्कुष्यंतः । तस्माद्वै देवानां यज्ञ इडांतो वैव । शंय्वंतो वा ॥ २५ ॥

सायणः

उदीरिताशन्यादिरूपत्वमुपन्यस्यानुयाजांतत्वं यज्ञस्य निषेधयति- स यदिति । तत्र यदि ‘यज्ञः’ दर्शपूर्णमासादिलक्षणो यागः ‘अनुयाजांतः’ स्यात् अनुयाजैरेव समाप्यमानः स्यात् । तदा अशन्यादिरूपेण समापितः स्यात् । तस्मादेव कारणात् देवतासंबन्धी ‘यज्ञः’ इडामार्जनान्त एव वा शंयुवाकांत एव वा भवति । अत एव प्रायणीयातिथ्ये तथा संस्थाप्येते । उक्तं ह्याश्वलायनेन- “प्रायणीयातिथ्ये इडांतेति शंय्वंतेति यजमानाज्यभागा” (आश्व. श्रौ. सू.) इति च ॥ २५ ॥

Eggeling
  1. And if the sacrifice were to end with after-offerings, then it would end with the thunderbolt, the hail-stone, and the (heavenly) firebrand: therefore the sacrifice of the gods ends either with the Iḍā or with the Śamyos.

२६

विश्वास-प्रस्तुतिः

प्रयाजैर्व्वै᳘ देवाः᳘॥
स्वर्गं᳘ लोक᳘मायँस्तान᳘सुरा ऽअन्वा᳘जिगाᳫँ᳭सँस्ता᳘ननुयाजैः प्र᳘त्यौहँस्तद्य᳘दनुयाजा᳘ ऽइज्यं᳘ते पाप्मा᳘नमेव त᳘द्द्विषं᳘तं भ्रा᳘तृव्यं य᳘जमानः प्र᳘त्यूहति॥

मूलम् - श्रीधरादि

प्रयाजैर्व्वै᳘ देवाः᳘॥
स्वर्गं᳘ लोक᳘मायँस्तान᳘सुरा ऽअन्वा᳘जिगाᳫँ᳭सँस्ता᳘ननुयाजैः प्र᳘त्यौहँस्तद्य᳘दनुयाजा᳘ ऽइज्यं᳘ते पाप्मा᳘नमेव त᳘द्द्विषं᳘तं भ्रा᳘तृव्यं य᳘जमानः प्र᳘त्यूहति॥

मूलम् - Weber

प्रयाजैर्वै᳘ देवाः᳟॥
स्वर्गं᳘ लोक᳘मायंस्तान᳘सुरा अन्वा᳘जिगांसंस्ता᳘ननुयाजैः 8 प्र᳘त्यौहंस्तद्य᳘दनुयाजा᳘ इज्य᳘न्ते पाप्मानमेव त᳘द्द्विष᳘न्तम् भ्रा᳘तृव्यं य᳘जमानः प्र᳘त्यूहति॥

मूलम् - विस्वरम्

प्रयाजैर्वै देवाः स्वर्गं लोकमायन् । तानसुरा अन्वाजिगांसन् । ताननुयाजैः प्रत्यौहन् । तद्यदनुयाजा इज्यंते । पाप्मानमेव द्विषन्तं भ्रातृव्यं यजमानः प्रत्यूहति ॥ २६ ॥

सायणः

अथैतान् स्वर्गप्राप्तिप्रतिबन्धकपापप्रतिक्षेपहेतुत्वेन स्तौति- प्रयाजैर्वै देवा इत्यादिना । अन्वाजिगांसन्निति । देवाननुप्रविश्य हन्तुं हिंसितुमैच्छन्नित्यर्थः । तानसुरानेतैरनुयाजैर्यागैः ‘प्रत्यौहन्’ प्रत्यक्षिपन् । तस्मादिदानीमपि अनुयाजानां करणेन ‘द्विषंतं’ द्वेषणशीलं ‘भ्रातृव्यं’ तिरस्करोति ॥ २६ ॥

Eggeling
  1. By the fore-offerings, indeed, the gods reached the world of heaven. The Asuras tried to get thither after them; and by the after-offerings they (the gods) drove them back: thus, when the after-offerings are performed, the Sacrificer drives back his wicked, spiteful enemy.

२७

विश्वास-प्रस्तुतिः

प्राणा वै᳘ प्रयाजाः᳘॥
(ऽ) अपाना᳘ ऽअनुयाजास्त᳘स्मात्प्रयाजाः प्रा᳘ञ्चो हूयंते तद्धि᳘ प्राणरूपं᳘ प्रत्य᳘ञ्चो ऽनुयाजास्त᳘दपानरूप᳘मेता᳘ ह वै᳘ दर्शपूर्णमास᳘योरुपस᳘दो य᳘दनुयाजास्त᳘स्मात्त᳘ ऽउपसद्रूपे᳘ण प्रत्य᳘ञ्चो हूयंते॥

मूलम् - श्रीधरादि

प्राणा वै᳘ प्रयाजाः᳘॥
(ऽ) अपाना᳘ ऽअनुयाजास्त᳘स्मात्प्रयाजाः प्रा᳘ञ्चो हूयंते तद्धि᳘ प्राणरूपं᳘ प्रत्य᳘ञ्चो ऽनुयाजास्त᳘दपानरूप᳘मेता᳘ ह वै᳘ दर्शपूर्णमास᳘योरुपस᳘दो य᳘दनुयाजास्त᳘स्मात्त᳘ ऽउपसद्रूपे᳘ण प्रत्य᳘ञ्चो हूयंते॥

मूलम् - Weber

प्राणा वै᳘ प्रयाजाः᳟॥
अपाना᳘ अनुयाजास्त᳘स्मात्प्रयाजाः प्रा᳘ञ्चो हूयन्ते तद्धि᳘ प्राणरूप᳘म् प्रत्य᳘ञ्चोऽनुयाजास्त᳘दपानरूप᳘मेता᳘ ह वै᳘ दर्शपूर्णमास᳘योरुपस᳘दो य᳘दनुयाजास्त᳘स्मात्त᳘ उपसद्रूपे᳘ण प्रत्य᳘ञ्चो हूयन्ते॥

मूलम् - विस्वरम्

प्राणा वै प्रयाजाः । अपाना अनुयाजाः । तस्मात्प्रयाजाः प्रांचो हूयंते; तद्धि प्राणरूपम् । प्रत्यंचो ऽनुयाजाः; तदपानरूपम् । एता ह वै दर्शपूर्णमासयोरुपसदो यदनुयाजाः; तस्मात्त उपसद्रूपेण प्रत्यंचो हूयंते ॥ २७ ॥

सायणः

अथ प्रयाजानामनुयाजानां च होमे धर्मविशेषं विधत्ते- प्राणा वै प्रयाजा इति । मुखनासिकाभ्यां प्राङ् संचरन् वायुः प्राणः । प्रत्यङ्ङास्याभिमुखः संचरन्नपानः । यतस्ते उभये क्रमेण प्राणापानात्मको तस्माद्धेतोः ‘प्रयाजाः प्रांचः’ प्रागपवर्गा अग्नौ ‘हूयंते’ तादृक् खलु प्रोक्तं प्राणवायो रूपम् । अनुयाजास्तु ‘प्रत्यंचः’ प्रत्यगपवर्गा हूयंते तादृक् खल्वपानवायो रूपम् । अथैतेषां प्रत्यक्त्वमुपसद्रूपतया ऽपि प्रतिपादयति- एता ह वा इति । अग्निसोमविष्णुदेवताकाः यास्तिस्रः ‘उपसदः’ सोमयागे प्रसिद्धाः तद्रूपत्वेन हि एते ‘अनुयाजाः’ ‘दर्शपूर्णमासयोः’ इज्यंते । प्रत्यगपवर्गत्वं चोपसद्धर्मः । ‘तस्मात्’ कारणात् ‘ते’ अनुयाजाः तेन ‘उपसद्रूपेण’ प्रत्यगपवर्गं ‘हूयंते’ ॥ २७ ॥

Eggeling
  1. The fore-offerings, indeed, are the out-breathings 9, and the after-offerings the off-breathings wherefore the fore-offerings are poured out in a forward direction 10, for that is the form of the out-breathing; and the after-offerings (are poured out) in a backward direction 11, for that is the form of the off-breathing. The after-offerings, indeed, are the Upasads 12 of the

Full and New-moon sacrifices, whence they are performed in a backward direction after the manner of the Upasads.

२८

विश्वास-प्रस्तुतिः

सᳫँ᳭स्था᳘ सूक्तवाकः[[!!]]॥
स यो᳘ ह वै᳘ सᳫँ᳭स्था᳘ सूक्तवाक ऽइ᳘ति व्वेदा᳘व ह सᳫँ᳭स्था᳘ᳫँ᳘ रुंधे᳘ ऽथो यत्कि᳘ञ्च सᳫँ᳭स्थ᳘या ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति ग᳘च्छति व्व᳘यसः सᳫँ᳭स्था᳘म्॥

मूलम् - श्रीधरादि

सᳫँ᳭स्था᳘ सूक्तवाकः[[!!]]॥
स यो᳘ ह वै᳘ सᳫँ᳭स्था᳘ सूक्तवाक ऽइ᳘ति व्वेदा᳘व ह सᳫँ᳭स्था᳘ᳫँ᳘ रुंधे᳘ ऽथो यत्कि᳘ञ्च सᳫँ᳭स्थ᳘या ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति ग᳘च्छति व्व᳘यसः सᳫँ᳭स्था᳘म्॥

मूलम् - Weber

संस्था᳘ सूक्तवाकः᳟॥
स यो᳘ ह वै᳘ संस्था᳘ सूक्तवाक इ᳘ति वेदा᳘व ह संस्थां᳘ रुन्द्धे᳘ऽथो यत्किं᳘ च संस्थ᳘या ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति ग᳘छति व᳘यसः संस्था᳘म्॥

मूलम् - विस्वरम्

संस्था सूक्तवाकः । स यो ह वै संस्था सूक्तवाक इति वेद । अव ह संस्थां रुन्धे । अथो यत्किंच संस्थया जय्यम् । सर्वं हैव तज्जयति । गच्छति वयसः संस्थाम् ॥ २८ ॥

सायणः

इत्यनुयाजविषयं वक्तव्यं प्रतिपाद्य सूक्तवाकस्य संस्थात्वमाह- संस्था सूक्तवाक इति । ‘संस्था’ समाप्तिः । एतद्वेदनस्य फलमाह- स यो ह वा इति । अव ह संस्थां रुंध इति । प्रारिप्सितस्य कार्यस्य ‘संस्था’ समाप्तिः । तामवरुन्धे लभते । स्पष्टमन्यत् । गच्छति वयस इति । ‘वयसः’ आयुषः ‘संस्थां’ संपूर्तिं गच्छतीत्यर्थः ॥ २८ ॥

Eggeling
  1. The Sūktavāka is the completion; and, verily, whosoever knows the Sūktavāka to be the completion secures for himself the completion; and whatever is to be gained by the completion all that he now gains: he obtains the completion of his (full) lifetime.

२९

विश्वास-प्रस्तुतिः

(म्प्र) प्रतिष्ठा᳘ शंर्योर्व्वाकः[[!!]]॥
स यो᳘ ह वै᳘ प्रतिष्ठा᳘ शंयोर्व्वाक ऽइ᳘ति व्वेदा᳘व ह प्रतिष्ठा᳘ᳫँ᳘ रुंधे᳘ ऽथो यत्कि᳘ञ्च प्रतिष्ठ᳘या ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति ग᳘च्छति प्रतिष्ठाम्[[!!]]॥

मूलम् - श्रीधरादि

(म्प्र) प्रतिष्ठा᳘ शंर्योर्व्वाकः[[!!]]॥
स यो᳘ ह वै᳘ प्रतिष्ठा᳘ शंयोर्व्वाक ऽइ᳘ति व्वेदा᳘व ह प्रतिष्ठा᳘ᳫँ᳘ रुंधे᳘ ऽथो यत्कि᳘ञ्च प्रतिष्ठ᳘या ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति ग᳘च्छति प्रतिष्ठाम्[[!!]]॥

मूलम् - Weber

प्रतिष्ठा᳘ शम्योर्वाकः᳟॥
स यो᳘ ह वै᳘ प्रतिष्ठा᳘ शम्योर्वाक् इ᳘ति वेदा᳘व ह प्रतिष्ठां᳘ रुन्द्धे᳘ऽथो यत्किं᳘ च प्रतिष्ठ᳘या ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति ग᳘छति प्रतिष्ठा᳘म्॥

मूलम् - विस्वरम्

प्रतिष्ठा शंयोर्वाकः । स यो ह वै प्रतिष्ठा शंयोर्वाक इति वेद । अव ह प्रतिष्ठां रुन्धे । अथो यत्किंच प्रतिष्ठया जय्यम् । सर्वं हैव तज्जयति । गच्छति प्रतिष्ठाम् ॥ २९ ॥

सायणः

प्रतिष्ठा शंयोर्वाक इत्यादि । “तच्छंयोरावृणीमहे” इत्यनुवाकः शंयुवाकः । ‘सः’ प्रतिष्ठात्मना ज्ञातव्यः । निगदसिद्धमन्यत् ॥ २९ ॥

Eggeling
  1. The Śamyorvāka is the resting-place; and, verily, whosoever knows the Śamyuvāka to be the resting-place secures for himself a resting-place; and whatever is to be gained by a resting-place all that he now gains: he reaches a resting-place.

३०

विश्वास-प्रस्तुतिः

(न्ते᳘) ते᳘ देवाः᳘॥
(ऽ) एता᳘न्पत्नीसंयाजा᳘न्पश्चात्प᳘र्य्यौहन्त मिथुन᳘मे᳘वैत᳘दुप᳘रिष्टाददधत प्र᳘जात्यै तद्य᳘त्पत्नीसंयाजा᳘ ऽइज्यं᳘ते मिथुन᳘मे᳘वैत᳘दुप᳘रिष्टाद्धत्ते प्र᳘जात्यै देवा᳘नाᳫँ᳭ ह वै प्र᳘जातिम᳘नुप्र᳘जायते मिथुने᳘न मिथुनेन ह प्र᳘जायते य᳘ ऽएव᳘मेतद्वेद[[!!]]॥

मूलम् - श्रीधरादि

(न्ते᳘) ते᳘ देवाः᳘॥
(ऽ) एता᳘न्पत्नीसंयाजा᳘न्पश्चात्प᳘र्य्यौहन्त मिथुन᳘मे᳘वैत᳘दुप᳘रिष्टाददधत प्र᳘जात्यै तद्य᳘त्पत्नीसंयाजा᳘ ऽइज्यं᳘ते मिथुन᳘मे᳘वैत᳘दुप᳘रिष्टाद्धत्ते प्र᳘जात्यै देवा᳘नाᳫँ᳭ ह वै प्र᳘जातिम᳘नुप्र᳘जायते मिथुने᳘न मिथुनेन ह प्र᳘जायते य᳘ ऽएव᳘मेतद्वेद[[!!]]॥

मूलम् - Weber

ते᳘ देवाः᳟॥
एता᳘न्पत्नीसंयाजा᳘न्पश्चात्प᳘र्यौहन्त मिथुन᳘मेॗवैत᳘दुप᳘रिष्टाददधत प्र᳘जात्यै तद्य᳘त्पत्नीसंयाजा᳘ इज्य᳘न्ते मिथुन᳘मेॗवैत᳘दुप᳘रिष्टाद्धत्ते प्र᳘जात्यै देवा᳘नाᳫं ह वै प्र᳘जातिम᳘नु प्र᳘जायते मिथुने᳘न-मिथुनेन ह प्र᳘जायते य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

ते देवा एतान्पत्नीसंयाजान् पश्चात्पर्यौहंत । मिथुनमेवैतदुपरिष्टाददधत प्रजात्यै । तद्यत्पत्नीसंयाजा इज्यंते, मिथुनमेवैतदुपरिष्टाद्धत्ते प्रजात्यै । देवानां ह वै प्रजातिमनुप्रजायते । मिथुनेन मिथुनेन ह प्रजायते । य एवमेतद्वेद ॥ ३० ॥

सायणः

अथ पत्नीसंयाजानां मिथुनरूपतया प्रजातिहेतुतामाह- ते देवा एतान् पत्नीसंयाजानित्यादिना । सोमत्वष्टृदेवपत्न्यग्निगृहपतिदेवताकान् चतुरः पत्नीसंयाजाख्यान् यागान् ‘पश्चात्’ प्रतीच्यां दिशि गार्हपत्यसमीपे ‘पर्यौहंत’ परिप्रापयन् । ‘एतत्’ एतेन ‘उपरिष्टात्’ यज्ञस्योपरिभागे ‘मिथुनं’ स्त्रीपुंसात्मकम्प्रजातिहेतुमदधत स्थापितवन्तः । अत इदानीमपि तेषां पश्चात् प्रत्यूहनं प्रजातिहेतुभूतस्य मिथुनस्योपरिष्टाद्धारणाय संपद्यते । यतो देवानां प्रजातिमनुसृत्य प्रजातिर्यजमानस्य पुत्रपौत्रादिरूपा प्रजा उत्पद्यते । वेदितुः फलमाह- मिथुनेन मिथुनेनेति । वीप्सया गवाश्वादिसर्वमिथुनस्वीकारः ॥ ३० ॥

Eggeling
  1. The gods fortified the Patnīsaṁyājas by a mound from behind 13, and placed a couple thereon for the sake of procreation: thus when the Patnīsaṁyājas are performed, he places a couple thereon for the sake of procreation; for, indeed, after the procreation of the gods offspring is produced, and offspring is produced by pair after pair (of men and beasts) for him who knows this.

३१

विश्वास-प्रस्तुतिः

(दा᳘) अ᳘न्नᳫँ᳭ समिष्टयजुः[[!!]]॥
स यो᳘ ह वा ऽअ᳘न्नᳫँ᳭ समिष्टयजुरि᳘ति व्वेदा᳘व हा᳘न्नᳫँ᳭ रुंधे᳘ ऽथो यत्किञ्चा᳘न्नेन ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - श्रीधरादि

(दा᳘) अ᳘न्नᳫँ᳭ समिष्टयजुः[[!!]]॥
स यो᳘ ह वा ऽअ᳘न्नᳫँ᳭ समिष्टयजुरि᳘ति व्वेदा᳘व हा᳘न्नᳫँ᳭ रुंधे᳘ ऽथो यत्किञ्चा᳘न्नेन ज᳘य्यᳫँ᳭ स᳘र्व्वᳫँ᳭ हैव त᳘ज्जयति॥

मूलम् - Weber

अ᳘न्नᳫं समिष्टयजुः᳟॥
स यो᳘ ह वा अ᳘न्नᳫं समिष्टयजुरि᳘ति वेदा᳘व हा᳘न्नं रुन्द्धे᳘ऽथो यत्किं चा᳘न्नेन ज᳘य्यᳫं स᳘र्वᳫं हैव त᳘ज्जयति॥

मूलम् - विस्वरम्

अन्नं समिष्टयजुः । स यो ह वा अन्नं समिष्टयजुरिति वेद । अव हान्नं रुन्धे । अथो यत्किंचान्नेन जय्यम्, सर्वं हैव तज्जयति ॥ ३१ ॥

सायणः

समिष्टयजुषो ऽन्नरूपतामाह- अन्नं समिष्टयजुरिति । अन्नात्मकत्ववेदनस्य फलमाह- स यो ह वा इति ॥ ३१ ॥

Eggeling
  1. The Samishṭayajus is food; and, verily, whosoever knows the Samishṭayajus to be food secures for himself food; and whatever is to be gained by food all that he now gains.

३२

विश्वास-प्रस्तुतिः

संवत्सरो य᳘जमानः॥
(स्त᳘) त᳘मृत᳘वो याजयंति व्वसंत ऽआ᳘ग्नीध्रस्त᳘स्माद्वसंते᳘ दावा᳘श्चरंति त᳘द्ध्यग्निरूपं᳘ ग्री᳘ष्मो ऽध्वर्य्यु᳘स्तप्त᳘ ऽइव वै᳘ ग्रीष्मस्तप्त᳘मिवाध्वर्य्युर्न्नि᳘ष्क्रामति व्वर्षा᳘ ऽउद्गाता त᳘स्माद्यदा ब᳘लवद्व᳘र्षति सा᳘म्न ऽइवोपब्दिः᳘ क्रियते शर᳘द्ब्रह्मा त᳘स्माद्यदा᳘ सस्यं᳘ पच्य᳘ते ब्र᳘ह्मण्वत्यः प्रजा ऽइ᳘त्याहुर्हेमंतो हो᳘ता त᳘स्माद्धेमन्व᳘षट्कृताः[[!!]] पश᳘वः सीदंत्येता᳘ ह वा᳘ ऽएनं देव᳘ता याजयंति स य᳘द्येनमैषावीरा᳘ याज᳘येयुरेता᳘ ऽएव᳘ देव᳘ता म᳘नसा ध्यायेदेता᳘ है᳘वैनं देव᳘ता याजयंति॥

मूलम् - श्रीधरादि

संवत्सरो य᳘जमानः॥
(स्त᳘) त᳘मृत᳘वो याजयंति व्वसंत ऽआ᳘ग्नीध्रस्त᳘स्माद्वसंते᳘ दावा᳘श्चरंति त᳘द्ध्यग्निरूपं᳘ ग्री᳘ष्मो ऽध्वर्य्यु᳘स्तप्त᳘ ऽइव वै᳘ ग्रीष्मस्तप्त᳘मिवाध्वर्य्युर्न्नि᳘ष्क्रामति व्वर्षा᳘ ऽउद्गाता त᳘स्माद्यदा ब᳘लवद्व᳘र्षति सा᳘म्न ऽइवोपब्दिः᳘ क्रियते शर᳘द्ब्रह्मा त᳘स्माद्यदा᳘ सस्यं᳘ पच्य᳘ते ब्र᳘ह्मण्वत्यः प्रजा ऽइ᳘त्याहुर्हेमंतो हो᳘ता त᳘स्माद्धेमन्व᳘षट्कृताः[[!!]] पश᳘वः सीदंत्येता᳘ ह वा᳘ ऽएनं देव᳘ता याजयंति स य᳘द्येनमैषावीरा᳘ याज᳘येयुरेता᳘ ऽएव᳘ देव᳘ता म᳘नसा ध्यायेदेता᳘ है᳘वैनं देव᳘ता याजयंति॥

मूलम् - Weber

संवत्सरो य᳘जमानः॥
त᳘मृत᳘वो याजयन्ति वसन्त आ᳘ग्नीध्रस्त᳘स्माद्वसन्ते᳘ दावा᳘श्चरन्ति तद्ध्य᳘ग्निरूपं᳘ ग्रीॗष्मोऽध्वर्यु᳘स्तप्त᳘ इव वै᳘ ग्रीष्म᳘स्तप्त᳘मिवाध्वर्युर्नि᳘ष्क्रामति वर्षा᳘ उद्गाता त᳘स्माद्यदा ब᳘लवद्व᳘र्षति सा᳘म्न इवोपब्दिः᳘ क्रियते शर᳘द्ब्रह्मा त᳘स्माद्यदा᳘ सस्य᳘म् पच्य᳘ते ब्र᳘ह्मण्वत्यः प्रजा इ᳘त्याहुर्हेमन्तो हो᳘ता त᳘स्माद्धे᳘मन्व᳘षट्कृताः पश᳘वः सीदन्त्येता᳘ ह वा᳘ एनं देव᳘ता याजयन्ति स य᳘द्येनमैषावीरा᳘ याज᳘येयुरेता᳘ एव᳘ देव᳘ता म᳘नसा ध्यायेदेता᳘ हैॗवैनं देव᳘ता याजयन्ति॥

मूलम् - विस्वरम्

संवत्सरो यजमानः, तमृतवो याजयंति । वसंत आग्नीध्रः । तस्माद्वसंते दावाश्चरंति । तद्ध्यग्निरूपम् । ग्रीष्मो ऽध्वर्युः । तप्त इव वै ग्रीष्मः । तप्तमिवाध्वर्युर्निष्क्रामति । वर्षा उद्गाता । तस्माद्यदा बलवद्वर्षति । साम्न इवोपब्दिः क्रियते । शरद्ब्रह्मा । तस्माद्यदा सस्यं पच्यते । ब्रह्मण्वत्यः प्रजा इत्याहुः । हेमन्तो होता । तस्माद्धेमन् वषट्कृताः पशवः सीदंति । एता ह वा एनं देवता याजयन्ति । स यद्येनमैषावीरा याजयेयुः । एता एव देवता मनसा ध्यायेत् । एता हैवनं देवता याजयंति ॥ ३२ ॥

सायणः

अथ यजमानस्य ऋत्विजां संवत्सराद्यात्मकत्वमाह- संवत्सरो यजमान इति । ‘यजमानः’ संवत्सरात्मकः । ‘ऋतवः’ वसंताद्या ऋतवो याजकाः । तत्र वसंतः ऋतुरेवाग्नीध्रः । अग्नीन्धनसंयोगाद्धि ऋत्विज आग्नीध्र इति संज्ञा, यस्मात् तादृग् ऋत्विगात्मको वसंतः । ‘तस्मात् वसंते’ ऋतौ ‘दावाः’ दावाग्नयश्चरंति तरुगुल्मलतादिकं दहंति । तत्खल्वग्निसंबंधि रूपम् । ग्रीष्मऋतुरध्वर्युः । उभयोस्तादात्म्यनिमित्तं साम्यमाह- तप्त इव वा इति । आतपाधिक्यात् ग्रीष्मः ऋतुः ‘तप्त इव’ भवति । अध्वर्युरपि व्यापारबाहुल्यात् अग्निसमीपे संचरन् तापयुक्तो यथा भवति तथा ‘निष्क्रामति’ विहारान्निर्गच्छति । ‘वर्षा उद्गाता’ । तत्र लिंगमाह- तस्माद्यदेति । ‘यदा’ खलु बलयुक्तमधिकं ‘वर्षति’ तदा ‘साम्न इवोपब्दीरूपः’ घोषः क्रियते । तस्मात्सामकल्पस्योद्गातुः वर्षर्तुरूपत्वं युक्तमित्यर्थः । ‘शरद्ब्रह्मा’ । यस्मात् ब्रह्मणः ऋत्विजः शरत्तादात्म्यं, तस्मात् यदा यस्यां ‘शरदि’ शरदृतौ व्रीह्यादि ‘सस्यं पच्यते’ तदा अन्नवत्त्वेन हेतुना सर्वाः ‘प्रजाः’ ‘ब्रह्मण्वत्यः’ ब्राह्मणजातिविदो वा तद्वत्यो भवंति इत्येवमाहुः अभिज्ञाः कथयति । हेमंतो होतेत्यादि । यः ‘होताः’ स हेमंतात्मकः । यस्मात् वषट्कर्तुर्होतुः हेमंतस्य च तादात्म्यम्, तस्मात् ‘हेमन्’ हेमंते । वर्णलोपश्छांदसः । ‘पशवः’ गोमहिष्याद्याः ‘वषट्कृताः’ वषट्कारवत् परुषस्वनयुक्ताः संतः ‘सीदंति’ विशीर्णांगा भवंति । ‘एनं’ एवंविदं संवत्सरात्मकं यजमानमेता एव वसंताद्या देवताः ‘याजयंति’ । एतच्च ध्यानलभ्यमित्याह- स यद्येनमिति । ‘ऐषावीराः’ । एषावीरो नाम निंदितो ब्राह्मणजातिविशेषः । तत्संबंधिनः ऋत्विजः । ‘यद्येनं’ यद्यपि एनं ‘याजयेयुः’ । ‘एता एव’ वसंताद्या देवता ऋत्विक्त्वेन ‘मनसा ध्यायेत्’ । ‘एता देवताः’ एव ‘एनं’ ‘याजयंति’ ॥ ३२ ॥

Eggeling
  1. The Sacrificer is the Year; and the Seasons officiate for him. The Āgnīdhra is the Spring,

whence forest-fires take place in spring, for that is a form of Agni. The Adhvaryu is the Summer, for summer is, as it were, scorched; and the Adhvaryu comes forth (from the sacrificial ground) like something scorched 14. The Udgātr̥ is the Rainy season; whence, when it rains hard, a sound as that of a chant is produced. ‘The Brahman is the Autumn; whence, when the corn ripens, they say, ‘The creatures are rich in growth (brahmaṇvat).’ The Hotr̥ is the Winter, whence in winter cattle waste away, having the Vashaṭ uttered over them. These, then, are the divinities that officiate for him; and even if Aishāvīrāḥ 15 were to officiate for him, let him think in his mind of those divinities, and those deities, indeed, officiate for him.

३३

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ है᳘षैव᳘ तुला[[!!]]॥
यद्द᳘क्षिणो व्वेद्यन्तः स य᳘त्साधु᳘ करो᳘ति त᳘दन्तर्व्वेद्य᳘थ य᳘दसाधु त᳘द्बहिर्व्वेदि त᳘स्माद्द᳘क्षिणं व्वेद्यंत᳘मधिस्पृ᳘श्येवासीत तुला᳘याᳫँ᳭ ह वा᳘ ऽअमु᳘ष्मिंल्लोक ऽआ᳘दधति यतर᳘द्यᳫँ᳭स्य᳘ति तद᳘न्वेष्यति य᳘दि साधु᳘ वा ऽसाधु वेत्य᳘थ य᳘ ऽएवं व्वे᳘दास्मि᳘न्हैव᳘ लोके᳘ तुलामा᳘रोहत्य᳘त्यमु᳘ष्मिंल्लोके᳘ तुलाधानं मुच्यते साधुकृत्या᳘ है᳘वास्य य᳘च्छति न᳘ पापकृत्या[[!!]]॥ अर्द्धः प्रपाठकः ॥५२॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ है᳘षैव᳘ तुला[[!!]]॥
यद्द᳘क्षिणो व्वेद्यन्तः स य᳘त्साधु᳘ करो᳘ति त᳘दन्तर्व्वेद्य᳘थ य᳘दसाधु त᳘द्बहिर्व्वेदि त᳘स्माद्द᳘क्षिणं व्वेद्यंत᳘मधिस्पृ᳘श्येवासीत तुला᳘याᳫँ᳭ ह वा᳘ ऽअमु᳘ष्मिंल्लोक ऽआ᳘दधति यतर᳘द्यᳫँ᳭स्य᳘ति तद᳘न्वेष्यति य᳘दि साधु᳘ वा ऽसाधु वेत्य᳘थ य᳘ ऽएवं व्वे᳘दास्मि᳘न्हैव᳘ लोके᳘ तुलामा᳘रोहत्य᳘त्यमु᳘ष्मिंल्लोके᳘ तुलाधानं मुच्यते साधुकृत्या᳘ है᳘वास्य य᳘च्छति न᳘ पापकृत्या[[!!]]॥ अर्द्धः प्रपाठकः ॥५२॥

मूलम् - Weber

अ᳘थ हैॗषैव᳘ तुला᳟॥
यद्द᳘क्षिणो वेद्यन्तः स यत्साधु᳘ करो᳘ति त᳘दन्तर्वेद्य᳘थ य᳘दसाधु त᳘द्बहिर्वेदि त᳘स्माद्द᳘क्षिणं वेद्यन्त᳘मधिस्पृ᳘श्येवासीत तुला᳘याᳫं ह वा᳘ अमु᳘ष्मिंलोक आ᳘दधति यतर᳘द्यंस्य᳘ति तद᳘न्वेष्यति य᳘दि साधु᳘ वासाधु वेत्य᳘थ य᳘ एवं वे᳘दास्मि᳘न्हैव᳘लोके᳘ तुलामा᳘रोहत्य᳘त्यमु᳘ष्मिंलोके᳘ तुलाधान᳘म् मुच्यते साधुकृत्या᳘ हैॗवास्य य᳘छति न᳘ पापकृत्या᳟॥

मूलम् - विस्वरम्

अथ हैषैव तुला । यद्दक्षिणो वेद्यंतः । स यत्साधु करोति तदंतर्वेदि । अथ यदसाधु तद्बहिर्वेदि । तस्माद्दक्षिणं वेद्यंतमधिस्पृश्येवासीत । तुलायां ह वा अमुष्मिंल्लोक आदधति । यतरद्यंस्यति । तदन्वेष्यति । यदि साधु वा ऽसाधु वेति । अथ य एवं वेद । अस्मिन् हैव लोके तुलामारोहति । अत्यमुष्मिल्ँ लोके तुलाधानं मुच्यते । साधुकृत्या हैवास्य यच्छति; न पापकृत्या ॥ ३३ ॥

सायणः

अथ यजमानस्य वेदेर्दक्षिणभाग उपवेशनं विधित्सुः दक्षिणवेद्यंतस्य तुलादंडरूपतामाह- अथ हैषैव तुलेति । ‘अथ’ खलु ‘दक्षिणः’ वेदिप्रांत इति यत् ‘एषैव तुला’ तत्र स्थितो यजमानः ‘यत्साधु’ शोभनं विहितं कर्म करोति ‘तदंतर्वेदि भवति’ । ‘अथ’ ‘यत् असाधु’ अशोभनं कर्म करोति ‘तद्बहिर्वेदि’ वेदिबाह्यदेशे भवति । साध्वसाधुकर्मणी तुलादंडस्योभयतः बद्धशिक्यद्वयस्थानीये भवत इति भावः । यस्मादेवं दक्षिणो वेद्यतः साध्वसाधुकर्मणोः विभागहेतुः । तस्मात् दक्षिणवेद्यंतमधिस्पृश्येव उपरिसंस्पृशन्निव यजमान आसीत । तुलायाँ ह वा इति । ‘अमुष्मिन्’ परलोके गतं पुरुषं सुकृतदुष्कृतयोराधिक्यज्ञानार्थं ‘तुलायां’ खलु ‘आदधति’ प्रक्षिपंति तुलया तोलयंतीत्यर्थः । ‘यदि’ तत्र ‘साधु’ सुकृतं वा कर्म ‘असाधु’ दुष्कृतं वा ‘यतरत्’ अनयोर्मध्य एकतरं ‘यंस्यति’ उच्चत्वेन नियमनं करिष्यति ‘तत् अन्वेष्यति’ पुरुषो ऽनुगमिष्यति सुकृतं वा दुष्कृतं वा इति अनेनाभिप्रायेण तुलायाममुष्मिन् लोके प्रक्षिपन्तीत्यर्थः । दक्षिणवेद्यंतस्य तुलारूपतां जानतो यजमानस्य तु नैतदित्याह- अथ य एवं वेदेति । एवमुक्तप्रकारं विद्वान् अस्मिन्नेव ‘लोके’ सुकृतदुष्कृतविभागं दक्षिणवेद्यंतरूपां तुलामारोहति । ‘अमुष्मिन्’ कर्मफलभूतस्वर्गाख्ये ‘लोके’ तुलाधानमतिक्रम्य पापफलान्मुच्यते । तथा चैनं ‘साधुकृत्या’ सुकृतरूपा अस्यैव ‘यच्छति’ आश्रयति । तथा ‘पापकृत्या’ पापं कर्म न स्पृशति ॥ ३३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे द्वितीये ऽध्याये सप्तमं ब्राह्मणम् ॥ (११-२-७) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे द्वितीयो ऽध्यायः समाप्तः ॥ (११ । २) ॥

Eggeling
  1. Now, as to that balance, the right (south) edge of the Vedi 16. Whatever good deed man does that is inside the Vedi; and whatever evil deed he does that is outside the Vedi. Let him therefore sit down, touching the right edge of the Vedi; for, indeed, they place him on the balance in yonder world; and whichever of the two will rise 17 that he will follow, whether it be the good or the evil. And, verily, whosoever knows this, mounts the balance even in this world, and escapes being placed on the balance in yonder world; for his good deed rises, and not his evil deed.

  1. 39:1 Sāyaṇa seems to take the two attendants (pariveshṭrī, preparers or servers-up of food) to mean the pair of fire-tongs (dhr̥shṭī):–ye pariveshaṇa-sādhane dhr̥shṭī tayor ahorātrabuddhiṁ vidhatte. ↩︎

  2. 40:1 Each of the offering-formulas of the Prayājas has after it the anumantraṇa ‘might is speech, might is energy, in me the in-breathing and off-breathing;’ which, according to our paragraph (and Kāty. III, 3, 5), is to be supplemented by these special prayers. ↩︎

  3. 40:2 See X, 3, 4, 1, with note. ↩︎

  4. 41:1 For this sacrificial dish of the New-moor sacrifice, prepared from fresh milk and sour curds, see part i, p. 178, note 4. ↩︎

  5. 41:2 That is, they prepare the Sānnāyya. ↩︎

  6. 41:3 That is to say, different kings either combine or keep separate from each other. ↩︎

  7. विश्रवन्मि Sây. ↩︎

  8. जिघांसन् Sây. ↩︎

  9. 43:1 That is, the breath (out and in-breathing) of the mouth (prāṇa), in comparing which with the fore-offerings (prayāja) the stress is laid on the preposition ‘pra.’ ↩︎

  10. 43:2 According to Kāty. III, 2, 18 seqq., the five prayāja libations are to be made either on the part of the fire burning the brightest, or so that each subsequent libation is poured further east of the preceding one. ↩︎

  11. 43:3 According to Kāty. III, 5, 10, the three anuyāja libations are to be made on the forepart, the middle, and the back (western) part of a burning log respectively. ↩︎

  12. 43:4 For the three days’ libations, called Upasadaḥ (homages or sieges), at the Soma-sacrifice, see part ii, p. 104 seqq. I do not quite understand the reference to the ‘backward direction’ (pratyagapavargatvaṁ vopasad-dharmaḥ, Sāy.) of the Upasads, unless it be that the libations are offered to Agni, Soma and Vishṇu, who are compared with the point, barb and socket (?) of an arrow respectively (III, 4, 4, 14), or that in filling the spoons with ghee, the procedure is the reverse of that usually followed (III, 4, 4, 7. 8). ↩︎

  13. 44:1 The Patnīsaṁyājas (by which offering is made to Soma, Tvashṭr̥, and Agni, along with the wives of the gods) are performed on the Gārhapatya fire, and hence at the back (western) part of the sacrificial ground where the Sacrificer’s wife is seated. For the symbolical import of the rite see I, 9, 2, 5. ↩︎

  14. 45:1 Viz. from his constant attendance on the sacrificial fires. ↩︎

  15. 45:2 According to Sāyaṇa, Eshavīra is the name of a Brāhmaṇical family held in general contempt. See Weber, Ind. Stud. I, p. 228. ↩︎

  16. 45:3 That is, the altar-ground covered with sacrificial grass, serving as a seat for the gods. ↩︎

  17. 45:4 Literally, will force down (the other). On this ordeal see E. Schlagintweit, Die Gottesurtheile der Indier, Nachträge; A. Weber, Ind. Streifen I, p. 21; II, p. 363. ↩︎