०१

विश्वास-प्रस्तुतिः

शि᳘रो ह वा᳘ ऽएत᳘द्यज्ञ᳘स्य यत्प्र᳘णीताः॥
स यत्प्र᳘णीताः प्रण᳘यति शि᳘र ऽए᳘वैत᳘द्यज्ञ᳘स्य स᳘ᳫँ᳘स्करोति स᳘ व्विद्याच्छि᳘र ऽएव᳘ म ऽएतत्स᳘ᳫँ᳘स्क्रियत ऽइ᳘ति॥

मूलम् - श्रीधरादि

शि᳘रो ह वा᳘ ऽएत᳘द्यज्ञ᳘स्य यत्प्र᳘णीताः॥
स यत्प्र᳘णीताः प्रण᳘यति शि᳘र ऽए᳘वैत᳘द्यज्ञ᳘स्य स᳘ᳫँ᳘स्करोति स᳘ व्विद्याच्छि᳘र ऽएव᳘ म ऽएतत्स᳘ᳫँ᳘स्क्रियत ऽइ᳘ति॥

मूलम् - Weber

शि᳘रो ह वा᳘ एत᳘द्यज्ञ᳘स्य यत्प्र᳘णीताः॥
स यत्प्र᳘णीताः प्रण᳘यति शि᳘र एॗवैत᳘द्यज्ञ᳘स्य स᳘ᳫं᳘स्करोति स᳘ विद्याछि᳘र एव᳘ म एतत्स᳘ᳫं᳘स्क्रियत इ᳘ति॥

मूलम् - विस्वरम्

शिरो ह वा एतद्यज्ञस्य- यत्प्रणीताः । स यत्प्रणीताः प्रणयति । शिर एवैतद्यज्ञस्य संस्करोति । स विद्याच्छिर एव म एतत्संस्क्रियत इति ॥ १ ॥

सायणः

अथोपासनार्थं यज्ञशरीरावयवत्वेन प्रणीतादीनामनुष्ठेयपदार्थानामधियज्ञमध्यात्मं च संपत्तिं कथयति- शिरो ह वा एतद्यज्ञस्येत्यादिना । प्रणीताख्या या आपः आहवनीयस्योत्तरतो निधीयंते ‘एतद्यज्ञस्य शिरः’ इति तेन ज्ञातव्यं तत्र । ‘सः’ अध्वर्युः ‘प्रणीताः प्रणयति’ इति यदस्ति । ‘एतत्’ एतेन ‘यज्ञस्य शिर एव संस्करोति’ विशिष्टाकृतिमत् करोति । “संपर्युपेभ्यः” (पा. सू. ६ । १ । १३७) इति कृञः सुट् । अध्यात्ममनुसंधानं विधत्ते- स विद्याच्छिर एव म इति । यजमानः ‘विद्यात्’ जानीयात् । कथमिति तदुच्यते- ‘एतत्’ प्रणीतात्मकं संस्क्रियमाणं यज्ञसंबंधि ‘शिर एव’ मदीयं शिर इति ॥ १ ॥

Eggeling
  1. The Praṇītā water, doubtless, is the head of the sacrifice 1; and when he leads forward the Praṇītā water, it is the head of the sacrifice he thereby forms, and he should know that it is that head of his own that is then being formed.

०२

विश्वास-प्रस्तुतिः

प्राण᳘ ऽए᳘वास्येध्मः᳘॥
प्राणे᳘न᳘ हीदᳫँ᳭ स᳘र्व्वमिद्धं य᳘त्प्राणभृ᳘न्निमिषद्यदे᳘जति स᳘ व्विद्यादह᳘मे᳘वैष᳘ ऽइध्म ऽइति[[!!]]॥

मूलम् - श्रीधरादि

प्राण᳘ ऽए᳘वास्येध्मः᳘॥
प्राणे᳘न᳘ हीदᳫँ᳭ स᳘र्व्वमिद्धं य᳘त्प्राणभृ᳘न्निमिषद्यदे᳘जति स᳘ व्विद्यादह᳘मे᳘वैष᳘ ऽइध्म ऽइति[[!!]]॥

मूलम् - Weber

प्राण᳘ एॗवास्येध्मः᳟॥
प्राणे᳘नॗ हीदᳫं स᳘र्वमिद्धं य᳘त्प्राणभृ᳘न्निमिषद्यदे᳘जति स᳘ विद्यादह᳘मेॗवैष᳘ इध्म इ᳘ति॥

मूलम् - विस्वरम्

प्राण एवास्येध्मः । प्राणेन हीदं सर्वमिद्धम् । यत्प्राणभृन्निमिषद्यदेजति । स विद्यादहमेवैष इध्म इति ॥ २ ॥

सायणः

इध्मस्य प्राणरूपत्वेनोपासनमाह- प्राण एवास्येध्म इति । अस्य यज्ञस्य संबंधी यः ‘इध्मः’ पंचदशदार्वात्मकः एषः ‘प्राण एव’ देहमध्ये संचरन् प्राणवायुरेव, इध्मे प्राणबुद्धिः कार्येत्यर्थः । उभयोः साम्यमाह- प्राणेन हीति । इध्मेन यथा अग्निः समिध्यते एवं ‘प्राणेन’ ‘हि’ यस्मात् ‘इदं’ सर्वं शरीरजातं ‘इद्धं’ प्रदीप्तं भोगयोग्यं भवति । इदमिति सामान्योक्तमेव विशिनष्टि- यत्प्राणभृदिति । प्राणान् बिभर्तीति ‘प्राणभृत्’ । ‘निमिषत्’ निमीलनव्यापारं करोतीति निमिषत् । पशुपक्षिमनुष्यादिजंगमशरीरस्योपलक्षणमेतत् । स्थावरशरीरस्य परिग्रहार्थं- यदेजतीति । यच्च निमेषणादिव्यापारशून्यं तत्तरुगुल्मलताद्यात्मकं शरीरं ‘एजति’ एकत्रैव स्थितं सत् केवलं कंपते । एतत्सर्वमन्तः संचरता प्राणेनेद्धम् । तद्विरहितमुभयं शुष्कं भवत् दृश्यते । “एजृ कंपने” (धा. पा. भ्वा. प. २३५) इति धातुः । इत्थमधियज्ञमुक्त्वा ऽध्यात्ममाह- स विद्यादिति । इध्मस्य प्राणरूपतां ‘सः’ यजमानो विद्याज्जानीयात् । अहमेवैष इध्मात्मकेन प्राणेनेद्धः सन् दीप्त इति ॥ २ ॥

Eggeling
  1. The fuel, indeed, is its breath (of the mouth), for it is by the breath that everything here is kindled (animated) that has breath and moves twinkling with its eyelids: let him know that it is he himself that is that fuel.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘नूकमे᳘वास्य सामिधे᳘न्यः[[!!]]॥
(स्त᳘) त᳘स्मात्ता᳘ ब्रूयात्संतन्व᳘न्निव मे᳘ ऽनुब्रूही᳘ति स᳘न्ततमिव᳘ हीदम᳘नूकं म᳘नश्चै᳘वास्य व्वा᳘क्चाघारौ स᳘रस्वाँश्च स᳘रस्वती च स᳘ व्विद्यान्म᳘नश्चैव᳘ मे व्वा᳘क्चाघारौ स᳘रस्वाँश्च स᳘रस्वती चे᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘नूकमे᳘वास्य सामिधे᳘न्यः[[!!]]॥
(स्त᳘) त᳘स्मात्ता᳘ ब्रूयात्संतन्व᳘न्निव मे᳘ ऽनुब्रूही᳘ति स᳘न्ततमिव᳘ हीदम᳘नूकं म᳘नश्चै᳘वास्य व्वा᳘क्चाघारौ स᳘रस्वाँश्च स᳘रस्वती च स᳘ व्विद्यान्म᳘नश्चैव᳘ मे व्वा᳘क्चाघारौ स᳘रस्वाँश्च स᳘रस्वती चे᳘ति॥

मूलम् - Weber

अ᳘नूकमेॗवास्य सामिधेन्यः᳟॥
त᳘स्मात्ता᳘ ब्रूयात्संतन्व᳘न्निव मे᳘ऽनुब्रूही᳘ति सं᳘ततमिवॗ हीदम᳘नूकम् म᳘नश्चैॗवास्य वा᳘क्चाघारौ स᳘रस्वांश्च स᳘रस्वती च स᳘ विद्यान्म᳘नश्चैव᳘ मे वा᳘क्चाघारौ स᳘रस्वांश्च स᳘रस्वती चे᳘ति॥

मूलम् - विस्वरम्

अनूकमेवास्य सामिधेन्यः । तस्मात्ता ब्रूयात् “संतन्वन्निव मे ऽनुब्रूहि” इति । संततमिव हीदमनूकम् । मनश्चैवास्य वाक्चाघारौ सरस्वांश्च सरस्वती च । स विद्यान्मनश्चैव मे वाक्चाघारौ सरस्वांश्च सरस्वती चेति ॥ ३ ॥

सायणः

अथ सामिधेनीषु सकलमध्यस्थावयवमाह- अनूकमेवेति । ‘अस्य’ यज्ञस्य सामिधेन्याख्या या ऋचः ताः ‘अनूकमेव’ शिरःपक्षपुच्छाद्यवयवसंधिरनूकं तदात्मका ज्ञातव्या इत्यर्थः । यस्मादेवमनूकरूपाः तस्मात् तद्रूपाणां तद्विषये यजमान इत्थं ब्रूयात् हे होतः ! त्वं ‘ताः’ सामिधेनीः ‘संतन्वन्निव’ परस्परं संयोजयन्निव ‘मे’ मह्यं अनुब्रूहीति । तत्र कारणमाह- संततमिव हीति । ‘हि’ यस्मात् ‘इदं’ शरीरं मध्यावयवसंधिरूपमनूक ‘संततमिव’ परस्परं संसक्तमिव दृश्यते । तस्मात् तद्रूपाणां सामिधेनीनामपि सांतत्यं युक्तम् । तल्लक्षणं भगवता ऽऽश्वलायनेनोक्तम्- “स्वरादिमृगंतमोंकारं त्रिमात्रं मकारांतं कृत्वोत्तरस्या अर्द्धर्चे ऽवस्येत्तत्संततम्” इति (आश्व. श्रौ. सू.) । मनश्चैवेत्यादि । ‘अस्य’ यज्ञशरीरस्य इमौ ‘आघारौ’ मनोवाग्रूपौ ज्ञातव्यौ । तौ क्रमेण ‘सरस्वांश्च सरस्वती च’ एतद्द्वयात्मकौ भवतः । अध्यात्मं तयोरुपासनमाह- स विद्यादिति । मम मनश्च वाक् च सरस्वत्सरस्वतीरूपावाघाराविति जानीयादित्यर्थः ॥ ३ ॥

Eggeling
  1. The kindling-verses, indeed, are its spine: let him therefore say (to the Hotr̥.) regarding them, ‘Recite for me, making them, as it were, continuous 2;’ for continuous, as it were, is this spinal column. And the two libations of ghee are its mind and speech, Sarasvat and Sarasvatī 3: let

him know that the two libations of ghee are his mind and speech, Sarasvat and Sarasvatī.

०४

विश्वास-प्रस्तुतिः

प᳘ञ्च प्रयाजाः᳘॥
(ऽ) इम᳘ ऽए᳘वास्य ते᳘ शीर्ष᳘ण्याः प᳘ञ्च प्राणा मुखमे᳘वास्य[[!!]] प्रथमः᳘ प्रयाजो द᳘क्षिणा ना᳘सिका द्विती᳘यः सव्या ना᳘सिका तृती᳘यो द᳘क्षिणः क᳘र्णश्चतुर्थः᳘ सव्यः क᳘र्णः पञ्चमो᳘ ऽथ य᳘च्चतुर्थे᳘ प्रयाजे᳘ समान᳘यति त᳘स्मादिदᳫँ᳭ श्रो᳘त्रमन्तरतः स᳘न्तृण्णं च᳘क्षुषी ऽआ᳘ज्यभागौ स᳘ व्विद्याच्च᳘क्षुषी ऽएव᳘ म ऽएताविति[[!!]]॥

मूलम् - श्रीधरादि

प᳘ञ्च प्रयाजाः᳘॥
(ऽ) इम᳘ ऽए᳘वास्य ते᳘ शीर्ष᳘ण्याः प᳘ञ्च प्राणा मुखमे᳘वास्य[[!!]] प्रथमः᳘ प्रयाजो द᳘क्षिणा ना᳘सिका द्विती᳘यः सव्या ना᳘सिका तृती᳘यो द᳘क्षिणः क᳘र्णश्चतुर्थः᳘ सव्यः क᳘र्णः पञ्चमो᳘ ऽथ य᳘च्चतुर्थे᳘ प्रयाजे᳘ समान᳘यति त᳘स्मादिदᳫँ᳭ श्रो᳘त्रमन्तरतः स᳘न्तृण्णं च᳘क्षुषी ऽआ᳘ज्यभागौ स᳘ व्विद्याच्च᳘क्षुषी ऽएव᳘ म ऽएताविति[[!!]]॥

मूलम् - Weber

प᳘ञ्च प्रयाजाः᳟॥
इम᳘ एॗवास्य ते᳘ शीर्षॗण्याः प᳘ञ्च प्राणा मु᳘खमेॗवास्य प्रथमः᳘ प्रयाजो द᳘क्षिणा ना᳘सिका द्विती᳘यः सव्या ना᳘सिका तृती᳘यो द᳘क्षिणः क᳘र्णश्चतुर्थः᳘ सव्यः क᳘र्णः पञ्चमो᳘ऽथ य᳘च्चतुर्थे᳘ प्रयाजे᳘ समान᳘यति त᳘स्मादिदं श्रो᳘त्रमन्तरतः सं᳘तृणं च᳘क्षुषी आ᳘ज्यभागौ स᳘ विद्याच्च᳘क्षुषी एव᳘ म एतावि᳘ति॥

मूलम् - विस्वरम्

पंच प्रयाजाः । इम एवास्य ते शीर्षण्याः पंच प्राणाः । मुखमेवास्य प्रथमः प्रयाजः । दक्षिणा नासिका द्वितीयः । सव्या नासिका तृतीयः । दक्षिणः कर्णश्चतुर्थः । सव्यः कर्णः पंचमः । अथ यच्चतुर्थे प्रयाजे समानयति । तस्मादिदं श्रोत्रमंतरतः संतृण्णम् । चक्षुषी आज्यभागौ । स विद्याच्चक्षुषी एव म एताविति ॥ ४ ॥

सायणः

प्रयाजेषु कल्प्यानवयवानाह- पंच प्रयाजा इति । शिरसि भवाः ‘शीर्षण्याः’ “ये च तद्धिते”- (पा. सू. ६ । १ । ६१) इति शीर्षन्नादेशः । तत्र कीदृशः प्रयाजः प्राण इति विविनक्ति- मुखमेवास्येति । ‘अस्य’ शरीरस्य ‘प्रथमः’ ‘प्रयाजः’ एव ‘मुखम्’ आस्यम् । दक्षिणा नासिकेत्यादि निगदसिद्धम् । चतुर्थपंचमप्रयाजयोः कर्णत्वे लिंगमुपन्यस्यति- अथ यच्चतुर्थे प्रयाज इति । यस्माच्चतुर्थे प्रयाजे औपभृतस्याज्यस्यार्द्धं जुह्वामानयति ‘तस्मादिदं’ श्रोत्रम् ‘अंतरतः’ मध्ये ‘संतृण्णं सच्छिद्रं’ दृश्यते । एवं पंचसु प्रयाजेषु शीर्षण्यपंचप्राणोपासनमुक्त्वा आज्यभागयोः चक्षुष्ट्वेनोपासनं विधत्ते- चक्षुषी आज्यभागाविति । एतावेवाज्यभागौ मम ‘चक्षुषी’ इति विद्यादित्यर्थः ॥ ४ ॥

Eggeling
  1. The five fore-offerings are these its five (outlets of the) vital airs in the head;–the first fore-offering is its mouth, the second the right nostril, the third the left nostril, the fourth the right ear, and the fifth the left ear. And inasmuch as at the fourth fore-offering he pours together (the ghee 4), therefore this ear is, on the inner side, connected by a channel (with the other). The two butter-portions are the eyes: let him know that these are his own eyes.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘ ऽआग्नेयः᳘ पुरोडा᳘शः॥
(शो ऽय᳘) अय᳘मे᳘वास्य स द᳘क्षिणो᳘ ऽर्द्धो᳘ हृ᳘दयमे᳘वास्योपाᳫँ᳭शुयाजः स यत्ते᳘नोपाᳫँ᳭शु च᳘रति त᳘स्मादिदं गु᳘हेव हृ᳘दयम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘ ऽआग्नेयः᳘ पुरोडा᳘शः॥
(शो ऽय᳘) अय᳘मे᳘वास्य स द᳘क्षिणो᳘ ऽर्द्धो᳘ हृ᳘दयमे᳘वास्योपाᳫँ᳭शुयाजः स यत्ते᳘नोपाᳫँ᳭शु च᳘रति त᳘स्मादिदं गु᳘हेव हृ᳘दयम्॥

मूलम् - Weber

अ᳘थ य᳘ आग्नेयः᳘ पुरोडा᳘शः॥
अय᳘मेॗवास्य स द᳘क्षिणो᳘ऽर्धो हृ᳘दयमेॗवास्योपांशुयाजः स यत्ते᳘नोपांशु च᳘रन्ति त᳘स्मादिदं गु᳘हेव हृ᳘दयम्॥

मूलम् - विस्वरम्

अथ य आग्नेयः पुरोडाशः, अयमेवास्य दक्षिणो ऽर्द्धः । हृदयमेवास्योपांशुयाजः । स यत्तेनोपांशु चरति । तस्मादिदं गुहेव हृदयम् ॥ ५ ॥

सायणः

अथ य आग्नेय इत्यादि । अग्निदेवताको यः प्रथमः ‘पुरोडाशः’ ‘अयमेवास्य’ यज्ञशरीरस्य ‘दक्षिणः अर्द्धः’ दक्षिणः पार्श्वः । उपांशुयाजाख्यस्तु यागो ऽस्य ‘हृदयमेव’ । तत्समर्थयते- स यत्तेनेति । तेनोपांशु चरतीति ‘यत्’ तस्मात् कारणात् तदात्मकमिदं हृदयम् ‘गुहेव’ गुहासदृशम् अलक्ष्यं भवति ॥ ५ ॥

Eggeling
  1. And that cake which is offered to Agni is its right flank; and the low-voiced offering is its heart; and inasmuch as they perform this in a low voice, this heart is, as it were, in secret.

०६

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ᳘ यो ऽग्नीषोमी᳘यः पुरोडा᳘शः॥
(शो ऽय᳘) अय᳘मे᳘वास्य स ऽउ᳘त्तरो᳘ ऽर्द्ध ऽऐन्द्रं᳘ वा सान्नाय्य᳘मन्तरा ऽᳫँ᳭स᳘मे᳘वास्य स्विष्टकृ᳘द्द्विष᳘न्प्राशित्रम्[[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ᳘ यो ऽग्नीषोमी᳘यः पुरोडा᳘शः॥
(शो ऽय᳘) अय᳘मे᳘वास्य स ऽउ᳘त्तरो᳘ ऽर्द्ध ऽऐन्द्रं᳘ वा सान्नाय्य᳘मन्तरा ऽᳫँ᳭स᳘मे᳘वास्य स्विष्टकृ᳘द्द्विष᳘न्प्राशित्रम्[[!!]]॥

मूलम् - Weber

अ᳘थॗ योऽग्नीषोमी᳘यः पुरोडा᳘शः॥
अय᳘मेॗवास्य स उ᳘त्तरो᳘ऽर्ध ऐन्द्रं᳘ वा सांनाय्य᳘मन्तरांस᳘मेॗवास्य स्विष्टकृ᳘द्विष᳘म् प्राशित्र᳘म् 5

मूलम् - विस्वरम्

अथ योऽग्नीषोमीयः पुरोडाशः, अयमेवास्य स उत्तरो ऽर्द्धः । ऐन्द्रं वा सान्नाय्यम् । अंतरांसमेवास्य स्विष्टकृत् । द्विषन् प्राशित्रम् ॥ ६ ॥

सायणः

अमीषोमीयदेवताको यः तृतीयो यागः ‘स अस्य उत्तरो ऽर्द्धः’ उत्तरभागः, इत्थं पौर्णमासयागे । दर्शयागे तु इंद्रदेवताकं ‘सान्नाय्यं’ दधिपयोलक्षणं हविरेव देहस्योत्तरभागः । वाशब्दो ऽत्र व्यवस्थितविकल्पार्थः । अन्तरांसमेवेति । अंसप्रध्यमेवास्य स्विष्टकृद्यागः । द्विषन् प्राशित्रमिति । ‘द्विषन्’ शत्रुरेव ‘प्राशित्रम्’ प्राशित्रे शत्रुबुद्धिः कार्या इत्यर्थः ॥ ६ ॥

Eggeling
  1. And that cake which is offered to Agni and Soma (at full moon), or Indra’s Sānnāyya (at new moon), is its left flank; the Svishṭakr̥t is that part between its shoulders; and the (Brahman’s) fore-portion 6 is the poison 7.

०७

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स य᳘त्प्राशित्र᳘मवद्य᳘ति॥
य᳘थैव त᳘त्प्राजा᳘पतेरा᳘विद्धं निर᳘कृन्तन्नेव᳘मे᳘वैत᳘स्यैतद्य᳘द्वेष्टितं य᳘द्ग्रथितं य᳘द्वरु᳘ण्यं[[!!]] तन्नि᳘ष्कृन्तति स᳘ व्विद्याद्य᳘थैव त᳘त्प्रजा᳘पतेरा᳘विद्धं निर᳘कृन्तन्नेव᳘मेव᳘ म ऽइदं य᳘द्वेष्टितं य᳘द्ग्रथितं य᳘द्वरु᳘ण्यं[[!!]] तन्नि᳘ष्कृन्तती᳘ति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स य᳘त्प्राशित्र᳘मवद्य᳘ति॥
य᳘थैव त᳘त्प्राजा᳘पतेरा᳘विद्धं निर᳘कृन्तन्नेव᳘मे᳘वैत᳘स्यैतद्य᳘द्वेष्टितं य᳘द्ग्रथितं य᳘द्वरु᳘ण्यं[[!!]] तन्नि᳘ष्कृन्तति स᳘ व्विद्याद्य᳘थैव त᳘त्प्रजा᳘पतेरा᳘विद्धं निर᳘कृन्तन्नेव᳘मेव᳘ म ऽइदं य᳘द्वेष्टितं य᳘द्ग्रथितं य᳘द्वरु᳘ण्यं[[!!]] तन्नि᳘ष्कृन्तती᳘ति॥

मूलम् - Weber

स य᳘त्प्राशित्र᳘मवद्य᳘ति॥
य᳘थैव त᳘त्प्राजा᳘पतेरा᳘विद्धं निर᳘कृन्तन्नेव᳘मेॗवैत᳘स्यैतद्य᳘द्वेष्टितं य᳘द्ग्रथितं य᳘द्वरुण्यं᳘ तन्नि᳘ष्कृन्तन्ति स᳘ विद्याद्य᳘थैव त᳘त्प्रजा᳘पतेरा᳘विद्धं निर᳘कृन्तन्नेव᳘मेव᳘ म इदं य᳘द्वेष्टितं य᳘द्ग्रथितं य᳘द्वरुण्यं᳘ तन्नि᳘ष्कृन्तन्ती᳘ति॥

मूलम् - विस्वरम्

स यत्प्राशित्रमवद्यति । यथैव तत्प्रजापतेराविद्धं निरकृंतन् । एवमेवैतस्यैतत्- यद्वेष्टितं यद् ग्रथितं यद्वरुण्यम् तन्निष्कृन्तति । स विद्याद्यथैव तत्प्रजापतेराविद्धं निरकृंतन् । एवमेव म इदम् यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृंततीति ॥ ७ ॥

सायणः

अतस्तदवदानं शत्रुनिरसनार्थमिति प्रतिपादयति- स यत्प्राशित्रमिति । प्राशित्राख्यं भागम् ‘अवद्यति’ खण्डयतीति यदस्ति, अस्य वाक्यस्य एवमेवैतस्यैतदित्युपरितनवाक्येन संबन्धः । यथैव तदित्यादि । ‘यथैव’ खलु पुरा प्रजापतिशरीरे ‘आविद्धम्’ शल्यं प्राशित्रावदानेन ‘निरकृन्तन्’ निरगमयन् । “कृती छेदने”- (धा. पा. तु. प. १५४) इति धातुः । ‘एवमेवैतस्य’ यज्ञशरीरस्य यजमानस्य वा यत्पापं ‘वेष्टितं’ वेष्टनशीलं यच्च ‘ग्रथितं’ ग्रंथिमद्वस्तुभूतम् यच्च ‘वरुण्यं’ वरुणसंबंधि हिंसनम् तत्सर्वं प्राशित्रावदानेन ‘निष्कृंतति’ निःसारयति । एतस्योपासनमाह- स विद्याद्यथैव तदिति । व्याख्यातप्रायमेतत् ॥ ७ ॥

Eggeling
  1. And when he cuts off the fore-portion,—even as there they cut out what was injured 8 in Prajāpati, so do they now thereby cut out what in this (body) is clogged and hardened, and affected by Varuṇa

let him know that, as there they cut out what was injured in Prajāpati, so they now cut out what in him is clogged and hardened and affected by Varuṇa.

०८

विश्वास-प्रस्तुतिः

(त्यु) उद᳘रमे᳘वास्ये᳘डा॥
तद्य᳘थै᳘वाद ऽइ᳘डायाᳫँ᳭ समवद्य᳘न्त्येव᳘मे᳘वेदं᳘ व्विश्व᳘रूपम᳘न्नमुद᳘रे सम᳘वधीयते॥

मूलम् - श्रीधरादि

(त्यु) उद᳘रमे᳘वास्ये᳘डा॥
तद्य᳘थै᳘वाद ऽइ᳘डायाᳫँ᳭ समवद्य᳘न्त्येव᳘मे᳘वेदं᳘ व्विश्व᳘रूपम᳘न्नमुद᳘रे सम᳘वधीयते॥

मूलम् - Weber

उद᳘रमेॗवास्ये᳘डा॥
तद्य᳘थैॗवाद इ᳘डायाᳫं समवद्य᳘न्त्येव᳘मेॗवेदं᳘ विश्व᳘रूपम᳘न्नमुद᳘रे सम᳘वधीयते॥

मूलम् - विस्वरम्

उदरमेवास्येडा । तद्यथैवाद इडायां समवद्यंति । एवमेवेदं विश्वरूपमन्नमुदरे समवधीयते ॥ ८ ॥

सायणः

उदरमेवास्येडेत्यादि । तत्तत्र ‘यथैव’ खलु ‘इडायां’ च पुरोडाशादीनि सान्नाय्यादीनि सर्वाणि हवींषि सहावद्यंति । ‘एवमेवेदं विश्वरूपं’ नानारूपमन्नम् ‘उदरे समवधीयते’ सह धार्यते । अत उदरात्मकत्वमिडाया युक्तमित्यर्थः ॥ ८ ॥

Eggeling
  1. The Iḍā, indeed, is the belly: even as there, at (the invocation of) the Iḍā 9 they cut off portions (and put them) together, so now food, of all kinds is put together in the belly.

०९

विश्वास-प्रस्तुतिः

त्र᳘यो ऽनुयाजाः᳘॥
(जा᳘ ऽइ) इम᳘ ऽए᳘वास्य ते᳘ ऽवाञ्चस्त्र᳘यः प्राणा᳘ बाहू᳘ ऽए᳘वास्य सूक्तवाक᳘श्च शंयोर्व्वाक᳘श्च चत्वा᳘रः पत्नीसंयाजाश्च᳘तस्रो वै᳘ प्रतिष्ठा᳘ ऽऊरू द्वा᳘वष्ठीव᳘न्तौ द्वौ प्रादावे᳘वास्य समिष्टयजुः[[!!]]॥

मूलम् - श्रीधरादि

त्र᳘यो ऽनुयाजाः᳘॥
(जा᳘ ऽइ) इम᳘ ऽए᳘वास्य ते᳘ ऽवाञ्चस्त्र᳘यः प्राणा᳘ बाहू᳘ ऽए᳘वास्य सूक्तवाक᳘श्च शंयोर्व्वाक᳘श्च चत्वा᳘रः पत्नीसंयाजाश्च᳘तस्रो वै᳘ प्रतिष्ठा᳘ ऽऊरू द्वा᳘वष्ठीव᳘न्तौ द्वौ प्रादावे᳘वास्य समिष्टयजुः[[!!]]॥

मूलम् - Weber

त्र᳘योऽनुयाजाः᳟॥
इम᳘ एॗवास्य ते᳘ऽवाञ्चस्त्र᳘यः प्राणा᳘ बाहू᳘ एॗवास्य सूक्तवाक᳘श्च शम्योर्वाक᳘श्च चत्वा᳘रः पत्नीसंयाजाश्च᳘तस्रो वै᳘ प्रतिष्ठा᳘ ऊरू द्वा᳘वष्ठीव᳘न्तौ द्वौ प्रादावेॗवास्य समिष्टयजुः᳟॥

मूलम् - विस्वरम्

त्रयो ऽनुयाजाः । इम एवास्य ते ऽवांचस्त्रयः प्राणाः । बाहू एवास्य सूक्तवाकश्च शंयोर्वाकश्च । चत्वारः पत्नीसंयाजाश्चतस्रो वै प्रतिष्ठा ऊरू द्वावष्ठीवन्तौ द्वौ । पादावेवास्य समिष्टयजुः ॥ ९ ॥

सायणः

अनुयाजेष्ववयवक्लृप्तिमाह- त्रयो ऽनुयाजा इति । ‘ते’ प्रसिद्धाः अवाङ्मुखास्त्रयः ‘प्राणाः’ नाभिपायुगुह्यरूपाः । बाहू एवास्येत्यादि । “इदं द्यावापृथिवी भद्रमभूत्” इत्यादिसूक्तवाकः । “तच्छंयोरावृणीमहे” इति शंयुवाकः । इमावस्य ‘बाहू’ । सोमत्वष्टृदेवपत्न्यग्निगृहपतिदेवताकाश्चत्वारः ‘पत्नीसंयाजाः’ अस्य ‘चतस्रः’ ‘प्रतिष्ठाः’ प्रकर्षेण स्थितिहेतुभूताः । तत्र द्वौ ‘ऊरू’ द्वौ ‘अष्ठीवंतौ’ ऊर्वधोभागौ अष्ठीवच्छब्दवाच्यौ । यश्चरमवर्ती समिष्टयजुराख्यो होमः सो ऽस्य ‘पादावेव’ भूतले निक्षेप्तव्यौ चरणौ । कृत्स्नाधारत्वं समिष्टयजुषः पादयोश्च साम्यम् ॥ ९ ॥

Eggeling
  1. The three after-offerings are these its three downward breathings; and the Sūktavāka and Śamyorvāka its arms (or fore-feet); the four Patnīsaṁyājas the four supports–the two thighs and the two knee-bones; and the Samishṭayajus is the two (hind) feet.

१०

विश्वास-प्रस्तुतिः

(स्ता) ता ऽए᳘कविᳫँ᳭शतिरा᳘हुतयः॥
(यो) द्वा᳘वाघारौ प᳘ञ्च प्रयाजा द्वावा᳘ज्यभागावाग्नेयः᳘ पुरोडा᳘शस्तद्द᳘शाग्नीषोमी᳘य ऽउपाᳫँ᳭शुया᳘जो ऽग्नीषोमी᳘यः पुरोडा᳘शो ऽग्निः᳘ स्विष्टकृदि᳘डा त्र᳘यो ऽनुयाजाः᳘ सूक्तवाक᳘श्च शंय्योर्व्वाकश्चा᳘थ य᳘दे᳘वादः[[!!]] पत्नीसंयाजे᳘षु सम्प्रगृह्णा᳘ति समिष्टयजु᳘श्च॥

मूलम् - श्रीधरादि

(स्ता) ता ऽए᳘कविᳫँ᳭शतिरा᳘हुतयः॥
(यो) द्वा᳘वाघारौ प᳘ञ्च प्रयाजा द्वावा᳘ज्यभागावाग्नेयः᳘ पुरोडा᳘शस्तद्द᳘शाग्नीषोमी᳘य ऽउपाᳫँ᳭शुया᳘जो ऽग्नीषोमी᳘यः पुरोडा᳘शो ऽग्निः᳘ स्विष्टकृदि᳘डा त्र᳘यो ऽनुयाजाः᳘ सूक्तवाक᳘श्च शंय्योर्व्वाकश्चा᳘थ य᳘दे᳘वादः[[!!]] पत्नीसंयाजे᳘षु सम्प्रगृह्णा᳘ति समिष्टयजु᳘श्च॥

मूलम् - Weber

ता ए᳘कविंशतिरा᳘हुतयः॥
द्वा᳘वाघारौ प᳘ञ्च प्रयाजा द्वावा᳘ज्यभागावाग्नेयः᳘ पुरोडा᳘शस्तद्द᳘शाग्नीषोमी᳘य उपांशुयाॗजोऽग्नीशोमी᳘यः पुरोडा᳘शोऽग्निः᳘ स्विष्टकृदि᳘डा त्र᳘योऽनुयाजाः᳘ सूक्तवाक᳘श्च शम्योर्वाकश्चा᳘थ य᳘देवादः᳘ पत्नीसंयाजे᳘षु सम्प्रगृह्णा᳘ति समिष्टयजु᳘श्च॥

मूलम् - विस्वरम्

ता एकविंशतिराहुतयः । द्वावाघारौ । पंच प्रयाजाः । द्वावाज्यभागौ । आग्नेयः पुरोडाशः, तद्दश । अग्नीषोमीय उपांशुयाजः । अग्नीषोमीयः पुरोडाशः । अग्निः स्विष्टकृत् । इडा । त्रयो ऽनुयाजाः । सूक्तवाकश्च । शंयोर्वाकश्च । अथ यदेवादः पत्नीसंयाजेषु संप्रगृह्णाति । समिष्टयजुश्च ॥ १० ॥

सायणः

एवं शिरःप्रभृतिपादांता अवयवाः अधियज्ञमध्यात्मं च आहुतिभिरेव परिकल्पिताः संतः संभूय एकविंशतिसंख्याकाः, तत्संख्याद्वारेण सूर्यलोकप्राप्तिरूपं फलं वक्ष्यन् ता आहुतीः परिगणयति- द्वावाघारावित्यादिना । अग्नीषोमीय उपांशुयाज इति । “विष्णुरुपांशु यष्टव्यः” इतिवत् “अग्नीषोमावुपांशु यष्टव्यौ” इति श्रवणात् उपांशुयाजो ऽप्यग्नीषोमीयदेवताको भवति । अथ यदेवाद इति । ‘अदः’ अमुत्र पौरोडाशिककांडपत्नीसंयाजेषु कर्तव्येषु सत्सु शंयुवाकानंतरं यत् स्रुचोः संप्रग्रहणं विहितम्, सा संस्रवाहुतिः परिगणनीयेत्यर्थः ॥ १० ॥

Eggeling
  1. These are twenty-one offerings;–two libations of ghee, five fore-offerings, two butter-portions, and Agni’s cake: this makes ten; Agni and Soma’s low-voiced offering, Agni and Soma’s cake, the Agni Svishṭakr̥t, the Iḍā, three after-offerings, the Sūktavāka, the Śamyorvāka, further his seizing (the two spoons) at the same time there at the Patnīsaṁyājas 10 and (last) the Samishṭayajus.

११

विश्वास-प्रस्तुतिः

ता ऽए᳘कविᳫँ᳭शतिरा᳘हुतयः॥
(यो) द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य प᳘ञ्चर्त᳘वस्त्र᳘यो लोकास्त᳘द्विᳫँ᳭शति᳘रेष᳘ ऽए᳘वैकविᳫँ᳭शो य᳘ ऽएष त᳘पति᳘ सैषा ग᳘तिरेषा᳘ प्रतिष्ठा त᳘देतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ गच्छति॥

मूलम् - श्रीधरादि

ता ऽए᳘कविᳫँ᳭शतिरा᳘हुतयः॥
(यो) द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य प᳘ञ्चर्त᳘वस्त्र᳘यो लोकास्त᳘द्विᳫँ᳭शति᳘रेष᳘ ऽए᳘वैकविᳫँ᳭शो य᳘ ऽएष त᳘पति᳘ सैषा ग᳘तिरेषा᳘ प्रतिष्ठा त᳘देतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ गच्छति॥

मूलम् - Weber

ता ए᳘कविंशतिरा᳘हुतयः॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य प᳘ञ्चर्त᳘वस्त्र᳘यो लोकास्त᳘द्विंशति᳘रेष᳘ एॗवैकविंशो य᳘ एष त᳘पतिॗ सैषा ग᳘तिरेषा᳘ प्रतिष्ठा त᳘देतां ग᳘तिमेता᳘म् प्रतिष्ठां᳘ गछति॥

मूलम् - विस्वरम्

ता एकविंशतिराहुतयः । द्वादश वै मासाः संवत्सरस्य । पंचर्तवः । त्रयो लोकाः । तद्विंशतिः । एष एवैकविंशः, य एष तपति । सैषा गतिः, एषा प्रतिष्ठा । तदेतां गतिमेतां प्रतिष्ठां गच्छति ॥ ११ ॥

सायणः

द्वादश वै मासा इत्यादि सुगमम् । एष एवैकविंश इति । ‘एषः’ दृश्यमानः सूर्यः ‘एव’ एकविंशतिसंख्यापूरकः । एतच्छब्दार्थमाह- य एष तपतीति । ‘तपति’ श्लोकेन दीप्यत इत्यर्थः । ‘सैषा’ सूर्यरूपैव ‘गतिः’ गंतव्यभूमिः । एषैव ‘प्रतिष्ठा’ कृत्स्नफलस्याश्रयः । तदेवं सति उक्तोपासनं विद्वान् ‘एतां’ सूर्यरूपां ‘गतिं’ प्रतिष्ठां च आभिरेकविंशतिभिराहुतिभिः प्राप्नोति ॥ ११ ॥

Eggeling
  1. These are twenty-one offerings,–there are twelve months and five seasons in a year; and three worlds–that makes twenty; and yonder burning (sun) is the twenty-first–that is the goal 11, that the resting-place: he thus reaches that goal, that resting-place.

१२

विश्वास-प्रस्तुतिः

त᳘द्ध स्मैतदा᳘रुणिराह॥
(हा) अर्द्धमासशो वा᳘ ऽअह᳘ममु᳘ना ऽऽदित्ये᳘न स᳘लोको भवामि ता᳘महं᳘ दर्शपूर्णमास᳘योः सम्प᳘दं व्वेदे᳘ति॥

मूलम् - श्रीधरादि

त᳘द्ध स्मैतदा᳘रुणिराह॥
(हा) अर्द्धमासशो वा᳘ ऽअह᳘ममु᳘ना ऽऽदित्ये᳘न स᳘लोको भवामि ता᳘महं᳘ दर्शपूर्णमास᳘योः सम्प᳘दं व्वेदे᳘ति॥

मूलम् - Weber

त᳘द्ध स्मैतदा᳘रुणिराह॥
अर्धमासशो वा᳘ अह᳘ममु᳘नादित्ये᳘न स᳘लोको भवामि ता᳘महं᳘ दर्शपूर्णमास᳘योः सम्प᳘दं वेदे᳘ति॥

मूलम् - विस्वरम्

तद्ध स्मैतदारुणिराह- अर्द्धमासशो वा अहममुना ऽऽदित्येन सलोको भवामि । तामहं दर्शपूर्णमासयोः संपदं वेदेति ॥ १२ ॥

सायणः

उक्तोपासनफलयोः साध्यसाधनभावं संपादयति- तद्ध स्मैतदिति । ‘आरुणिः’ नाम महर्षिः ‘आह स्म’ ‘अर्द्धमासशः’ अर्द्धमासे अर्द्धमासे खलु ‘अहममुना आदित्येन’ ‘सलोकः’ समानलोको भवामि । तत्कारणभूतां ‘दर्शपूर्णमासयोः’ तामुक्तरूपां ‘संपदं’ संपत्तिं यतः अहं ‘वेद’ जानामि । ततः सलोको भवामीति संबंधः ॥ १२ ॥

Eggeling
  1. Now, as to this Āruṇi said, ‘Every half-month, indeed, I become a sharer of the same world with yonder sun: that is the perfection of the Full and New-moon sacrifices which I know.’

१३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(रा) आत्मयाजी[[!!]] श्रेया᳘३न्देवयाजी३ ऽइ᳘त्यात्मयाजी᳘ति ह ब्रूयात्स᳘ ह वा᳘ ऽआत्मयाजी यो व्वेदे᳘दं[[!!]] मे ऽनेना᳘ङ्गᳫँ᳭ सᳫँ᳭स्क्रिय᳘त ऽइदं᳘ मे ऽनेना᳘ङ्गमु᳘पधीयत ऽइ᳘ति स यथा᳘ ऽहिस्त्वचो᳘ निर्म्मुच्ये᳘तैव᳘मस्मान्म᳘र्त्याच्छ᳘रीरात्पाप्म᳘नो नि᳘र्मुच्यते स᳘ ऽऋङ्म᳘यो यजुर्म्म᳘यः सामम᳘य ऽआहुतिम᳘यः स्वर्गं᳘ लोक᳘मभिसं᳘भवति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(रा) आत्मयाजी[[!!]] श्रेया᳘३न्देवयाजी३ ऽइ᳘त्यात्मयाजी᳘ति ह ब्रूयात्स᳘ ह वा᳘ ऽआत्मयाजी यो व्वेदे᳘दं[[!!]] मे ऽनेना᳘ङ्गᳫँ᳭ सᳫँ᳭स्क्रिय᳘त ऽइदं᳘ मे ऽनेना᳘ङ्गमु᳘पधीयत ऽइ᳘ति स यथा᳘ ऽहिस्त्वचो᳘ निर्म्मुच्ये᳘तैव᳘मस्मान्म᳘र्त्याच्छ᳘रीरात्पाप्म᳘नो नि᳘र्मुच्यते स᳘ ऽऋङ्म᳘यो यजुर्म्म᳘यः सामम᳘य ऽआहुतिम᳘यः स्वर्गं᳘ लोक᳘मभिसं᳘भवति॥

मूलम् - Weber

त᳘दाहुः॥
आत्मयाजी᳘ 12 श्रेया᳘३न्देवयाजी३ इ᳘त्यात्मयाजी᳘ति ह ब्रूयात्स᳘ ह वा᳘ आत्मयाजी यो वे᳘देद᳘म् मेऽनेना᳘ङ्गᳫं संस्क्रिय᳘त इद᳘म् मेऽनेना᳘ङ्गमु᳘पधीयत इ᳘ति स यथा᳘हिस्त्वचो᳘ निर्मुच्ये᳘तैव᳘मस्मान्म᳘र्त्याछ᳘रीरात्पाप्म᳘नो नि᳘र्मुच्यते स᳘ ऋङ्म᳘यो यजुर्म᳘यः सामम᳘य आहुतिम᳘यः स्वर्गं᳘ लोक᳘मभिस᳘म्भवति॥

मूलम् - विस्वरम्

तदाहुः- आत्मयाजी श्रेया ३न् देवयाजी ३ इति । आत्मयाजीति ह ब्रूयात् । स ह वा आत्मयाजी- यो वेदेदं मे ऽनेनाङ्गं संस्क्रियते, इदं मे ऽनेनाङ्गमुपधीयत इति । स यथा ऽहिस्त्वचो निर्मुच्येत, एवमस्मान्मर्त्याच्छरीरात्पाप्मनो निर्मुच्यते । स ऋङ्मयो यजुर्मयः साममय आहुतिमयः स्वर्गं लोकमभिसंभवति ॥ १३ ॥

सायणः

उक्तोपासनेन सह दर्शपूर्णमासावनुतिष्ठतो यजमानस्य इतरस्मात् बहुतरफलभाक्त्वं विचारपूर्वकं दर्शयति- तदाहुरिति । तत्तत्र विषये ‘आहुः’ मीमांसन्ते ब्रह्मवादिनः । किमात्मयाजी श्रेयान् उत देवयाजी इति ? । “विचार्यमाणानाम्” (पा. सू. ८ । २ । ९७) इत्युभयत्र प्लुतिः । तत्र प्रशस्तं पक्षं दर्शयति- आत्मयाजीतीति । हशब्दो ऽवधारणे । कः पुनरसावात्मयाजीति तं लक्षयति- स ह वा आत्मयाजीति । ‘सः’ एव खलु ‘आत्मयाजी’ यो यजमानः ‘इदं’ शिरःप्रभृतिकं मदीयमङ्गमनेन यज्ञांगेन ‘संस्क्रियते’ ‘इदं’ मदीयमङ्गमनेनोपधीयत उपस्थाप्यत इति ‘वेद’ जानाति स आत्मयाजी । तस्य सर्वपापक्षयरूपं फलं सदृष्टांतमाह- स यथा ऽहिरिति । ‘यथा’ सर्पस्त्वचो विनिर्मुच्येत एवमात्मयाजी ‘अस्मात् मर्त्यात्’ मरणधर्मकात् शरीररूपात् ‘पाप्मनः’ ‘निर्मुच्यते’ निःशेषेण मुक्तो भवति । न पुनस्तादृक्शरीरसंबंधं प्रतिपद्यत इत्यर्थः । तर्हि कीदृग्रूपः असौ भवतीति तदाह- स ऋङ्मय इति । सूर्यमंडलस्य त्रयीरूपत्वात् तादृङ्मयरूप एव सन् तत्र स्थिताहुतिभ्यः सन् फलभूतं ‘स्वर्गं’ दुःखासंस्पृष्टसुखरूपं लोकं अभिलक्ष्य ‘संभवति’ सन्निधत्ते ॥ १३ ॥

Eggeling
  1. As to this they ask, ‘Who is the better one, the self-offerer, or the god-offerer?’ Let him say, ‘The self-offerer;’ for a self-offerer, doubtless, is he who knows, ‘This my (new) body is formed by that (body of Yajña, the sacrifice), this my (new) body is procured 13 thereby.’ And even as a snake frees itself from its skin, so does he free himself from his mortal body, from sin; and made up of the R̥c, the Yajus, the Sāman, and of offerings, does he pass on to the heavenly world.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ह स᳘ देवयाजी यो व्वे᳘द॥
देवा᳘ने᳘वाह᳘मिदं य᳘जे देवा᳘न्त्सपर्य्यामी᳘ति स य᳘था श्रे᳘यसे पा᳘पीयान्बलिᳫँ᳭ ह᳘रेद्वै᳘श्यो वा रा᳘ज्ञे बलिᳫँ᳭ ह᳘रेदेवᳫँ᳭ स स᳘ ह न ता᳘वन्तं लोकं᳘ जयति या᳘वान्तमितरः[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ह स᳘ देवयाजी यो व्वे᳘द॥
देवा᳘ने᳘वाह᳘मिदं य᳘जे देवा᳘न्त्सपर्य्यामी᳘ति स य᳘था श्रे᳘यसे पा᳘पीयान्बलिᳫँ᳭ ह᳘रेद्वै᳘श्यो वा रा᳘ज्ञे बलिᳫँ᳭ ह᳘रेदेवᳫँ᳭ स स᳘ ह न ता᳘वन्तं लोकं᳘ जयति या᳘वान्तमितरः[[!!]]॥

मूलम् - Weber

अ᳘थ ह स᳘ देवयाजी यो वे᳘द॥
देवा᳘नेॗवाह᳘मिदं य᳘जे देवा᳘न्त्सपर्यामी᳘ति स य᳘था श्रे᳘यसे पा᳘पीयान्बलिᳫं ह᳘रेद्वै᳘श्यो वा रा᳘ज्ञे बलिᳫं ह᳘रेदेवᳫं स स᳘ ह न ता᳘वन्तं लोकं᳘ जयति या᳘वान्तमि᳘तरः॥

मूलम् - विस्वरम्

अथ ह स देवयाजी । यो वेद, देवानेवाहमिदं यजे, देवान्त्सपर्यामीति । स यथा श्रेयसे पापीयान् बलिं हरेत् । वैश्यो वा राज्ञे बलिं हरेत् । एवं सः। स ह न तावन्तं लोकं जयति । यावन्तमितरः ॥ १४ ॥

सायणः

ईदृग्रूपफलव्यतिरेकं देवयाजिनो दर्शयति- अथ ह स देवयाजीति । निगदसिद्धो ऽर्थः । ‘सपर्यामि’ पूजयामि । “सपर पूजायाम्” (कण्ड्वादिगणे. २१) इति धातुः । स यथा श्रेयस इत्यादि । ‘यथा’ खलु ‘श्रेयसे’ श्रेष्ठाय ‘पापीयान्’ हीनः पुरुषः बलिमुपहारं ‘हरेत्’ यथा वा ‘वैश्यो राज्ञे’ ‘बलिं’ करं ‘हरेत्’ एवमेव ‘सः’ देवयाजी हविषा तोषितैर्देवैः सेवानुसारेण दत्तं फलं लभते । ‘यावंतं’ लोकं ‘इतरः’ आत्मयाजी जयति । ‘तावंतं लोकं’ ‘सः’ देवयाजी न लभते । उपासनाज्ञानहीनत्वादित्यर्थः ॥ १४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे द्वितीये ऽध्याये षष्ठं ब्राह्मणम् ॥ (११-२-६) ॥

Eggeling
  1. And a god-offerer, doubtless, is he who knows, ‘I am now offering sacrifice to the gods, I am serving the gods,’–such a one is like an inferior who brings tribute to his superior, or like a man of the people who brings tribute to the king: verily, he does not win such a place (in heaven) as the other.

  1. 35:1 Yajña, the sacrifice, is here, as so often, to be understood as the abstract representation of the victim (here the horse), as well as of the Purusha,–i.e. Prajāpati, and the Sacrificer. ↩︎

  2. 35:2 The kindling-verses, being in the Gāyatrī metre, consist of three octosyllabic pādas each. Whilst after each verse a kindling-stick (samidh) is thrown into the fire by the Adhvaryu, the Hotr̥ does not make any pause in his recitation at this point, but he does so after the second pāda of each verse, thus connecting the last pāda with the first two pādas of the next verse. ↩︎

  3. 35:3 See XI, 2, 5, 9 . ↩︎

  4. 36:1 See I, 5, 3, 16. ↩︎

  5. कृ᳘द्विषं᳘ प्रायश्चित्रं P. कृद्द्विषन्प्राशित्रं Sây. ↩︎

  6. 36:2 See I, 7, 4, 10 seqq. ↩︎

  7. 36:3 Instead of ‘visham,’ the MS. of Sāyaṇa’s commentary reads ‘dvishan’ (hater, enemy), which is explained as meaning ‘śatrubuddhi’; the cutting out’ of the fore-portion being compared with the annihilation of enemies (śatrunirasanārtham),–all this is, however, manifestly fanciful. What is intended would seem to be the poison (real or figurative) caused by the enemies’ (or Rudra’s, or Varuṇa’s) shafts, in accordance with the myth regarding Prajāpati and his daughter, I, 7, 4, 1 seqq. ↩︎

  8. 36:4 Literally, what was pierced (by an arrow), cf. I, 7, 4, 3. 9. ↩︎

  9. 37:1 See I, 8, 1, 12 seqq. ↩︎

  10. 37:2 See I, 9, 2, 19. ↩︎

  11. 37:3 Saishā sūryarūpaiva gatiḥ gantavyabhūmiḥ; eshaiva pratishṭḥā kr̥tsnaphalasyāśrayaḥ, Sāy. ↩︎

  12. आत्मयाजी श्रेया᳘३न्दे AP. ↩︎

  13. 38:1 Upadhīyate upasthāpyate, Sāy. ↩︎