०१

विश्वास-प्रस्तुतिः

अ᳘पि ह वा᳘ ऽएत᳘र्हि॥
देवे᳘भ्यो ऽश्वमेधमा᳘लभंते त᳘दाहुः प्रा᳘कृतो ऽश्वमेध ऽइती᳘तर ऽइ᳘न्नूनᳫँ᳭ स तद्वा᳘ ऽएष᳘ ऽए᳘वाश्वमेधो य᳘च्चंद्र᳘माः॥

मूलम् - श्रीधरादि

अ᳘पि ह वा᳘ ऽएत᳘र्हि॥
देवे᳘भ्यो ऽश्वमेधमा᳘लभंते त᳘दाहुः प्रा᳘कृतो ऽश्वमेध ऽइती᳘तर ऽइ᳘न्नूनᳫँ᳭ स तद्वा᳘ ऽएष᳘ ऽए᳘वाश्वमेधो य᳘च्चंद्र᳘माः॥

मूलम् - Weber

अ᳘पि ह वा᳘ एत᳘र्हि॥
देवे᳘भ्योऽश्वमेधमा᳘लभन्ते त᳘दाहुः प्रा᳘कृतोऽश्वमेध इती᳘तर इ᳘न्नूनᳫं स तद्वा᳘ एष᳘ एॗवाश्वमेधो य᳘च्चन्द्र᳘माः॥

मूलम् - विस्वरम्

अपि ह वा एतर्हि देवेभ्यो ऽश्वमेधमालभंते । तदाहुः- प्राकृतो ऽश्वमेध इति । इतर इन्नूनं सः । तद्वा एष एवाश्वमेधो यच्चंद्रमाः ॥ १ ॥

सायणः

अथ दर्शपूर्णमासयागं अश्वमेधात्मना स्तोतुं प्रस्तौति- अपि ह वा एतर्हीति । ‘अपि’ खलु एतस्मिन् समये ‘देवेभ्यः’ प्रजापतिमुख्येभ्यः ‘अश्वमेधं’ अश्वात्मकं मेधं ‘पशुम्’ आलभंते । दर्शपूर्णमासयाजिन इति शेषः । तदाहुः प्राकृत इत्यादि । तत्तत्र दर्शपूर्णमासविषये ‘आहुः’ प्रतिपादयंति । अयमेव दर्शपूर्णमासयागः ‘प्राकृतः’ प्रकृतिभूतः ‘अश्वमेधः’ । प्रसिद्धो ऽश्वमेधस्तु ‘इतर इत्’ वैकृत एव । नूनमित्यवधारणे । उक्तमर्थं प्रतिपादयितुं चंद्रमसम् अश्वमेधत्वेन निरूपयति- तद्वा एष एवेति । दर्शपूर्णमासकालविभागनिमित्तभूतश्चंद्रमाः इति यदस्ति, अयमेव तदा अश्वमेध इत्यर्थः ॥ १ ॥

Eggeling
  1. And, verily, even on this occasion 1, they slaughter the sacrificial horse (Aśvamedha) as a sacrifice to the gods: of this (New and Full-moon sacrifice) they say, ‘It is the original (normal) Aśvamedha;’ and that (real Aśvamedha), indeed, is just the other (modified one); for, indeed, the Aśvamedha is the same as the moon.

०२

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
पदे᳘ पदे᳘ ऽश्वस्य मे᳘ध्यस्या᳘हुतिं जुह्वती᳘ति स य᳘त्सायं᳘प्रातरग्निहोत्रं᳘ जुहो᳘ति द्वे᳘ सायमा᳘हुती जुहो᳘ति द्वे᳘ प्रातस्ताश्च᳘तस्र ऽआ᳘हुतयश्च᳘तुष्पाद्वा ऽअ᳘श्वस्त᳘दस्य पदे᳘ पद ऽएवा᳘हुतिर्हुता᳘ भवति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
पदे᳘ पदे᳘ ऽश्वस्य मे᳘ध्यस्या᳘हुतिं जुह्वती᳘ति स य᳘त्सायं᳘प्रातरग्निहोत्रं᳘ जुहो᳘ति द्वे᳘ सायमा᳘हुती जुहो᳘ति द्वे᳘ प्रातस्ताश्च᳘तस्र ऽआ᳘हुतयश्च᳘तुष्पाद्वा ऽअ᳘श्वस्त᳘दस्य पदे᳘ पद ऽएवा᳘हुतिर्हुता᳘ भवति॥

मूलम् - Weber

त᳘दाहुः॥
पदे᳘-पदे᳘ऽश्वश्य मे᳘ध्यस्या᳘हुतिं जुह्वती᳘ति स य᳘त्साय᳘म्प्रातरग्निहोत्रं᳘ जुहो᳘ति द्वे᳘ सायमा᳘हुती जुहो᳘ति द्वे᳘ प्रातस्ताश्च᳘तस्र आ᳘हुत्यश्च᳘तुष्पाद्वा अ᳘श्वस्त᳘दस्य पदे᳘-पद एवा᳘हुतिर्हुता᳘ भवति॥

मूलम् - विस्वरम्

तदाहु- पदे पदे ऽश्वस्य मेध्यस्याहुतिं जुह्वतीति । स यत्सायंप्रातरग्निहोत्रं जुहोति । द्वे सायमाहुती जुहोति, द्वे प्रातः- ताश्चतस्र आहुतयः । चतुष्पाद्वा अश्वः । तदस्य पदे पद एवाहुतिर्हुता भवति ॥ २ ॥

सायणः

मेध्याश्वसादृश्यं चंद्रमसः प्रश्नपूर्वकं संपादयति- तदाहुरिति । ‘मेध्यस्य’ मेधार्हस्याश्वस्य ‘पदे पदे’ ‘आहुतिं जुह्वति’ इति यत् तत्र साक्षादश्वमेधे पदाधिकरणं हवनं विहितम् तदत्र किं ? इति प्रश्नाभिप्रायः । स यत्सायंप्रातरित्यादिना तस्य प्रतिवचनम् । सायंप्रातःकालीनयोरग्निहोत्रयोः ये ‘द्वे द्वे आहुती’ प्रतिदिवसं हूयेते ‘ताश्चतस्र आहुतयः’ अश्वपदाधिकरणाहुतिचतुष्टयस्थानीयाः । अत एवान्यत्राम्नायते- “इह धृतिः स्वाहेह विधृतिः स्वाहेह रंतिः स्वाहेह रमतिः स्वाहेति चतसृषु पत्सु जुहोति एता वा अश्वस्य बंधनं ताभिरेवैनं बध्नाति” (तै. ब्रा. ३ । ८ । ९ ।) । ‘चतुष्पाद्वा अश्वः’ इत्यादि । तत्पादानां चतुःसंख्यया तद्बंधनार्थानामाहुतीनामपि चतुष्ट्वम् । अतस्तस्य एकस्मिन्पदे पदे एव एषा अग्निहोत्रसंबंधिनी आहुतिः क्रमेण हुता भवतीत्यर्थः ॥ २ ॥

Eggeling
  1. As to this, they say, ‘For each foot of the sacrificial horse they offer an oblation;’–when he performs the Agnihotra in the evening and morning, he offers two oblations in the evening, and two in the morning–that makes four oblations: thus–the horse being four-footed–an oblation is offered for each of its feet.

०३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्व्वि᳘) व्वि᳘वृत्ते᳘ ऽश्वस्ये᳘ष्टिन्नि᳘र्व्वपंतीत्येष[[!!]] वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स य᳘त्रैष᳘ ऽएताᳫँ᳭ रा᳘त्रिन्न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे त᳘दिमं᳘ लोकमा᳘गच्छति᳘ सो ऽस्मिं᳘ल्लोके व्वि᳘वर्तते॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्व्वि᳘) व्वि᳘वृत्ते᳘ ऽश्वस्ये᳘ष्टिन्नि᳘र्व्वपंतीत्येष[[!!]] वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स य᳘त्रैष᳘ ऽएताᳫँ᳭ रा᳘त्रिन्न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे त᳘दिमं᳘ लोकमा᳘गच्छति᳘ सो ऽस्मिं᳘ल्लोके व्वि᳘वर्तते॥

मूलम् - Weber

त᳘दाहुः॥
वि᳘वृत्ते᳘ऽश्वस्येष्टिं नि᳘र्वपती᳘त्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स य᳘त्रैष᳘ एतां रा᳘त्रिं न᳘ पुर᳘स्तान्न᳘ पश्चाद्ददृशे त᳘दिमं᳘ लोकमा᳘गछतिॗ सोऽस्मिं᳘लोके वि᳘वर्तते॥

मूलम् - विस्वरम्

तदाहुर्विवृत्ते ऽश्वस्येष्टिं निर्वपंतीति । एष वै सोमो राजा देवानामन्नम्- यच्चंद्रमाः । स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे । तदिमं लोकमागच्छति । सो ऽस्मिल्ँ लोके विवर्तते ॥ ३ ॥

सायणः

एवमन्यदपि अंगं संपादयति- तदाहुरिति । अश्वस्य ‘विवृत्ते’ विवर्तने सति काचित् नैमित्तिकीष्टिः प्रसिद्धा अश्वमेधे क्रियते, सा अत्र चंद्रात्मकस्याश्वस्य विवर्तने कीदृशी ? इति प्रश्नाभिप्रायः । तां विवर्तननिमित्तामिष्टिं दर्शयिष्यन् अस्य चंद्रात्मकस्य अश्वस्य विवर्तनं संपादयति- एष वै सोमो राजा देवानामित्यादिना । यस्मिन् दिवसे देवान्नरूपश्चंद्रमाः ‘रात्रिं’ अत्यंतसंयोगे द्वितीया (पा. सू. २ । ३ । ५)। कृत्स्नायां रात्रौ ‘पुरस्तात्’ पूर्वस्यां दिशि ‘पश्चात्’ प्रतीच्यां दिशि च ‘न’ दृश्यते । तत्तदानीं ‘सः’ चंद्रः ‘इमं’ लोकमेवागच्छति । ‘सो ऽस्मिन्नेव लोके विवर्तते’ स्थानात् स्थानांतरं प्राप्नोति । इत्थं विवर्तनलक्षणं इष्टिनिमित्तं चंद्ररूपस्याश्वस्य प्रतिपादितम् ॥ ३ ॥

Eggeling
  1. As to this, they say, ‘On the starting off of the horse he performs an offering 2; for the moon, doubtless, is the same as King Soma, the food of the gods: when, during that night (of new moon), he does not appear either in the east or in the west, then he comes to this world, and starts for this world 3.

०४

विश्वास-प्रस्तुतिः

स य᳘दामावास्ये᳘न य᳘जते॥
व्वि᳘वृत्त ऽए᳘वास्यैतदि᳘ष्टिन्नि᳘र्व्वपत्य᳘थ य᳘त्पौर्णमासे᳘न य᳘जते ऽश्वमेध᳘मे᳘वैतदा᳘लभते त᳘माल᳘भ्य देवे᳘भ्यः प्र᳘यच्छति संवत्सरे वा ऽइ᳘तरमश्वमेधमा᳘लभन्त ऽएष वै मा᳘सः परिप्ल᳘वमानः संवत्सरं᳘ करोति त᳘दस्य संवत्सरे᳘ संवत्सर ऽए᳘वाश्वमेध ऽआ᳘लब्धो भवति॥

मूलम् - श्रीधरादि

स य᳘दामावास्ये᳘न य᳘जते॥
व्वि᳘वृत्त ऽए᳘वास्यैतदि᳘ष्टिन्नि᳘र्व्वपत्य᳘थ य᳘त्पौर्णमासे᳘न य᳘जते ऽश्वमेध᳘मे᳘वैतदा᳘लभते त᳘माल᳘भ्य देवे᳘भ्यः प्र᳘यच्छति संवत्सरे वा ऽइ᳘तरमश्वमेधमा᳘लभन्त ऽएष वै मा᳘सः परिप्ल᳘वमानः संवत्सरं᳘ करोति त᳘दस्य संवत्सरे᳘ संवत्सर ऽए᳘वाश्वमेध ऽआ᳘लब्धो भवति॥

मूलम् - Weber

स य᳘दामावास्ये᳘न य᳘जते॥
वि᳘वृत्त एॗवास्यैतदि᳘ष्टिं नि᳘र्वपत्य᳘थ य᳘त्पौर्णमासे᳘न य᳘जतेऽश्वमेध᳘मेॗवैतदा᳘लभते त᳘माल᳘भ्य देवे᳘भ्यः प्र᳘यछति संवत्सरे वा इ᳘तरमश्वमेधमा᳘लभन्त 4 एष वै मा᳘सः परिप्ल᳘वमानः संवत्सरं᳘ करोति त᳘दस्य संवत्सरे᳘ संवत्सर एॗवाश्वमेध आ᳘लब्धो भवति॥

मूलम् - विस्वरम्

स यदामावास्येन यजते । विवृत्त एवास्यैतदिष्टिं निर्वपति । अथ यत्पौर्णमासेन यजते, अश्वमेधमेवैतदालभते- तमालभ्य देवेभ्यः प्रयच्छति । संवत्सरे वा इतरमश्वमेधमालभंते । एष वै मासः परिप्लवमानः संवत्सरं करोति । तदस्य संवत्सरे संवत्सर एवाश्वमेध आलब्धो भवति ॥ ४ ॥

सायणः

निमित्तोपजीविनीमिष्टिमाह- स यदामावास्येनेति । एवं चंद्रमोविवर्तनानंतरं ‘आमावास्येन’ नित्येन दर्शयागेन ‘यजते’ इति यदस्ति, एषैव विवर्तननिमित्ता इष्टिर्भवतीत्यर्थः । अथ पूर्णमासयागस्य अश्वमेधयागरूपतामाह- अथ यत्पौर्णमासेनेति । यदा खलु असौ चंद्रः कार्त्स्न्येन पूर्यते तदा तद्रूपो ऽश्वः कृत्स्नावयवः संपद्यते । तथा च तस्मिन् समये पौर्णमासाख्येन नित्येन यागेन ‘यजते’ इति यदस्ति, ‘एतत्’ एतेन अश्वमेधे चन्द्रात्मकं अश्वरूपं पशुमेव ‘देवेभ्यः’ ‘आलभते’ संज्ञप्तवान् भवति । आङ्पूर्वो लभिर्हिंसायामपि वर्तते । ‘तं’ चंद्रात्मकमश्वम् उपवसथे दिवस आलभ्य हवीरूपेण ‘देवेभ्यः’ प्रातः ‘प्रयच्छति’ । अत एव चन्द्रं प्रकृत्याम्नायते “घ्नन्ति वा एनं पूर्णमासे” (तै. सं. २ । ५ । २) इति । संवत्सरकालीनतामपि अस्याश्वमेधस्य प्रतिपादयति संवत्सरे वा इति । दीक्षानंतरं अश्वमुत्सृज्य संवत्सरपरिमिते काले समाप्ते समाप्ते सति इतरं प्रसिद्धमश्वमेधमालभन्ते चंद्रात्मकस्याश्वमेधस्य संवत्सरकालीनता कथं ? इत्यभिप्रायः । एष वै मास इत्यादि । अयं दर्शपूर्णमासेनावच्छिन्नो यो मासः ‘एषः’ एव ‘परिप्लवमानः’ द्वादशकृत्वः पर्यावृत्तः सन् ‘संवत्सरं करोति’ स्वयमेव संवत्सरात्मको भवतीत्यर्थः । यस्मात् एवं मासो ऽपि संवत्सरो जातः । तत्तस्मात् ‘अस्य’ मासि मासि पौर्णमासयागं कुर्वतो यजमानस्य संवत्सरकालावच्छिन्न एव ‘अश्वमेध आलब्धो भवति’ ॥ ४ ॥

Eggeling
  1. Now, when he performs the New-moon sacrifice, he thereby performs the (same) offering (as) on the starting of that (horse), and when he performs the Full-moon sacrifice he slaughters the sacrificial horse itself, and, having slaughtered it, he presents it to the gods. The other (real) horse-sacrifice they indeed perform (only) a year after (the starting offering), but this month (of the Full and New-moon sacrifice), revolving, makes up a year 5: thus the sacrificial horse comes to be slaughtered for him year after year.

०५

विश्वास-प्रस्तुतिः

तं वा᳘ ऽएत᳘म्॥
(म्मा) मासि᳘ मास्ये᳘वाश्वमेधमा᳘लभन्ते स यो᳘ हैवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ च जुहो᳘ति दर्शपूर्णमासा᳘भ्यां च य᳘जते मासि᳘ मासि᳘ है᳘वास्याश्वमेधे᳘नेष्टं᳘ भवत्येत᳘दु हास्याग्निहोत्रं᳘ च दर्शपूर्णमासौ᳘ चाश्वमेध᳘मभिसं᳘पद्येते॥

मूलम् - श्रीधरादि

तं वा᳘ ऽएत᳘म्॥
(म्मा) मासि᳘ मास्ये᳘वाश्वमेधमा᳘लभन्ते स यो᳘ हैवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ च जुहो᳘ति दर्शपूर्णमासा᳘भ्यां च य᳘जते मासि᳘ मासि᳘ है᳘वास्याश्वमेधे᳘नेष्टं᳘ भवत्येत᳘दु हास्याग्निहोत्रं᳘ च दर्शपूर्णमासौ᳘ चाश्वमेध᳘मभिसं᳘पद्येते॥

मूलम् - Weber

तं वा᳘ एत᳘म्॥
मासि᳘-मास्येॗवाश्वमेधमा᳘लभन्ते स यो᳘ हैवं᳘ विद्वा᳘नग्निहोत्रं᳘ च जुहो᳘ति दर्शपूर्णमासा᳘भ्यां च य᳘जते मासि᳘-मासि हैॗवास्याश्वमेधे᳘नेष्ट᳘म् भवत्येत᳘दु हास्याग्निहोत्रं᳘ च दर्शपूर्णमासौ᳘ चाश्वमेध᳘मभिस᳘म्पद्येते॥

मूलम् - विस्वरम्

तं वा एतं मासि मास्येवाश्वमेधमालभंते । स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां च यजते । मासि मासि हैवास्याश्वमेधेनेष्टं भवति । एतदु हास्याग्निहोत्रं च दर्शपूर्णमासौ चाश्वमेधमभिसंपद्येते ॥ ५ ॥

सायणः

इत्थमश्वमेधरूपतां अग्निहोत्रदर्शपूर्णमासयोर्यागयोः प्रतिपाद्य तत्र विदुष एवाधिकार इत्याह- तं वा एतमित्यादिना । ‘मासि मासि’ प्रतिमासपौर्णमासमित्यर्थः । “पद्दन्नोमास्”- (पा. सू. ६ । १ । ६३) इत्यादिना मासशब्दस्य मास्भावः । एवं विद्वानिति । उक्तप्रकारेण अश्वमेधसंपत्तिं विद्वानित्यर्थः । मासि मासि हैवास्येति । चंद्रस्याश्वरूपत्वं पूर्णमासयागस्याश्वमेधयागरूपत्वं च विदित्वा तदनुतिष्ठतो यजमानस्येत्यर्थः । उक्ताम् अग्निहोत्रदर्शपूर्णमासयागयोरश्वमेधसंपदं निगमयति- एतदु हास्येति । ‘एतत्’ एतेन प्रकारेण । स्पष्टमन्यत् ॥ ५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे द्वितीये ऽध्याये पंचमं ब्राह्मणम् ॥ (११ । २ । ५) ॥

Eggeling
  1. Verily, then, for him who, knowing this, offers both the Agnihotra and the Full and New-moon sacrifices, they slaughter the sacrificial horse month by month; and month by month the Aśvamedha is offered for him, and his Agnihotra and Full and New-moon sacrifices come to pass into the Aśvamedha.

  1. 33:1 Viz. in performing the Full and New-moon sacrifice, for which all the benefits accruing from the Aśvamedha are here claimed. ↩︎

  2. 34:1 According to Āśv. X, 6, 2 seqq., having chosen the horse to be sacrificed, he performs two ishṭis, to Agni Mūrdhanvat and Pūshan; whereupon he sets free the horse, and for a year performs three ishṭis daily at the three pressings, viz. to Savitr̥ Satyaprasava, Prasavitr̥, and Āsavitr̥. ↩︎

  3. 34:2 Or, he disappears in this world; the same verb (vi-vr̥t) being used for the disappearance as for the starting off of the horse when set free. ↩︎

  4. मेधमारभन्ते Sây. ↩︎

  5. 34:3 The syntactic construction of the last two sentences is that frequently alluded to before, viz. that of parenthetic causal clauses. ↩︎