०१
विश्वास-प्रस्तुतिः
एष वै पूर्ण᳘माः॥
(०) य᳘ ऽएष त᳘पत्य᳘हरह᳘र्ह्ये᳘वैष᳘ पूर्णो᳘ ऽथैष᳘ ऽएव द᳘र्शोय᳘च्चन्द्र᳘मा दृदृश᳘ ऽइव᳘ ह्येषः᳘॥
मूलम् - श्रीधरादि
एष वै पूर्ण᳘माः॥
(०) य᳘ ऽएष त᳘पत्य᳘हरह᳘र्ह्ये᳘वैष᳘ पूर्णो᳘ ऽथैष᳘ ऽएव द᳘र्शोय᳘च्चन्द्र᳘मा दृदृश᳘ ऽइव᳘ ह्येषः᳘॥
मूलम् - Weber
एष वै पूर्ण᳘माः॥
य᳘ एष त᳘पत्य᳘हरहॗर्ह्येॗवैष᳘ पूर्णो᳘ऽथैष᳘ एव द᳘र्शो य᳘च्चन्द्र᳘मा दृदृश᳘ इवॗ ह्येषः᳟॥
मूलम् - विस्वरम्
एष वै पूर्णमाः । य एष तपति । अहरहर्ह्येवैष पूर्णः । अथैष एव दर्शः । यच्चंद्रमाः । ददृश इव ह्येषः ॥ १ ॥
सायणः
अथ इमावाघारौ दर्शपूर्णमासात्मना स्तोष्यन्, अधिदेवमध्यात्मं च दर्शपूर्णमासौ प्रतिपादयति- एष वा इत्यादिना । ‘य एषः’ सूर्यस्तपति । ‘एषः’ खलु ‘पूर्णमाः’ संपूर्णमानः । तत्र प्रसिद्धिं प्रमाणयति- अहरहर्ह्येवैष पूर्ण इति । ‘अहरहः’ प्रतिदिवसं सर्वदा ‘एषः’ सूर्यः ‘पूर्णः’ एव भवति । चंद्रमा इति यदेष एव ‘दर्शः’ । ‘हि’ यस्मात् ‘एष ददृश इव’ अमावास्यायामदृश्यमानः प्रतिपदि पश्चात् दृश्यमान इव भवति । तस्मात् दृश्यत इति दर्शश्चंद्रमाः ॥ १ ॥
Eggeling
- The full moon, doubtless, is the same as that burning (sun), for he, indeed, is full day by day; and the new moon (darśa) is the same as the moon, for he appears (darś), as it were.
०२
विश्वास-प्रस्तुतिः
(षो᳘ ऽथो) अ᳘थो ऽइतर᳘था ऽऽहुः॥
(रे) एष᳘ ऽएव᳘ पूर्ण᳘मा य᳘च्चन्द्र᳘मा ऽएत᳘स्य ह्य᳘नु पू᳘रणं पौर्णमासी᳘त्याच᳘क्षते᳘ ऽथैष᳘ ऽएव द᳘र्शो य᳘ ऽएष[[!!]] त᳘पति ददृश᳘ ऽइव᳘ ह्येषः᳘॥
मूलम् - श्रीधरादि
(षो᳘ ऽथो) अ᳘थो ऽइतर᳘था ऽऽहुः॥
(रे) एष᳘ ऽएव᳘ पूर्ण᳘मा य᳘च्चन्द्र᳘मा ऽएत᳘स्य ह्य᳘नु पू᳘रणं पौर्णमासी᳘त्याच᳘क्षते᳘ ऽथैष᳘ ऽएव द᳘र्शो य᳘ ऽएष[[!!]] त᳘पति ददृश᳘ ऽइव᳘ ह्येषः᳘॥
मूलम् - Weber
अ᳘थो इतर᳘थाहुः॥
एष᳘ एव᳘ पूर्ण᳘मा य᳘च्चन्द्र᳘मा एत᳘स्य ह्य᳘नु पू᳘रणम् पौर्णमासी᳘त्याच᳘क्षते᳘ऽथैष᳘ एव द᳘र्शो य᳘ ए᳘ष त᳘पति ददृश᳘ इवॗ ह्येषः᳟॥
मूलम् - विस्वरम्
अथो इतरथा ऽऽहुः । एष एव पूर्णमाः । यच्चंद्रमाः । एतस्य ह्यनु पूरणं पौर्णमासीत्याचक्षते । अथैष एव दर्शो य एष तपति । ददृश इव ह्येषः ॥ २ ॥
सायणः
उक्तवैपरीत्यमाह- अथो इतरथा ऽऽहुः इति । ‘इतरथा’ उक्तात् प्रकारात् इतरेण प्रकारेण ‘आहुः’ अन्ये कथयति । ‘चंद्रमा एव पूर्णमाः’ न सूर्यः । तत्र युक्तिमाह- एतस्य हीति । ‘एतस्य’ चंद्रमसः यदा सम्यक् ‘पूरणं’ भवति तदनुलक्ष्य तं कालं ‘पौर्णमासीत्याचक्षते’ पूर्णमसः चंद्रमसः संबंधिनी पौर्णमासीति आचक्षते व्युत्पत्त्या प्रतिपादयंतीत्यर्थः । अथैष एव दर्श इत्यादि स्पष्टम् ॥ २ ॥
Eggeling
- But they also say inversely, ‘The full moon is the same as the moon, for after the filling up of the latter there is the night of full moon;’ and the new moon (darśa) is the same as that burning (sun), for the latter appears, as it were.
०३
विश्वास-प्रस्तुतिः
(ष᳘ ऽइ) इय᳘मेव᳘ पूर्ण᳘माः॥
पू᳘र्णेव᳘ हीयमसा᳘वेव[[!!]] द्यौर्द्द᳘र्शो ददृश᳘ ऽइव᳘ ह्यसौ᳘[[!!]] द्यौः[[!!]]॥
मूलम् - श्रीधरादि
(ष᳘ ऽइ) इय᳘मेव᳘ पूर्ण᳘माः॥
पू᳘र्णेव᳘ हीयमसा᳘वेव[[!!]] द्यौर्द्द᳘र्शो ददृश᳘ ऽइव᳘ ह्यसौ᳘[[!!]] द्यौः[[!!]]॥
मूलम् - Weber
इय᳘मेव᳘ पूर्ण᳘माः॥
पूॗर्णेवॗ हीय᳘मसा᳘वेव 1 द्यौर्द᳘र्शो ददृश᳘ इव ह्य᳘सौ द्यौः᳟॥
मूलम् - विस्वरम्
इयमेव पूर्णमाः । पूर्णेव हीयम् । असावेव द्यौर्दर्शः । ददृश इव ह्यसौ द्यौः ॥ ३ ॥
सायणः
एवं दर्शपूर्णमासौ चंद्रादित्यात्मकौ इत्युक्त्वा तयोर्द्यावापृथिव्यहोरात्ररूपतामाह- इयमेव पूर्णमा इत्यादिना । पूर्णं माः मानं यस्याः सा तथोक्ता । निगदसिद्धो ऽर्थः ॥ ३ ॥
Eggeling
- The full moon, indeed, is this (earth), for she is, as it were, full; and the new moon is yonder sky, for yonder sky appears (or, is seen), as it were.
०४
विश्वास-प्रस्तुतिः
(०) रा᳘त्रिरेव᳘ पूर्ण᳘माः॥
पू᳘र्णेव᳘ हीयᳫँ᳭ रा᳘त्रिर᳘हरेव द᳘र्शो ददृश᳘ ऽइव᳘ हीदम᳘हरेषा नु᳘ देवत्रा᳘ दर्शपूर्णमास᳘योर्मीमाᳫँ᳭सा[[!!]]॥
मूलम् - श्रीधरादि
(०) रा᳘त्रिरेव᳘ पूर्ण᳘माः॥
पू᳘र्णेव᳘ हीयᳫँ᳭ रा᳘त्रिर᳘हरेव द᳘र्शो ददृश᳘ ऽइव᳘ हीदम᳘हरेषा नु᳘ देवत्रा᳘ दर्शपूर्णमास᳘योर्मीमाᳫँ᳭सा[[!!]]॥
मूलम् - Weber
रा᳘त्रिरेव᳘ पूर्ण᳘माः॥
पूॗर्णेवॗ हीयं रा᳘त्रिर᳘हरेव द᳘र्शो ददृश᳘ इवॗ हीदम᳘हरेषा नु᳘ देवत्रा᳘ दर्शपूर्णमास᳘योर्मीमांसा᳟॥
मूलम् - विस्वरम्
रात्रिरेव पूर्णमाः । पूर्णेव हीयं रात्रिः । अहरेव दर्शः । ददृश इव हीदमहः । एषा नु देवत्रा दर्शपूर्णमासयोर्मीमांसा ॥ ४ ॥
सायणः
अविदैवं निगमयति- एषा नु देवत्रेति । ‘देवत्रा’ देवेषु विषये ‘एषा’ खलु ‘दर्शपूर्णमासयोः’ यागयोः ‘मीमांसा’ अध्ययनप्रकारः ॥ ४ ॥
Eggeling
- The full moon, indeed, is the night, for this
night is, as it were, full; and the new moon is the day, for this day appears, as it were. This, then, is the theory regarding the full and new moon in respect of the gods.
०५
विश्वास-प्रस्तुतिः
(सा᳘ ऽथा) अ᳘थाध्यात्म᳘म्॥
(मु) उदान᳘ ऽएव᳘ पूर्ण᳘मा ऽउदाने᳘न᳘ ह्ययं[[!!]] पु᳘रुषः पूर्य्य᳘त ऽइव प्राण᳘ ऽएव द᳘र्शो ददृश᳘ ऽइव᳘ ह्ययं᳘ प्राणस्त᳘देता᳘वन्नाद᳘श्चान्नप्रद᳘श्च दर्शपूर्णमासौ᳘॥
मूलम् - श्रीधरादि
(सा᳘ ऽथा) अ᳘थाध्यात्म᳘म्॥
(मु) उदान᳘ ऽएव᳘ पूर्ण᳘मा ऽउदाने᳘न᳘ ह्ययं[[!!]] पु᳘रुषः पूर्य्य᳘त ऽइव प्राण᳘ ऽएव द᳘र्शो ददृश᳘ ऽइव᳘ ह्ययं᳘ प्राणस्त᳘देता᳘वन्नाद᳘श्चान्नप्रद᳘श्च दर्शपूर्णमासौ᳘॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
उदान᳘ एव᳘ पूर्ण᳘मा उदाने᳘न ह्य᳘यम् पु᳘रुषः पूर्य᳘त इव प्राण᳘ एव द᳘र्शो ददृश᳘ इव ह्य᳘य᳘म् प्राणस्त᳘देता᳘वन्नाद᳘श्चान्नप्रद᳘श्च दर्शपूर्णमासौ᳟॥
मूलम् - विस्वरम्
अथाध्यात्मम् । उदान एव पूर्णमाः । उदानेन ह्ययं पुरुषः पूर्यत इव । प्राण एव दर्शः । ददृश इव ह्ययं प्राणः । तदेतावन्नादश्चान्नप्रदश्च दर्शपूर्णमासौ ॥ ५ ॥
सायणः
अथाध्यात्ममित्यादि । ‘अध्यात्मम्’ आत्मनि शरीरमध्ये तयोर्मीमांसा अधिक्रियत इत्यर्थः । यो ऽयं उदानवायुः स ‘पूर्णमाः’ तेन हि अयं देहः ‘पूर्यत इव’ अंतः पूर्यमाण इव भवति । अंतःपूरणनिमित्तत्वात् स एव पूर्णमाः । मुखनासिकाभ्यां संचरन् यः प्राणवायुः एष एव ‘दर्शः’ । ददृश इवेत्यादि पूर्ववत् । तदेतावन्नादश्चेत्यादि । तत्तत्र ‘एतौ’ प्राणोदानात्मकौ ‘दर्शपूर्णमासौ’ ‘अन्नादश्च अन्नप्रदश्च’ भवतः ॥ ५ ॥
Eggeling
०६
विश्वास-प्रस्तुतिः
प्राण᳘ ऽए᳘वान्नादः᳘॥
प्राणे᳘न᳘ हीदम᳘न्नमद्य᳘त ऽउदान᳘ ऽए᳘वान्नप्रद᳘ ऽउदाने᳘न᳘ हीदम᳘न्नं प्रदीय᳘ते स यो᳘ हैता᳘वन्नादं᳘ चान्नप्रदं᳘ च दर्शपूर्णमासौ व्वे᳘दान्नादो᳘ हैव᳘ भवति प्र᳘ हास्मा ऽअन्ना᳘द्यं दीयते॥
मूलम् - श्रीधरादि
प्राण᳘ ऽए᳘वान्नादः᳘॥
प्राणे᳘न᳘ हीदम᳘न्नमद्य᳘त ऽउदान᳘ ऽए᳘वान्नप्रद᳘ ऽउदाने᳘न᳘ हीदम᳘न्नं प्रदीय᳘ते स यो᳘ हैता᳘वन्नादं᳘ चान्नप्रदं᳘ च दर्शपूर्णमासौ व्वे᳘दान्नादो᳘ हैव᳘ भवति प्र᳘ हास्मा ऽअन्ना᳘द्यं दीयते॥
मूलम् - Weber
प्राण᳘ एॗवान्नादः᳟॥
प्राणे᳘नॗ हीदम᳘न्नमद्य᳘त उदान᳘ एॗवान्नप्रद᳘ उदाने᳘नॗ हीदम᳘न्नम् प्रदीय᳘ते स यो᳘ हैता᳘वन्नादं᳘ चान्नप्रदं᳘ च दर्शपूर्णमासौ वे᳘दान्नादो᳘ हैव᳘ भवति प्र᳘ हास्मा अन्ना᳘द्यं दीयते॥
मूलम् - विस्वरम्
प्राण एवान्नादः । प्राणेन हीदमन्नमद्यते । उदान एवान्नप्रदः । उदानेन हीदमन्नं प्रदीयते । स यो हैतावन्नादं चान्नप्रदं च दर्शपूर्णमासौ वेद । अन्नादो हैव भवति । प्र हास्मा अन्नाद्यं दीयते ॥ ६ ॥
सायणः
तावेतौ इति विविच्य दर्शयति- प्राण एवान्नाद इति । अन्नमत्तीत्यन्नादः । स च प्राणव्यतिरिक्तो भोक्ता जीव इति कथं प्राणस्यान्नादत्वमित्याशंक्याह-प्राणेन हीदमिति । ‘प्राणेन’ खलु मुखे संचरता बाह्यमन्नमद्यते निगीर्यते । अतो ऽन्नादनसाधनत्वात् स एव ‘अन्नादः’ । उच्चलनहेतुभूतः ‘उदानः’ तेन हि ‘इदमन्नं प्रदीयते’ प्रकर्षेण भोक्तुमुपविष्टाय दीयते । अतः अन्नप्रद उदान इत्यर्थः । एतद्वेदितुः फलमाह- स यो हैताविति । ‘यः’ ‘एतौ’ दर्शपूर्णमासौ प्राणोदानात्मना अन्नादान्नप्रदौ जानाति स स्वयमन्नादो भवति । ‘अस्मै’ वेदित्रे आद्यम् अत्तुमर्हमन्नमनेन प्रदीयते ॥ ६ ॥
Eggeling
- The out (and in)-breathing (the mouth) is the eater of food, for by means of the out (and in)-breathing this food is eaten; and the up-breathing is the giver of food, for by the up-breathing 4 this food is given to him.
०७
विश्वास-प्रस्तुतिः
म᳘न ऽएव᳘ पूर्ण᳘माः॥
पूर्ण᳘मिव[[!!]] हीदम्म᳘नो व्वा᳘गेव द᳘र्शो ददृश᳘ ऽइव᳘ हीयं व्वाक्त᳘देता᳘वध्यात्मं᳘ प्रत्य᳘क्षं दर्शपूर्णमासौ स य᳘दुपवसथे᳘ व्व्रतोपायनी᳘यमश्ना᳘ति ते᳘नैता᳘वध्यात्मं᳘ प्रत्य᳘क्षं दर्शपूर्णमासौ᳘ प्रीणाति यज्ञे᳘न प्रातर्द्दे᳘वौ॥
मूलम् - श्रीधरादि
म᳘न ऽएव᳘ पूर्ण᳘माः॥
पूर्ण᳘मिव[[!!]] हीदम्म᳘नो व्वा᳘गेव द᳘र्शो ददृश᳘ ऽइव᳘ हीयं व्वाक्त᳘देता᳘वध्यात्मं᳘ प्रत्य᳘क्षं दर्शपूर्णमासौ स य᳘दुपवसथे᳘ व्व्रतोपायनी᳘यमश्ना᳘ति ते᳘नैता᳘वध्यात्मं᳘ प्रत्य᳘क्षं दर्शपूर्णमासौ᳘ प्रीणाति यज्ञे᳘न प्रातर्द्दे᳘वौ॥
मूलम् - Weber
म᳘न एव᳘ पूर्ण᳘माः॥
पूर्ण᳘मिवॗ हीदम् म᳘नो वा᳘गेव द᳘र्शो ददृश᳘ इवॗ हीयं वाक्त᳘देता᳘वध्यात्म᳘म् प्रत्य᳘क्षं दर्शपूर्णमासौ स य᳘दुपवसथे᳘ व्रतोपायनी᳘यमश्ना᳘ति ते᳘नैता᳘वध्यात्म᳘म् प्रत्य᳘क्षं दर्शपूर्णमासौ᳘ प्रीणाति यज्ञे᳘न प्रातर्दै᳘वौ॥
मूलम् - विस्वरम्
मन एव पूर्णमाः । पूर्णमिव हीदं मनः । वागेव दर्शः । ददृश इव हीयं वाक् । तदेतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ । स यदुपवसथे व्रतोपायनीयमश्नाति । तेनैतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ प्रीणाति । यज्ञेन प्रातर्देवौ ॥ ७ ॥
सायणः
अथ एतयोर्मनोवाग्रूपतामाह- मन एव पूर्णमा इति । पूर्णमिव हीदमिति । ‘इदं मनः’ शरीरमध्ये नखाग्रलोमपर्यंतं पूर्णमिव हि भवति चैतन्याभिव्यक्तिहेतुत्वात् । ‘वागेव दर्शः’ । यतो ऽधिवदनव्यापारेण दृश्यमानमेव भवति । तत्तत्र ‘अध्यात्मम्’ आत्मनि देहमध्ये ‘एतौ’ मनोवाग्रूपौ प्रत्यक्षमपरोक्षेण भासमानौ ‘दर्शपूर्णमासौ’ । इत्थमधिदैवमध्यात्मम् आत्मनि देहमध्ये भेदेन द्वैविध्यं दर्शयित्वा तस्य प्रयोजनमाह- स यदुपवसथ इति । उपवसथाख्ये अन्वाधानदिवसे ‘सः’ यजमानो ‘व्रतोपायनीयं’ व्रतोपायनांगभूतम् ‘अश्नाति’ भुंक्ते इति यत् तेनाशनेनैतौ आत्मसमवस्थितौ मनोवाग्रूपावपरोक्षौ दर्शपूर्णमासौ ‘प्रीणाति’ तर्पयति । परेद्युः प्रातःकालीनेन क्रियमाणेन यज्ञेन ‘देवौ’ अधिदेवौ प्रागुक्तौ दर्शपूर्णमासौ तर्पयति ॥ ७ ॥
Eggeling
- The full moon is the mind, for full, as it were, is this mind; and the new moon is speech, for this speech appears, as it were. Thus these two are clearly the full and new moon, as regards the body; and inasmuch as on the day of fasting he eats the (food) suitable for eating on the vow, he thereby clearly gratifies these two in regard to the body; and on the morrow (he gratifies them) as gods by sacrifice.
०८
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य) यन्न᳘ पूर्ण᳘मासाये᳘ति हवि᳘र्गृह्य᳘ते न द᳘र्शाये᳘ति हवि᳘र्गृह्य᳘ते न᳘ पूर्ण᳘मासाया᳘नुब्रूहि न द᳘र्शाया᳘नुब्रूहि न᳘ पूर्ण᳘मासं यज न द᳘र्शं यजेत्य᳘थ के᳘नास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवत ऽइ᳘ति स यम्म᳘नस ऽआघार᳘यति म᳘नो वै᳘ पूर्ण᳘मास्ते᳘न पूर्ण᳘मासं यजत्य᳘थ यं᳘ व्वाच᳘ ऽआघार᳘यति व्वाग्वै द᳘र्शस्ते᳘नो द᳘र्शं यजत्येते᳘नो हास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवतः॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य) यन्न᳘ पूर्ण᳘मासाये᳘ति हवि᳘र्गृह्य᳘ते न द᳘र्शाये᳘ति हवि᳘र्गृह्य᳘ते न᳘ पूर्ण᳘मासाया᳘नुब्रूहि न द᳘र्शाया᳘नुब्रूहि न᳘ पूर्ण᳘मासं यज न द᳘र्शं यजेत्य᳘थ के᳘नास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवत ऽइ᳘ति स यम्म᳘नस ऽआघार᳘यति म᳘नो वै᳘ पूर्ण᳘मास्ते᳘न पूर्ण᳘मासं यजत्य᳘थ यं᳘ व्वाच᳘ ऽआघार᳘यति व्वाग्वै द᳘र्शस्ते᳘नो द᳘र्शं यजत्येते᳘नो हास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवतः॥
मूलम् - Weber
त᳘दाहुः॥
यन्न᳘ पूर्ण᳘मासाये᳘ति हवि᳘र्गृह्य᳘ते न द᳘र्शाये᳘ति हवि᳘र्गृह्य᳘ते न᳘ पूर्ण᳘मासाया᳘नुब्रूहि न द᳘र्शाया᳘नुब्रूहि न᳘ पूर्ण᳘मासं यज न द᳘र्शं यजेत्य᳘थ के᳘नास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवत इ᳘ति स यम् म᳘नस आघार᳘यति म᳘नो वै᳘ पूर्ण᳘मास्ते᳘न पूर्ण᳘मासं यजत्य᳘थ यं᳘ वाच᳘ आघार᳘यति वाग्वै द᳘र्शस्ते᳘नो द᳘र्शं यजत्येते᳘नो हास्य दर्शपूर्न्\अमासा᳘विष्टौ᳘ भवतः॥
मूलम् - विस्वरम्
तदाहुः । यन्न पूर्णमासायेति हविर्गृह्यते । न दर्शायेति हविर्गृह्यते । न पूर्णमासायानुब्रूहि । न दर्शायानुब्रूहि । न पूर्णमासं यज । न दर्शं यजेति । अथ केनास्य दर्शपूर्णमासाविष्टौ भवत इति । स यं मनस आघारयति । मनो वै पूर्णमाः । तेन पूर्णमासं यजति । अथ यं वाच आघारयति । वाग्वै दर्शः । तेनो दर्शं यजति । एतेनो हास्य दर्शपूर्णमासाविष्टौ भवतः ॥ ८ ॥
सायणः
एतदाक्षिप्य समाधत्ते- तदाहुरिति । ननु- दर्शपूर्णमासशब्दावुच्चार्य हविर्ग्रहणाभावात्, ‘अनुब्रूहि’ ‘यज’ इति च संप्रैषयोरदर्शनाच्च कथं दर्शपूर्णमासौ इष्टौ भवत इत्याक्षेपः । स यं मनस इति परिहारः । ‘मनः’ खलु अध्यात्मं पूर्णमासत्वेनोक्तम् । तथा च- पूर्णमसा पूर्वाघारस्यानुष्ठानात् पूर्णमासम् इष्टवान् भवति । तथा ऽध्यात्मं वागेव दर्शत्वेनोक्ता । तथासत्युत्तराघारस्य ‘वाचा’ वाग्व्यापारसाध्येन मंत्रेण करणात् साक्षात् दर्शमिष्टवान् भवति । एतेनो हास्येति । एतेनाघारद्वयेन ‘अस्य’ यजमानस्य ‘दर्शपूर्णमासौ इष्टौ भवतः’ ॥ ८ ॥
Eggeling
- As to this they say,–‘Seeing that no offering-material is taken out “for the full moon,” nor any offering-material “for the new moon,” and seeing that he does not say, “Recite the invitatory formula for the full moon,” nor “Recite the invitatory formula
for the new moon;” nor “Recite the offering-formula for the full moon,” nor “Recite the offering-formula for the new moon,” how, then, is offering made to this full and new moon?’ Well, when he makes a libation of ghee to the Mind–the full moon being the Mind–he thereby makes offering to the full moon; and when he makes a libation of ghee to Speech–the new moon being Speech–he thereby makes offering to the new moon: and thus offering is made by him to the full and new moon.
०९
विश्वास-प्रस्तुतिः
(स्त) तद्धै᳘के चरू नि᳘र्व्वपंति॥ पौर्णमास्याᳫँ᳭ स᳘रस्वते ऽमावा᳘स्यायाᳫँ᳭ स᳘रस्वत्या ऽएत᳘त्प्रत्य᳘क्षं दर्शपूर्णमासौ᳘ यजामह ऽइ᳘ति व्व᳘दंतस्त᳘दु त᳘था न᳘ कुर्यान्म᳘नो वै स᳘रस्वान्वाक्स᳘रस्वती स य᳘दे᳘वैता᳘वाघारा᳘वाघार᳘यति त᳘दे᳘वास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवतस्त᳘स्मादेतौ᳘ चरू न नि᳘र्व्वपेत्॥
मूलम् - श्रीधरादि
(स्त) तद्धै᳘के चरू नि᳘र्व्वपंति॥ पौर्णमास्याᳫँ᳭ स᳘रस्वते ऽमावा᳘स्यायाᳫँ᳭ स᳘रस्वत्या ऽएत᳘त्प्रत्य᳘क्षं दर्शपूर्णमासौ᳘ यजामह ऽइ᳘ति व्व᳘दंतस्त᳘दु त᳘था न᳘ कुर्यान्म᳘नो वै स᳘रस्वान्वाक्स᳘रस्वती स य᳘दे᳘वैता᳘वाघारा᳘वाघार᳘यति त᳘दे᳘वास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवतस्त᳘स्मादेतौ᳘ चरू न नि᳘र्व्वपेत्॥
मूलम् - Weber
तद्धै᳘के॥
चरू नि᳘र्वपन्ति पौर्णमास्याᳫं स᳘रस्वतेऽमावाॗस्यायाᳫं स᳘रस्वत्या एत᳘त्प्रत्य᳘क्षं दर्शपूर्णमासौ᳘ यजामह इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यान्म᳘नो वै स᳘रस्वान्वाक्स᳘रस्वती स य᳘देॗवैता᳘वाघारा᳘वाघार᳘यति त᳘देॗवास्य दर्शपूर्णमासा᳘विष्टौ᳘ भवतस्त᳘स्मादेतौ᳘ चरू न नि᳘र्वपेत्॥
मूलम् - विस्वरम्
तद्धैके चरू निर्वपंति- पौर्णमास्यां सरस्वते, अमावास्यायां सरस्वत्यै । एतत्प्रत्यक्षं दर्शपूर्णमासौ यजामह इति वदंतः । तदु तथा न कुर्यात् । मनो वै सरस्वान्, वाक् सरस्वती । स यदेवैतावाघारावाघारयति । तदेवास्य दर्शपूर्णमासाविष्टौ भवतः । तस्मादेतौ चरू न निर्वपेत् ॥ ९ ॥
सायणः
अत्र केषांचिच्छाखिनां मतमुपन्यस्य निराचष्टे- तद्धैके चरू निर्वपतीति । एतत्प्रत्यक्षमिति । “अमावास्या वै सरस्वती पूर्णमासः सरस्वान्” (तै. सं. ३ । ५ । १ । ४) इति श्रुतेः ते देवते ‘प्रत्यक्षं’ दर्शपूर्णमासात्मके । स्पष्टमन्यत् । मनो वै सरस्वानित्यादि । मनसा वाचा क्रियमाणावाघारावेव सरस्वत्सरस्वत्यात्मकावतस्तद्देवत्यचरुद्वयं प्राप्यम् आघाराभ्यामेव सिध्यतीति न युक्तश्चरुपक्ष इति निगमयति- तस्मादिति ॥ ९ ॥
Eggeling
- Now, some prepare two messes of rice, one for Sarasvat on the full moon, and one for Sarasvatī on the new moon, saying, ‘We thus clearly make offering to the full and new moon.’ But let him not do this; for Sarasvat is the Mind, and Sarasvatī is Speech; and thus, in making libations of ghee to these two, offering is made by him to the full and new moon: let him therefore not prepare these two messes of rice.
१०
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘दाहुः॥
(रा) आगूर्ती वा᳘ ऽएष᳘ भवति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते पौर्णमासे᳘न᳘ हीष्ट्वा व्वे᳘दामावास्ये᳘न यक्ष्य ऽइ᳘त्यामावास्ये᳘नेष्ट्वा[[!!]] व्वे᳘द पु᳘नः पौर्णमासे᳘न यक्ष्य ऽइ᳘ति स᳘ ऽआगू᳘र्त्ये᳘वामुं᳘ लोकमे᳘ति[[!!]] य᳘दा ऽमुं᳘ लोकमे᳘ति कथम᳘नागूर्ती भवती᳘ति स य᳘दे᳘वैता᳘ ऽउभय᳘त्राघारा᳘वाघार᳘यति त᳘दे᳘वास्य दर्शपूर्णमासौ सं᳘तिष्ठेते स स᳘ᳫँ᳘स्थितयोरेव᳘ दर्शपूर्णमास᳘योर᳘था ऽमुं᳘ लोक᳘मेति तथा᳘ ऽनागूर्ती भवति॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘दाहुः॥
(रा) आगूर्ती वा᳘ ऽएष᳘ भवति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते पौर्णमासे᳘न᳘ हीष्ट्वा व्वे᳘दामावास्ये᳘न यक्ष्य ऽइ᳘त्यामावास्ये᳘नेष्ट्वा[[!!]] व्वे᳘द पु᳘नः पौर्णमासे᳘न यक्ष्य ऽइ᳘ति स᳘ ऽआगू᳘र्त्ये᳘वामुं᳘ लोकमे᳘ति[[!!]] य᳘दा ऽमुं᳘ लोकमे᳘ति कथम᳘नागूर्ती भवती᳘ति स य᳘दे᳘वैता᳘ ऽउभय᳘त्राघारा᳘वाघार᳘यति त᳘दे᳘वास्य दर्शपूर्णमासौ सं᳘तिष्ठेते स स᳘ᳫँ᳘स्थितयोरेव᳘ दर्शपूर्णमास᳘योर᳘था ऽमुं᳘ लोक᳘मेति तथा᳘ ऽनागूर्ती भवति॥
मूलम् - Weber
त᳘दाहुः॥
आगूर्ती वा᳘ एष᳘ भवति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते पौर्णमेसे᳘नॗ हीष्ट्वा वे᳘दामावास्ये᳘न यक्ष्य इ᳘त्यामावास्ये᳘नेष्ट्वा᳘ वेद पु᳘नः पौर्णमासे᳘न यक्ष्य इ᳘ति स᳘ आगूॗर्त्येॗवामुं᳘ लोक᳘मेति यॗदामुं᳘ लोकमे᳘ति कथम᳘नागूर्ती भवती᳘ति स य᳘देॗवैता᳘ उभय᳘त्राघारा᳘वाघार᳘यति त᳘देॗवास्य दर्शपूर्णमासौ सं᳘तिष्ठेते स स᳘ᳫं᳘स्थितयोरेव᳘ दर्शपूर्णमास᳘योर᳘थामुं᳘ लोक᳘मेति तथा᳘नागूर्ती भवति॥
मूलम् - विस्वरम्
तदाहुः- आगूर्ती वा एष भवति । यो दर्शपूर्णमासाभ्यां यजते । पौर्णमासेन हीष्ट्वा वेद आमावास्येन यक्ष्य इति । आमावास्येनेष्ट्वा वेद पुनः पौर्णमासेन यक्ष्य इति । स आगूर्त्येवामुं लोकमेति । यदा ऽमुं लोकमेति कथमनागूर्ती भवतीति । स यदेवैता उभयत्राघारावाघारयति । तदेवास्य दर्शपूर्णमासौ संतिष्ठेते । स संस्थितयोरेव दर्शपूर्णमासयोरथा ऽमुं लोकमेति । तथा ऽनागूर्ती भवति ॥ १० ॥
सायणः
दर्शपूर्णमाससमापनहेतुतया ऽप्याघारौ स्तौति- तदाहुरिति । तत्तत्र दर्शपूर्णमासविषये आहुश्चोदयंति । दर्शपूर्णमासयाजी ‘एष आगूर्ती वा’ आगूर्तमागूरणं संकल्पः, तद्वानिव खलु भवति । एतदेव प्रतिपाद्यते- पौर्णमासेनेष्ट्वेति । ‘पौर्णमासेन’ हविषा ‘इष्ट्वा’ ‘वेद’ अनंतरमेव मन्यते- आगामिनि पर्वणि ‘आमावास्येन’ हविषा यक्ष्य इति; एवं ‘आमावास्येन’ हविषा ‘इष्ट्वा’ आगामिनि पर्वणि पुन ‘पौर्णमासेन’ हविषा ‘यक्ष्य इति’ जानाति । अतः असौ संकल्पवान् । इत्थं यावज्जीवं भूत्वा ‘अमुं’ स्वर्गं ‘लोकमेति’ तस्मिन् लोके न अनागूर्तिना भवितव्यं तस्य क उपाय इत्यर्थः । स यदेवेति । ‘उभयत्र’ दर्शपूर्णमासयोः यजमानो यस्मात् ‘एतौ’ ‘आघारौ’ वाङ्मानसौ आघारौ ‘आघारयति’ तत्तदानीमेव ‘अस्य’ यजमानस्य ‘दर्शपूर्णमासौ’ मनोवाग्रूपतया ‘संतिष्ठेते’ समाप्तौ भवतः । ततः ‘संस्थितयोरेव दर्शपूर्णमासयोः’ यजमानः स्वर्गं ‘लोकं’ प्रयाति, नासंस्थितयोरिति तस्यानागूर्तित्वलक्षणो दोषो नास्तीत्यर्थः ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्य एकादशकांडे द्वितीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (११ । २ । ४) ॥
Eggeling
- As to this they say, ‘Surely, he who performs the Full and New-moon offerings becomes a (mere) utterer of the Āgur 5; for, when he has performed
the Full-moon offering, he knows that he will perform the New-moon offering; and when he has performed the New-moon offering, he knows that he will again perform the Full-moon offering; thus when he goes to the other world he goes thither as an utterer of the Āgur: how, then, does he become one who has not (merely) uttered the Āgur?’ Well, when, on both occasions, he makes those two libations of ghee (to Mind and Speech), then his Full and New-moon offerings become complete; and he goes to the other world after his Full and New-moon offerings are completed, and thus becomes one who has not (merely) uttered the Āgur.
-
हीयमसा᳘वेव AP. ↩︎
-
31:1 The udāna is explained by Sāyaṇa as the breath passing (up into the head, and) through the nose. ↩︎
-
31:2 The prāṇa is the breath of the mouth. ↩︎
-
31:3 That is, by (the vital air of) the head (hence of the eyes, ears, &c.). ↩︎
-
32:1 Or, one who has only had the Āgur-formulas uttered for him (by the priests). Āgur is the technical term of two formulas, viz. of the formula ‘(Agnim) yaja’ (recite the offering-formula to Agni, or to whatever deity offering is made), by which the Adhvaryu calls on the Hotr̥ to recite; and of the formula ‘Ye yajāmahe (Agnim),’ by which the Hotr̥ introduces the yājyā, or offering-verse. At the Soma-sacrifice the former formula is modified to ‘Hotā yakshat,’ uttered by the Maitrāvaruṇa priest. See Haug, Transl. of Ait. Br., p. 133, note.–In comparing these Āgur-formulas with the performances of the Full and New-moon offerings, the author thus seems to imply that, just as the utterance of these formulas is merely the preliminary to the oblation itself, so each fortnightly performance is only the preliminary to the next performance; but that the Sacrificer never actually completes the sacrifice. Sāyaṇa, on the other hand, takes ‘āgūrtin’ to mean ‘one who has formed a resolution (āgūrta, āguraṇam = saṁkalpa);’ and native dictionaries, indeed, give ‘āgur’ as a synonym of ‘pratijñā’ (promise, agreement; Zuruf, Zusage). But, even if this were the right meaning of the word, the general drift of the passage would remain the same, viz. that such a sacrificer would ultimately die as one who had merely promised or intended to offer sacrifice, without his having actually performed it, or brought it to a proper conclusion, and thus without reaping the ultimate benefit from it, viz. citizenship in the heavenly abodes. ↩︎