०१
विश्वास-प्रस्तुतिः
गायत्री᳘मनुवा᳘क्याम᳘न्वाह॥
त्रि᳘पदा वै᳘ गायत्री त्र᳘य ऽइमे᳘ लोका᳘ ऽइमा᳘ने᳘वैत᳘ल्लोका᳘न्देवाः प्र᳘त्यष्ठापयन्॥
मूलम् - श्रीधरादि
गायत्री᳘मनुवा᳘क्याम᳘न्वाह॥
त्रि᳘पदा वै᳘ गायत्री त्र᳘य ऽइमे᳘ लोका᳘ ऽइमा᳘ने᳘वैत᳘ल्लोका᳘न्देवाः प्र᳘त्यष्ठापयन्॥
मूलम् - Weber
गायत्री᳘मनुवाॗक्याम᳘न्वाह॥
त्रि᳘पदा वै᳘ गायत्री त्र᳘य इमे᳘ लोका᳘ इमा᳘नेॗवैत᳘ल्लोका᳘न्देवाः प्र᳘त्यष्ठापयन्॥
मूलम् - विस्वरम्
गायत्रीमनुवाक्यामन्वाह । त्रिपदा वै गायत्री । त्रय इमे लोकाः । इमानेवैतल्लोकान् देवाः प्रत्यष्ठापयन् ॥ १ ॥
सायणः
अथ प्रसंगात्, अनुवाक्यायाज्ययोः छंदोविशेषं विधाय स्तौति- गायत्रीमनुवाक्यामिति । गायत्रीच्छंदस्कां ऋत्वं होता अनुवाक्यामनुब्रूयात् । त्रिपदा वा इत्यादि स्पष्टम् ॥ १ ॥
Eggeling
०२
विश्वास-प्रस्तुतिः
(न्न᳘) अ᳘थ त्रिष्टु᳘भा यजति[[!!]]॥
च᳘तुष्पदा वै᳘ त्रिष्टुप्च᳘तुष्पादाः पश᳘वस्त᳘त्पशू᳘ने᳘वैत᳘देषु[[!!]] लोके᳘षु प्र᳘तिष्ठितेषु देवाः प्र᳘त्यष्ठापय᳘न्॥
मूलम् - श्रीधरादि
(न्न᳘) अ᳘थ त्रिष्टु᳘भा यजति[[!!]]॥
च᳘तुष्पदा वै᳘ त्रिष्टुप्च᳘तुष्पादाः पश᳘वस्त᳘त्पशू᳘ने᳘वैत᳘देषु[[!!]] लोके᳘षु प्र᳘तिष्ठितेषु देवाः प्र᳘त्यष्ठापय᳘न्॥
मूलम् - Weber
अ᳘थ त्रिष्टु᳘भा य᳘जति॥
च᳘तुष्पदा वै᳘ त्रिष्टुप्च᳘तुष्पादाः पश᳘वस्त᳘त्पशू᳘नेॗवैत᳘देषु᳘ लोके᳘षु प्र᳘तिष्ठितेषु देवाः प्र᳘त्यष्ठापयन्॥
मूलम् - विस्वरम्
अथ त्रिष्टुभा यजति । चतुष्पदा वै त्रिष्टुप् । चतुष्पादाः पशवः । तत्पशूनेवैतदेषु लोकेषु प्रतिष्ठितेषु देवाः प्रत्यष्ठापयन् ॥ २ ॥
सायणः
तत्पशूनेवैतदित्यादि । तत्तेन ‘त्रिष्टुभा’ यजनेन गायत्रीपादैः ‘प्रतिष्ठितेषु’ त्रिषु ‘लोकेषु’ ‘देवाः’ ‘चतुष्पदा त्रिष्टुप्’ ‘चतुष्पादाः पशवः’ ‘तान्’ पशून् ‘प्रत्यष्ठापयन्’ ॥ २ ॥ ३ ॥ ४ ॥
Eggeling
- He offers with a trishṭubh (verse): the trishṭubh consisting of four feet, and cattle being four-footed, it is cattle the gods thereby established in these established worlds.
०३
विश्वास-प्रस्तुतिः
(न्द्व्य) द्व्यक्षरो व्वषट्कारः᳘॥
(रो᳘) द्विपाद्वै पु᳘रुषस्तत्पु᳘रुषमे᳘वैतद्द्विपा᳘दमेषु᳘ पशु᳘षु प्र᳘तिष्ठितेषु देवाः प्र᳘त्यष्ठापयन्॥
मूलम् - श्रीधरादि
(न्द्व्य) द्व्यक्षरो व्वषट्कारः᳘॥
(रो᳘) द्विपाद्वै पु᳘रुषस्तत्पु᳘रुषमे᳘वैतद्द्विपा᳘दमेषु᳘ पशु᳘षु प्र᳘तिष्ठितेषु देवाः प्र᳘त्यष्ठापयन्॥
मूलम् - Weber
द्व्यक्षरो वषट्कारः᳟॥
द्विपाद्वै पु᳘रुषस्तत्पु᳘रुषमेॗवैतद्द्विपा᳘दमेषु᳘ पशु᳘षु प्र᳘तिष्ठितेषु प्र᳘त्यष्ठापयन्॥
मूलम् - विस्वरम्
द्व्यक्षरो वषट्कारः । द्विपाद्वै पुरुषः । तत्पुरुषमेवैतद्द्विपादमेषु पशुषु प्रतिष्ठितेषु देवाः प्रत्यष्ठापयन् ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- The Vashaṭ-call consists of two syllables (vaushaṭ): man being two-footed; it is two-footed man they thereby established among the established cattle.
०४
विश्वास-प्रस्तुतिः
(न्त्सो) सो ऽयं᳘ द्विपात्पु᳘रुषः॥
पशु᳘षु प्र᳘तिष्ठित ऽएव᳘मे᳘वैष᳘ ऽएत᳘ल्लोकान्प्र᳘तिष्ठापयति लोके᳘षु प्र᳘तिष्ठितेषु पशून्प्र᳘तिष्ठापयति पशु᳘षु प्र᳘तिष्ठितेष्वात्मा᳘नं प्र᳘तिष्ठापयत्येव᳘मेष पु᳘रुषः पशु᳘षु प्र᳘तिष्ठितो य᳘ ऽएवं᳘ व्विद्वान्य᳘जते॥
मूलम् - श्रीधरादि
(न्त्सो) सो ऽयं᳘ द्विपात्पु᳘रुषः॥
पशु᳘षु प्र᳘तिष्ठित ऽएव᳘मे᳘वैष᳘ ऽएत᳘ल्लोकान्प्र᳘तिष्ठापयति लोके᳘षु प्र᳘तिष्ठितेषु पशून्प्र᳘तिष्ठापयति पशु᳘षु प्र᳘तिष्ठितेष्वात्मा᳘नं प्र᳘तिष्ठापयत्येव᳘मेष पु᳘रुषः पशु᳘षु प्र᳘तिष्ठितो य᳘ ऽएवं᳘ व्विद्वान्य᳘जते॥
मूलम् - Weber
सोऽयं᳘ द्विपात्पु᳘रुषः॥
पशु᳘षु प्र᳘तिष्ठित एव᳘मेॗवैष᳘ एत᳘ल्लोकान्प्र᳘तिष्ठापयति लोके᳘षु प्र᳘तिष्ठितेषु पशून्प्र᳘तिष्ठापयति पशु᳘षु प्र᳘तिष्ठितेष्वात्मा᳘नम् प्र᳘तिष्ठापयत्येव᳘मेष पु᳘रुषः पशु᳘षु प्र᳘तिष्ठितो य᳘ एवं᳘ विद्वान्य᳘जते॥
मूलम् - विस्वरम्
सो ऽयं द्विपात्पुरुषः पशुषु प्रतिष्ठितः । एवमेवैष एतल्लोकान् प्रतिष्ठापयति । लोकेषु प्रतिष्ठितेषु पशून्प्रतिष्ठापयति । पशुषु प्रतिष्ठितेष्वात्मानं प्रतिष्ठापयति । एवमेष पुरुषः पशुषु प्रतिष्ठितः । य एवं विद्वान्यजते ॥ ४ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- Two-footed man, then, is established here among cattle. In like manner this (Sacrificer) establishes thereby the worlds; and in the established worlds he establishes cattle, and among the established cattle he establishes himself: thus, indeed, is that man established among cattle, who, knowing this, offers sacrifice.
०५
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ यद्व᳘षट्कृते जुहो᳘ति॥
(त्ये) एष वै᳘ व्वषट्कारो य᳘ ऽएष त᳘पति स᳘ ऽएष᳘ मृत्युस्त᳘देनमुप᳘रिष्टान्मृत्योः स᳘ᳫँ᳘स्करोति त᳘देनम᳘तो जनयति स᳘ ऽएतं᳘ मृत्युम᳘तिमुच्यते यज्ञो वा᳘ ऽअस्यात्मा᳘ भवति त᳘द्यज्ञ᳘ ऽएव᳘ भू᳘त्वैत᳘न्मृत्युम᳘तिमुच्यत ऽएते᳘नो हास्य स᳘र्व्वे यज्ञक्रत᳘व ऽएतं᳘ मृत्युम᳘तिमुक्ताः॥ शतं ॥ ५६०० ॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ यद्व᳘षट्कृते जुहो᳘ति॥
(त्ये) एष वै᳘ व्वषट्कारो य᳘ ऽएष त᳘पति स᳘ ऽएष᳘ मृत्युस्त᳘देनमुप᳘रिष्टान्मृत्योः स᳘ᳫँ᳘स्करोति त᳘देनम᳘तो जनयति स᳘ ऽएतं᳘ मृत्युम᳘तिमुच्यते यज्ञो वा᳘ ऽअस्यात्मा᳘ भवति त᳘द्यज्ञ᳘ ऽएव᳘ भू᳘त्वैत᳘न्मृत्युम᳘तिमुच्यत ऽएते᳘नो हास्य स᳘र्व्वे यज्ञक्रत᳘व ऽएतं᳘ मृत्युम᳘तिमुक्ताः॥ शतं ॥ ५६०० ॥
मूलम् - Weber
अ᳘थ यद्व᳘षट्कृते जुहो᳘ति॥
एष वै᳘ वषट्कारो य᳘ एष त᳘पति स᳘ एष᳘ मृत्युस्त᳘देनमुप᳘रिष्टान्मृत्योः स᳘ᳫं᳘स्करोति त᳘देनम᳘तो जनयति स᳘ एत᳘म् मृत्युम᳘तिमुच्यते यज्ञो वा᳘ अस्यात्मा᳘ भवति त᳘द्यज्ञ᳘ एव᳘ भूॗत्वैत᳘न्मृत्युम᳘तिमुच्यत एते᳘नो हास्य स᳘र्वे यज्ञक्रत᳘व एत᳘म् मृत्युम᳘तिमुक्ताः॥
मूलम् - विस्वरम्
अथ यद्वषट्कृते जुहोति । एष वै वषट्कारो य एष तपति । स एष मृत्युः । तदेनमुपरिष्टान्मृत्योः संस्करोति । तदेनमतो जनयति । स एतं मृत्युमतिमुच्यते । यज्ञो वा अस्यात्मा भवति । तद्यज्ञ एव भूत्वैतन्मृत्युमतिमुच्यते । एतेनो हास्य सर्वे यज्ञक्रतव एतं मृत्युमतिमुक्ताः ॥ ५ ॥
सायणः
वषट्कारानंतरभाविनं होमविधिमनूद्य प्रशंसति- अथेति । ‘य एषः’ सूर्यः ‘तपति’ अंतरिक्षलोके ‘एषः’ एव ‘वषट्कारः’ । ‘स एषः’ वषट्कारात्मकः सूर्यः ‘मृत्युः’ । तमतिक्रम्य होमेन ‘एनं’ यजमानं ‘मृत्योरुपरिष्टात् संस्करोति’ । ‘तदेनं’ ‘अतः’ अस्माद्धोमात् ‘जनयति’ जातश्च यजमानः ‘एतं मृत्युं’ ‘अतिमुच्यते’ मृत्युगोचरान्मुक्तो भवति । तत्र कारणमाह- यज्ञो वा अस्येति । ‘अस्य’ यजमानस्य ‘यज्ञः’ खलु ‘आत्मा’ शरीरं ‘भवति’ । तत्तस्माद्यज्ञशरीरात्मको ‘भूत्वा’ वषट्कारात्मकं ‘मृत्युम् अतिमुच्यते’ । यतः सर्वेषु यज्ञक्रतुषु वषट्कृते होमः । एतेनैव हेतुना ‘अस्य’ यजमानस्य ‘सर्वे यज्ञक्रतवः’ यज्ञा दर्शपूर्णमासादयः, यूपवंतः क्रतवः, उभयविधाश्चैते वषट्कारात्मकाः ‘एतं मृत्युम् अतिमुक्ताः’ अतिक्रम्यावस्थिताः ॥ ५ ॥
Eggeling
- And when he offers, after the Vashaṭ has been uttered,–that Vashaṭ-call being yonder shining (sun), and he being the same as Death 3–he thereby consecrates him (the Sacrificer) after death, and causes him to be born from out of it, and he is
delivered from that death. And the sacrifice, indeed, becomes his body: thus, having become the sacrifice, he is delivered from that death, and all his chief offerings are thereby delivered from that death 4.
०६
विश्वास-प्रस्तुतिः
(क्ता ऽअ᳘) अ᳘थ या᳘मेतामा᳘हुतिं जुहो᳘ति॥
(त्ये) एषा᳘ ह वा᳘ ऽअस्या᳘हुतिरमु᳘ष्मिंल्लोक᳘ ऽआत्मा᳘ भवति स᳘ य᳘दैवं वि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैनमेषा᳘ ऽऽहुतिरेत᳘स्य पृष्ठे᳘ सत्या᳘ह्वयत्ये᳘ह्यहं वै᳘ त ऽइ᳘हा᳘त्मा ऽस्मी᳘ति तद्य᳘दाह्व᳘यति त᳘स्मादा᳘हुतिर्न्ना᳘म॥
मूलम् - श्रीधरादि
(क्ता ऽअ᳘) अ᳘थ या᳘मेतामा᳘हुतिं जुहो᳘ति॥
(त्ये) एषा᳘ ह वा᳘ ऽअस्या᳘हुतिरमु᳘ष्मिंल्लोक᳘ ऽआत्मा᳘ भवति स᳘ य᳘दैवं वि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैनमेषा᳘ ऽऽहुतिरेत᳘स्य पृष्ठे᳘ सत्या᳘ह्वयत्ये᳘ह्यहं वै᳘ त ऽइ᳘हा᳘त्मा ऽस्मी᳘ति तद्य᳘दाह्व᳘यति त᳘स्मादा᳘हुतिर्न्ना᳘म॥
मूलम् - Weber
अ᳘थ या᳘मेतामा᳘हुतिं जुहो᳘ति॥
एषा᳘ ह वा᳘ अस्या᳘हुतिरमु᳘ष्मिंलोक᳘ आत्मा᳘ भवति स᳘ यॗदैवंवि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैनमेषा᳘हुतिरेत᳘स्य पृष्ठे᳘ सत्या᳘ह्वयत्ये᳘ह्यहं वै᳘ त इॗहाॗत्मास्मी᳘ति तद्य᳘दाह्व᳘यति त᳘स्मादा᳘हुतिर्ना᳘म॥
मूलम् - विस्वरम्
अथ यामेतामाहुतिं जुहोति । एषा ह वा अस्याहुतिरमुष्मिन् लोक आत्मा भवति । स यदैवं विदस्माल्लोकात्प्रैति । अथैनमेषा ऽऽहुतिरेतस्य पृष्ठे सत्याह्वयति । एहि, अयं वै त इहात्मा ऽस्मीति । तद्यदाह्वयति । तस्मादाहुतिर्नाम ॥ ६ ॥
सायणः
अथाहुतिशरीरत्वं यजमानस्य प्रतिपादयति- अथ यामेतामिति । स्वाहाकारेण वा वषट्कारेण वा या एषा यज्ञेषु आहुतिर्हूयते । ‘एषा’ खलु ‘अमुष्मिन्’ स्वर्गे ‘लोके’ ‘अस्य’ यजमानस्य ‘आत्मा’ शरीरम् । ‘एवं वित्’ उक्तार्थवित् ‘सः’ यजमानः ‘यदा’ ‘अस्मात्’ भूलोकात् ‘प्रैति’ प्रगच्छति । ‘अथ’ तदा ‘एतस्य’ यजमानस्य ‘पृष्ठे’ पश्चाद्भागे सती भवंती ‘एषा’ आहुतिः ‘आह्वयति’ हे यजमान ! ‘एहि’ आगच्छ । ‘ते’ त्वदीयः ‘आत्मा’ अहं इहास्मिन् स्थाने ‘अस्मि’ भवामि । अत आगच्छेति । अत एवाथर्वणिकैराम्नायते “एह्येहीति ता आहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं भक्षयंति” इति । आहुतिनामनिर्वचनं करोति- तद्यदाह्वयतीति ॥ ६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे द्वितीया ऽध्याये द्वितीयं ब्राह्मणम् ॥ (११-२-२) ॥
Eggeling
- And, verily, whatever offering he there performs, that offering becomes his body in yonder world; and when he who knows this departs this world then that offering, being behind him, calls out to him, ‘Come hither, here I am, thy body;’ and inasmuch as it calls out (invokes, āhvayati), it is called ‘āhuti’ (offering or invocation).
-
26:1 The anuvākyās recited prior to the principal oblations (pradhāna-havis) are in the gāyatrī metre; whilst the yājyās (referred to in the next paragraph), at the end of which the Vaushaṭ! is uttered and the oblation poured into the fire, consist of trishṭubh verses; cf. 1, 7, 2, 15. ↩︎
-
26:2 These inserted clauses with ‘vai’ supply the reason for what follows, not for what precedes, them. ↩︎
-
26:3 See X, 5, 1, 4. ↩︎
-
27:1 Viz. inasmuch as the oblation is made with the Vashaṭ. ↩︎