०१

विश्वास-प्रस्तुतिः

त्रि᳘र्ह वै पु᳘रुषो जायते॥
(त ऽए) एत᳘न्न्वेव᳘ मातुश्चा᳘धि पितुश्चा᳘ग्रे जायते᳘ ऽथ यं᳘ यज्ञ᳘ ऽउपन᳘मति स यद्य᳘जते त᳘द्द्विती᳘यं जायते᳘ ऽथ य᳘त्र म्रिय᳘ते य᳘त्रैतमग्ना᳘वभ्याद᳘धति स यत्त᳘तः सम्भ᳘वति त᳘त्तृती᳘यं जायते त᳘स्मात्त्रिः पु᳘रुषो जायत ऽइ᳘त्याहुः॥

मूलम् - श्रीधरादि

त्रि᳘र्ह वै पु᳘रुषो जायते॥
(त ऽए) एत᳘न्न्वेव᳘ मातुश्चा᳘धि पितुश्चा᳘ग्रे जायते᳘ ऽथ यं᳘ यज्ञ᳘ ऽउपन᳘मति स यद्य᳘जते त᳘द्द्विती᳘यं जायते᳘ ऽथ य᳘त्र म्रिय᳘ते य᳘त्रैतमग्ना᳘वभ्याद᳘धति स यत्त᳘तः सम्भ᳘वति त᳘त्तृती᳘यं जायते त᳘स्मात्त्रिः पु᳘रुषो जायत ऽइ᳘त्याहुः॥

मूलम् - Weber

त्रि᳘र्ह वै पु᳘रुषो जायते॥
एतॗन्न्वेव᳘ मातुश्चा᳘धि पितुश्चा᳘ग्रे जायते᳘ऽथ यं᳘ यज्ञ᳘ उपन᳘मति स यद्य᳘जते त᳘द्द्विती᳘यं जायते᳘ऽथ य᳘त्र म्रिय᳘ते य᳘त्रैनमग्ना᳘वभ्याद᳘धति स यत्त᳘तः सम्भ᳘वति त᳘त्तृती᳘यं जायते त᳘स्मात्त्रिः पु᳘रुषो जायत इ᳘त्याहुः॥

मूलम् - विस्वरम्

त्रिर्ह वै पुरुषो जायते । एतन्न्वेव मातुश्चाधि पितुश्चाग्रे जायते । अथ यं यज्ञ उपनमति- स यद्यजते तत् द्वितीयं जायते । अथ यत्र म्रियते- यत्रैतमग्नावभ्यादधति- स यत्ततः संभवति- तत् तृतीयं जायते । तस्मात् त्रिः पुरुषो जायत इत्याहुः ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ विशिष्टजन्महेतुतया सामिधेनीः प्रशस्यन् पुरुषस्य जन्मत्रयमाह- त्रिर्ह वै पुरुष इति । ‘पुरुषः’ शरीरी त्रिस्त्रिर्वारं खलु ‘जायते’ । तदेव जन्मनस्त्रित्वं दर्शयति- एतन्न्वेवेति । मातापितृसकाशात् यत् प्रथमं जन्म तदेकम् । अथानंतरं ‘यं’ पुरुषं ‘यज्ञः’ सोमयागः ‘उपनमति’ प्राप्नोति ‘सः’ यदि तेन ‘यजते’ तदस्य पुरुषस्य दीक्षारूपं ‘द्वितीयं’ जन्म भवति । अथानंतरं आयुरवसाने ‘यत्र’ यजमानः ‘म्रियते’ पंचत्वं गच्छति, अनंतरं ‘यत्र’ ‘एनमग्नौ अभ्यादधति’ अंत्येष्टिविधानेन प्रक्षिपंति, ततो ऽनंतरमेव ‘सः’ यजमानः अमुष्मिन् लोके अमृतमयशरीरः सन् यतः ‘संभवति’ उत्पद्यते यज्ञफलोपभोगायतनं तदस्य ‘तृतीयं’ जन्म । उक्ते ऽर्थे प्रसिद्धिं संवादयति- तस्मात् त्रिः पुरुष इति । ‘आहुः’ अभिज्ञाः कथयंति (गृह्यम्) ॥ १ ॥

Eggeling
  1. Verily, man is born thrice, namely in this way:–first he is born from his mother and father; and when he to whom the sacrifice inclines performs offering he is born a second time; and when he dies, and they place him on the fire, and when he

thereupon comes into existence again, he is born a third time;–wherefore they say, ‘Man is born thrice.’

०२

विश्वास-प्रस्तुतिः

(स्ता) ता वा᳘ ऽएताः[[!!]]॥
(ता ऽए᳘) ए᳘कादश सामिधेनीर᳘न्वाह द᳘श वा᳘ ऽइमे पु᳘रुषे प्राणा᳘ ऽआ᳘त्मैकादशो य᳘स्मिन्नेते᳘ प्राणाः[[!!]] प्र᳘तिष्ठिता ऽएता᳘वान्वै पु᳘रुषस्त᳘देनं कृत्स्नं᳘ जनयत्य᳘थ य᳘दूर्ध्व᳘ᳫँ᳘ सामिधेनी᳘भ्यः सा᳘ प्रतिष्ठा त᳘देनं जनयित्वा प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(स्ता) ता वा᳘ ऽएताः[[!!]]॥
(ता ऽए᳘) ए᳘कादश सामिधेनीर᳘न्वाह द᳘श वा᳘ ऽइमे पु᳘रुषे प्राणा᳘ ऽआ᳘त्मैकादशो य᳘स्मिन्नेते᳘ प्राणाः[[!!]] प्र᳘तिष्ठिता ऽएता᳘वान्वै पु᳘रुषस्त᳘देनं कृत्स्नं᳘ जनयत्य᳘थ य᳘दूर्ध्व᳘ᳫँ᳘ सामिधेनी᳘भ्यः सा᳘ प्रतिष्ठा त᳘देनं जनयित्वा प्र᳘तिष्ठापयति॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
ए᳘कादश सामिधेनीर᳘न्वाह द᳘श वा᳘ इमे पु᳘रुषे प्राणा᳘ आॗत्मैकादशो य᳘स्मिन्नेते᳘ प्राणाः᳘ प्र᳘तिष्ठिता एता᳘वान्वै पु᳘रुषस्त᳘देनं कृत्स्नं᳘ जनयत्य᳘थ य᳘दूर्ध्व᳘ᳫं᳘ सामिधेनी᳘भ्यः सा᳘ प्रतिष्ठा त᳘देनं जनयित्वा प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

ता वा एता एकादश सामिधेनीरन्वाह । दश वा इमे पुरुषे प्राणाः । आत्मैकादशः । यस्मिन्नेते प्राणाः प्रतिष्ठिताः । एतावान् वै पुरुषः । तदेनं कृत्स्नं जनयति । अथ यदूर्ध्वं सामिधेनीभ्यः । सा प्रतिष्ठा । तदेनं जनयित्वा प्रतिष्ठापयति ॥ २ ॥

सायणः

इत्थं त्रीणि जन्मानि प्रदर्श्य यज्ञादेवं पुनर्जन्मत्रयं प्रदर्शयन् सामिधेनीसंख्याद्वारा प्रथमं जन्म समर्थयते- ता वा एता इति । ‘ताः’ प्रसिद्धाः “प्र वो वाजा” इत्याद्याः ‘एताः’ एकादशर्चः । दश वा इति । सप्त शीर्षण्याः, द्वौ अवांचौ, नाभिर्दशमी । इति दश शरीरे प्राणाः । तेषामात्मा मन एव ‘एकादशः’ एकादशसंख्यापूरकः । एते ‘प्राणाः’ यस्मिन् शरीरे वर्तंते । एतत्परिमाण एव खलु ‘पुरुषः’ भवति । तदेनं अनया सामिधेनीगतैकादशसंख्यया ‘कृत्स्नं’ सर्वावयवसंपूर्णमेव ‘जनयति’ । ‘अथ यत् सामिधेनीभ्यः ऊर्ध्वं’ सामिधेन्यनुवचनादुत्तरकालमनुष्ठेयं प्रयोगजातमस्ति । तदस्य जातस्य पुरुषस्य ‘सा प्रतिष्ठा’ जीवनास्पदम् । तस्मादेनं पुरुषं सामिधेन्यनुवचनेन कृत्स्नेन ‘जनयित्वा’ शेषेण प्रयोगजातेन ‘प्रतिष्ठापयति’ प्रतिष्ठितं करोति ॥ २ ॥

Eggeling
  1. He (the Hotr̥) recites those eleven kindling-verses 1,–there are these ten vital airs in man, and the body in which these vital airs are established is the eleventh,–so great, indeed, is man: he thus causes him to be born complete. And what comes after the kindling-verses that is the foundation: thus, having caused him to be born, he establishes him.

०३

विश्वास-प्रस्तुतिः

न᳘व प्रसव᳘स्य व्व्या᳘हृतयः॥
(यो) न᳘वेमे पु᳘रुषे प्राणास्त᳘देनं द्विती᳘यं जनयत्याश्रा᳘वणं प्रत्याश्रा᳘वणᳫँ᳭ सा᳘ प्रतिष्ठा᳘ ऽथ य᳘दे᳘वादः सृ᳘ष्टौ ज᳘न्मोद्य᳘ते तदेनं[[!!]] तृती᳘यं जनयति पत्नीसंयाजा᳘ ऽएव त᳘त्र प्रतिष्ठा॥

मूलम् - श्रीधरादि

न᳘व प्रसव᳘स्य व्व्या᳘हृतयः॥
(यो) न᳘वेमे पु᳘रुषे प्राणास्त᳘देनं द्विती᳘यं जनयत्याश्रा᳘वणं प्रत्याश्रा᳘वणᳫँ᳭ सा᳘ प्रतिष्ठा᳘ ऽथ य᳘दे᳘वादः सृ᳘ष्टौ ज᳘न्मोद्य᳘ते तदेनं[[!!]] तृती᳘यं जनयति पत्नीसंयाजा᳘ ऽएव त᳘त्र प्रतिष्ठा॥

मूलम् - Weber

न᳘व प्रसव᳘स्य व्या᳘हृतयः॥
न᳘वमे पु᳘रुषे प्राणास्त᳘देनं द्विती᳘यं जनयत्याश्रा᳘वणम् प्रत्याश्रा᳘वणᳫं सा᳘ प्रतिष्ठा᳘थ य᳘देॗवादः सृष्टौ ज᳘न्मोद्य᳘ते त᳘देनं तृती᳘यं जनयति पत्नीसंयाजा᳘ एव त᳘त्र प्रतिष्ठा॥

मूलम् - विस्वरम्

नव प्रसवस्य व्याहृतयः । नवेमे पुरुषे प्राणाः । तदेनं द्वितीयं जनयति । आश्रावणं प्रत्याश्रावणं सा प्रतिष्ठा । अथ यदेवादः सृष्टौ जन्मोद्यते, तदेनं तृतीयं जनयति । पत्नीसंयाजा एव तत्र प्रतिष्ठा ॥ ३ ॥

सायणः

द्वितीयं जन्म प्रतिपादयति- नव प्रसवस्येति । प्रसवः सामिधेन्यनुवचने प्रेरणं तद्येन “समिध्यमानायानुब्रूहि” इत्येवंरूपेण वाक्येन क्रियते तदत्र प्रसवशब्दाभिधेयम् । तस्य ‘नव व्याहृतयः’ नवाक्षराणि भवंति । ताभिर्नवव्याहृतिभिः नवप्राणात्मकमेव पुरुषं ‘द्वितीयं’ ‘जनयति’ । यद्वा “अग्निर्होता वेत्त्वग्निः” इति प्रयाजांगभूतो यः स्रुगादापननिगदः, सो ऽत्र प्रसवशब्दाभिधेयः तत्र विद्यमानानि नव वाक्यानि ‘नव व्यहृतयः’ अन्यत्समानम् । तदनंतरम् यत् “ओ श्रावय” इति आश्रावणं तस्य “अस्तु श्रौषट्” इति यत् ‘प्रत्याश्रावणं’ तदुभयं अस्य जातस्य पुरुषस्य ‘प्रतिष्ठा’ जीवनास्पदम् । तृतीयं जन्म प्रतिपादयति- अथ यदेवाद इति । अदःशब्देन प्रथमकांडे प्रस्तरप्रहरणविधायकं ब्राह्मणं (श. प. ब्रा. १ । ९ । १-२) परामृश्यते । तत्र ‘सृष्टौ’ यजमानसंस्तुतस्य प्रस्तरस्य स्वर्गलोकात्मके आहवनीये प्रहरणविधानात् यज्जन्म प्रतिपाद्यते तदत्र तृतीयं जन्म इत्यर्थः । तत्र जन्मनि जातस्य पत्नीसंयाजाख्या यागा एव ‘प्रतिष्ठा’ जीवनास्पदम् ॥ ३ ॥

Eggeling
  1. There are nine utterances of impulsion (or quickening) 2,–there are these nine vital airs in man: he thereby causes him to be born a second time; and the (Adhvaryu’s) call and (the Āgnīdhra’s) response 3 are the foundation. And when there, on the occasion of the throwing 4 (of the grass-bunch

into the fire), birth is spoken of, he thereby causes him to be born a third time: on this occasion the Patnīsaṁyājas 5 are the foundation.

०४

विश्वास-प्रस्तुतिः

त्रिर्ह वै पु᳘रुषो जा᳘यते॥
(त ऽए) एव᳘मे᳘वैनमेत᳘द्यज्ञात्त्रि᳘र्जनयति ता᳘सामेकादशानां त्रिः᳘ प्रथमा᳘मन्वा᳘ह त्रि᳘रुत्तमाम्[[!!]]॥

मूलम् - श्रीधरादि

त्रिर्ह वै पु᳘रुषो जा᳘यते॥
(त ऽए) एव᳘मे᳘वैनमेत᳘द्यज्ञात्त्रि᳘र्जनयति ता᳘सामेकादशानां त्रिः᳘ प्रथमा᳘मन्वा᳘ह त्रि᳘रुत्तमाम्[[!!]]॥

मूलम् - Weber

त्रिर्हि वै पु᳘रुषो जा᳘यते॥
एव᳘मेॗवैनमेत᳘द्यज्ञात्त्रि᳘र्जनयति ता᳘सामेकादशानां त्रिः᳘ प्रथमा᳘मन्वा᳘ह त्रि᳘रुत्तमा᳘म्॥

मूलम् - विस्वरम्

त्रिर्ह वै पुरुषो जायते । एवमेवैनमेतद्यज्ञात् त्रिर्जनयति । तासामेकादशानां त्रिः प्रथमामन्वाह । त्रिरुत्तमाम् ॥ ४ ॥

सायणः

एतत् यज्ञसंबंधि जन्मत्रयं पूर्वोक्तजन्मत्रयदृष्टांतेन निगमयति- त्रिर्ह वा इति । “मातुश्चाधि पितुश्चाग्रे” इत्यादिना यथा पुरुषस्य त्रीणि जन्मानि प्रतिपादितानि । एवमेतर्हि ‘एनं’ यजमानं यज्ञादेव त्रिर्जनयति । ‘तासां’ सामिधेनीनां आद्योत्तमयोस्त्रिरावृत्तिं विधाय प्रशंसति- तासामेकादशानामिति । ‘प्रथमा’ “प्र वो वाजा” इत्येषा । ‘उत्तमा’ “आजुहोत” इत्येषा ॥ ४ ॥

Eggeling
  1. For thrice, indeed, man is born, and it is just in this way that he causes him to be born thrice from the sacrifice. Of those eleven (kindling-verses) he recites thrice the first and last:–

०५

विश्वास-प्रस्तुतिः

ताः प᳘ञ्चदश सामिधे᳘न्यः[[!!]]॥
(न्यो) द्वा᳘वाघारौ प᳘ञ्च प्रयाजा ऽइ᳘डा त्र᳘यो ऽनुयाजाः᳘ सूक्तवाक᳘श्च शंयोर्व्वाक᳘श्च तास्त्र᳘योदशा᳘हुतयो᳘ ऽथ य᳘दे᳘वादः᳘ पत्नीसंयाजे᳘षु सम्प्रगृह्णा᳘ति समिष्टयजु᳘श्च॥

मूलम् - श्रीधरादि

ताः प᳘ञ्चदश सामिधे᳘न्यः[[!!]]॥
(न्यो) द्वा᳘वाघारौ प᳘ञ्च प्रयाजा ऽइ᳘डा त्र᳘यो ऽनुयाजाः᳘ सूक्तवाक᳘श्च शंयोर्व्वाक᳘श्च तास्त्र᳘योदशा᳘हुतयो᳘ ऽथ य᳘दे᳘वादः᳘ पत्नीसंयाजे᳘षु सम्प्रगृह्णा᳘ति समिष्टयजु᳘श्च॥

मूलम् - Weber

ताः प᳘ञ्चदश सामिधेन्यः᳟॥
द्वा᳘वाघारौ प᳘ञ्च प्रयाजा इ᳘डा त्र᳘योऽनुयाजाः᳘ सूक्तवाक᳘श्च शम्योर्वाक᳘श्च तास्त्र᳘योदशा᳘हुतयो᳘ऽथ य᳘देॗवादः᳘ पत्नीसंयाजे᳘षु सम्प्रगृह्णा᳘ति समिष्टयजु᳘श्च॥

मूलम् - विस्वरम्

ताः पंचदश सामिधेन्यः । द्वावाघारौ । पंच प्रयाजाः । इडा । त्रयो ऽनुयाजाः । सूक्तवाकश्च । शंयोर्वाकश्च । तास्त्रयोदशाहुतयः । अथ यदेवादः पत्नीसंयाजेषु संप्रतिगृह्णाति । समिष्टयजुश्च ॥ ५ ॥

सायणः

एवमभ्यस्ताभिः सह “ताः पंचदश सामिधेन्यो भवंति” इमामेव श्रुतिं मनसि निधाय आश्वलायनेनाप्युक्तं सूत्रम्- “एताः पंचदशाभ्यस्ताभिः” (आश्व. श्रौ. सू. १ । २ । १ । २) इति । “द्वावाघारौ” इत्यादिना पंचदशाहुतयः परिगण्यंते । इडोपह्वानमपि यागः । “इडया देवयज्यया ऽहम्” इति मंत्रलिंगात् । सूक्तवाको ऽपि- “अग्निरिदं हविरजुषत” इत्यादिना प्रस्तरात्मकस्य हविषः । अग्न्यादिदेवतासंबंधप्रतिपादकत्वात् आहुत्यात्मकः । एतदेव मीमांसका आहुः । प्रस्तर आहुतिः सूक्तवाको याज्येति । “तच्छंयोरावृणीमहे” इति शंयोर्वाको ऽपि परिधिप्रहरणसमकालीनत्वात् आहुतिरूपः । ‘अदः’ प्रथमकांडे (श. ब्रा. १ । ९ । ३) पत्नीसंयाजेषु कर्तव्येषु सत्सु यत् आहवनीयस्योपरि स्रुचोः संप्रतिग्रहणं विहितं, सा संस्रवरूपा एकाहुतिः । समिष्टयजुराख्या एकेति । एवं पंचदशाहुतयः संपद्यंते ॥ ५ ॥

Eggeling
  1. This makes fifteen kindling-verses,–there are two libations of ghee (āghāra 6), five fore-offerings, the Iḍā, three after-offerings, the Sūktavāka, and Śamyorvāka 7–that makes thirteen oblations. And when there, at the Patnīsaṁyājas, he takes up at the same time (the two spoons); and the Samishṭayajus 8:–

०६

विश्वास-प्रस्तुतिः

ताः प᳘ञ्चदशा᳘हुतयः॥
(स्ता᳘) ता᳘सां पञ्चदशानामा᳘हुतीनामेता᳘ ऽअनुवा᳘क्या ऽएताः प᳘ञ्चदश सामिधेन्य᳘ ऽएता᳘सामनुवा᳘क्यानामेता᳘ या᳘ज्या य᳘ ऽएवा᳘त्र म᳘न्त्रो यो᳘ निगदस्त᳘द्याज्यारूप᳘मेते᳘नो हास्यैता ऽआ᳘हुतयो ऽनुवा᳘क्यवत्यो[[!!]] भवन्त्येता᳘भिः सामिधेनी᳘भिरेता᳘भिरा᳘हुतिभिरेता᳘ ऽअनुवा᳘क्या या᳘ज्यवत्यश्चा᳘हुतिमत्यश्च[[!!]] भवन्ति॥

मूलम् - श्रीधरादि

ताः प᳘ञ्चदशा᳘हुतयः॥
(स्ता᳘) ता᳘सां पञ्चदशानामा᳘हुतीनामेता᳘ ऽअनुवा᳘क्या ऽएताः प᳘ञ्चदश सामिधेन्य᳘ ऽएता᳘सामनुवा᳘क्यानामेता᳘ या᳘ज्या य᳘ ऽएवा᳘त्र म᳘न्त्रो यो᳘ निगदस्त᳘द्याज्यारूप᳘मेते᳘नो हास्यैता ऽआ᳘हुतयो ऽनुवा᳘क्यवत्यो[[!!]] भवन्त्येता᳘भिः सामिधेनी᳘भिरेता᳘भिरा᳘हुतिभिरेता᳘ ऽअनुवा᳘क्या या᳘ज्यवत्यश्चा᳘हुतिमत्यश्च[[!!]] भवन्ति॥

मूलम् - Weber

ताः प᳘ञ्चदशा᳘हुतयः॥
ता᳘साम् पञ्चदशानामा᳘हुतीनामेता᳘ अनुवाॗक्या एताः प᳘ञ्चदश सामिधेन्य᳘ एता᳘सामनुवा᳘क्यानामेता᳘ याॗज्या य᳘ एवा᳘त्र म᳘न्त्रो यो᳘ निगदस्त᳘द्याज्यारूप᳘मेते᳘नो हास्यैता आ᳘हुतयोऽनुवाक्य᳘वत्यो भवन्त्येता᳘भिः सामिधेनी᳘भिरेता᳘भिरा᳘हुतिभिरेता᳘ अनुवाॗक्या याज्य᳘वत्यश्चा᳘हुतिवत्यश्च भवन्ति॥

मूलम् - विस्वरम्

ताः पंचदशाहुतयः । तासां पंचदशानामाहुतीनाम् एता अनुवाक्या एताः पंचदश सामिधेन्यः । एतासामनुवाक्यानामेता याज्याः । य एवात्र मंत्रः । यो निगदः- तद्याज्यारूपम् । एतेनो हास्यैता आहुतयो ऽनुवाक्यवत्यो भवंति । एताभिः सामिधेनीभिरेताभिराहुतिभिरेता अनुवाक्या याज्यवत्यश्चाहुतिमत्यश्च भवंति ॥ ६ ॥

सायणः

‘तासां पंचदशानामाहुतीनाम्’ ‘एताः पंचदश सामिधेन्यः’ क्रमेण अनुवाक्यास्थानीयाः । अत्राज्याहुतिषु ‘य एव’ करणमंत्रः, यश्च इडोपह्वानादिनिगदः, ता एव संयाज्याः । तत्तथा सति आसु आहुतिषु याज्यानुवाक्यावत्त्वलक्षणंरूपं इतरयागवत् संपन्नमित्यर्थः । एतेनो हास्यैता इत्यादिना परिनिष्ठितस्यार्थस्यानुवादः । ‘एताभिः सामिधेनीभिः’ इमाः पंचदशाहुतयः अनुवाक्यवत्यो भवंति । एताश्चानुवाक्यास्तुताः सामिधेन्यः ‘एताभिः’ करणमंत्रनिगदसिद्धाभिः ‘आहुतिभिः’ याज्योपेताः आहुत्युपेताश्च ‘भवंति’ ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे द्वितीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (११-२-१) ॥

Eggeling
  1. That makes fifteen oblations:–for these fifteen oblations those fifteen kindling-verses (serve, as it were, as) invitatory formulas; and for these invitatory formulas these (serve as) offering-formulas–whatever formula (is used) there (at those oblations) and what Nigada (is used at the invocation of the Iḍā 9) that is of the form of offering-formulas. Thereby, then, those oblations of his come to be supplied with invitatory formulas through those kindling-verses; and through those oblations those invitatory formulas come to be supplied with both offering-formulas and oblations.

  1. 24:1 See part i, p. 95 seqq. ↩︎

  2. 24:2 According to Sāyaṇa, this refers either to the formula by which the Adhvaryu calls on the Hotr̥ to recite the kindling-verses, and which, he says, consists of nine syllables (samidhyamānāyānubrūhi); or to nine preliminary formulas (forming a nigada) pronounced by the Hotr̥ before the performance of the fore-offerings, see I, 5, 2, 1 seqq. These latter formulas are probably those intended by the author; the former formula being the less likely to be referred to, as, in its above form of nine syllables, it is indeed allowed to be used optionally by the Āpastambasūtra, but not by the authorities of the white Yajus, who use the formula ‘(Hotar) Agnaye samidhyamānāyānubrūhi;’ see Śat. Br. I, 3, 5, 2. 3. ↩︎

  3. 24:3 Viz. the two calls–‘Oṁ śrāvaya’ and ‘Astu śraushaṭ,’ see part i, p. 132, note. ↩︎

  4. 24:4 The word ‘sr̥shṭi’ usually means ‘creation,’ but in accordance with the primary meaning of the verb ‘sr̥j,’ it apparently refers here (as Sāyaṇa seems to think) to the throwing of the anointed Prastara, as the representative of the Sacrificer, into the Āhavanīya fire, thus insuring for the Sacrificer his despatch to, and renewed life in, the heavenly world. With reference to this throwing of the grass-bunch into the fire (I, 8, 3, 11 seq.; 9, 2, 19) some of the Sūtras use, indeed, the verb ‘sr̥j,’ cf. Hillebrand, Das Altindische Neu- and Vollmondsopfer, p.146. ↩︎

  5. 25:1 See part i, p. 256 seqq. ↩︎

  6. 25:2 See part i, p. 124 seqq. ↩︎

  7. 25:3 Part i, p. 236 seqq. ↩︎

  8. 25:4 See I, 9, 2, 19; 25 seqq. ↩︎

  9. 25:5 See part i, p. 222 seqq. ↩︎