०१
विश्वास-प्रस्तुतिः
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽअतिमाने᳘नैव क᳘स्मिन्नु᳘ व्वयं᳘ जुहुयामे᳘ति स्वे᳘ष्वे᳘वास्येषु[[!!]] जु᳘ह्वतश्चेरु᳘स्ते ऽतिमाने᳘नैव प᳘राबभूवुस्त᳘स्मान्ना᳘तिमन्येत पराभव᳘स्य हैतन्मु᳘खं य᳘दतिमानः᳘॥
मूलम् - श्रीधरादि
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽअतिमाने᳘नैव क᳘स्मिन्नु᳘ व्वयं᳘ जुहुयामे᳘ति स्वे᳘ष्वे᳘वास्येषु[[!!]] जु᳘ह्वतश्चेरु᳘स्ते ऽतिमाने᳘नैव प᳘राबभूवुस्त᳘स्मान्ना᳘तिमन्येत पराभव᳘स्य हैतन्मु᳘खं य᳘दतिमानः᳘॥
मूलम् - Weber
देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ऽसुरा अतिमाने᳘नैव क᳘स्मिन्नु᳘ वयं᳘ जुहुयामे᳘ति स्वे᳘ष्वेॗवाॗस्येषु जु᳘ह्वतश्चेरुॗस्तेऽतिमाने᳘नैव प᳘राबभूवुस्त᳘स्मान्ना᳘तिमन्येत पराभव᳘स्य हैतन्मु᳘खं य᳘दतिमानः᳟॥
मूलम् - विस्वरम्
देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे । ततो ऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति- स्वेष्वेवास्येषु जुह्वतश्चेरुः । ते ऽतिमानेनैव पराबभूवुः । तस्मान्नातिमन्येत । पराभवस्य हैतन्मुखं यदतिमानः ॥ १ ॥
सायणः
उक्तविधं व्रतम् उपेयुषो यजमानस्य हवीरूपतां ब्रुवन् तस्मिन्निष्क्रयणहेतुतां दर्शपूर्णमासयागस्य प्रतिपादयितुं आख्यायिकया यज्ञोत्पत्तिमाह- देवाश्च वा असुराश्चेति । ‘उभये’ ‘प्राजापत्याः’ प्रजापतेः पुत्रा अदित्यामुत्पादिताः ‘देवाः’ दिव्यामुत्पादिताः ‘असुराः’ ‘पस्पृधिरे’ स्पर्द्धां कृतवंतः । छांदसः स्पर्द्धधातोः स्पृभावः । ततस्तेषामुभयेषां मध्ये ‘असुरा अभिमानेनैव’ अस्मदतिरिक्तः को नाम विद्यते यस्मिन् अस्मद्व्यतिरिक्ते श्रेष्ठे वयं हविर्जुहवाम । स नास्त्येवेति अतिशयेनाहंकारेण ‘स्वेष्वेव आस्येषु’ हविर्जुह्वतः चेरुरवर्तंत । तेनाहंकारेण ‘ते’ असुराः ‘पराबभूवुः’ एवमतिमानस्य पराभवनिमित्तत्वात् स न कार्यः प्रेक्षावतेति प्रंसंगादुपदिश्यते- तस्मान्नातिमन्येतेति । पराभवो नाशः तस्यैवैतन्मुखम् उपायः, ‘अतिमानः’ अहंकार इति ‘यत्’ ॥ १ ॥
Eggeling
- Now, the gods and the Asuras, both of them sprung from Prajāpati, once strove together. Then the Asuras, even through arrogance, thinking, ‘Unto whom, forsooth, should we make offering?’ went on offering into their own mouths. They came to naught, even through arrogance: wherefore let no one be arrogant, for verily arrogance is the cause of ruin 1.
०२
विश्वास-प्रस्तुतिः
(नो᳘ ऽथ) अ᳘थ देवाः᳘॥
(ऽ) अ᳘न्यो ऽन्य᳘स्मिन्नेव जु᳘ह्वतश्चेरुस्ते᳘भ्यः प्रजा᳘पतिरात्मा᳘नं प्र᳘ददौ यज्ञो᳘ हैषामास यज्ञो हि᳘ देवा᳘नाम᳘न्नम्॥
मूलम् - श्रीधरादि
(नो᳘ ऽथ) अ᳘थ देवाः᳘॥
(ऽ) अ᳘न्यो ऽन्य᳘स्मिन्नेव जु᳘ह्वतश्चेरुस्ते᳘भ्यः प्रजा᳘पतिरात्मा᳘नं प्र᳘ददौ यज्ञो᳘ हैषामास यज्ञो हि᳘ देवा᳘नाम᳘न्नम्॥
मूलम् - Weber
अ᳘थ देवाः᳟॥
अॗन्योऽन्य᳘स्मिन्नेव जु᳘ह्वतश्चेरुस्ते᳘भ्यः प्रजा᳘पतिरात्मा᳘नम् प्र᳘ददौ यज्ञो᳘ हैषामास यज्ञो हि देवा᳘नाम᳘न्नं॥
मूलम् - विस्वरम्
अथ देवा अन्योन्यस्मिन्नेव जुह्वतश्चेरुः । तेभ्यः प्रजापतिरात्मानं प्रददौ । यज्ञो हैषामास । यज्ञो हि देवानामन्नम् ॥ २ ॥
सायणः
इत्थमसुरैः कृतमुक्त्वा देषैः कृतं दर्शयति- अथ देवा इति । ‘अन्यो ऽन्यस्मिन्’ अग्निरिंद्रादौ देवेन्द्र अग्न्यादौ देवे इति परस्परव्यतिहारेण हवींषि ‘जुह्वतः’ चेरुरित्यर्थः । ‘तेभ्यः’ देवेभ्यः प्रीतः ‘प्रजापतिः’ ‘आत्मानं’ स्वशरीरं ‘प्रददौ’ प्रादित । आत्मा ‘एषां’ देवानां यज्ञात्मकः ‘आस’ बभूव । तेन क उपयोग ? इति तत्राह- यज्ञो हीति । ‘यज्ञः’ खलु ‘देवानां’ स्थितिनिमित्तं ‘अन्नं’ तदात्मकं भागं देवेभ्यः कल्पितवानित्यर्थः ॥ २ ॥
Eggeling
- But the gods went on offering unto one another. Prajāpati gave himself up to them, and the sacrifice became theirs; for, indeed, the sacrifice is the food of the gods.
०३
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स᳘ देवे᳘भ्य ऽआत्मा᳘नं प्रदाय᳘॥
(या᳘) अ᳘थैत᳘मात्म᳘नः प्रतिमा᳘मसृजत य᳘द्यज्ञं त᳘स्मादाहुः प्रजा᳘पतिर्य्यज्ञ ऽइ᳘त्यात्म᳘नो᳘ ह्येतं᳘ प्रतिमाम᳘सृजत॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स᳘ देवे᳘भ्य ऽआत्मा᳘नं प्रदाय᳘॥
(या᳘) अ᳘थैत᳘मात्म᳘नः प्रतिमा᳘मसृजत य᳘द्यज्ञं त᳘स्मादाहुः प्रजा᳘पतिर्य्यज्ञ ऽइ᳘त्यात्म᳘नो᳘ ह्येतं᳘ प्रतिमाम᳘सृजत॥
मूलम् - Weber
स᳘ देवे᳘भ्य आत्मा᳘नम् प्रदाय॥
अ᳘थैत᳘मात्म᳘नः प्रतिमा᳘मसृजत य᳘द्यज्ञं त᳘स्मादाहुः प्रजा᳘पतिर्यज्ञ इ᳘त्यात्म᳘नोॗ ह्येत᳘म् प्रतिमाम᳘सृजत॥
मूलम् - विस्वरम्
स देवेभ्य आत्मानं प्रदायाथैतमात्मनः प्रतिमामसृजत यद्यज्ञम् । तस्मादाहुः प्रजापतिर्यज्ञ इति । आत्मनो ह्येतं प्रतिमामसृजत ॥ ३ ॥
सायणः
स देवेभ्य इत्यादि । ‘सः’ प्रजापतिः एवं ‘देवेभ्य आत्मानं’ स्वशरीरं ‘प्रदाय’ तन्निष्क्रयणाय यज्ञरूपामात्मनः प्रतिकृतिम् ‘असृजत’ सृष्टवान् । यत एवं प्रजापतिशरीरस्य प्रतिमा यज्ञः तस्मात् प्रजापतियज्ञयोः तादात्म्यव्यवहारः इत्याह- तस्मादाहुरिति । आत्मनो ह्येतमिति प्रागुदीरितहेतुयोजनम् । ‘प्रतिमा’ प्रतिबिंबं प्रतिकृतिरिति पर्यायः ॥ ३ ॥
Eggeling
- Having given himself up to the gods, he created that counterpart of himself, to wit, the sacrifice: whence people say, ‘The sacrifice is Prajāpati;’ for he created it as a counterpart of himself.
०४
विश्वास-प्रस्तुतिः
स᳘ ऽएते᳘न यज्ञे᳘न॥
देवे᳘भ्य ऽआत्मा᳘नं नि᳘रक्रीणीत स य᳘द्व्रत᳘मुपै᳘ति य᳘थैव त᳘त्प्रजा᳘पतिर्देवे᳘भ्य ऽआत्मा᳘नं प्रा᳘यच्छदेव᳘मे᳘वैष᳘ ऽएत᳘द्देवे᳘भ्य ऽआत्मा᳘नं प्र᳘यच्छति त᳘स्मादु सं᳘यत ऽए᳘वैताᳫँ᳭ रा᳘त्रिं चिचरिषेद्य᳘था हवि᳘षा च᳘रेदेव᳘ᳫँ᳘ हवि᳘र्ह्येष᳘ देवा᳘नां भवति[[!!]]॥
मूलम् - श्रीधरादि
स᳘ ऽएते᳘न यज्ञे᳘न॥
देवे᳘भ्य ऽआत्मा᳘नं नि᳘रक्रीणीत स य᳘द्व्रत᳘मुपै᳘ति य᳘थैव त᳘त्प्रजा᳘पतिर्देवे᳘भ्य ऽआत्मा᳘नं प्रा᳘यच्छदेव᳘मे᳘वैष᳘ ऽएत᳘द्देवे᳘भ्य ऽआत्मा᳘नं प्र᳘यच्छति त᳘स्मादु सं᳘यत ऽए᳘वैताᳫँ᳭ रा᳘त्रिं चिचरिषेद्य᳘था हवि᳘षा च᳘रेदेव᳘ᳫँ᳘ हवि᳘र्ह्येष᳘ देवा᳘नां भवति[[!!]]॥
मूलम् - Weber
स᳘ एते᳘न यज्ञे᳘न॥
देवे᳘भ्य आत्मा᳘नं नि᳘रक्रीणीत स य᳘द्व्रत᳘मुपै᳘ति य᳘थैव त᳘त्प्रजा᳘पतिर्देवे᳘भ्य आत्मा᳘नम् प्रा᳘यछदेव᳘मेॗवैष᳘ एत᳘द्देवे᳘भ्य आत्मा᳘नम् प्र᳘यछति त᳘स्मादु सं᳘यत एॗवैतां रा᳘त्रिं चिचरिषेद्य᳘था हवि᳘षा च᳘रेदेव᳘ᳫं᳘ हविॗर्ह्येष᳘ देवा᳘नाम् भ᳘वति॥
मूलम् - विस्वरम्
स एतेन यज्ञेन देवेभ्य आत्मानं निरक्रीणीत । स यत् व्रतमुपैति । यथैव तत्प्रजापतिर्देवेभ्य आत्मानं प्रायच्छत् । एवमेवैष एतद्देवेभ्य आत्मानं प्रयच्छति । तस्मादु संयत एवैतां रात्रिं चिचरिषेत् । यथा हविषा चरेत् एवम् । हविर्हि एष देवानां भवति ॥ ४ ॥
सायणः
स एतेन यज्ञेनेत्यादि । ‘सः’ प्रजापतिः इत्थं सृष्टेन स्वशरीरप्रतिकृतिभूतेन ‘एतेन यज्ञेन’ ‘देवेभ्यः’ सकाशात् ‘आत्मानं’ स्वशरीरं ‘निरक्रीणीत’ यज्ञतुल्यवेतनं देवेभ्यो दत्त्वा पुनः स्वशरीरं स्वीकृतवानित्यर्थः । इत्थं आख्यायिकया सिद्धमर्थं प्रकृते योजयति- स यत् व्रतमुपैतीति । दर्शपूर्णमासयागे प्रागुक्तलक्षणं 2 ‘व्रतमुपैतीति’ यदस्ति । एतेन प्रजापतिरिव देवेभ्यः स्वयमपि आत्मानं स्वशरीरं हविष्ट्वेन प्रयच्छति । तस्माद्धविर्दोषपरिहाराय ‘एतां’ औपवसथीयदिवसस्य रात्रिं ‘संयत एव’ सम्यक् नियतेंद्रियव्यापार एव सन् ‘चिचरिषेत्’ चरितुं वर्तितुमिच्छेत् । दृष्टांतेनोपपादयति- यथा हविषेति । ‘यथा’ संयतः सन् ‘हविषा चरेत्’ यजेत । एवं पर्वरात्रावपि संयतो भवेदित्यर्थः । तत्र कारणमाह- हविर्ह्येष इति । ‘एवं’ व्रतं उपेयिवान् यजमानः औपवसथ्यदिवसे देवानां स्वयमेव हविर्भवति । ‘हि’ यस्मादेवं तस्मात्संयतश्चरेदिति संबंधः ॥ ४ ॥
Eggeling
- By this (Full and New-moon) sacrifice he redeemed himself from the gods. Now when he (the Sacrificer) enters on the fast, he thereby gives himself up to the gods, even as Prajāpati thereby gave himself up to the gods. Let him therefore endeavour to pass that night (with his mind) completely restrained 3, in the same way as he would
proceed with (material for) an oblation, for he becomes an oblation to the gods.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यज्ञं᳘ तनुते᳘॥
यज्ञे᳘नै᳘वैत᳘द्देवे᳘भ्य ऽआत्मा᳘नं नि᳘ष्क्रीणीते य᳘थैव त᳘त्प्रजा᳘पतिर्न्निर᳘क्रीणीतैवम᳘थ य᳘द्धवि᳘र्निर्व्व᳘पति हवि᳘षै᳘वैत᳘द्यज्ञं नि᳘ष्क्रीणाति हवि᳘रनुवाक्यया ऽनुवा᳘क्यामवदा᳘नेनावदा᳘नं[[!!]] या᳘ज्यया[[!!]] या᳘ज्यां व्वषट्कारे᳘ण व्वषट्कारमा᳘हुत्या त᳘स्या᳘हुतिरेवा᳘निष्क्रीता भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यज्ञं᳘ तनुते᳘॥
यज्ञे᳘नै᳘वैत᳘द्देवे᳘भ्य ऽआत्मा᳘नं नि᳘ष्क्रीणीते य᳘थैव त᳘त्प्रजा᳘पतिर्न्निर᳘क्रीणीतैवम᳘थ य᳘द्धवि᳘र्निर्व्व᳘पति हवि᳘षै᳘वैत᳘द्यज्ञं नि᳘ष्क्रीणाति हवि᳘रनुवाक्यया ऽनुवा᳘क्यामवदा᳘नेनावदा᳘नं[[!!]] या᳘ज्यया[[!!]] या᳘ज्यां व्वषट्कारे᳘ण व्वषट्कारमा᳘हुत्या त᳘स्या᳘हुतिरेवा᳘निष्क्रीता भवति॥
मूलम् - Weber
अ᳘थ य᳘द्यज्ञं᳘ तनुते᳟॥
यज्ञे᳘नैॗवैत᳘द्देवे᳘भ्य आत्मा᳘नं नि᳘ष्क्रीणीते य᳘थैव त᳘त्प्रजा᳘पतिर्निर᳘क्रीणीतैवम᳘थ य᳘द्धवि᳘र्निर्व᳘पति हवि᳘षैॗवैत᳘द्यज्ञं नि᳘ष्क्रीणाति हवि᳘रनुवाक्य᳘यानुवाॗक्यामवदा᳘नेनावदा᳘नं याज्य᳘या याॗज्यां वषट्कारे᳘ण वषट्कारमा᳘हुत्या तस्या᳘हुतिरेवा᳘निष्क्रीता भवति॥
मूलम् - विस्वरम्
अथ यद्यज्ञं तनुते । यज्ञेनैवैतद्देवेभ्य आत्मानं निष्क्रीणीते । यथैव तत्प्रजापतिर्निरक्रीणीत । एवम् । अथ यद्धविर्निर्वपति । हविषैवैतद्यज्ञं निष्क्रीणाति । हविरनुवाक्यया । अनुवाक्यामवदानेन । अवदानं याज्यया । याज्यां वषट्कारेण । वषट्कारमाहुत्या । तस्याहुतिरेवानिष्क्रीता भवति ॥ ५ ॥
सायणः
अथ यद्यज्ञमित्यादि । अथानंतरं परस्मिन् दिवसे ‘यत्’ यदा ‘यज्ञं’ दर्शपूर्णमासादिलक्षणं ‘तनुते’ विस्तारयति । तत्तदा तेनैव ‘यज्ञेन’ हि मूल्येन ‘देवेभ्यः’ सकाशात् औपवसथ्यदिवसे दत्तं स्वमात्मानं ‘निष्क्रीणीते’ पुनः स्वीकरोति । ‘यथैव’ खलु ‘प्रजापतिः’ पुरा स्वमात्मानं देवेभ्यो दत्त्वा तत्प्रतिनिधित्वेन यज्ञं सृष्ट्वा तं देवेभ्यः प्रदाय पुनः स्वशरीरमगृह्णात् । एवं यजमानो ऽपि करोतीत्यर्थः । यज्ञादीनामपि उत्तरेण निष्क्रयणप्रकारमाह- अथ यद्धविरिति । यदा खलु हविर्निर्वपति तेन ‘हविषैव’ तं यज्ञं ‘निष्क्रीणाति’ । तत्र ‘हविरनुवाक्यया’ ‘अनुवाक्यामवदानेन’ ‘अवदानं याज्यया’ ‘याज्यां वषट्कारेण’ ‘वषट्कारमाहुत्या,’ सर्वत्र निष्क्रीणातीति संबंध । तस्याहुतिरेवेत्यादि । ‘तस्य’ यज्ञस्य संबंधिनी ‘आहुतिरेव’ ‘अनिष्क्रीता’ अस्वीकृता भवति इति ॥ ५ ॥
Eggeling
- And when (on the following day) he performs the sacrifice, then he redeems himself by sacrifice from the gods, even as Prajāpati thereby redeemed himself: when he takes out the material for (the chief) sacrificial dish, he redeems the sacrifice by the material for the sacrificial dish; the sacrificial dish (he redeems) by the invitatory formula, the invitatory formula by the portion cut (from the sacrificial dish), the portion by the offering-formula, the offering–formula by the Vashaṭ-call, and the Vashaṭ-call by the oblation. His oblation itself is still unredeemed,–
०६
विश्वास-प्रस्तुतिः
स य᳘था ऽग्रप्रशीर्णो᳘ व्वृक्षः᳘॥
(ऽ) एव᳘मस्यैष᳘ यज्ञो᳘ भवत्या᳘हुतिमे᳘वान्वाहा᳘र्य्येण नि᳘ष्क्रीणाति तद्य᳘देत᳘द्धीनं᳘ यज्ञस्यान्वाह᳘रति त᳘स्मादन्वाहा᳘र्य्यो ना᳘मैव᳘मु हास्यैष स᳘र्व्व ऽएव᳘ यज्ञो नि᳘ष्क्रीतो भवत्येष᳘ ह वै य᳘जमानस्यामु᳘ष्मिंल्लोक᳘ ऽआत्मा᳘ भवति य᳘द्यज्ञः स᳘ ह स᳘र्व्वतनूरेव य᳘जमानो ऽमु᳘ष्मिंल्लोके स᳘म्भवति य᳘ ऽएवं᳘ विद्वान्नि᳘ष्क्रीत्या य᳘जते॥
मूलम् - श्रीधरादि
स य᳘था ऽग्रप्रशीर्णो᳘ व्वृक्षः᳘॥
(ऽ) एव᳘मस्यैष᳘ यज्ञो᳘ भवत्या᳘हुतिमे᳘वान्वाहा᳘र्य्येण नि᳘ष्क्रीणाति तद्य᳘देत᳘द्धीनं᳘ यज्ञस्यान्वाह᳘रति त᳘स्मादन्वाहा᳘र्य्यो ना᳘मैव᳘मु हास्यैष स᳘र्व्व ऽएव᳘ यज्ञो नि᳘ष्क्रीतो भवत्येष᳘ ह वै य᳘जमानस्यामु᳘ष्मिंल्लोक᳘ ऽआत्मा᳘ भवति य᳘द्यज्ञः स᳘ ह स᳘र्व्वतनूरेव य᳘जमानो ऽमु᳘ष्मिंल्लोके स᳘म्भवति य᳘ ऽएवं᳘ विद्वान्नि᳘ष्क्रीत्या य᳘जते॥
मूलम् - Weber
स य᳘थाग्रप्रशीर्णो᳘ वृक्षः᳟॥
एव᳘मस्यैष᳘ यज्ञो᳘ भवत्या᳘हुतिमेॗवान्वाहा᳘र्येण नि᳘ष्क्रीणाति तद्य᳘देत᳘द्धीनं᳘ यज्ञस्यान्वाह᳘रति त᳘स्मादन्वाहा᳘र्यो ना᳘मैव᳘मु हास्यैष स᳘र्व एव᳘ यज्ञो नि᳘ष्क्रीतो भवत्येष᳘ ह वै य᳘जमानस्यामु᳘ष्मिंलोक᳘ आत्मा᳘ भवति य᳘द्यज्ञ स᳘ ह स᳘र्वतनूरेव 4 य᳘जमानोऽमु᳘ष्मिंलोके स᳘म्भवति य᳘ एवं᳘ विद्वान्नि᳘ष्क्रीत्या य᳘जते॥
मूलम् - विस्वरम्
स यथा ऽग्रप्रशीर्णो वृक्षः । एवमस्यैष यज्ञो भवति । आहुतिमेवान्वाहार्येण निष्क्रीणाति । तद्यदेतद्धीनं यज्ञस्यान्वाहरति । तस्मादन्वाहार्यो नाम । एवमु ह अस्यैष सर्व एव यज्ञो निष्क्रीतो भवति । एष ह वै यजमानस्यामुष्मिन् लोक आत्मा भवति । यद्यज्ञः । स ह सर्वतनूरेव यजमानो ऽमुष्मिन् लोके संभवति । य एवं विद्वान्निष्क्रीत्या यजते ॥ ६ ॥
सायणः
ततो यजमानस्य ‘अग्रप्रशीर्णः’ भग्नाग्रः ‘वृक्षः’ इव ‘यज्ञो भवति’ उपरि अवस्थिताया आहुतेः अनिष्क्रीतत्वात् । अथैतद्दोषपरिहाराय तन्निष्क्रयमाह- आहुतिमेवेति । यो ऽयमन्वाहार्याख्यो दक्षिणात्वेन देय ओदनः तेन तामाहुतिमेव ‘निष्क्रीणाति’ । तन्नामनिर्वचनेन दोषशमनसामर्थ्यं तस्य प्रतिपादयति- तद्यदेतदिति । तत्तत्र ‘यज्ञस्य’ संबंधि ‘यदेतत्’ ‘हीनं’ विलुप्तमंगमस्ति तत् ‘अन्वाहरति’ पुनः संदधाति । यस्मादेवं तस्मादयमन्वाहार्यो नाम्ना संपन्नः । अन्वाहरति दोषजातमनेन शमयतीति करणसाधनो ण्यत् । एवमु हास्येति प्रतिपादितकृत्स्नयज्ञनिष्क्रयणनिगमनम् । एवं निष्क्रीतस्य यज्ञस्य क उपयोगः ? इति तत्राह एष ह वा इति । ‘एषः’ खलु निष्क्रीतः ‘यज्ञः’ अस्य ‘यजमानस्य’ ‘अमुष्मिन्’ स्वर्गे ‘लोके’ ‘आत्मा’ देहो ‘भवति’ । ‘सः’ खलु ‘यजमानः सर्वतनूरेव’ सर्वावयवसंपूर्ण एव सन् ‘अमुष्मिन्’ स्वर्गे ‘लोके’ ‘संभवति’ उत्पद्यते । ‘यः’ एवमुक्तप्रकारं ‘विद्वान्’ निष्क्रीत्या ‘निष्क्रयणेन दर्शपूर्णमासाभ्यां ‘यजते’ स इति संबंधः ॥ ६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे प्रथमे ऽध्याये अष्टमं ब्राह्मणम् ॥ (११-१-८) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इतिः श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे प्रथमो ऽध्यायः समाप्तः ॥ (११ । १) ॥
Eggeling
- And that sacrifice of his is like a tree with its top broken off. He redeems the oblation by the Anvāhārya (mess of rice) 5; and because he thereby supplies (anv-ā-harati) what is wanting in the sacrifice, therefore it is called Anvāhārya. Thus, then, that entire sacrifice of his comes to be redeemed; and that sacrifice becomes the Sacrificer’s self in yonder world. And, verily, the Sacrificer who, knowing this, performs that (offering of) redemption comes into existence in yonder world with a complete body.