०१

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽअदो᳘ व्व्रतोपायन᳘ ऽउद्यते॥
य᳘दि᳘ नाश्ना᳘ति पितृदेव᳘त्यो भवति य᳘द्यु ऽअश्ना᳘ति देवान᳘त्यश्नाती᳘ति त᳘दारण्य᳘मश्नीयादि᳘ति त᳘त्र स्थापयन्ति॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽअदो᳘ व्व्रतोपायन᳘ ऽउद्यते॥
य᳘दि᳘ नाश्ना᳘ति पितृदेव᳘त्यो भवति य᳘द्यु ऽअश्ना᳘ति देवान᳘त्यश्नाती᳘ति त᳘दारण्य᳘मश्नीयादि᳘ति त᳘त्र स्थापयन्ति॥

मूलम् - Weber

तद्वा᳘ अदो᳘ व्रतोपायन᳘ उद्यते॥
य᳘दिॗ नाश्ना᳘ति पितृदेव᳘त्यो भवति य᳘द्यु अश्ना᳘ति देवान᳘त्यश्नाती᳘ति त᳘दारण्य᳘मश्नीयादि᳘ति त᳘त्र स्थापयन्ति॥

मूलम् - विस्वरम्

तद्वा अदो व्रतोपायन उद्यते । यदि नाश्नाति पितृदेवत्यो भवति । यद्यु अश्नाति देवानत्यश्नाति- इति । तदारण्यमश्नीयादिति तत्र स्थापयंति ॥ १ ॥

सायणः

अथ तत्रैव दर्शपूर्णमासयागे व्रतोपायनविषयां मीमांसां कर्तुं प्रतिजानीते- तद्वा अद इति । तत्तत्र दर्शपूर्णमासयोः । ‘अदः’ अमुष्मिन् “व्रतमुपैष्यन्” (श. प. १ । १ । १ । १) इत्यादावेव प्रतिपादिते ‘व्रतोपायने’ व्रतस्य उपायनं उपगमः तस्मिन् विषये ‘उद्यते’ रात्रिभोजनकरणाकरणविषयो विशेषो विचार्यते । वदेः कर्मणि यक् (पा. सू. १ । ३ । १३) । तत्र अशनानशनयोस्तावद्दोषमाह- यदि नाश्नातीति । ‘यदि’ पर्वरात्रौ यजमानः ‘नाश्नीयात्’ तर्हि ‘पितृदेवत्यः’ भवेत् । पितॄणां हि भोजन न रात्रौ भवति । “नच नक्तं श्राद्धं कुर्वीत” इति रात्रौ श्राद्धनिषेधस्मरणात् । अतो यजमानो ऽपि रात्रौ अभुंजानस्तत्सदृशो भवेत् । नच एतज्जीवतो युक्तम् । तर्हि एतद्दोषपरिहाराय यदि ‘अश्नीयात्’ परेद्युर्यष्टव्यानागतान् देवान् अत्यश्नीयात् अतिक्रम्य भुक्तवान् भवेत् । ‘इति’ अनेन प्रकारेण ‘उद्यते’ इति पूर्वत्र संबन्धः । कथं तर्हि कर्तव्यमिति तत्राह- तदारण्यमिति । तत्तस्माद्धेतोः आरण्यमरण्यनिष्पन्नं श्यामाकादिकमश्नीयात् इत्येवं ‘तत्र’ व्रतोपायनविषये ‘स्थापयति’ केचिन्निर्णयं कुर्वंति । अत एव तैत्तिरीयके- “यदश्नन्नुपवसेत्पितृदेवत्यः स्यादत आरण्यमश्नाति” इति ॥ १ ॥

Eggeling
  1. Now there, on the occasion of the entering on the fast, it is said 1, ‘If he does not eat, he becomes

consecrated to the Fathers 2; and if he does eat he eats whilst passing over the gods;’ and, in this respect, they lay down the rule, ‘Let him therefore eat what grows in the forest.’

०२

विश्वास-प्रस्तुतिः

स य᳘दि ग्राम्या ऽओ᳘षधीरश्ना᳘ति॥
पुरोडा᳘शस्य मे᳘धमश्नाति य᳘द्यारण्या ऽओ᳘षधीरश्ना᳘ति बर्हि᳘षो मे᳘धमश्नाति य᳘दि व्वानस्पत्य᳘मश्ना᳘तीध्म᳘स्य मे᳘धमश्नाति य᳘दि प᳘यः पि᳘बति सान्नाय्य᳘स्य चा᳘ज्यस्य च मे᳘धमश्नाति य᳘द्यपः पि᳘बति प्र᳘णीतानां मे᳘धमश्नाति य᳘दि᳘ नाश्नाति[[!!]] पितृदेव᳘त्यो भवति॥

मूलम् - श्रीधरादि

स य᳘दि ग्राम्या ऽओ᳘षधीरश्ना᳘ति॥
पुरोडा᳘शस्य मे᳘धमश्नाति य᳘द्यारण्या ऽओ᳘षधीरश्ना᳘ति बर्हि᳘षो मे᳘धमश्नाति य᳘दि व्वानस्पत्य᳘मश्ना᳘तीध्म᳘स्य मे᳘धमश्नाति य᳘दि प᳘यः पि᳘बति सान्नाय्य᳘स्य चा᳘ज्यस्य च मे᳘धमश्नाति य᳘द्यपः पि᳘बति प्र᳘णीतानां मे᳘धमश्नाति य᳘दि᳘ नाश्नाति[[!!]] पितृदेव᳘त्यो भवति॥

मूलम् - Weber

स य᳘दि ग्राम्या ओ᳘षधीरश्ना᳘ति॥
पुरोडा᳘शस्य मे᳘धमश्नाति य᳘द्यारण्या ओ᳘षधीरश्ना᳘ति बर्हि᳘षो मे᳘धमश्नाति य᳘दि वानस्पत्य᳘मश्ना᳘तीध्म᳘स्य मे᳘धमश्नाति य᳘दि प᳘यः पि᳘बति सांनाय्य᳘स्य चा᳘ज्यस्य च मे᳘धमश्नाति य᳘द्यपः पि᳘बति प्र᳘णीतानाम् मे᳘धमश्नाति य᳘दिॗ नाश्ना᳘ति पितृदेव᳘त्यो भवति॥

मूलम् - विस्वरम्

स यदि ग्राम्या ओषधीरश्नाति, पुरोडाशस्य मेघमश्नाति । यद्यारण्या ओषधीरश्नाति, बर्हिषो मेघमश्नाति । यदि वानस्पत्यमश्नाति, इध्मस्य मेधमश्नाति । यदि पयः पिबति, सान्नाय्यस्य चाज्यस्य च मेधमश्नाति । यद्यपः पिबति, प्रणीतानां मेधमश्नाति । यदि नाश्नाति पितृदेवत्यो भवति ॥ २ ॥

सायणः

एतदारण्याशनमपि पूर्वपक्षीकुर्वन् संभवत्पक्षांतराण्युपन्यस्य दूषयति- स यदि ग्राम्या इति । पुरोडाशप्रकृतिभूतानां व्रीहियवानां ग्राम्याणामशने तत्कार्यस्य ‘पुरोडाशस्य मेधं’ यज्ञियं सारं भुक्तवान् भवति । एवमुत्तरत्रापि योज्यम् । वानस्पत्यमिति । वनस्पतिविकारभूतं फलादिकं ‘वानस्पत्यम्’ । सान्नाय्यस्य चाज्यस्य चेति । दधिपयोलक्षणं सान्नाय्यं हविः आज्यं च इत्येतदुभयं पयसः कार्यमिति तत्पाने तदुभयस्य यज्ञयोग्यं सारं भुक्तवान् भवतीत्यर्थः । यद्यपः पिबतीत्यादि । हविषः संयवनार्थाः चमसेनाहवनीयसमीपं नीताः आपः प्रणीता गृह्यंते । अशनपक्षे दोषस्य दुष्परिहारत्वात् अनशनपक्षोक्तदोष एव परिशिष्यत इत्याह- यदि नाश्नातीति ॥ २ ॥

Eggeling
  1. If he eats cultivated plants he eats the sacrificial essence of the offering-cake; and if he eats forest plants he eats the essence of the barhis 3; and if he eats aught of trees he eats the essence of the fuel (for the sacrificial fire); and if he drinks milk he consumes the essence of the Sānnāyya 4; and if he drinks water he consumes the essence of the lustral waters 5; and if he eats nothing he becomes consecrated to the Fathers.

०३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
किम᳘यनमि᳘ति स्वय᳘ᳫँ᳘ है᳘वैते रा᳘त्री ऽअग्निहोत्रं᳘ जुहुयात्स य᳘द्धुत्वा प्राश्ना᳘ति तेना᳘पितृदेवत्यो᳘ भवत्या᳘हुतिर्व्वा᳘ ऽएषा स य᳘दे᳘वैता᳘मात्मन्ना᳘हुतिं जुहो᳘ति ते᳘नो ऽएते᳘षां मे᳘धानां᳘ नाश्नाति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
किम᳘यनमि᳘ति स्वय᳘ᳫँ᳘ है᳘वैते रा᳘त्री ऽअग्निहोत्रं᳘ जुहुयात्स य᳘द्धुत्वा प्राश्ना᳘ति तेना᳘पितृदेवत्यो᳘ भवत्या᳘हुतिर्व्वा᳘ ऽएषा स य᳘दे᳘वैता᳘मात्मन्ना᳘हुतिं जुहो᳘ति ते᳘नो ऽएते᳘षां मे᳘धानां᳘ नाश्नाति॥

मूलम् - Weber

त᳘दाहुः॥
किम᳘यनमि᳘ति स्वय᳘ᳫं᳘ हैॗवैते रा᳘त्री अग्निहोत्रं᳘ जुहुयात्स य᳘द्धुत्वा प्राश्ना᳘ति तेना᳘पितृदेवत्यो भवत्या᳘हुतिर्वा᳘ एषा स य᳘देॗवैता᳘मात्मन्ना᳘हुतिं जुहो᳘ति ते᳘नो एते᳘षाम् मे᳘धानांॗ नाश्नाति॥

मूलम् - विस्वरम्

तदाहु किमयनमिति । स्वयं हैवैते रात्री अग्निहोत्रं जुहुयात् । स यद्धुत्वा प्राश्नाति, तेनापितृदेवत्यो भवति । आहुतिर्वा एषा । स यदेवैतामात्मन्नाहुतिं जुहोति । तेनो एतेषां मेधानां नाश्नाति ॥ ३ ॥

सायणः

अस्य दोषस्य प्रश्नपूर्वकं परिहारमाह- तदाहुः किमयनमिति । अनुष्ठानमार्गः क इति ब्रह्मवादिनां प्रश्नः । अस्योत्तरं श्रुतिराचष्टे- स्वयम् इति । ‘एते रात्री’ “अत्यंतसंयोगे द्वितीया” (पा. सू. २ । १ । २९) । पर्वरात्रौ यजमानः स्वयमेवाग्निहोत्रं जुहुयात् । यजमानो हुतशिष्टं होमानंतरं यत्प्राश्नाति ‘तेन’ प्राशनेन प्रागुदीरितपितृदेवत्यलक्षणदोषस्तस्य न भवति । मेधाशनलक्षणो दोषो ऽपि नास्तीत्याह- आहुतिर्वा एषेति । यदग्निहोत्रहुतशेषभक्षणं, ‘एषा आहुतिः’ खलु । अत एवान्यत्र श्रूयते- “यच्चतुरुन्नयति द्विर्जुहोति, अथ के द्वे आहुती भवत इति, अग्नावेव वैश्वानरे द्वे आहुती जुहोति” इति । यस्मादेतां प्राशनरूपामाहुतिमेव आत्मरूपे वैश्वानरे अग्नौ जुहोति । अतो ऽनेनैव कारणेन एषां प्रागुक्तानां पुरोडाशादीनां यज्ञियसारं न भुक्तवान् भवतीत्यर्थः ॥ ३ ॥

Eggeling
  1. As to this they say, ‘What course of procedure is there?’ Well, let him, on those two nights (of full and new moon), himself offer the Agnihotra: inasmuch as, after offering, he takes food he does not become consecrated to the Fathers, for that (libation) is an offering; and inasmuch as he performs that offering in his own self he does not eat of those sacrificial essences.

०४

विश्वास-प्रस्तुतिः

(त्ये) एते᳘ ह वै रा᳘त्री॥
स᳘र्व्वा रा᳘त्रयः सम᳘वयंति या᳘ ऽआपूर्य्यमाणपक्ष᳘स्य रा᳘त्रयस्ताः स᳘र्व्वाः पौर्णमासी᳘ᳫँ᳘ सम᳘वयन्ति या᳘ ऽअपक्षीयमाणपक्ष᳘स्य रा᳘त्रयस्ताः स᳘र्व्वा ऽअमावा᳘स्याᳫँ᳭ सम᳘वयन्ति स यो᳘ हैवं᳘ व्विद्वा᳘न्त्स्वय᳘मुपवसथे᳘ जुहो᳘ति सर्व्वदा᳘ है᳘वास्य स्वय᳘ᳫँ᳘ हुतं᳘ भवति॥

मूलम् - श्रीधरादि

(त्ये) एते᳘ ह वै रा᳘त्री॥
स᳘र्व्वा रा᳘त्रयः सम᳘वयंति या᳘ ऽआपूर्य्यमाणपक्ष᳘स्य रा᳘त्रयस्ताः स᳘र्व्वाः पौर्णमासी᳘ᳫँ᳘ सम᳘वयन्ति या᳘ ऽअपक्षीयमाणपक्ष᳘स्य रा᳘त्रयस्ताः स᳘र्व्वा ऽअमावा᳘स्याᳫँ᳭ सम᳘वयन्ति स यो᳘ हैवं᳘ व्विद्वा᳘न्त्स्वय᳘मुपवसथे᳘ जुहो᳘ति सर्व्वदा᳘ है᳘वास्य स्वय᳘ᳫँ᳘ हुतं᳘ भवति॥

मूलम् - Weber

एते᳘ ह वै रा᳘त्री॥
स᳘र्वा रा᳘त्रयः सम᳘वयन्ति या᳘ आपूर्यमाणपक्ष᳘स्य रा᳘त्रयस्ताः स᳘र्वाः पौर्णमासी᳘ᳫं᳘ सम᳘वयन्ति या᳘ अपक्षीयमाणपक्ष᳘स्य रा᳘त्रयस्ताः स᳘र्वा अमावाॗस्याᳫं सम᳘वयन्ति स यो᳘ हैवं᳘ विद्वा᳘न्त्स्वय᳘मुपवसथे᳘ जुहो᳘ति सर्वदा᳘ हैॗवास्य स्वय᳘ᳫं᳘ हुत᳘म् भवति॥

मूलम् - विस्वरम्

एते ह वै रात्री सर्वा रात्रयः समवयंति । या अपूर्यमाणपक्षस्य रात्रयः, ताः सर्वाः पौर्णमासीं समवयंति । या अपक्षीयमाणपक्षस्य रात्रयः, ताः सर्वा अमावास्यां समवयंति । स यो हैवं विद्वान् स्वयमुपवसथे जुहोति । सर्वदा हैवास्य स्वयं हुतं भवति ॥ ४ ॥

सायणः

पर्वरात्रौ विहितं स्वयं होमं प्रशंसति- एते ह वै रात्री इति । ‘समवयंति’ संप्राप्नुवंति एकीभवंतीत्यर्थः । या आपूर्यमाणपक्षस्येत्यादि । यस्मिन्पक्षे चंद्रः कलावृद्ध्या क्रमेणापूर्यते स शुक्लपक्ष आपूर्यमाणपक्षः । तस्य याः प्रतिपदादितिथिषु चतुर्दश ‘रात्रयः’ ‘ताः सर्वाः पौर्णमासीं समवयंति’ संप्राप्नुवंति । कलात्ययक्रमेण चंद्रो यस्मिन्नपक्षीयमाणः स अपरपक्षः । तस्य ‘या रात्रयः’ ‘ताः सर्वा अमावास्यां’ प्रविशंति । एवं विदुषः ‘स्वयं’ पर्वणि जुह्वतो यजमानस्य अन्यासु रात्रिषु ऋत्विजा क्रियमाणो ऽपि होमः स्वयं होमः संपद्यत इत्यर्थः ॥ ४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादश काण्डे प्रथमे ऽध्याये सप्तमं ब्राह्मणम् ॥ (११-१-७) ॥

Eggeling
  1. Now all the nights concentrate themselves in these two nights: all the nights of the waxing moon concentrate in the night of full moon, and all the nights of the waning moon concentrate in the night of new moon; and, verily, for him who, knowing this, offers (the Agnihotra) himself on the day of

the entrance on the fast, offering is always made by himself 6.


  1. 20:2 See I, 1, 1, 9. 10. ↩︎

  2. 21:1 That is, he would be liable to die, and join the departed ancestors. ↩︎

  3. 21:2 The layer of sacrificial grass spread on the Vedi, serving as a seat for the deities to whom offering is made. ↩︎

  4. 21:3 For this dish, prepared of sweet and sour milk, and offered at the New-moon sacrifice, see part i, p. 178, note 4. ↩︎

  5. 21:4 For the Praṇītāḥ, see I, 1, 1, 12. ↩︎

  6. 22:1 That is to say, even though on other nights the Agnihotra were performed for him by a priest, it would always count as being performed by himself. ↩︎