०१

विश्वास-प्रस्तुतिः

आ᳓पो ह वा᳓ इद᳓म् अ᳓ग्रे सलिल᳓म् ए᳓वास॥
ता᳓ अकामयन्त

कथं᳓ नु᳓ प्र᳓जायेमहि᳓

इ᳓ति।
ता᳓ अश्राम्यंस्
ता᳓स् त᳓पो ऽतप्यन्त
ता᳓सु त᳓पस् तप्य᳓मानासु
हिरण्म᳓यम् आण्डᳫँ᳭᳓ सं᳓बभूव।
+++(उत्पत्तिम् आरभ्य)+++ अ᳓जातो ह त᳓र्हि संवत्सर᳓ ऽआस।
त᳓द् इद᳓ᳫँ᳓ हिरण्म᳓यम् आण्डं᳓
या᳓वत् संव्वत्सर᳓स्य व्वे᳓ला
ता᳓वत् प᳓र्य्यप्लवत॥

मूलम् - श्रीधरादि

आ᳘पो ह वा᳘ ऽइदम᳘ग्रे सलिल᳘मे᳘वास॥
ता᳘ ऽअकामयन्त कथं नु प्र᳘जायेमही᳘ति ता᳘ ऽअश्राम्यंस्तास्त᳘पो ऽतप्यंत ता᳘सु त᳘पस्तप्य᳘मानासु हिरण्म᳘यमाण्डᳫँ᳭ सं᳘बभूवा᳘जातो ह त᳘र्हि संवत्सर᳘ ऽआस त᳘दिद᳘ᳫँ᳘ हिरण्म᳘यमाण्डं या᳘वत्संव्वत्सर᳘स्य व्वे᳘ला ता᳘वत्प᳘र्य्यप्लवत॥

मूलम् - Weber

आ᳘पो ह वा᳘ इदम᳘ग्रे सलिल᳘मेॗवास॥
ता᳘ अकामयन्त कथं नु प्र᳘जायेमही᳘ति ता᳘ अश्राम्यंस्तास्त᳘पोऽतप्यन्त ता᳘सु त᳘पस्तप्य᳘मानासु हिरण्म᳘यमाण्डᳫं स᳘म्बभूवा᳘जातो ह त᳘र्हि संवत्सर᳘ आस त᳘दिद᳘ᳫं᳘ हिरण्म᳘यमाण्डं या᳘वत्संवत्सर᳘स्य वे᳘ला ता᳘वत्प᳘र्यप्लवत॥

मूलम् - विस्वरम्

सृष्टिब्राह्मणम् ।

आपो ह वा इदम् अग्रे सलिलमेवास । ता अकामयंत । कथं नु प्रजायेमहीति । ता अश्राम्यन् । तास्तपो ऽतप्यंत । तासु तपस्तप्यमानासु हिरण्मयमांडं संबभूव । अजातो ह तर्हि संवत्सर आस । तदिदं हिरण्मयमांडं यावत्संवत्सरस्य वेला तावत्पर्यप्लवत ॥ १ ॥

सायणः

अथ दर्शपूर्णमासयोः सर्वात्मकलक्षणवैराजपदप्राप्तिसाधनतां वक्ष्यन् तदुपोद्घातत्वेनाख्यायिका सुष्टिं प्रतिपादयति- आपो ह वा इदमित्यादि । ‘इदं’ दृश्यमानं सर्वं जगत् ‘आपः’ एव अवात्मकमेव तत्कार्यत्वात् । कथमिति चेत्, उच्यते । ‘अग्रे’ सृष्टेः पूर्वं सर्वात्मकमिदं सर्वं ‘सलिलमेव’ उदकपरिशेषं बभूव । ‘आसेति’ छांदसो भूभावाभावः । आपः ‘अकामयंत’ अभिमानिदेवतापेक्षया अचेतनानामपां कामयितृत्वम् । ‘कथं नु’ केन प्रकारेण विविधजगदात्मना प्रकर्षेण ‘जायेमहीति’ । ‘ताः’ कामयमानाः ‘अश्राम्यन्’ खिन्ना अभूवन् । “श्रमु तपसि खेदे च" (धा. पा. दि. प. ९८) इति धातुः । “शमामष्टानां दीर्घः श्यनि” (पा. सू. ७ । ३ । ७४) इति दीर्घः । ‘ताः’ श्रांताः आपः ‘तपो ऽतप्यंत’ स्रष्टव्यपर्यालोचनरूपं तपः कृतवत्यः । “तपस्तपःकर्मकस्यैव” (पा. सू. ३ । १ । ८८) इति कर्मवद्भावात् यगात्मनेपदे । अखिलजगत्कारणमयस्य प्रजापतेरुपादानस्याण्डस्योत्पत्तिमाह- तासु तपस्तप्यमानास्विति । ‘हिरण्मयं’ हिरण्यस्य विकार इत्यर्थे “दांडिनादिसूत्रे” (पा. सू. ३ । ४ । १७४) निपात्यते । हिरण्यनिर्मितमण्डं अप्सु प्रथमं मयूरकुक्कुटांडवत् ‘संबभूव’ उत्पन्नमभूत् । ‘तर्हि’ तस्मिन् समये संवत्सराख्यः कालो ऽपि ‘अजातः’ अनुत्पन्न एव बभूव । अतः संवत्सराभावात् यावती ‘संवत्सरस्य वेला’ प्रांतः संभाव्यते ‘तावत् पर्यप्लवत’ तदण्डं परिप्लुतमपामुपरि स्थितमासीत् । “प्लुङ् गतौ” (धा. पा. भ्वा. आ. ९८३) इति धातुः ॥ १ ॥

Eggeling
  1. Verily, in the beginning this (universe) was water, nothing but a sea of water. The waters desired, ‘How can we be reproduced?’ They toiled and performed fervid devotions 1, when they were becoming heated, a golden egg was produced. The year, indeed, was not then in existence: this golden egg floated about for as long as the space of a year.
मानसतरङ्गिणीकृत्

Verily, in the beginning of this (universe) were the waters, only an ocean. They [the waters] desired, “Now, how can we be reproduced?” They strove hard and performed tapas. By that tapas, they, becoming heated, produced a golden egg. The year, indeed, was then not in existence; this golden egg floated about for as long as the duration of a year.

०२

विश्वास-प्रस्तुतिः

त᳓तः संवत्सरे᳓ पु᳓रुषः स᳓मभवत्॥
स᳓ प्रजा᳓पतिस्,
त᳓स्माद् उ संवत्सर᳓ एव स्त्री᳓ वा गौ᳓र् वा व्व᳓डवा वा व्वि᳓जायते।
संवत्सरे᳓ हि᳓ प्रजा᳓पतिर् अ᳓जायत।
स᳓ ऽइद᳓ᳫँ᳓ हिरण्म᳓यम् आण्डं᳓ व्यरुजन्न्᳓ आह[[!!]]
त᳓र्हि का᳓चन᳓ प्रति᳓ष्ठा ऽऽस
त᳓द् एन᳓म् इद᳓म् एव᳓ हिरण्म᳓यम् आण्डं᳓
या᳓वत् संव्वत्सर᳓स्य व्वेला᳓ ऽऽसीत्
ता᳓वद् बि᳓भ्रत् प᳓र्य्यप्लवत॥

मूलम् - श्रीधरादि

त᳘तः संवत्सरे पु᳘रुषः स᳘मभवत्[[!!]]॥
(त्स᳘) स᳘ प्रजा᳘पतिस्त᳘स्मादु संवत्सर᳘ ऽएव स्त्री᳘ वा गौ᳘र्वा व्व᳘डवा वा व्वि᳘जायते संवत्सरे हि᳘ प्रजा᳘पतिर᳘जायत स᳘ ऽइद᳘ᳫँ᳘ हिरण्म᳘यमाण्डं᳘ व्यरुजन्ना᳘ह[[!!]] त᳘र्हि का᳘चन᳘ प्रति᳘ष्ठा ऽऽस त᳘देनमिद᳘मेव᳘ हिरण्म᳘यमाण्डं या᳘वत्संव्वत्सर᳘स्य व्वेला᳘ ऽऽसीत्ता᳘वद्बि᳘भ्रत्प᳘र्य्यप्लवत॥

मूलम् - Weber

त᳘तः संवत्सरे पु᳘रुषः सम᳘भवत्॥
स᳘ प्रजा᳘पतिस्त᳘स्मादु संवत्सर᳘ एव स्त्री वा गौ᳘र्वा व᳘डबा वा वि᳘जायते संवत्सरे हि᳘ प्रजा᳘पतिर᳘जायत स᳘ इद᳘ᳫं᳘ 2 हिरण्म᳘यमाण्डं व्य᳘रुजन्ना᳘ह त᳘र्हि का᳘ चन᳘ प्रतिॗष्ठास त᳘देनमिद᳘मेव᳘ हिरण्म᳘यमाण्डं या᳘वत्संवत्सर᳘स्य वेला᳘सीत्ता᳘वद्बि᳘भ्रत्प᳘र्यप्लवत॥

मूलम् - विस्वरम्

ततः संवत्सरे पुरुषः समभवत्, स प्रजापतिः । तस्मादु संवत्सर एव स्त्री वा गौर्वा वडवा वा विजायते । संवत्सरे हि प्रजापतिरजायत । स इदं हिरण्मयमांडं व्यरुजत । नाह तर्हि काचन प्रतिष्ठा ऽऽस । तदेनमिदमेव हिरण्मयमांडं यावत्संवत्सरस्य वेला ऽऽसीत्तावद्बिभ्रत्पर्यप्लवत ॥ २ ॥

सायणः

ततस्तस्मादण्डात् संवत्सरकाले गते सति ‘पुरुषः’ शरीरी कश्चित् ‘समभवत्’ उदपद्यत । ‘सः’ पुरुषः ‘प्रजापतिः’ । लोके शरीरिण उत्पत्तिः अत एव हेतोः संवत्सरकालसाध्या दृश्यत इत्याह- तस्मादु संवत्सर एवेति । यस्मात् प्रजापतिसृष्टिरुक्तविधा तस्मात् लोके ऽपि स्त्र्यादिः संवत्सरपर्यंतं गर्भाशयस्थाने अण्डरूपेण गर्भं धृत्वा तदवसाने ‘विजायते’ विविधं शरीरद्वयरूपेण उत्पद्यते । संवत्सरे हीत्युक्तस्य कारणस्य पुनर्योजनम् । स इदं हिरण्मयमित्यादि । ‘सः’ उत्पन्नः प्रजापतिः ‘इदं हिरण्मयं’ स्वाश्रयभूतमाण्डं ‘व्यरुजत्’ भग्नं कृतवान् । “रुजो भंगे’ (धा. पा. तु. प. १३५) इति धातुः । ‘तर्हि’ तस्मिन् संवत्सरमये समये आश्रयभूतस्य आण्डस्य विरुग्णत्वात् ‘तस्य’ प्रजापतेः ‘प्रतिष्ठा’ आस्पदम् ‘काचन’ किमपि ‘नैवास’ न बभूव । स च निराधारत्वात् स्थातुमशक्नुवन् इदमेव भिन्नं हिरण्मयमाण्डं पुनः संवत्सरपर्यंतं बिभ्रद्धारयन् तास्वेव अप्सु ‘पर्यप्लवत’ ॥ २ ॥

Eggeling
  1. In a year’s time a man, this Prajāpati, was produced therefrom; and hence a woman, a cow, or a mare brings forth within the space of a year; for Prajāpati was born in a year. He broke open this golden egg. There was then, indeed, no resting-place: only this golden egg, bearing him, floated about for as long as the space of a year.

०३

विश्वास-प्रस्तुतिः

स᳘ सम्वत्सरे व्या᳘जिहीर्षत्॥
(त्स) स भूरि᳘ति व्या᳘हर᳘त्सेय᳘म्पृथिव्य᳘भवद्भु᳘व ऽइ᳘ति त᳘दिद᳘मन्त᳘रिक्षमभव᳘त्स्वरि᳘ति᳘[[!!]] सा ऽसौ द्यौ᳘रभवत्त᳘स्मादु सम्वत्सर᳘ ऽएव᳘ कुमारो व्या᳘जिहीर्षति संवत्सरे हि᳘ प्रजा᳘पतिर्व्या᳘हरत्॥

मूलम् - श्रीधरादि

स᳘ सम्वत्सरे व्या᳘जिहीर्षत्॥
(त्स) स भूरि᳘ति व्या᳘हर᳘त्सेय᳘म्पृथिव्य᳘भवद्भु᳘व ऽइ᳘ति त᳘दिद᳘मन्त᳘रिक्षमभव᳘त्स्वरि᳘ति᳘[[!!]] सा ऽसौ द्यौ᳘रभवत्त᳘स्मादु सम्वत्सर᳘ ऽएव᳘ कुमारो व्या᳘जिहीर्षति संवत्सरे हि᳘ प्रजा᳘पतिर्व्या᳘हरत्॥

मूलम् - Weber

स᳘ संवत्सरे व्या᳘जिहीर्षत्॥
स भूरि᳘ति व्या᳘हरॗत्सेय᳘म् पृथिव्य᳘भवद्भु᳘व इ᳘ति त᳘दित᳘मन्त᳘रिक्षमभवत्स्व᳘रि᳘ति सासौ द्यौ᳘रभवत्त᳘स्मादु संवत्सर᳘ एव᳘ कुमारो व्या᳘जिहीर्षति संवत्सरे हि᳘ प्रजा᳘पतिर्व्या᳘हरत्॥

मूलम् - विस्वरम्

स संवत्सरे व्याजिहीर्षत् । स भूरिति व्याहरत् । सेयं पृथिव्यभवत् । भुव इति । तदिदमंतरिक्षमभवत् । स्वरिति । सा ऽसौ द्यौरभवत् । तस्मादु संवत्सर एव कुमारो व्याजिहीर्षति । संवत्सरे हि प्रजापतिर्व्याहरत् ॥ ३ ॥

सायणः

‘सः’ प्रजापतिरुत्पत्त्यनंतरं ‘संवत्सरे’ गते सति ‘व्याजिहीर्षत्’ व्याहर्तुं भाषितुमैच्छत् । “हृञ् हरणे” (धा. पा. भ्वा. उ. ८) इत्यस्मात् इच्छासन्नंतात् लङ् । प्रथमं लोकत्रयसृष्टिमाह- भूरिति व्याहरदित्यादिना । भूर्भुवः स्वरित्येतत्पदत्रयं क्रमेण व्याहृतं सत् स्ववाच्यपृथिव्याद्यात्मना जातमित्यर्थः । भुव इति स्वरित्युभयत्र व्याहरदित्यनुषंगः । तस्मादिति पूर्ववल्लोकप्रसिद्धेरुपपादनम् ॥ ३ ॥

Eggeling
  1. At the end of a year he tried to speak. He said ‘bhūḥ’: this (word) became this earth;–‘bhuvaḥ’: this became this air;–‘svaḥ’: this became yonder sky. Therefore a child tries to

speak at the end of a year, for at the end of a year Prajāpati tried to speak.

०४

विश्वास-प्रस्तुतिः

(त्स) स वा᳘ ऽएकाक्षरद्व्यक्षरा᳘ण्येव᳘॥
प्रथमं व्व᳘दन्प्रजा᳘पतिरवदत्त᳘स्मादे᳘काक्षरद्व्यक्षरा᳘ण्येव᳘ प्रथमं व्व᳘दन्कुमारो᳘ व्वदति॥

मूलम् - श्रीधरादि

(त्स) स वा᳘ ऽएकाक्षरद्व्यक्षरा᳘ण्येव᳘॥
प्रथमं व्व᳘दन्प्रजा᳘पतिरवदत्त᳘स्मादे᳘काक्षरद्व्यक्षरा᳘ण्येव᳘ प्रथमं व्व᳘दन्कुमारो᳘ व्वदति॥

मूलम् - Weber

स वा᳘ एकाक्षरद्व्यक्षरा᳘ण्येव᳟॥
प्रथमं व᳘दन्प्रजा᳘पतिरवदत्त᳘स्मादेकाक्षरद्व्यक्षरा᳘ण्येव᳘ प्रथमं व᳘दन्कुमारो᳘ वदति॥

मूलम् - विस्वरम्

स वा एकाक्षराद्व्यक्षराण्येव प्रथमं वदन् प्रजापतिरवदत् । तस्मादेकाक्षरद्व्यक्षराण्येव प्रथमं वदन् कुमारो वदति ॥ ४ ॥

सायणः

प्रजापत्युक्तेः कुमारोक्तेश्चान्यदपि साम्यं कार्यकारणभावेन प्रतिपादयति- स वा इति । भूरित्येकाक्षरं ततो भुवः स्वरिति च अक्षरद्वयात्मकमेव ‘प्रथमं वदन्’ भाषमाणः सः ‘प्रजापतिरवदत्’ अन्यत्सर्वमुक्तवान् । तस्मादेव कारणात् कुमारो ऽपि “तात” इत्येवंरूपाणि ‘एकाक्षरद्व्यक्षराण्येव’ पदानि ‘प्रथमं भाषमाणः ‘वदति’ ॥ ४ ॥

Eggeling
  1. When he was first speaking Prajāpati spoke (words) of one syllable and of two syllables; whence a child, when first speaking, speaks (words) of one syllable and of two syllables.

०५

विश्वास-प्रस्तुतिः

ता᳘नि वा᳘ ऽएता᳘नि प᳘ञ्चाक्ष᳘राणि॥ तान्प᳘ञ्चर्तू᳘नकुरुत त᳘ ऽइमे प᳘ञ्चर्त᳘वः स᳘ ऽएव᳘मिमां᳘ल्लोका᳘ञ्जाता᳘न्त्संवत्सरे᳘ प्रजा᳘पतिरभ्यु᳘दतिष्ठत्त᳘स्मादु संवत्सर᳘ ऽएव᳘ कुमार ऽउ᳘त्तिष्ठासति संवत्सरे हि᳘ प्रजा᳘पतिरुद᳘तिष्ठत्॥

मूलम् - श्रीधरादि

ता᳘नि वा᳘ ऽएता᳘नि प᳘ञ्चाक्ष᳘राणि॥ तान्प᳘ञ्चर्तू᳘नकुरुत त᳘ ऽइमे प᳘ञ्चर्त᳘वः स᳘ ऽएव᳘मिमां᳘ल्लोका᳘ञ्जाता᳘न्त्संवत्सरे᳘ प्रजा᳘पतिरभ्यु᳘दतिष्ठत्त᳘स्मादु संवत्सर᳘ ऽएव᳘ कुमार ऽउ᳘त्तिष्ठासति संवत्सरे हि᳘ प्रजा᳘पतिरुद᳘तिष्ठत्॥

मूलम् - Weber

ता᳘नि वा !एता᳘नि॥
प᳘ञ्चाक्ष᳘राणि तान्प᳘ञ्चर्तू᳘नकुरुत त᳘ इमे प᳘ञ्चर्त᳘वः स᳘ एव᳘मिमां᳘लोका᳘न्जाता᳘न्त्संवत्सरे᳘ प्रजा᳘पतिरभ्यु᳘दतिष्ठत्त᳘स्मादु संवत्सर᳘ एव᳘ कुमार उ᳘त्तिष्ठासति संवत्सरे हि᳘ प्रजा᳘पतिरुद᳘तिष्ठत्॥

मूलम् - विस्वरम्

तानि वा एतानि पंचाक्षराणि । तान्पंच ऋतूनकुरुत । त इमे पंच ऋतवः । स एवमिमान् लोकान् जातान् संवत्सरे प्रजापतिरभ्युदतिष्ठत् । तस्मादु संवत्सर एव कुमार उत्तिष्ठासति । संवत्सरे हि प्रजापतिरुदतिष्ठत् ॥ ५ ॥

सायणः

ऋतुसृष्टिमाह- तानि वा इति । भुर्भुवः स्वरिति ‘तान्येतानि पंचाक्षराणि’ ‘तान्’ प्रसिद्धान् वसंताद्यान् ‘पञ्च ऋतूनकुरुत’ । हेमंतशिशिरयोः समासाभिप्रायेण पंचसंख्या । अतस्तैः पंचभिरक्षरैः सृष्टाः ‘त एव’ प्रसिद्धा वसंताद्याः ‘पंचर्तवः’ पूर्वसृष्टेषु त्रिषु लोकेषु वर्तंते । ‘सः’ परिप्लवमानः ‘प्रजापतिः’ एकस्मिन् ‘संवत्सरे’ गते सति आंडं विहाय ‘इमान्’ सृष्टान् पृथिव्यादिलोकान् अवलंब्य ‘उदतिष्ठत्’ ऊर्ध्वं स्थितवान् । यस्मादेवं प्रजापतिः, तस्मादेव कारणात् जन्मानंतरं संवत्सरकाले गत एव ‘कुमारः’ बालः ‘उत्तिष्ठासति’ उत्थातुमिच्छति । संवत्सरे हीत्युक्ते ऽर्थे कारणयोजनम् ॥ ५ ॥

Eggeling
  1. These (three words consist of), five syllables: he made them to be the five seasons, and thus there are these five seasons. At the end of the (first) year, Prajāpati rose to stand on these worlds thus produced; whence a child tries to stand up at the end of a year, for at the end of a year Prajāpati stood up.

०६

विश्वास-प्रस्तुतिः

(त्स) स᳘ सह᳘स्रायुर्ज्जज्ञे॥
स य᳘था नद्यै᳘ पारं᳘ पराप᳘श्येदेवᳫँ᳭ स्वस्या᳘युषः पारं प᳘राचख्यौ॥

मूलम् - श्रीधरादि

(त्स) स᳘ सह᳘स्रायुर्ज्जज्ञे॥
स य᳘था नद्यै᳘ पारं᳘ पराप᳘श्येदेवᳫँ᳭ स्वस्या᳘युषः पारं प᳘राचख्यौ॥

मूलम् - Weber

स᳘ सह᳘स्रायुर्जज्ञे॥
स य᳘था नद्यै᳘ पार᳘म् पराप᳘श्येदेवᳫं स्वस्या᳘युषः पारम् प᳘राचख्यौ॥

मूलम् - विस्वरम्

स सहस्रायुर्जज्ञे । स यथा नद्यै पारं परापश्येत् एवं स्वस्यायुषः पारं पराचख्यौ ॥ ६ ॥

सायणः

स सहस्रायुरित्यादि । ‘सः’ प्रजापतिः ‘सहस्रायुः’ सहस्रसंवत्सरजीवनोपेतः ‘जज्ञे’ जातो बभूव । “जनी प्रादुर्भावे” (धा. पा. दि. आ. ४३) इत्यस्माल्लिट् । यथा दूरदर्शी अत्यंतं विस्तृतायाः ‘नद्याः’ ‘पारं’ परतीरं ‘परापश्यति’ एवं प्रजापतिरपि सहस्रसंवत्सररूपस्य स्वकीयस्यायुषः पारमवसानं ‘पराचख्यौ’ परागतेन दूरगमनशीलेन मनसा ददर्श ॥ ६ ॥

Eggeling
  1. He was born with a life of a thousand years: even as one might see in the distance the opposite shore, so did he behold the opposite shore (the end) of his own life.

०७

विश्वास-प्रस्तुतिः

सो᳘ ऽर्च्चञ्छ्रा᳘म्यँश्चचार प्रजा᳘कामः॥
स᳘ ऽआत्म᳘न्येव प्र᳘जातिमधत्त स᳘ ऽआ᳘स्येनैव᳘ देवा᳘नसृजत ते᳘ देवा दि᳘वमभिप᳘द्यासृज्यंत त᳘द्देवा᳘नां देवत्वं यद्दि᳘वमभिपद्या᳘सृज्यन्त त᳘स्मै ससृजाना᳘य दि᳘वेवास त᳘द्वेव᳘ देवा᳘नां देवत्वं य᳘द᳘स्मै ससृजाना᳘य दि᳘वेवास[[!!]]॥

मूलम् - श्रीधरादि

सो᳘ ऽर्च्चञ्छ्रा᳘म्यँश्चचार प्रजा᳘कामः॥
स᳘ ऽआत्म᳘न्येव प्र᳘जातिमधत्त स᳘ ऽआ᳘स्येनैव᳘ देवा᳘नसृजत ते᳘ देवा दि᳘वमभिप᳘द्यासृज्यंत त᳘द्देवा᳘नां देवत्वं यद्दि᳘वमभिपद्या᳘सृज्यन्त त᳘स्मै ससृजाना᳘य दि᳘वेवास त᳘द्वेव᳘ देवा᳘नां देवत्वं य᳘द᳘स्मै ससृजाना᳘य दि᳘वेवास[[!!]]॥

मूलम् - Weber

सो᳘ऽर्चञ्छ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
स᳘ आत्म᳘न्येव प्र᳘जातिमधत्त स᳘ आॗस्येनैव᳘ देवा᳘नसृजत ते᳘ देवा दि᳘वमभिप᳘द्यासृज्यन्त त᳘द्देवा᳘नां देवत्वं यद्दि᳘वमभिपद्या᳘सृज्यन्त त᳘स्मै ससृजाना᳘य दि᳘वेवास त᳘द्वेव᳘ देवा᳘नां देवत्वं य᳘दस्मै ससृजाना᳘य दि᳘वेवा᳘स॥

मूलम् - विस्वरम्

सो ऽर्चन् श्राम्यंश्चचार प्रजाकामः । स आत्मन्येव प्रजातिमधत्त । स आस्येनैव देवानसृजत । ते देवा दिवमभिपद्यासृज्यंत । तद्देवानां देवत्वम्, यद्दिवमभिपद्यासृज्यंत । तस्मै ससृजानाय दिवेव आस । तद्वेव देवानां देवत्वं, यदस्मै ससृजानाय दिवेव आस ॥ ७ ॥

सायणः

ततः ‘सः’ प्रजापतिः स्वकीयस्यायुषः परिच्छेदं जानन्, ततः प्रागेव प्रजासर्जनरूपं कृत्स्नं स्वकार्यं निर्वर्तयितुकामः ‘अर्चन्’ स्वकर्तव्यं परामृशन् ‘श्राम्यन्’ तच्चिंतनेन श्रांतश्च सन् ‘चचार’ ववृते । ततः ‘स आत्मनि’ स्वशरीरे ‘एव’ ‘प्रजातिं’ प्रजोत्पत्तिसाधनं योनिं ‘अधत्त’ । ततः ‘स आस्येन’ मुखेनैव ‘देवानसृजत’ । ‘ते देवाः’ ‘दिवं’ द्युलोकमभिपद्य अवष्टभ्य ‘असृज्यंत’ सृष्टा अभवन् । यस्माद्दिवमभिपन्नास्ते तस्मात् द्युसंबंधात् तेषां ‘देवानां देवत्वं’ देवशब्दाभिधेयता संपन्ना । यस्मादेव दिवो ऽभिपदनात् । ‘ससृजानाय’ देवान् सृष्टवते ‘तस्मै’ प्रजापतये सा देवसृष्टिः ‘दिवेव आस’ प्रकाश इव बभूव ॥ ७ ॥

Eggeling
  1. Desirous of offspring, he went on singing praises and toiling. He laid the power of reproduction into his own self. By (the breath of) his mouth he created the gods: the gods were created on entering the sky; and this is the godhead of the gods (deva) that they were created on entering the sky (div). Having created them, there was, as it were, daylight for him; and this also is the godhead of the gods that, after creating them, there was, as it were, daylight (diva) for him.

०८ असुर-तमः

विश्वास-प्रस्तुतिः

अ᳓थ यो᳙ ऽयम् अ᳓वाङ् प्राणस्᳓,
ते᳓ना᳓सुरान् असृजत,
त᳓ ऽइमा᳓म् एव᳓ पृथिवी᳓म् अभिप᳓द्यासृज्यन्त।
त᳓स्मै ससृजाना᳓य त᳓म ऽइ᳓वास॥

मूलम् - श्रीधरादि

(सा᳘ ऽथ᳘) अ᳘थ᳘ यो ऽयम᳘वाङ्प्राणः[[!!]]॥
(स्ते) तेना᳘सुरानसृजत त᳘ ऽइमा᳘मेव᳘ पृथिवी᳘मभिप᳘द्यासृज्यंत त᳘स्मै ससृजाना᳘य त᳘म ऽइवास᳘॥

मूलम् - Weber

अ᳘थॗ योऽयम᳘वाङ् प्राणः᳟॥
तेना᳘सुरानसृजत त᳘ इमा᳘मेव᳘ पृथिवी᳘मभिप᳘द्यासृज्यन्त त᳘स्मै ससृजाना᳘य त᳘म इवास॥

मूलम् - विस्वरम्

अथ यो ऽयमवाङ्प्राणः, तेनासुरानसृजत । त इमामेव पृथिवीमभिपद्यासृज्यंत । तस्मै ससृजानाय तम इवास ॥ ८ ॥

सायणः

असुरसृष्टिमाह- अथ यो ऽयमिति । ‘अथ’ देवसृष्ट्यनंतरं यो ऽयमवाङ्मुखो गुदाख्यः ‘प्राणः’ ‘तेनासुरान्’ प्रजापतिरसृजत । ते सृज्यमानाः ‘इमां’ पृथिवीमेव अभिपद्याभिप्राप्य ‘असृज्यंत’ । ‘तस्मै ससृजानाय’ असुरान् सृष्टवते प्रजापतये सा असुरसृष्टिः ‘तम इव’ अंधकार इव बभूव ॥ ८ ॥

Eggeling
  1. And by the downward breathing he created the Asuras: they were created on entering this earth. Having created them there was, as it were, darkness for him.

०९

विश्वास-प्रस्तुतिः

सो᳙ऽवेत्॥
“पाप्मा᳓नं वा᳓ असृक्षि,
य᳓स्मै मे ससृजाना᳓य त᳓म इवा᳓भूद्” इ᳓ति।
तां᳓स् त᳓त एव᳓ पाप्म᳓ना ऽविध्यत्।
ते᳓ त᳓त एव᳓ प᳓राभवंस्,
त᳓स्माद् आहुर्

“नै᳙त᳓द् अस्ति य᳓द् दैवासुरं᳓ +++(युद्धं)+++
य᳓द् इद᳓म् अन्वाख्या᳓ने त्वद्+++(=एकं)+++ उद्य᳓त,
इतिहासे᳓ त्वत्+++(=एकं)+++।
+++(कुतश्चेत् -)+++ त᳓तो ह्य्᳙ एव᳓
ता᳓न् प्रजा᳓पतिः पाप्मना᳓विध्यत्,
ते त᳓त एव᳓ परा᳓भवन्न्”

इ᳓ति॥

मूलम् - श्रीधरादि

सो ऽवेत्॥
(त्पा) पाप्मा᳘नं वा᳘ ऽअसृक्षि य᳘स्मै मे ससृजाना᳘य त᳘म ऽइवा᳘भूदि᳘ति ताँस्त᳘त ऽएव᳘ पाप्म᳘ना ऽविध्यत्ते त᳘त ऽएव प᳘राभवंस्त᳘स्मादाहु᳘र्न्नैत᳘दस्ति य᳘द्दैवासुरं य᳘दिद᳘मन्वाख्या᳘ने त्वदुद्य᳘त ऽइतिहासे᳘ त्वत्त᳘तो᳘ ह्येव ता᳘न्प्रजा᳘पतिः पाप्मना᳘ ऽविध्यत्ते त᳘त ऽएव᳘ परा᳘भवन्नि᳘ति॥

मूलम् - Weber

सोऽवेत्॥
पाप्मा᳘नं वा᳘ असृक्षि य᳘स्मै मे ससृजाना᳘य त᳘म इवा᳘भूदि᳘ति तांस्त᳘त एव᳘ पाप्म᳘नाविध्यत्ते त᳘त एव प᳘राभवंस्त᳘स्मादाहुॗर्नैत᳘दस्ति य᳘द्दैवासुरं य᳘दिद᳘मन्वाख्या᳘ने त्वदुद्य᳘त इतिहासे᳘ त्वत्त᳘तोॗ ह्येव ता᳘न्प्रजा᳘पतिः पाप्मना᳘विध्यत्ते त᳘त एव᳘ परा᳘भवन्नि᳘ति॥

मूलम् - विस्वरम्

सो ऽवेत् । पाप्मानं वा असृक्षि । यस्मै मे ससृजानाय तम इवाभूदिति । तांस्तत एव पाप्मना अविध्यत् । ते तत एव पराभवन् । तस्मादाहुः । नैतदस्ति । यद्दैवासुरम् । यदिदमन्वाख्याने त्वत् । उद्यत इतिहासे त्वत् । ततो ह्येव तान्प्रजापतिः पाप्मना अविध्यत् । ते तत एव पराभवन्निति ॥ ९ ॥

सायणः

ततः ‘सः’ प्रजापतिः ‘अवेत्’ अजानात् । पापमेव खलु अहमसृक्षि सृष्टवानस्मि, ‘यस्मै’ सृष्टवते ‘मे’ इयमसुरसृष्टिस्तम इवाभूत् अंधकार इव सर्वस्यावरणशीला अभूदिति । एवं पर्यालोच्य तानसुरान् ‘तत एव’ तेनैव तमोरूपेण ‘पाप्मना’ ‘अविध्यत्’ विद्धांस्ताडितानकुरुत । ‘ते’ असुरास्तत एव तमसा विद्धाः पराभवं प्राप्ताः । यत एवं प्रजापतिना सृष्टिसमये एव निराकृता असुराः । ‘तस्मात्’ कारणात् ‘आहुः’ अभिज्ञाः कथयंति- नैतदस्तीत्यादि । ‘यद्दैवासुरं’ देवांश्चासुरांश्चाधिकृत्य प्रवृत्तं युद्धादिकं यदस्ति तन्नैवास्ति । कुत्र तर्हि दैवासुरस्य व्यापारस्य प्रतिपादनमिति । ‘अन्वाख्याने’ सृष्ट्यनुक्रमकथनरूपे ऽस्मिन् ब्रह्मणे यदिदं देषैः सार्द्धं असुरसृष्टिप्रतिपादनम् । ‘त्वत्’ एकं तावत् इदमन्यत्राप्युपपद्यते । अत्र प्रवृत्ते ‘इतिहासे’ यत् दैवासुरादिप्रतिपादनम् । ‘त्वत्’ एकमिदम् । तदुभयं नैवास्तीत्यत्र उक्तमर्थं हेतुत्वेन योजयति- ततो ह्येव तानिति । सृष्टिसमय एव पापवेधेन तेषां पराभूतत्वादित्यर्थः ॥ ९ ॥

Eggeling
  1. He knew, ‘Verily, I have created evil for myself since, after creating, there has come to be, as it were, darkness for me.’ Even then he smote them with evil, and owing to this it was that they were overcome; whence people say, ‘Not true is that regarding (the fight between) the gods and Asuras which is related partly in the tale and partly in the legend; for it was even then that Prajāpati smote them with evil, and it was owing to this that they were overcome.’

१० कथा-माया

विश्वास-प्रस्तुतिः

त᳘स्माद् एत᳓द् ऋ᳓षिणा ऽभ्य᳓नूक्तम्॥

न᳓ त्वं᳓ युयुत्से कतम᳓च्+++(=किमपि)+++ च ना᳓हर् +++(=न हतवान्)+++
न᳓ तेऽमि᳓त्रो मघवन् क᳓श्चनास्ति॥
माये᳓त् सा᳓ ते या᳓नि युद्धा᳓न्य् आहु᳓र्
ना᳓द्य᳓ श᳓त्रुं न᳓ नु᳓ पुरा᳓ युयुत्से

+इ᳓ति॥

मूलम् - श्रीधरादि

त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
(न्न) न त्वं᳘ युयुत्से कतम᳘च्च ना᳘हर्न्न᳘ ते ऽमि᳘त्रो मघवन् क᳘श्च᳘नास्ति। मायेत्सा᳘ ते या᳘नि युद्धा᳘न्याहु᳘र्न्नाद्य श᳘त्रून्ननु[[!!]] पुरा᳘ युयुत्स ऽइ᳘ति॥

मूलम् - Weber

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
न त्वं᳘ युयुत्से कतम᳘च्चना᳘हर्न᳘ तेऽमि᳘त्रो मघवन्क᳘श्चनास्ति॥
मायेत्सा᳘ ते या᳘नि युद्धा᳘न्याहुॗर्नाद्य श᳘त्रुं न नु᳘ पुरा᳘ युयुत्स इ᳘ति॥

मूलम् - विस्वरम्

तस्मादेतदृषिणा ऽभ्यनूक्तम्- “न त्वं युयुत्से कतमच्च नाहर्न्न ते ऽमित्रो मघवन् कश्चनास्ति । मायेत्सा ते यानि युद्धान्याहुर्न्नाद्य शत्रून्ननु पुरा युयुत्से” इति ॥ १० ॥

सायणः

उक्तार्थदार्ढ्याय ऋचमपि संवादयति- तस्मादेतदृषिणा ऽभ्यनूक्तमिति । ऋषिर्मंत्रः । स च “न त्वं युयुत्से” इत्यादिका 3 ऋक् । हे इन्द्र ! ‘त्वं न युयुत्से’ युद्धं न कृतवान् । त्वत्प्रतिभटानामसुराणामभावात् । ‘कतमच्च’ किमपि शत्रुसैन्यं ‘नाहः’ नावधीः । हे मघवन्निंद्र ! ‘ते’ तव प्रकृतसृष्टिः ‘अमित्रः’ शत्रुः ‘कश्चन’ को ऽपि नास्ति । वृत्रादिभिरसुरैः सह यानि तव युद्धान्याहुः सा ‘मायेत्’ इच्छब्दो ऽवधारणे, तत् मायामात्रम्, न पारमार्थिकम् । तत् कुत इति चेत् ? उच्यते- अद्यास्मिन् काले ‘पुरा’ पूर्वकाले ऽपि त्वं शत्रून् ‘न युयुत्से’ न प्रहृतवानसि । “युध संप्रहारे” (धा. पा. दि. आ. ६७) इति धातुः ॥ १० ॥

Eggeling
  1. Therefore it is with reference to this that the R̥shi has said, ‘Not for a single day hast thou fought, nor hast thou any enemy, O Maghavan illusion is what they say concerning thy battles; no foe hast thou fought either to-day or aforetime.’

११

विश्वास-प्रस्तुतिः

स य᳘दस्मै देवा᳘न्त्ससृजाना᳘य॥
दि᳘वेवा᳘स तद᳘हरकुरुता᳘थ य᳘दस्मा ऽअ᳘सुरान्त्ससृजाना᳘य त᳘म ऽइवा᳘स ताᳫँ᳭ रा᳘त्रिमकुरुत ते᳘ ऽअहोरात्रे[[!!]]॥

मूलम् - श्रीधरादि

स य᳘दस्मै देवा᳘न्त्ससृजाना᳘य॥
दि᳘वेवा᳘स तद᳘हरकुरुता᳘थ य᳘दस्मा ऽअ᳘सुरान्त्ससृजाना᳘य त᳘म ऽइवा᳘स ताᳫँ᳭ रा᳘त्रिमकुरुत ते᳘ ऽअहोरात्रे[[!!]]॥

मूलम् - Weber

स य᳘दस्मै देवा᳘न्त्ससृजाना᳘य॥
दि᳘वेवा᳘स तद᳘हरकुरुता᳘थ य᳘दस्मा अ᳘सुरान्त्ससृजाना᳘य त᳘म इवा᳘स तां रा᳘त्रिमकुरुत ते᳘ अहोरात्रे᳟॥

मूलम् - विस्वरम्

यदस्मै देवान् ससृजानाय दिवेव आस । तदहरकुरुत । अथ यदस्मा असुरान् ससृजानाय तम इवास । तां रात्रिमकुरुत । ते अहोरात्रे ॥ ११ ॥

सायणः

अथ प्रकृतसृष्टिमनुसरति- स यदस्मा इति । ‘देवान्’ सृष्टवते ‘अस्मै’ प्रजापतये ‘यद्दिवेव’ प्रकाश इव बभूव । ‘सः’ प्रजापतिः ‘तदहरकुरुत’ । असुरसृष्टिसमये ‘यत्तमः’ आसीत् । ‘तां रात्रिमकुरुत’ । एवं देवासुरसृष्टिभ्यामेव ‘ते अहोरात्रे’ सृष्टे भवत इत्यर्थः ॥ ११ ॥

Eggeling
  1. Now what daylight, as it were, there was for him, on creating the gods, of that he made the day; and what darkness, as it were, there was for him, on creating the Asuras, of that he made the night: they are these two, day and night.

१२

विश्वास-प्रस्तुतिः

स᳘ ऽऐक्षत प्रजा᳘पतिः॥
स᳘र्व्वं वा᳘ ऽअत्सारिषं य᳘ ऽइमा᳘ देव᳘ता ऽअ᳘सृक्षी᳘ति स᳘ सर्व्वत्स᳘रो ऽभवत्सर्व्वत्सरो᳘ ह वै ना᳘मैतद्य᳘त्सम्वत्सर ऽइ᳘ति स यो᳘ हैव᳘मेत᳘त्सम्वत्सर᳘स्य सर्व्व᳘त्सरत्वं व्वे᳘द यो᳘ हैनम्पाप्मा᳘ माय᳘या त्स᳘रति न᳘ हैन᳘ᳫँ᳘ सो ऽभि᳘भवत्य᳘थ य᳘मभिच᳘रत्यभि᳘ है᳘वैनं भवति य᳘ ऽएवमेत᳘त्सम्वत्सर᳘स्य सर्व्वत्सरत्वं व्वे᳘द॥

मूलम् - श्रीधरादि

स᳘ ऽऐक्षत प्रजा᳘पतिः॥
स᳘र्व्वं वा᳘ ऽअत्सारिषं य᳘ ऽइमा᳘ देव᳘ता ऽअ᳘सृक्षी᳘ति स᳘ सर्व्वत्स᳘रो ऽभवत्सर्व्वत्सरो᳘ ह वै ना᳘मैतद्य᳘त्सम्वत्सर ऽइ᳘ति स यो᳘ हैव᳘मेत᳘त्सम्वत्सर᳘स्य सर्व्व᳘त्सरत्वं व्वे᳘द यो᳘ हैनम्पाप्मा᳘ माय᳘या त्स᳘रति न᳘ हैन᳘ᳫँ᳘ सो ऽभि᳘भवत्य᳘थ य᳘मभिच᳘रत्यभि᳘ है᳘वैनं भवति य᳘ ऽएवमेत᳘त्सम्वत्सर᳘स्य सर्व्वत्सरत्वं व्वे᳘द॥

मूलम् - Weber

स᳘ ऐक्षत प्रजा᳘पतिः॥
स᳘र्वं वा᳘ अत्सारिषं य᳘ इमा᳘ देव᳘ता अ᳘सृक्षी᳘ति स᳘ संवत्सॗरोऽभवत्संवत्सरो᳘ ह वै ना᳘मैतद्य᳘त्संवत्सर इ᳘ति स यो᳘ हैव᳘मेत᳘त्संवत्सर᳘स्य संवत्सरत्वं वे᳘द यो᳘ हैनम् पाप्मा᳘ माय᳘या त्स᳘रति न᳘ हैॗनᳫं सोऽभि᳘भवत्य᳘थ य᳘मभिच᳘रत्यभि हैॗवैनम् भवति य᳘ एव᳘मेत᳘त्संवत्सर᳘स्य संवत्सरत्वं वे᳘द॥

मूलम् - विस्वरम्

स ऐक्षत प्रजापतिः, सर्वं वा अत्सारिषं य इमा देवता असृक्षीति- स सर्वत्सरो ऽभवत् । सर्वत्सरो ह वै नामैतद्यत्संवत्सर इति । स यो हैवमेतत्संवत्सरस्य सर्वत्सरत्वं वेद । यो हैनं पाप्मा मायया त्सरति, न हैनं सो ऽभिभवति । अथ यमभिचरति, अभि हैवैनं भवति, य एवमेतत्संवत्सरस्य सर्वत्सरत्वं वेद ॥ १२ ॥

सायणः

अहोरात्रसमुदायरूपस्य संवत्सरस्य सृष्टिमाह- स ऐक्षतेति । ईक्षणप्रकारमाह- सर्वं वा इति । यः अहं ‘इमा देवताः’ ‘असृक्षि’ सृष्टवानस्मि सो ऽहं ‘सर्वं’ स्रष्टव्यं कृत्स्नं जगत् ‘अत्सारिषं’ छद्मगत्या प्राप्तवानस्मि । ‘त्सर छद्मगतौ’ (धा. पा. भ्वा. प. ५५५) इति धातुः । यस्मादेव ‘सर्वं वा अत्सारिषं’ इत्यवबोधयत् । तस्मात् ‘सः’ प्रजापतिः ‘सर्वत्सरः’ अभवत् । स एव हि परोक्षवृत्त्या ‘संवत्सर’ इत्युच्यते । एतद्वेदनस्य फलमाह- स यो हैवमिति । एवमुक्तप्रकारेण । यो हैनमित्यादि । ‘यः’ खलु ‘एनं’ वेदितारं ‘पाप्मा’ पापरूपया ‘मायया’ मिथ्याकरणशक्त्या ‘त्सरति’ कौटिल्येन गच्छति । ‘स एनं’ वेदितारं ‘नैवामिभवति’ बाधितुं शक्नोति । अथ वेदिता यं शत्रुं बाधितुमिच्छति, तमेनं शत्रुं स्वयमभिभवत्येव । य एवमेतदिति प्रतिज्ञातार्थनिगमनम् ॥ १२ ॥

Eggeling
  1. Prajāpati bethought himself, ‘Everything (sarva), indeed, I have obtained by stealth (tsar) who have created these deities:’ this became the ‘sarvatsara,’ for ‘sarvatsara,’ doubtless, is the same as ‘saṁvatsara (year).’ And, verily, whosoever thus knows ‘saṁvatsara’ to be the same as ‘sarvatsara 4,’ is not overcome by any evil which, by magic art, steals upon him (tsar); and whosoever thus knows ‘saṁvatsara’ to be the same as ‘sarvatsara,’ overcomes against whomsoever he practises magic art.

१३

विश्वास-प्रस्तुतिः

स᳘ ऽऐक्षत प्रजा᳘पतिः॥
(रि) इमं वा᳘ ऽआत्म᳘नः प्रतिमा᳘मसृक्षि य᳘त्सम्वत्सरमि᳘ति त᳘स्मादाहुः प्रजा᳘पतिः संवत्सर ऽइ᳘त्यात्म᳘नो᳘ ह्येतं᳘ प्रतिमाम᳘सृजत य᳘द्वेव च᳘तुरक्षरः सम्वत्सरश्च᳘तुरक्षरः प्रजा᳘पतिस्ते᳘नो है᳘वास्यैष᳘ प्रतिमा[[!!]]॥

मूलम् - श्रीधरादि

स᳘ ऽऐक्षत प्रजा᳘पतिः॥
(रि) इमं वा᳘ ऽआत्म᳘नः प्रतिमा᳘मसृक्षि य᳘त्सम्वत्सरमि᳘ति त᳘स्मादाहुः प्रजा᳘पतिः संवत्सर ऽइ᳘त्यात्म᳘नो᳘ ह्येतं᳘ प्रतिमाम᳘सृजत य᳘द्वेव च᳘तुरक्षरः सम्वत्सरश्च᳘तुरक्षरः प्रजा᳘पतिस्ते᳘नो है᳘वास्यैष᳘ प्रतिमा[[!!]]॥

मूलम् - Weber

स᳘ ऐक्षत प्रजा᳘पतिः॥
इमं वा आत्म᳘नः प्रतिमा᳘मसृक्षि य᳘त्संवत्सरमि᳘ति त᳘स्मादाहुः प्रजा᳘पतिः संवत्सर इ᳘त्यात्म᳘नोॗ ह्येत᳘म् प्रतिमाम᳘सृजत य᳘द्वेव च᳘तुरक्षरः संवत्सरश्च᳘!तुरक्षरः प्रजा᳘पतिस्ते᳘नो हैॗवास्यैष᳘ प्रतिमा᳟॥

मूलम् - विस्वरम्

स ऐक्षत प्रजापतिः, इमं वा आत्मनः प्रतिमामसृक्षि यत्संवत्सरमिति । तस्मादाहुः प्रजापतिः संवत्सर इति । आत्मनो ह्येतं प्रतिमामसृजत । यद्वेव चतुरक्षरः संवत्सरः । चतुरक्षरः प्रजापतिः । तेनो हैवास्यैष प्रतिमा ॥ १३ ॥

सायणः

संवत्सरप्रजापत्योरैकात्म्यं प्रतिपादयति- स ऐक्षतेत्यादिना । ‘इमं’ खलु संवत्सरात्मनो मदीयशरीरस्य ‘प्रतिमां’ प्रतिकृतिम् ‘असृक्षि’ सृष्टवानस्मि । यत्संवत्सरमिति । ‘इति’ यस्मात् ‘ऐक्षत’ पर्यालोचितवान् तस्मात्संवत्सरस्य प्रजापतिरूपप्रकृतित्वात् ‘प्रजापतिः संवत्सरः’ इति तादात्म्यमाहुः । आत्मनो ह्येतमिति प्रागुक्ततादात्म्यकारणयोजनम् । कथमसौ प्रजापतेः प्रतिमेति तत्राह- यद्वेवेति । यस्मादेव कारणात् तदुभयवाचकयोः संवत्सरप्रजापतिशब्दयोः चतुरक्षरत्वलक्षणं साम्यमस्ति । तेनैव कारणेनास्य प्रजापतेः ‘एषः’ संवत्सरः ‘प्रतिमा’ प्रतिबिम्बम् ॥ १३ ॥

Eggeling
  1. Prajāpati bethought himself, ‘Verily, I have created here a counterpart of myself, to wit, the year;’ whence they say, ‘Prajāpati is the year;’ for he created it to be a counterpart of himself:

inasmuch as ‘saṁvatsara (year),’ as well as ‘Prajāpati,’ consists of four syllables, thereby it (the year) is a counterpart of him.

१४

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः᳘॥
प्रजा᳘पतेर᳘धिदेव᳘ता ऽअसृज्यंताग्निरि᳘न्द्रः सो᳘मः परमेष्ठी᳘ प्राजापत्यः[[!!]]॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः᳘॥
प्रजा᳘पतेर᳘धिदेव᳘ता ऽअसृज्यंताग्निरि᳘न्द्रः सो᳘मः परमेष्ठी᳘ प्राजापत्यः[[!!]]॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
प्रजा᳘पतेर᳘धि देव᳘ता 5 असृज्यन्ताग्निरि᳘न्द्रः सो᳘मः परमेष्ठी᳘ प्राजापत्यः᳟॥

मूलम् - विस्वरम्

ता वा एताः प्रजापतेरधिदेवता असृज्यंत । अग्निरिंद्रः सोमः परमेष्ठी प्राजापत्यः ॥ १४ ॥

सायणः

अथाधिदेवतानां सृष्टिमाह- ता वा एता इति । ‘ताः’ प्रसिद्धाः ‘एताः’ वक्ष्यमाणाः ‘अधिदेवताः’आधिक्यगुणोपेताः सर्वोत्कृष्टा देवताः प्रजापतेरसृज्यंत । काः पुनस्ता ? इति तत्राह- अग्निरिंद्र इति ‘प्राजापत्यः’ इति परमेष्ठिनो विशेषणम् ॥ १४ ॥

Eggeling
  1. Now, these are the deities who were created out of Prajāpati,–Agni, Indra, Soma, and Parameshṭḥin Prājāpatya.

१५

विश्वास-प्रस्तुतिः

(स्ताः᳘) ताः᳘ सह᳘स्रायुषो जज्ञिरे॥
ता य᳘था नद्यै᳘ पारं᳘ पराप᳘श्येदेवᳫँ᳭ स्वस्या᳘युषः पारं प᳘राचख्युः॥

मूलम् - श्रीधरादि

(स्ताः᳘) ताः᳘ सह᳘स्रायुषो जज्ञिरे॥
ता य᳘था नद्यै᳘ पारं᳘ पराप᳘श्येदेवᳫँ᳭ स्वस्या᳘युषः पारं प᳘राचख्युः॥

मूलम् - Weber

ताः᳘ सह᳘स्रायुषो जज्ञिरे॥
ता य᳘था नद्यै᳘ पार᳘म् पराप᳘श्येदेवᳫं स्वस्या᳘युषः पारम् प᳘राचख्युः॥

मूलम् - विस्वरम्

ताः सहस्रायुषो जज्ञिरे । ता यथा नद्यै पारं परापश्येत्- एवं स्वस्यायुषः पारं पराचख्युः ॥ १५ ॥

सायणः

‘ताः’ अपि प्रजापतिरिव सहस्रसंवत्सरजीविन्यः ‘जज्ञिरे’ । प्रजापतिवत् ‘ताः’ अग्न्याद्या देवता अपि नद्याः पारमिव स्वकीयस्य सहस्रसंवत्सरपरिमितस्यायुषः अवसानं ददृशुः ॥ १५ ॥

Eggeling
  1. They were born with a life of a thousand years: even as one would see in the distance the opposite shore, so did they behold the opposite shore of their own life.

१६

विश्वास-प्रस्तुतिः

(स्ता) ता ऽअ᳘र्च्चन्त्यः श्रा᳘म्यन्त्यश्चेरुः॥
(स्त᳘) त᳘त ऽएतं᳘ परमेष्ठी᳘ प्राजापत्यो᳘ यज्ञ᳘मपश्यद्य᳘द्दर्शपूर्णमासौ ता᳘भ्यामयजत ता᳘भ्यामि᳘ष्ट्वा ऽकामयताह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यामि᳘ति स ऽआ᳘पो ऽभवदा᳘पो वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं ता य᳘त्परमे स्था᳘ने ति᳘ष्ठन्ति यो᳘ ही᳘हाभिख᳘नेदप᳘ ऽए᳘वाभि᳘विन्देत्परमाद्वा᳘ ऽएतत्स्था᳘नाद्वर्षति य᳘द्दिवस्त᳘स्मात्परमेष्ठी ना᳘म॥

मूलम् - श्रीधरादि

(स्ता) ता ऽअ᳘र्च्चन्त्यः श्रा᳘म्यन्त्यश्चेरुः॥
(स्त᳘) त᳘त ऽएतं᳘ परमेष्ठी᳘ प्राजापत्यो᳘ यज्ञ᳘मपश्यद्य᳘द्दर्शपूर्णमासौ ता᳘भ्यामयजत ता᳘भ्यामि᳘ष्ट्वा ऽकामयताह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यामि᳘ति स ऽआ᳘पो ऽभवदा᳘पो वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं ता य᳘त्परमे स्था᳘ने ति᳘ष्ठन्ति यो᳘ ही᳘हाभिख᳘नेदप᳘ ऽए᳘वाभि᳘विन्देत्परमाद्वा᳘ ऽएतत्स्था᳘नाद्वर्षति य᳘द्दिवस्त᳘स्मात्परमेष्ठी ना᳘म॥

मूलम् - Weber

ता अ᳘र्चन्त्यः श्रा᳘म्यन्त्यश्चेरुः॥
त᳘त एत᳘म् परमेष्ठी᳘ प्राजापत्यो᳘ यज्ञ᳘मपश्यद्य᳘द्दर्शपूर्णमासौ ता᳘भ्यामयजत ता᳘भ्यामिॗष्ट्वाकामयताह᳘मेॗवेदᳫं स᳘र्वᳫं स्यामि᳘ति स आ᳘पोऽभवदा᳘पो वा᳘ इदᳫं स᳘र्वं ता य᳘त्परमे स्था᳘ने ति᳘ष्ठन्ति योॗ हीॗहाभिख᳘नेदप᳘ एॗवाभि᳘विन्देत्परमाद्वा᳘ 6 एतत्स्था᳘नाद्वर्षति य᳘द्दिवस्त᳘स्मात्परमेष्ठी ना᳘म॥

मूलम् - विस्वरम्

ता अर्चंत्यः श्राम्यंत्यश्चेरुः । तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यत्- यद्दर्शपूर्णमासौ । ताभ्यामयजत । ताभ्यामिष्ट्वा ऽकामयत- अहमेवेदं सर्वं स्यामिति । स आपो ऽभवत् । आपो वा इदं सर्वम् । ता यत्परमे स्थाने तिष्ठति । यो हीहाभिखनेत्, अप एवाभिर्विंदेत् । परमाद्वा एतत्स्थानाद्वर्षति यद्दिवः, तस्मात्परमेष्ठी नाम ॥ १६ ॥

सायणः

ततस्ता देवता अपि पुरुषार्थं साधयितुमर्थयमानाः प्रजापतिवत् ‘अर्चंत्यः श्राम्यंत्यः’ अर्चनश्रमोपेताः ‘चेरुः’ ववृतिरे । ततो ऽनंतरं ‘एतं’ दर्शपूर्णमासाख्यं ‘यज्ञं’ प्रजापतेः पुत्रः ‘परमेष्ठी अपश्यत्’ दृष्ट्वा च ‘ताभ्यामयजत’ यागानंतरं, ‘इदं सर्वं’ जगत् ‘अहमेव स्यामिति’ सार्वात्म्यं ‘अकामयत’ ‘सः’ प्रथमं ‘आपः अभवत्’ अबात्मकः अभवत् । ननु- कथमस्य सार्वात्म्यम् ? इत्युपपादयति- आपो वा इदं सर्वमिति । ‘इदं सर्वं’ जगत् अबात्मकम् । तथाहि- ‘ताः’ आपो यस्मात् ‘परमे’ उत्कृष्टे ‘स्थाने’ व्योम्नि ‘तिष्ठति’ । ‘इह’ पृथिव्यां ‘यः’ खलु ‘अभिखनति’ अभिखनेत् तत्रापि ‘अप एवाभिर्विंदेत्’ अभितो लभेत । ननु कथं परमे स्थाने अपामवस्थानमिति तदाह- परमाद्वा इति । परमादुत्कृष्टात् सूर्यमंडलाधिष्ठितात् व्योमरूपात् ‘स्थानात्’ खलु एषः पर्जन्यो ‘वर्षति’ । ‘यद्दिवः’ आकाशाद्वर्षति । तत आपः परमे स्थाने तिष्ठन्ति । तादृगब्रूपताप्राप्तेरयमपि ‘परमेष्ठी’ नाम्ना संपन्नः ॥ १६ ॥

Eggeling
  1. They went on singing praises and toiling. Then Parameshṭḥin, son of Prajāpati, saw that sacrifice, the New and Full-moon offerings, and performed these offerings. Having performed them, he desired, ‘Would I were everything here!’ He became the waters, for the waters are everything here, inasmuch as they abide in the furthest place; for he who digs here on earth finds indeed water; and, in truth, it is from that furthest place, to wit, from yonder sky that he 7 rains, whence the name Parameshṭḥin (abiding in the furthest, highest place).

१७

विश्वास-प्रस्तुतिः

स᳘ परमेष्ठी᳘ प्रजा᳘पतिं पित᳘रमब्रवीत्॥
(त्का) कामप्रं वा᳘ ऽअहं᳘ यज्ञ᳘मदर्शं ते᳘न त्वा याजयानी᳘ति तथे᳘ति त᳘मयाजयत्स᳘ ऽइ᳘ष्ट्वा ऽकामयताह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यामि᳘ति स᳘ प्रा᳘णो ऽभवत्प्राणो वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमयं वै᳘ प्राणो᳘ यो ऽयं प᳘वते स᳘ प्रजा᳘पतिस्त᳘स्य दृ᳘ष्टिर्य्य᳘देव व्वे᳘देत्था᳘द्वाती᳘ति यद्वै कि᳘ञ्च प्राणि स᳘ प्रजा᳘पतिः स यो᳘ हैव᳘मेतां᳘ प्रजा᳘पतेर्दृ᳘ष्टिं व्वे᳘दा ऽऽवि᳘रिव हैव᳘ भवति॥

मूलम् - श्रीधरादि

स᳘ परमेष्ठी᳘ प्रजा᳘पतिं पित᳘रमब्रवीत्॥
(त्का) कामप्रं वा᳘ ऽअहं᳘ यज्ञ᳘मदर्शं ते᳘न त्वा याजयानी᳘ति तथे᳘ति त᳘मयाजयत्स᳘ ऽइ᳘ष्ट्वा ऽकामयताह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यामि᳘ति स᳘ प्रा᳘णो ऽभवत्प्राणो वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमयं वै᳘ प्राणो᳘ यो ऽयं प᳘वते स᳘ प्रजा᳘पतिस्त᳘स्य दृ᳘ष्टिर्य्य᳘देव व्वे᳘देत्था᳘द्वाती᳘ति यद्वै कि᳘ञ्च प्राणि स᳘ प्रजा᳘पतिः स यो᳘ हैव᳘मेतां᳘ प्रजा᳘पतेर्दृ᳘ष्टिं व्वे᳘दा ऽऽवि᳘रिव हैव᳘ भवति॥

मूलम् - Weber

स᳘ परमेष्ठी᳘ प्रजा᳘पतिम् पित᳘रमब्रवीत्॥
कामप्रं वा᳘ अहं᳘ यज्ञ᳘मदर्शं ते᳘न त्वा याजयानी᳘ति तथे᳘ति त᳘मयाजयत्स᳘ इॗष्ट्वाकामयताह᳘मेॗवेदᳫं स᳘र्वᳫं स्यामि᳘ति स᳘ प्राॗणोऽभवत्प्राणो वा᳘ इदᳫं स᳘र्वमयं वै᳘ प्राणोॗ योऽयम् प᳘वते स᳘ प्रजा᳘पतिस्त᳘स्य दृ᳘ष्टिर्य᳘देव वे᳘देत्था᳘द्वाती᳘ति यद्वै किं᳘ च प्राणि स᳘ प्रजा᳘पतिः स यो᳘ हैव᳘मेता᳘म् प्रजा᳘पतेर्दृ᳘ष्टिं वे᳘दावि᳘रिव हैव᳘ भवति॥

मूलम् - विस्वरम्

स परमेष्ठी प्रजापतिं पितरमब्रवीत्, कामप्रं वा अहं यज्ञमदर्शम्, तेन त्वा याजयानीति । तथेति । तमयाजयत् । स इष्ट्वा ऽकामयत, अहमेवेदं सर्वं स्यामिति । स प्राणो ऽभवत् । प्राणो वा इदूं सर्वम् । अयं वै प्राणः । यो ऽयं पवते । स प्रजापतिः । तस्य दृष्टिः । यदेव वेद- इत्थाद्वातीति । यद्वै किंच प्राणि । स प्रजापतिः । स यो हैवमेतां प्रजापतेर्दृष्टिं वेद, आविरिव हैव भवति ॥ १७ ॥

सायणः

इत्थं परमेष्ठी स्वयं सार्वात्म्यं प्राप्य पितुरपि तत्प्राप्तये एतेन अयाजयत् इत्याह- स परमेष्ठीति । ‘कामप्रं’ कामान् पूरयतीति कामप्रः । “प्रा पूरणे” (धा. पा. अ. प. ५१) इत्यस्माद्धातोः “आतो ऽनुपसर्गे कः” (पा. सू. ३ । २ । ३) इति कः । अदर्शमिति । दृशेर्लुङि “इरितो वा” (पा. सू. ३ । १ । ५७) इति च्लेरङादेशः । “ऋदृशो ऽङि गुणः” (पा. सू. ७ । ४ । १६) इति गुणः । तेन त्वेत्यादि । स्पष्टार्थम् । प्राणो वा इदं सर्वमिति । सूत्रात्मतया सर्वाधारत्वात्तस्य सर्वात्मकत्वम् । ‘यः अयं’ बाह्यो वायुः अंतरिक्षे ‘पवते’ संचरति अयमेव ‘सः’ प्राणः । स एव ‘प्रजापतिः’ । ‘तस्य’ प्रजापतेः ‘दृष्टिः’ प्राणवायुः शब्दस्पर्शादिविषयसाक्षात्कारहेतुत्वात् । यदेवेत्यादि । ‘यत्’ खलु वस्तु ‘इत्थात्’ अनेन प्रकारेण असौ प्राणवायुः ‘वातीति’ वर्तत इति ‘वेद’ जानाति । किमपि तत्सर्वं ‘प्राणि’ प्राणवत् भवति । अतः प्राणिसंघः प्रजापतिः । वेदितुः फलमाह- स यो हैवमेतामिति । इत्थं प्राणरूपां प्रजापतेर्दृष्टिं ‘यः वेद’ स ‘आविरिव’ ‘भवति’ प्रकाशत एवेत्यर्थः ॥ १७ ॥

Eggeling
  1. Parameshṭḥin spake unto his father Prajāpati, ‘I have discovered a sacrifice which fulfils wishes: let me perform this for thee!’–‘So be it!’ he said. He accordingly performed it 8 for him. Having sacrificed, he (Prajāpati) desired, ‘Would I were everything here!’ He became the breath (vital air), for breath is everything here: Prajāpati is that breath which blows here (the wind); and whatsoever knows that it is thus he blows is his (Prajāpati’s) eyesight; and whatsoever is endowed

with breath is Prajāpati. And, verily, whosoever thus knows that eyesight of Prajāpati becomes, as it were, manifest,

१८

विश्वास-प्रस्तुतिः

स᳘ प्रजा᳘पतिरि᳘न्द्रं पुत्र᳘मब्रवीत्॥
(द) अने᳘न त्वा कामप्रे᳘ण यज्ञे᳘न याजयानि ये᳘न मा᳘मिदं᳘ परमेष्ठ्य᳘यीयजदि᳘ति तथे᳘ति त᳘मयाजयत्स᳘ ऽइ᳘ष्ट्वा ऽकामयताह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यामि᳘ति स व्वा᳘गभवद्वाग्वा᳘ ऽइदᳫँ᳭ स᳘र्वं त᳘स्मादाहुरि᳘न्द्रो व्वागि᳘ति॥ (अर्द्धः प्रपाठकः ६०)॥

मूलम् - श्रीधरादि

स᳘ प्रजा᳘पतिरि᳘न्द्रं पुत्र᳘मब्रवीत्॥
(द) अने᳘न त्वा कामप्रे᳘ण यज्ञे᳘न याजयानि ये᳘न मा᳘मिदं᳘ परमेष्ठ्य᳘यीयजदि᳘ति तथे᳘ति त᳘मयाजयत्स᳘ ऽइ᳘ष्ट्वा ऽकामयताह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यामि᳘ति स व्वा᳘गभवद्वाग्वा᳘ ऽइदᳫँ᳭ स᳘र्वं त᳘स्मादाहुरि᳘न्द्रो व्वागि᳘ति॥ (अर्द्धः प्रपाठकः ६०)॥

मूलम् - Weber

स᳘ प्रजा᳘पतिरि᳘न्द्रम् पुत्र᳘मब्रवीत्॥
अने᳘न त्वा कामप्रे᳘ण यज्ञे᳘न याजयानि ये᳘न मा᳘मिद᳘म् परमेष्ठ्य᳘यीयजदि᳘ति तथे᳘ति त᳘मयाजयत्स᳘ इॗष्ट्वाकामयताह᳘मेॗवेदᳫं स᳘र्वᳫं स्यामि᳘ति स वा᳘गभवद्वाग्वा᳘ इदᳫं स᳘र्वं त᳘स्मादाहुरि᳘न्द्रो वागि᳘ति॥

मूलम् - विस्वरम्

स प्रजापतिरिन्द्रं पुत्रमब्रवीत्- अनेन त्वा कामप्रेण यज्ञेन याजयानि । येन मामिदं परमेष्ठ्ययीयजदिति, तथेति, तमयाजयत् । स इष्ट्वा ऽकामयत, अहमेवेदं सर्वं स्यामिति । स वागभवत् । वाग्वा इदं सर्वम् । तस्मादाहुरिंद्रो वागिति ॥ १८ ॥

सायणः

प्राणरूपताप्राप्तिरिव वाग्रूपताप्राप्तिरपि दर्शपूर्णमासयोः फलमित्याह- स प्रजापतिरित्यादिना । ‘अयीयजत्’ याजितवान् । यजेर्ण्यंताल्लुङि चङि रूपम् । स्पष्टमन्यत् । स वाग् अभवदिति । ‘सः’ सर्वजगदात्मको ऽहं स्यामिति कामयमान इंद्रः वाग्रूपः अभवत् । वागात्मकं हि इदं सर्वं जगत् शब्दानुविद्धतया प्रतीयमानत्वात् । तस्मादेव कारणात् इंद्र एव वागात्मक इत्याहुः ॥ १८ ॥

Eggeling
  1. Prajāpati spake unto his son Indra, ‘Let me perform for thee this wish-fulfilling sacrifice which Parameshṭḥin has just performed for me.’–‘So be it!’ he said. He accordingly performed it for him. Having sacrificed, he (Indra) desired, ‘Would that I were everything here!’ He became speech (vāc), for speech is everything here; whence they say, ‘Indra is Vāc.’

१९

विश्वास-प्रस्तुतिः

स ऽइ᳘न्द्रो ऽग्नीषो᳘मौ भ्रा᳘तरावब्रवीत्॥
(द) अने᳘न वां कामप्रे᳘ण यज्ञे᳘न याजयानि ये᳘न मा᳘मिदं᳘ पिता᳘ प्रजा᳘पतिर᳘यीयजदि᳘ति तथे᳘ति ता᳘वयाजयत्ता᳘वि᳘ष्ट्वा ऽकामयेतामाव᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यावे᳘ति त᳘योरन्नाद᳘ ऽए᳘वान्यतरो᳘ ऽभवद᳘न्नमन्यत᳘रो ऽन्नाद᳘ ऽए᳘वाग्निर᳘भवद᳘न्नᳫँ᳭ सो᳘मो ऽन्नाद᳘श्च वा᳘ ऽइदᳫँ᳭ स᳘र्व्वम᳘न्नं च॥

मूलम् - श्रीधरादि

स ऽइ᳘न्द्रो ऽग्नीषो᳘मौ भ्रा᳘तरावब्रवीत्॥
(द) अने᳘न वां कामप्रे᳘ण यज्ञे᳘न याजयानि ये᳘न मा᳘मिदं᳘ पिता᳘ प्रजा᳘पतिर᳘यीयजदि᳘ति तथे᳘ति ता᳘वयाजयत्ता᳘वि᳘ष्ट्वा ऽकामयेतामाव᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यावे᳘ति त᳘योरन्नाद᳘ ऽए᳘वान्यतरो᳘ ऽभवद᳘न्नमन्यत᳘रो ऽन्नाद᳘ ऽए᳘वाग्निर᳘भवद᳘न्नᳫँ᳭ सो᳘मो ऽन्नाद᳘श्च वा᳘ ऽइदᳫँ᳭ स᳘र्व्वम᳘न्नं च॥

मूलम् - Weber

स इ᳘न्द्रोऽग्नीषो᳘मौ भ्रा᳘तरावब्रवीत्॥
अने᳘न वां कामप्रे᳘ण यज्ञे᳘न याजयानि ये᳘न मा᳘मिद᳘म् पिता᳘ प्रजा᳘पतिर᳘यीयजदि᳘ति तथे᳘ति ता᳘वयाजयत्ता᳘विॗष्ट्वाकामयेतामाव᳘मेॗवेदᳫं स᳘र्वᳫं स्यावे᳘ति त᳘योरन्नाद᳘ एॗवान्यतरो᳘ऽभवद᳘न्नमन्यतॗरोऽन्नाद᳘ एॗवाग्निर᳘भवद᳘न्नᳫं सो᳘मोऽन्नाद᳘श्च वा᳘ इदᳫं स᳘र्वम᳘न्नं च॥

मूलम् - विस्वरम्

स इंद्रो ऽग्नीषोमौ भ्रातरावब्रवीत्- अनेन वां कामप्रेण यज्ञेन याजयानि । येन मामिदं पिता प्रजापतिरयीयजदिति, तथेति, तावयाजयत् । ताविष्ट्वा ऽकामयेताम्, आवमेवेदं सर्वं स्यावेति । तयोरन्नाद एवान्यतरो ऽभवत् । अन्नमन्यतरः । अन्नाद एवाग्निरभवत् । अन्नं सोमः । अन्नादश्च वा इदं सर्वमन्नं च ॥ १९ ॥

सायणः

अन्नादादिरूपफलप्राप्तिहेतुतामाह- स इंद्रो ऽग्नीषोमावित्यादिना । स्पष्टो ऽर्थः । तयोरन्नाद एवान्यतर इत्युक्तमेवार्थं विशदयति- अन्नाद एवाग्निरभवदिति । अन्नमत्तीत्यन्नादः । ‘अग्निरेव’ सर्वप्राणिषु जाठररूपेण वर्तमानः सन् ‘अन्नादः अभवत्’ । सोमस्तु रसात्मकत्वात् ओषधिवनस्पतिषु प्रविष्टः सन् कृत्स्नान्नरूपः अभवत् । उभयोः कृत्स्नजगदात्मकत्वमाह- अन्नादश्च वा इदं सर्वमिति ॥ १९ ॥

Eggeling
  1. Indra spake unto his brothers Agni and Soma, ‘Let me perform for you this wish-fulfilling sacrifice which our father Prajāpati has just performed for me.’–‘So be it!’ they said. He accordingly performed it for them. Having sacrificed, those two desired, ‘Would that we were everything here!’ One of them became the eater of food, and the other became food: Agni became the eater of food, and Soma food; and the eater of food, and food, indeed, are everything here.

२०

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः[[!!]]॥
प᳘ञ्च देव᳘ता ऽएते᳘न कामप्रे᳘ण यज्ञे᳘नायजन्त ता य᳘त्कामा अ᳘यजन्त स᳘ ऽआभ्यः का᳘मः स᳘मार्द्ध्यत य᳘त्कामो ह वा᳘ ऽएते᳘न यज्ञे᳘न य᳘जते᳘ सो ऽस्मै का᳘मः स᳘मृध्यते॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः[[!!]]॥
प᳘ञ्च देव᳘ता ऽएते᳘न कामप्रे᳘ण यज्ञे᳘नायजन्त ता य᳘त्कामा अ᳘यजन्त स᳘ ऽआभ्यः का᳘मः स᳘मार्द्ध्यत य᳘त्कामो ह वा᳘ ऽएते᳘न यज्ञे᳘न य᳘जते᳘ सो ऽस्मै का᳘मः स᳘मृध्यते॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
प᳘ञ्च देव᳘ता एते᳘न कामप्रे᳘ण यज्ञे᳘नायजन्त ता य᳘त्कामा अ᳘यजन्त स᳘ आभ्यः का᳘मः स᳘मार्ध्यत य᳘त्कामो ह वा᳘ एते᳘न यज्ञे᳘न य᳘जतेॗ सोऽस्मै का᳘मः स᳘मृध्यते॥

मूलम् - विस्वरम्

ता वा एताः पंच देवता एतेन कामप्रेण यज्ञेनायजंत । ता यत्कामा अयजंत, स आभ्यः कामः समार्द्ध्यत । यत्कामो ह वा एतेन यज्ञेन यजते- सो ऽस्मै कामः समृध्यते ॥ २० ॥

सायणः

उक्तमर्थजातं संभूयानूद्य इदानीन्तनयजमानस्यापि दर्शपूर्णमासयागेन तादृक्फलप्राप्तिमाह- ता वा एता इति । ‘समार्द्ध्यत’ समृद्धो ऽभवत् । गतमन्यत् ॥ २०॥

Eggeling
  1. These five deities, then, performed that wish-fulfilling sacrifice; and for whatever wish they sacrificed, that wish of theirs was fulfilled; and, verily, for whatever wish one performs that sacrifice, that wish of his is fulfilled.

२१

विश्वास-प्रस्तुतिः

त᳘ ऽइष्ट्वा प्रा᳘चीं दि᳘शमपश्यन्॥
(श्यँस्ता) ताम्प्रा᳘चीमे᳘वाकुर्व्वत᳘ सेयं प्रा᳘च्येव दिक्त᳘स्मादिमाः᳘ प्र᳘जाः प्रा᳘च्यः सर्प्पंति प्रा᳘ची᳘ᳫँ᳘ ह्येताम᳘कुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति तामू᳘र्ज्जमकुर्व्वतेमां खलू᳘र्ज्जं पश्येमे᳘ति᳘ सा ऽसौ द्यौ᳘रभवत्॥

मूलम् - श्रीधरादि

त᳘ ऽइष्ट्वा प्रा᳘चीं दि᳘शमपश्यन्॥
(श्यँस्ता) ताम्प्रा᳘चीमे᳘वाकुर्व्वत᳘ सेयं प्रा᳘च्येव दिक्त᳘स्मादिमाः᳘ प्र᳘जाः प्रा᳘च्यः सर्प्पंति प्रा᳘ची᳘ᳫँ᳘ ह्येताम᳘कुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति तामू᳘र्ज्जमकुर्व्वतेमां खलू᳘र्ज्जं पश्येमे᳘ति᳘ सा ऽसौ द्यौ᳘रभवत्॥

मूलम् - Weber

त᳘ इष्ट्वा प्रा᳘चीं दि᳘शमपश्यन्॥
ताम् प्रा᳘चीमेॗवाकुर्वत सेयम् प्रा᳘च्येव दिक्त᳘स्मादिमाः᳘ प्र᳘जाः प्रा᳘च्यः सर्पन्ति प्रा᳘चीॗᳫंॗ ह्येताम᳘कुर्वतो᳘पैनामितः᳘ कुर्वीमही᳘ति तामू᳘र्जमकुर्वतेमां खलू᳘र्जम् पश्येमे᳘तिॗ सासौ द्यौ᳘रभवत्॥

मूलम् - विस्वरम्

त इष्ट्वा प्राचीं दिशमपश्यन् । तां प्राचीमेवाकुर्वत । सेयं प्राच्येव दिक् । तस्मादिमाः प्रजाः प्राच्यः सर्पंति । प्राचीं ह्येतामकुर्वत । उपैनामितः कुर्वीमहि इति । तामूर्ज्जमकुर्वत । इमां खलूर्जं पश्येमेति । सा ऽसौ द्यौरभवत् ॥ २१ ॥

सायणः

‘ते’ परमेष्ठ्यादयः दर्शपूर्णमासाभ्यां ‘इष्ट्वा’ ‘प्राचीं दिशं’ प्रथममपश्यन् । भाव्यपेक्षया प्राचीमिति विशेषणम् । यां ‘प्रथममपश्यन्’ ‘तां प्राचीमेवाकुर्वत’ । ‘सेयं प्राच्येव’ सती ‘दिक्’ इदानीं दृश्यते । तस्मादिमा इत्यादि । ‘प्राच्यः’ प्राच्यास्याः पूर्वदिगभिमुखाः स्वपुरस्ताद्भाग एव प्रथमं ‘सर्पंति’ गच्छंति । प्राचीं ह्येतामिति प्रागुक्तस्य हेतोर्योजनम् । उपैनामित्यादि । ‘एनां’ प्राचीं दिशमुपेत्य ‘इतः’ पर ‘कुर्वीमहि’ कार्यांतरं सृजेमहीति समकल्पयन् । ततस्तामेव दिशमूर्जमकुर्वत । बलकरः अन्नरस उर्क् । उर्क्करणानंतरं ‘इमामेव खलु ऊर्ज्जं पश्येम’ साक्षात् कुर्याम इत्यवोचन्त । ततः ‘सा’ ऊर्क् ‘असौ’ विप्रकृष्टा ‘द्यौरभवत्’ ॥ २१ ॥

Eggeling
  1. When they had sacrificed they beheld (discovered) the eastern quarter, and made it the eastern (front) quarter; as it now is that eastern (front) quarter: therefore creatures here move in a forward direction, for they (the gods) made that the front quarter. ‘Let us improve it 9 from here!’

they said, and made it to be strength, ‘May we see 10 this strength!’ they said; and it became yonder sky 11.

२२

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ द᳘क्षिणां दि᳘शमपश्यन्॥
(श्यँस्तां) तां द᳘क्षिणामे᳘वाकुर्व्वत᳘ सेयं द᳘क्षिणैव दिक्त᳘स्मादु दक्षिणत᳘ ऽएव द᳘क्षिणा ऽउपति᳘ष्ठंते दक्षिण᳘तो ऽभ्य᳘वाजन्ति द᳘क्षिणा᳘ᳫँ᳘ ह्ये᳘ताम᳘कुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति तल्ँ᳘लोकमकुर्व्वतेमं[[!!]] ख᳘लु लोकं᳘ पश्येमे᳘ति त᳘दिद᳘मन्त᳘रिक्षमभवदेष वै᳘ लोकः सा य᳘था है᳘वेयं᳘ प्रति᳘ष्ठा ऽऽवि᳘रस्मिं᳘ल्लोके᳘ पृथि᳘व्येव᳘मु है᳘वैषा᳘ प्रति᳘ष्ठा ऽवि᳘रमु᳘ष्मिंल्लोक᳘ ऽइद᳘मन्त᳘रिक्षᳫँ᳭ स य᳘दिह स᳘न्नमुं᳘ लोकं न प᳘श्यति त᳘स्मादाहुः परो᳘ ऽक्षमसौ᳘ लोक ऽइति[[!!]]॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ द᳘क्षिणां दि᳘शमपश्यन्॥
(श्यँस्तां) तां द᳘क्षिणामे᳘वाकुर्व्वत᳘ सेयं द᳘क्षिणैव दिक्त᳘स्मादु दक्षिणत᳘ ऽएव द᳘क्षिणा ऽउपति᳘ष्ठंते दक्षिण᳘तो ऽभ्य᳘वाजन्ति द᳘क्षिणा᳘ᳫँ᳘ ह्ये᳘ताम᳘कुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति तल्ँ᳘लोकमकुर्व्वतेमं[[!!]] ख᳘लु लोकं᳘ पश्येमे᳘ति त᳘दिद᳘मन्त᳘रिक्षमभवदेष वै᳘ लोकः सा य᳘था है᳘वेयं᳘ प्रति᳘ष्ठा ऽऽवि᳘रस्मिं᳘ल्लोके᳘ पृथि᳘व्येव᳘मु है᳘वैषा᳘ प्रति᳘ष्ठा ऽवि᳘रमु᳘ष्मिंल्लोक᳘ ऽइद᳘मन्त᳘रिक्षᳫँ᳭ स य᳘दिह स᳘न्नमुं᳘ लोकं न प᳘श्यति त᳘स्मादाहुः परो᳘ ऽक्षमसौ᳘ लोक ऽइति[[!!]]॥

मूलम् - Weber

अ᳘थ द᳘क्षिणां दि᳘शमपश्यन्॥
तां द᳘क्षिणामेॗवाकुर्वतॗ सेयं द᳘क्षिणैव दिक्त᳘स्मादु दक्षिणत᳘ एव द᳘क्षिणा उपति᳘ष्ठन्ते दक्षिणॗतोऽभ्य᳘वाजन्ति द᳘क्षिणाॗᳫंॗ ह्येताम᳘कुर्वतो᳘पैनामितः᳘ कुर्वीमही᳘ति तं᳘ लोक᳘मकुर्वतेमं ख᳘लु लोक᳘म् पश्येमे᳘ति त᳘दिद᳘मन्त᳘रिक्षमभवदेष वै᳘ लोकः सा य᳘था हैॗवेय᳘म् प्रतिॗष्ठावि᳘रस्मिं᳘लोके᳘ पृथिॗव्येव᳘मु हैॗवैषा᳘ प्रतिॗष्ठावि᳘रमु᳘ष्मिंलोक᳘ इद᳘मन्त᳘रिक्षᳫं स य᳘दिह स᳘न्नमुं᳘ लोकं न प᳘श्यति त᳘स्मादाहुः परो᳘ऽक्षमसौ᳘ लोक इ᳘ति॥

मूलम् - विस्वरम्

अथ दक्षिणां दिशमपश्यन् । तां दक्षिणामेवाकुर्वत । सेयं दक्षिणैव दिक् । तस्मादु दक्षिणत एव दक्षिणा उपतिष्ठंते । दक्षिणतो ऽभ्यवाजंति । दक्षिणां ह्येतामकुर्वत । उपैनामितः कुर्वीमहीति । तं लोकमकुर्वत । इमं खलु लोकं पश्येमेति । तदिदमंतरिक्षमभवत् । एष वै लोकः सा । यथा हैवेयं प्रतिष्ठा ऽऽविरस्मिन् लोके पृथिवी । एवमु हैवैषा प्रतिष्ठा ऽऽविरमुष्मिन् लोके इदमन्तरिक्षम् । स यदिह सन्नमुं लोकं न पश्यति । तस्मादाहुः परो ऽक्षमसौ लोक इति ॥ २२ ॥

सायणः

‘अथ दक्षिणां दिशमपश्यन्’ इत्यादावपि एवमेव योज्यम् । दक्षिणत उपतिष्ठंत इति । ऋत्विक्परिक्रयहेतुतया दातव्या गावः ‘दक्षिणाः’ दक्षिणाशब्दाभिधेयायामेव दिशि ‘उपतिष्ठंते’ दक्षिणाकाले अवतिष्ठंते । तथा ‘दक्षिणतः’ दक्षिणस्याः दिशः सकाशात् ताः ‘अभ्यवाजंति’ अभिगमयंति । “अज गतिक्षेपणयोः’ (धा. पा. भ्वा. प. २३०) इति धातुः । उपैनामित्यादि पूर्ववत् । दक्षिणदिक्सृष्ट्यनंतरं यो लोकः कृतः स अंतरिक्षात्मको ऽभवत् । ‘एषः’ खलु ‘लोकः सा’ दक्षिणा दिक् । यथा हैवेत्यादि । ‘अस्मिन् लोके’ यथैव ‘पृथिवी’ ‘आविः’ आविर्भवति । ‘एवमेषा’ दक्षिणा दिक् ‘प्रतिष्ठा’ भूत्वा ‘अमुष्मिन् लोके’ आविर्भवति ‘इदमेवांतरिक्षं’ अन्तरिक्षाख्यो लोकः । तदाधारभूतस्य द्युलोकाख्यस्य परो ऽक्षत्वमाह- स यदिहेति । ‘इह’ अस्मिन् लोके वर्तमानः ‘सः’ यस्मादमुं लोकं न पश्यति । अंतरिक्षेण व्यवहितत्वात् तस्मादसौ लोकः परो ऽक्षमित्याहुः ॥ २२ ॥

Eggeling
  1. They then beheld the southern quarter, and made it the southern quarter; and it now is that southern (right, dakshiṇā) quarter: whence the dakshiṇā (cows) stand to the south (of the altar) 12, and are driven up from the south, for they made that the southern one (dakshiṇā). ‘Let us improve it from here!’ they said, and made it to be space. ‘May we see this space!’ they said; and it became this air, for that (air) is space; for even as the resting-place here in this world is clearly the earth, so the resting-place there in yonder world is clearly this air; and because, whilst being here on earth, one does not see that space, therefore people say, ‘That space (or, yonder world) is invisible.’

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रती᳘चीं दि᳘शमपश्यन्॥
(श्यँस्ता᳘) ता᳘माशा᳘मकुर्व्वत त᳘स्माद्यत्प्रा᳘ङ्सृत्वा᳘ विंद᳘त ऽएता᳘मेव ते᳘न दि᳘शमेत्याशा᳘ᳫँ᳘ ह्येताम᳘कुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति ताᳫँ᳭ श्रि᳘यमकुर्व्वतेमां ख᳘लु श्रि᳘यं पश्येमे᳘ति᳘ सेयं᳘ पृथि᳘व्यभवच्छ्रीर्व्वा᳘ ऽइयं त᳘स्मा᳘द्यो ऽस्यै भू᳘यिष्ठं व्विन्द᳘ते स᳘ ऽएव श्रे᳘ष्ठो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रती᳘चीं दि᳘शमपश्यन्॥
(श्यँस्ता᳘) ता᳘माशा᳘मकुर्व्वत त᳘स्माद्यत्प्रा᳘ङ्सृत्वा᳘ विंद᳘त ऽएता᳘मेव ते᳘न दि᳘शमेत्याशा᳘ᳫँ᳘ ह्येताम᳘कुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति ताᳫँ᳭ श्रि᳘यमकुर्व्वतेमां ख᳘लु श्रि᳘यं पश्येमे᳘ति᳘ सेयं᳘ पृथि᳘व्यभवच्छ्रीर्व्वा᳘ ऽइयं त᳘स्मा᳘द्यो ऽस्यै भू᳘यिष्ठं व्विन्द᳘ते स᳘ ऽएव श्रे᳘ष्ठो भवति॥

मूलम् - Weber

अ᳘थ प्रती᳘चीं दि᳘शमपश्यन्॥
ता᳘माशा᳘मकुर्वत त᳘स्माद्यत्प्रा᳘ङ् सृत्वा᳘ विन्द᳘त एता᳘मेव ते᳘न दि᳘शमेत्याशाᳫं ह्येताम᳘कुर्वतो᳘पैनामितः᳘ कुर्वीमही᳘ति तां श्रि᳘यमकुर्वतेमां ख᳘लु श्रि᳘यम् पश्येमे᳘तिॗ सेय᳘म् पृथि᳘व्यभवछ्रीर्वा᳘ इयं त᳘स्माॗद्योऽस्यै भू᳘यिष्ठं 13 विन्द᳘ते स᳘ एव श्रे᳘ष्ठो भवति॥

मूलम् - विस्वरम्

अथ प्रतीचीं दिशमपश्यन् । तामाशामकुर्वत । तस्मात् यत् प्राङ् सृत्वा विंदते । एतामेव तेन दिशमेत्याशां ह्येतामकुर्वत । उपैनामितः कुर्वीमहीति । तां श्रियमकुर्वत । इमां खलु श्रियं पश्येमेति । सेयं पृथिव्यभवत् । श्रीर्वा इयम् । तस्माद्यो ऽस्यै भूयिष्ठं विंदते । स एव श्रेष्ठो भवति ॥ २३ ॥

सायणः

प्रतीच्या दिशः सृष्टिमाह- अथ प्रतीचीमिति । ‘अथ’ दक्षिणदिग्दर्शनानंतरम् परमेष्ठ्यादयः पंच देवताः प्रतीचीं दिशमपश्यन्, दृष्ट्वा च ‘तामाशामकुर्वत’ । अप्राप्तफलविषयः अभिलाष आशा, तां कृतवंतः । तस्मात् प्रतीची दिक् आशारूपा । ‘यस्मात् प्राङ् सृत्वा’ प्राङ्मुखो गत्वा इष्टं फलं ‘विंदते’ लभते । तस्मात् प्रतीच्यां दिशि यथास्थानमवस्थितस्य फलप्राप्तिविरहात् आशैव केवलमवशिष्यत इति सा दिक् तदात्मिका इत्यभिप्रायः । तत्रोक्तमर्थं हेतुत्वेन योजयति । ‘तेन’ दर्शनहेतुना ‘एतामेव’ प्रतीचीं दिशमेत्य एनामाशां कृतवंतः । ‘हि’ शब्दो हेतौ । सृष्ट्यन्तरमाह- उपैनामिति । इत ऊर्ध्वम् ‘एनां’ आशारूपाम् प्रतीचीं दिशमुपकुर्वीमहि उपेत्य रूपांतरेण कुर्याम इत्यालोचयंतस्ते देवाः, ‘तामाशां श्रियमकुर्वत’ कृत्वा च खलु ‘इमां खलु श्रियं पश्येम’ किंरूपेति साक्षात्करवाम इत्यालोचयन् तस्मादालोचनमात्रात् सेयं श्रीः पृथिव्यात्मिका जाता । तां उपपादयति- श्रीर्वा इयमिति । ‘इयं’ सर्वसन्निहिता पृथिवी । तस्माद्यो ऽस्या इति । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) । अस्याः पृथिव्याः संबंधि ‘भूयिष्ठं’ बहुतरं स्थानं यः ‘विंदते’ लभते ‘स एव श्रेष्ठो भवति’ श्रिया प्रशस्यतमो भवतीत्यर्थः ॥ २३ ॥

Eggeling
  1. They then beheld the western quarter, and made it (to represent) hope,–wherefore it is only when 14, after going forwards (to the east), one

obtains (his object) that he goes (back) to that (western) quarter; for they (the gods) made that (quarter to represent) hope. ‘Let us improve it from here!’ they said, and made it to be prosperity (or distinction). ‘May we see this prosperity!’ they said; and it became this earth, for this (earth) is indeed (the source of) prosperity; whence he who obtains most therefrom becomes the most prosperous.

२४

विश्वास-प्रस्तुतिः

(त्य) अथो᳘दीचीं दि᳘शमपश्यन्॥
(श्यँस्ता᳘) ता᳘म᳘परे ऽकुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति तं ध᳘र्ममकुर्व्वत ध᳘र्म्मो वा ऽआ᳘पस्त᳘स्माद्य᳘देमं᳘ लोकमा᳘प ऽआग᳘च्छन्ति स᳘र्व्वमे᳘वेदं[[!!]] यथाधर्मं᳘ भवत्य᳘थ यदा᳘ व्वृष्टिर्भ᳘वति ब᳘लीयानेव तर्ह्य᳘बलीयस ऽआ᳘दत्ते ध᳘र्म्मो ह्या᳘पः॥

मूलम् - श्रीधरादि

(त्य) अथो᳘दीचीं दि᳘शमपश्यन्॥
(श्यँस्ता᳘) ता᳘म᳘परे ऽकुर्व्वतो᳘पैनामितः᳘ कुर्व्वीमही᳘ति तं ध᳘र्ममकुर्व्वत ध᳘र्म्मो वा ऽआ᳘पस्त᳘स्माद्य᳘देमं᳘ लोकमा᳘प ऽआग᳘च्छन्ति स᳘र्व्वमे᳘वेदं[[!!]] यथाधर्मं᳘ भवत्य᳘थ यदा᳘ व्वृष्टिर्भ᳘वति ब᳘लीयानेव तर्ह्य᳘बलीयस ऽआ᳘दत्ते ध᳘र्म्मो ह्या᳘पः॥

मूलम् - Weber

अथो᳘दीचीं दि᳘शमपश्यन्॥
ता᳘मॗपोऽकुर्वतो᳘पैनामितः᳘ कुर्वीमही᳘ति तं ध᳘र्ममकुर्वत ध᳘र्मो वा आ᳘पस्त᳘स्माद्यॗदेमं᳘ लोकमा᳘प आग᳘छन्ति स᳘र्वमेॗवेदं᳘ यथाधर्म᳘म् भवत्य᳘थ यदा᳘वृष्टिर्भ᳘वति 15 ब᳘लीयानेव तर्ह्य᳘बलीयस आ᳘दत्ते ध᳘र्मो ह्या᳘पः॥

मूलम् - विस्वरम्

अथोदीचीं दिशमपश्यन् । तामपरे ऽकुर्वत । उपैनामितः कुर्वीमहीति । तं धर्ममकुर्वत । धर्मो वा आपः । तस्माद्यदेमं लोकमाप आगच्छंति । सर्वमेवेदं यथाधर्मं भवति । अथ यदा वृष्टिर्भवति । बलीयानेव तर्ह्यबलीयस आदत्ते । धर्मो ह्यापः ॥ २४ ॥

सायणः

उदीच्या दिशः सृष्टिमाह- अथोदीचीमिति । अपश्यन्नित्यनंतरं तां प्राचीमेवाकुर्वतेतिवत् ‘ताम् उदीचीमेवाकुर्वतेति’ वाक्यमध्याहृत्य दिक्सृष्टिः प्रतिपादनीया । ‘तां’ उदीचीं दिशं ‘अपः’ अकुर्वत अपां रूपेण कृतवंतः । कृत्वा च पुनरित्थं संकल्पितवंत इत्याह- उपैनामिति । इत अब्रूपामेनां उदीचीं दिशम् अन्यत् पूर्ववत् । तं धर्ममकुर्वतेति । उद्देश्यविधेययोरेकत्वेन तल्लिंगस्य च पर्यायेणोपादातुं योग्यत्वात् अत्र तमिति विधेयलिंगता । या अब्रूपा उदीची दिक् तं ‘धर्मं’ धारणसमर्थं सर्वस्य जगतो वा आप्तव्यं एकं पदार्थमकुर्वत । कार्यकारणयोरैक्यं प्रतिपादयति- धर्मो वा आप इति । ‘यदा’ खलु ‘इमं’ भूलोकम् ‘आप आगच्छंति’ वृष्ट्यात्मना प्राप्नुवंति । तदा ‘सर्वमेवेदं’ जगत् ‘यथाधर्मं’ यथावस्थितस्वभावं भवति । एतदेव विशदयति- अथ यदेति । ‘यदा’ यस्मिन् काले ‘वृष्टिर्भवति’ ‘तर्हि’ तस्मिन् समये ‘बलीयानेव’ अतिशयबलोपेतः उदकप्रवाह एव ‘अबलीयसः’ अतिशयेन बलरहितानादत्ते । ‘हि’ यस्मात् ‘आपो धर्मः’ धारयितृस्वभावः ॥ २४ ॥

Eggeling
  1. They then beheld the northern quarter, and made it the waters. ‘Let us improve it from here!’ they said, and made it (to represent) the law, for the waters are the law: hence whenever the waters come (down) to this (terrestrial) world everything here comes to be in accordance with the law; but whenever there is drought, then the stronger seizes upon the weaker, for the waters are the law.

२५

विश्वास-प्रस्तुतिः

(स्ता) ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कादश देव᳘ताः प᳘ञ्च प्रयाजा द्वावा᳘ज्यभागौ स्विष्टकृत्त्र᳘यो ऽनुयाजाः[[!!]]॥

मूलम् - श्रीधरादि

(स्ता) ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कादश देव᳘ताः प᳘ञ्च प्रयाजा द्वावा᳘ज्यभागौ स्विष्टकृत्त्र᳘यो ऽनुयाजाः[[!!]]॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
ए᳘कादश देव᳘ताः प᳘ञ्च प्रयाजा द्वावा᳘ज्यभागौ स्विष्टकृत्त्र᳘योऽनुयाजा᳟॥

मूलम् - विस्वरम्

ता वा एता एकादश देवताः । पंच प्रयाजाः । द्वावाज्यभागौ । स्विष्टकृत् । त्रयो ऽनुयाजाः ॥ २५ ॥

सायणः

ता वा एता इत्यादि । ‘ताः’ अनुक्रांता एकादश देवताः । तथा हि- प्राची दिक् द्युलोकः दक्षिणा दिक् अंतरिक्षलोकः प्रतीची दिक् आशा श्रीः पृथिवी च उदीची दिक् आपो धर्मः इत्येकादशसंख्याका एता एव प्रयाजाद्या एकादशात्मतया वर्तंत इत्यर्थः । ‘ताः’ प्रयाजाद्या एकादशसंख्या आहुतयः । एताभिरेव खलु ‘आहुतिभिः’ प्रागुक्ताः परमेष्ठ्यादयो देवाः ‘इमान्’ पृथिव्यादिलोकान् ‘एताः’ प्राच्याद्या दिशश्चतस्रः अजयन् । अतस्तज्जयहेतुत्वात् तेषां तद्रूपतोक्तिः । तथो एवैष इति पुरावृत्तस्य सिद्धस्यार्थस्य प्रकृते योजनम् । एवं प्रागादिचतसृणां मुख्यदिशां पृथिव्यादिलोकानां एकादशभिराहुतिभिर्जयो जातः ॥ २५ ॥ २६ ॥

Eggeling
  1. These then are eleven deities 16,–there are five fore-offerings, two butter-portions, the Svishṭakr̥t, and three after-offerings:–

२६

विश्वास-प्रस्तुतिः

(स्ता) ता᳘ ऽए᳘कादशा᳘हुतयः॥
(ऽ) एता᳘भिर्व्वा ऽआ᳘हुतिभिर्द्देवा᳘ ऽइमां᳘ल्लोकान᳘जयन्नेता दि᳘शस्त᳘थो ऽए᳘वैष᳘ ऽएता᳘भिरा᳘हुतिभिरिमां᳘ल्लोकाञ्ज᳘यत्येता दि᳘शः॥

मूलम् - श्रीधरादि

(स्ता) ता᳘ ऽए᳘कादशा᳘हुतयः॥
(ऽ) एता᳘भिर्व्वा ऽआ᳘हुतिभिर्द्देवा᳘ ऽइमां᳘ल्लोकान᳘जयन्नेता दि᳘शस्त᳘थो ऽए᳘वैष᳘ ऽएता᳘भिरा᳘हुतिभिरिमां᳘ल्लोकाञ्ज᳘यत्येता दि᳘शः॥

मूलम् - Weber

ता᳘ ए᳘कादशाहुतयः॥
एता᳘भिर्वा आ᳘हुतिभिर्देवा᳘ इहां᳘लोकान᳘जयन्नेता दि᳘शस्त᳘थो एॗवैष᳘ एता᳘भिरा᳘हुतिभिरिमां᳘लोकान्ज᳘यत्येता दि᳘शः॥

मूलम् - विस्वरम्

ता एकादशाहुतयः । एताभिर्वा आहुतिभिर्देवा इमान् लोकानजयन्नेता दिशः । तथो एवैष एताभिराहुतिभिरिमान् लोकान् जयत्येता दिशः ॥ २६ ॥

सायणः

[व्याख्यानं पञ्चविंशतितमे]

Eggeling
  1. These are eleven offerings,–it was, indeed, by these offerings that the gods gained these worlds, and these quarters; and in like manner does this (Sacrificer), by these offerings, gain these worlds, and these quarters.

२७

विश्वास-प्रस्तुतिः

(श्च᳘) च᳘तस्रो ऽवान्तरदि᳘शः॥
(स्त᳘) त᳘ ऽएव᳘ चत्वा᳘रः पत्नीसंयाजा᳘ ऽअवान्तरदि᳘शो वै᳘ देवा᳘श्चतु᳘र्भिः पत्नीसंयाजै᳘रजयन्नवान्तरदि᳘श ऽउ ऽए᳘वैष᳘ ऽएतै᳘र्ज्जयति॥

मूलम् - श्रीधरादि

(श्च᳘) च᳘तस्रो ऽवान्तरदि᳘शः॥
(स्त᳘) त᳘ ऽएव᳘ चत्वा᳘रः पत्नीसंयाजा᳘ ऽअवान्तरदि᳘शो वै᳘ देवा᳘श्चतु᳘र्भिः पत्नीसंयाजै᳘रजयन्नवान्तरदि᳘श ऽउ ऽए᳘वैष᳘ ऽएतै᳘र्ज्जयति॥

मूलम् - Weber

च᳘तस्रोऽवान्तरदि᳘शः॥
त᳘ एव᳘ चत्वा᳘रः पत्नीसंयाजा᳘ अवान्तरदि᳘शो वै᳘ देवा᳘श्चतु᳘र्भिः पत्नीसंयाजै᳘रजयन्नवान्तरदि᳘श उ एॗवैष᳘ एतै᳘र्जयति॥

मूलम् - विस्वरम्

चतस्रो ऽवांतरदिशः । त एव चत्वारः पत्नीसंयाजाः । अवांतरदिशो वै देवाश्चतुर्भिः पत्नीसंयाजैरजयन् । अवांतरदिश उ एवैष एतैर्जयति ॥ २७ ॥

सायणः

आग्नेय्याद्यवांतरदिशां कथं जयोपाय इति, तत्राह- चतस्रो ऽवांतरदिश इति । ‘अवांतरदिशश्चतस्रः’ ‘त एव चत्वारः पत्नीसंयाजाः’ सोमत्वष्टृदेवपत्न्यग्निगृहपतिदेवताकाः पत्नीसंयाजाख्या यागाः । अतस्तेषां यागानां तज्जयहेतुतां प्रतिपादयति- अवांतरदिशो वै देवा इत्यादिना । अवांतरदिश उ एवैष इति । ‘एषः’ यजमानः ‘एतैः’ पत्नीसंयाजैः । गतमन्यत् ॥ २७ ॥

Eggeling
  1. And the four Patnīsaṁyājas are the four intermediate quarters; and, indeed, it was by the four Patnīsaṁyājas that the gods gained the intermediate quarters; and by means of them this (Sacrificer) now gains the intermediate quarters.

२८

विश्वास-प्रस्तुतिः

(त्य) अथे᳘डा॥
(डा ऽन्ना᳘) अन्ना᳘द्यमे᳘वैत᳘या देवा᳘ ऽअजयँस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘या ऽन्ना᳘द्यमेव᳘ जयत्येषा नु᳘ देवत्रा᳘ दर्शपूर्णमास᳘योः संपत्॥

मूलम् - श्रीधरादि

(त्य) अथे᳘डा॥
(डा ऽन्ना᳘) अन्ना᳘द्यमे᳘वैत᳘या देवा᳘ ऽअजयँस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘या ऽन्ना᳘द्यमेव᳘ जयत्येषा नु᳘ देवत्रा᳘ दर्शपूर्णमास᳘योः संपत्॥

मूलम् - Weber

अथे᳘डा॥
अन्ना᳘द्यमेॗवैत᳘या देवा᳘ अजयंस्त᳘थो एॗवैष᳘ एत᳘यान्ना᳘द्यमेव᳘ जयत्येषा नु᳘ देवत्रा᳘ दर्शपूर्णमास᳘योः सम्प᳘त्॥

मूलम् - विस्वरम्

अथेडा । अन्नाद्यमेवैतया देवा अजयन् । तथो एवैष एतया ऽन्नाद्यमेव जयति । एषा नु देवत्रा दर्शपूर्णमासयोः संपत् ॥ २८ ॥

सायणः

इडया जेतव्यं प्रतिपादयति- अथेडेति । इडा अधिक्रियत इत्यर्थः । ‘अद्यं’ अत्तुं योग्यं यदन्नं तदन्नाद्यम् । तदेव ‘एतया’ इडया पुरा ‘देवा अजयन्’ तथैव ‘एषः’ यजमानो ऽपि ‘एतया’ ‘अन्नाद्यमेव जयति’ प्राप्नोति । उक्तां संपत्तिं निगमयति- एषा नु देवत्रेति । सप्तम्यर्थे (पा. सू. ५ । ४ । ५६) त्राप्रत्ययः । देवेषु विषये एषोक्ता दर्शपूर्णमासयागयोः ‘संपत्’ ॥ २८ ॥

Eggeling
  1. And as to the Iḍā,–thereby the gods gained food; and in like manner does this (Sacrificer) thereby gain food. This, then, is the completeness of the New and Full-moon sacrifices as regards the gods.

२९

विश्वास-प्रस्तुतिः

अ᳓थाध्यात्म᳓म्॥
प᳓ञ्चेमे᳓ पु᳓रुषे प्राणा᳓ - ऽऋते च᳓क्षुर्भ्यां,
त᳓ एव᳓ प᳓ञ्च प्रयाजा᳓श्
च᳓क्षुषी ऽआ᳓ज्य-भागौ॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थाध्यात्मम्[[!!]]॥
(म्प᳘) प᳘ञ्चेमे पु᳘रुषे प्राणा᳘ ऽऋते च᳘क्षुर्भ्यां त᳘ ऽएव प᳘ञ्च प्रयाजाश्च᳘क्षुषी ऽआ᳘ज्यभागौ॥

मूलम् - Weber

अ᳘थाध्यात्म᳘म्॥
प᳘ञ्चेमे पु᳘रुषे प्राणा᳘ ऋते च᳘क्षुर्भ्यां त᳘ एव प᳘ञ्च प्रयाजा च᳘क्षुषी आ᳘ज्यभागौ॥

मूलम् - विस्वरम्

अथा ऽध्यात्मम् । पंचेमे पुरुषे प्राणा ऋते चक्षुर्भ्याम् । त एव पंच प्रयाजाः । चक्षुषी आज्यभागौ ॥ २९ ॥

सायणः

एवमाधिदैविकीं संपत्तिं प्रदर्श्य अन्यथाह- अथाध्यात्ममिति । ‘अध्यात्मं’ आत्मशरीरे । विभक्त्यर्थे अव्ययीभावः । दर्शपूर्णमासयोः संपत्तिरधिक्रियते । पंचेम इति । शीर्षण्येषु प्राणेषु चक्षुषी वर्जयित्वा मुखं नासिके कर्णाविति य इमे ‘पंच प्राणाः’ त इमे ‘पंच प्रयाजात्मकाः’ ‘चक्षुषी आज्यभागौ’ ॥ २९ ॥

Eggeling
  1. Now as to the body:–there are in man these five breathings, not including the eyes; they are the five fore-offerings, and the two butter-portions are the eyes.
मानसतरङ्गिणीकृत्

Now, as to one’s own self (body): In the Puruṣa, there are these five prāṇa-s (physiological processes) excluding the eyes. These are the five prayāja-s (fore-offerings); the two ājyabhāga-s (ghee-offerings) are the eyes.

३०

विश्वास-प्रस्तुतिः

अय᳓म् एवा᳓वाङ्-प्राणः᳓ स्विष्टकृ᳓त्॥
स᳓ य᳓त् त᳓म् अभ्यर्द्ध᳓ इवे᳓तराभ्य ऽआ᳓हुतिभ्यो जुहो᳓ति
त᳓स्माद् एत᳓स्मात् प्राणा᳓त्
स᳓र्व्वे प्राणा᳓ बीभत्सन्ते᳓,
ऽथ य᳓त् स्विष्टकृ᳓ते स᳓र्व्वेषाᳫँ᳭ हवि᳓षाᳫँ᳭ समवद्य᳓ति।
त᳓स्माद् य᳓त् कि᳓ञ्चेमा᳓न् प्राणा᳓न् आपद्य᳓त
एत᳓म् एव᳓ त᳓त् स᳓र्व्वᳫँ᳭ सम᳓वैति॥

मूलम् - श्रीधरादि

(गाव) अय᳘मेवा᳘वाङ्प्राणः᳘ स्विष्टकृत्[[!!]]॥
(त्स) स यत्त᳘मभ्यर्द्ध᳘ ऽइवे᳘तराभ्य ऽआ᳘हुतिभ्यो जुहो᳘ति त᳘स्मादेतस्मात्प्राणात्स᳘र्व्वे[[!!]] प्राणा᳘ बीभत्सन्ते᳘ ऽथ यत्स्विष्टकृ᳘ते[[!!]] स᳘र्व्वेषाᳫँ᳭ हवि᳘षाᳫँ᳭ समवद्य᳘ति त᳘स्माद्यत्कि᳘ञ्चेमा᳘न्प्राणा᳘नापद्य᳘त ऽएत᳘मेव तत्स᳘र्व्वᳫँ᳭ सम᳘वैति॥

मूलम् - Weber

अय᳘मेवा᳘वाङ् प्राणः᳘ स्विष्टकृ᳘त्॥
स यत्त᳘मभ्यर्ध᳘ इवे᳘तराभ्य आ᳘हुतिभ्यो जुहो᳘ति त᳘स्मादेत᳘स्मात्प्राणात्स᳘र्वे प्राणा᳘ बीभत्सन्ते᳘ऽथ य᳘त्स्विष्टकृ᳘ते स᳘र्वेषाᳫं हवि᳘षामवद्य᳘ति त᳘स्माद्यत्किं᳘ चेमा᳘न्प्राणा᳘नापद्य᳘त एत᳘मेव तत्स᳘र्वᳫं सम᳘वैति॥

मूलम् - विस्वरम्

अयमेवावाङ् प्राणः स्विष्टकृत् । स यत्तमभ्यर्द्ध इवेतराभ्य आहुतिभ्यो जुहोति । तस्मादेतस्मात् प्राणात्सर्वे प्राणा बीभत्संते । अथ यत्स्विष्टकृते सर्वेषां हविषां समवद्यति । तस्माद्यत्किंचेमान्प्राणानापद्यते । एतमेव तत्सर्वं समवैति ॥ ३० ॥

सायणः

‘यो ऽयमवाङ् प्राणः’ अन्नमलविसर्जनहेतुः स स्विष्टकृद्यागः । धर्मभेदेनोक्तमर्थं समर्थयते- तमभ्यर्द्ध इवेति । ‘इतराभ्य आहुतिभ्यः’ प्रधानहविर्भ्यः सकाशात् ‘अभ्यर्द्धे’ अभिगतः अर्द्धो देशः । यथा प्रधानहविर्भिः संसर्गो न भवति तथाभूतदेशे तं स्विष्टकृतं जुहोति । यस्मादेवं ‘तस्मात्सर्वे’ शीर्षण्याः ‘प्राणाः’ एतस्मादवाचः प्राणात् ‘बीभत्संते’ जुगुप्संते । अपि च ‘सर्वेषां’ प्रधानहविषां उत्तरार्द्धात् स्विष्टकृद्यागाय ‘समवद्यति’ संभूयावद्यतीति यत्, अतः यस्मात् ‘इमान् प्राणान्’ शीर्षण्यान् यत्किमपि द्रव्यं पृथक् पृथगापद्यते प्राप्तं भवति तत्सर्वं एतमवांचं प्राणं ‘समवैति’ संप्राप्नोति ॥ ३० ॥

Eggeling
  1. The Svishṭakr̥t is the same as this downward breathing; and because he offers that (oblation), as it were, apart from the other oblations 17, therefore all the breathings recoil from that breathing; and because for the Svishṭakr̥t he cuts portions from all the sacrificial dishes, therefore everything that enters these (channels of the other) breathings meets in (the channel of) that breathing.
मानसतरङ्गिणीकृत्

The sviṣṭakṛt is the excretory (downward) process (prāṇa).+++(5)+++
Because he offers that (sviṣṭakṛt), as though,
separately from the other oblations,
therefore all the [other] prāṇa-s stay away (literally: are scared by) from that prāṇa.
Now, because for the sviṣṭakṛt
he cuts portions from all the offering,
therefore everything that passes through these processes (prāṇa) meets in that process (prāṇa)
(An account of excretory physiology and its homology with the expiatory sviṣṭakṛt oblation).+++(5)+++

३१

विश्वास-प्रस्तुतिः

त्री᳓णि शिश्ना᳓नि +++(=२ वृषणौ + लिङ्गम्)+++॥
त᳓ ऽएव त्र᳓यो ऽनुयाजाः।
स᳓ यो᳓ ऽयं᳓ व्व᳓र्षिष्ठो ऽनुयाजस्
“त᳓द् इदं᳓ व्व᳓र्षिष्ठम् इव शिश्नं᳓ तं᳓ वा᳓ अ᳓न्-अवानन्+++(=पूरकं विना)+++ यजेद्” इ᳓त्य् आहुस्,
“त᳓थो हास्यैत᳓द् अ᳓मृध्रं” भवती᳓ति॥

मूलम् - श्रीधरादि

त्री᳘णि शिश्ना᳘नि॥
त᳘ ऽएव त्र᳘यो ऽनुयाजाः स᳘ यो ऽयं व्व᳘र्षिष्ठो ऽनुयाजस्त᳘दिदं व्व᳘र्षिष्ठमिव शिश्नं तं वा ऽअ᳘नवानन्यजेदि᳘त्याहुस्त᳘थो हास्यैतद᳘मृध्रं भवती᳘ति॥

मूलम् - Weber

त्री᳘णि शिश्ना᳘नि॥
त᳘ एव त्र᳘योऽनुयाजाः सॗ योऽयं व᳘र्षिष्ठोऽनुयाजस्त᳘दिदं व᳘र्षिष्ठमिव शिश्नं तं वा अ᳘नवानन्यजेदि᳘त्याहुस्त᳘थो 18 हास्यैतद᳘मृध्रम् भवती᳘ति॥

मूलम् - विस्वरम्

त्रीणि शिश्नानि । त एव त्रयो ऽनुयाजाः । स यो ऽयं वर्षिष्ठो ऽनुयाजः । तदिदं वर्षिष्ठमिव शिश्नम् । तं वा अनवानन्यजेदित्याहुः । तथो हास्यैतदमृध्रं भवतीति ॥ ३१ ॥

सायणः

त्रीणि शिश्नानीत्यादि । अण्डाभ्यां सह त्रित्वम् । ‘त एव त्रयो ऽनुयाजाः’ यज्ञशरीरस्य शिश्नात्मका इत्यर्थः । तत्र ‘यो ऽयं वर्षिष्ठः’ वृद्धतमस्तृतीयो ऽनुयाजः ‘तदिदं वर्षिष्ठमिव’ लिंगात्मकं ‘शिश्नम्’ । तत्रानवानपक्षं योजयति- तं वा अनवानन्निति । ‘अनवानन्’ अनुच्छूवसन् । तं तृतीयमनुयाजं वषट्कुर्यादित्यर्थः । तथैवं सति हि अस्य शरीरस्य एतदंगम् अमृध्रं अविच्छिन्नं ‘भवति’ इति अनवानपक्षाभिप्रायः ॥ ३१ ॥

Eggeling
  1. The three after-offerings are the three male organs 19; and that which is the chief after-offering is, as it were, the chief organ. ‘He should offer it without drawing breath 20,’ they say, ‘for thus it becomes unfailing for him.’
मानसतरङ्गिणीकृत्

The three anuyāja-s (after-offerings) are the three genitalia.
That which is the main after-offering is like the central genital.
“He should offer it without taking an in-breath,”
they (the rival teachers of the Vājasaneyin-s) say,
“because it thus becomes unfaltering for him.”

३२

विश्वास-प्रस्तुतिः

स वै᳓ सकृ᳓द् अ᳓वान्यात्॥
ए᳓कᳫँ ह्य् ए᳙त᳓स्य +++(शिश्नस्य)+++ प᳓र्व्व -
+अ᳓थ य᳓द् अप᳓र्व्वकᳫँ᳭ स्यात् प्र᳓तृण्णं वैव᳓ ति᳓ष्ठेल्, ल᳓म्बेत वा।
त᳓स्माद् एत᳓द् +++(शिश्नम्)+++ उ᳓च् च ति᳓ष्ठति, प᳓द्यते च।
त᳓स्मात् सकृ᳓द् अ᳓वान्यात्॥+++(5)+++

मूलम् - श्रीधरादि

स वै᳘ सकृद᳘वान्यात्॥
(दे᳘) ए᳘क᳘ᳫँ᳘ ह्येत᳘स्य पर्व्वा᳘थ य᳘दप᳘र्व्वकᳫँ᳭ स्यात्प्र᳘तृण्णं वैव ति᳘ष्ठेल्ल᳘म्बेत वा त᳘स्मादेतदु᳘च्च ति᳘ष्ठति प᳘द्यते च त᳘स्मात्सकृद᳘वान्यात्॥

मूलम् - Weber

स वै᳘ सकृद᳘वान्यात्॥
एॗकᳫं ह्येत᳘स्य पर्वा᳘थ य᳘दप᳘र्वकᳫं स्यात्प्र᳘तृणं वैव ति᳘ष्ठेल्ल᳘म्बेत वा त᳘स्मादेतदु᳘च्च ति᳘ष्टति प᳘द्यते च त᳘स्मात्सकृद᳘वान्यात्॥

मूलम् - विस्वरम्

स वै सकृदवान्यात् । एकं ह्येतस्य पर्व । अथ यदपर्वकं स्यात् । प्रतृण्णं वैव तिष्ठेल्लंबेत वा । तस्मादेतदुच्च तिष्ठति पद्यते च । तस्मात्सकृदवान्यात् ॥ ३२ ॥

सायणः

पक्षांतरमाह- स वै सकृदवान्यादिति । “ते होत्रे ऽअमत्सत” इत्यत्र सकृदेकवारं ‘अवान्यात्’ अवस्येत् । ‘एतस्य’ वर्षिष्ठस्य मध्यमस्य शिश्नस्य ‘एकं हि पर्व’ विद्यते, अतस्तत्सादृश्यात् यन्मध्ये अवसानं कृतम् । ‘अथ’ यत्तत् ‘अपर्वकं स्यात्’ पर्वरहितं स्यात् ‘प्रतृण्णं वैव’ ऊर्ध्वमुखमेवावतिष्ठेत, अथवा ‘लंबेत’ तत्र तु उभयोः समावेशो न घटते । यस्मादेतत् सपर्वकं तदात्मकस्य तृतीयानुयाजस्य याज्यामध्ये विच्छेदः । तस्मात् कारणात् एतदंगं निमित्तवशात् कदाचिदुत्तिष्ठति कदाचित् व्यापद्यते च । तस्मादिति प्रतिपादितार्थनिगमनम् ॥ ३२ ॥

Eggeling
  1. He may, however, draw breath once, for that (organ) has one joint; but if it were jointless, it

either would only stand erect, or it would hang down; whilst now it both becomes erect and hangs down: he may therefore draw breath once.

३३

विश्वास-प्रस्तुतिः

द्वौ᳓ बाहू, द्वा᳓ ऽऊरू᳓॥
त᳓ एव᳓ चत्वा᳓रः पत्नीसंयाजाः᳓।
प्रति᳓ष्ठा ऽय᳓म् एव᳓।
प्राण᳓ इ᳓डा - य᳓त् तां᳓ ना᳓ग्नौ᳓ जुहो᳓ति
य᳓त् सा᳓ ऽप्रदग्धेव᳓
त᳓स्माद् अय᳓म् अ᳓नवतृण्णः प्राणः᳓॥

मूलम् - श्रीधरादि

(द्द्वौ᳘) द्वौ᳘ बाहू द्वा᳘ ऽऊरू᳘॥
त᳘ ऽएव᳘ चत्वा᳘रः पत्नीसंयाजाः᳘ प्रति᳘ष्ठा ऽय᳘मेव᳘ प्राण ऽइ᳘डा यत्तां᳘ नाग्नौ᳘ जुहो᳘ति यत्सा᳘ ऽप्रदग्धेव त᳘स्मादयम᳘नवतृण्णः प्राणः[[!!]]॥

मूलम् - Weber

द्वौ᳘ बाहू द्वा᳘ ऊरू᳟॥
त᳘ एव᳘ चत्वा᳘रः पत्नीसंयाजाः᳘ प्रतिॗष्ठाय᳘मेव᳘ प्राण इ᳘डा यत्तांॗ नाग्नौ᳘ जुहो᳘ति यत्सा᳘प्रदग्धेव त᳘स्मादयम᳘नवतृणः प्राणः᳟॥

मूलम् - विस्वरम्

द्वौ बाहू द्वा ऊरू, त एव चत्वारः पत्नीसंयाजाः प्रतिष्ठा । अयमेव प्राण इडा । यत्तां नाग्नौ जुहोति । यत्सा अप्रदग्धेव । तस्मादयमनवतृण्णः प्राणः ॥ ३३ ॥

सायणः

द्वौ बाहू इत्यादि । बाहुद्वयम्, ऊरुद्वयम्, ‘चत्वारः पत्नीसंयाजाः’ अतस्ते प्रतिष्ठात्मकाः । ‘अयमेव’ मध्यमः ‘प्राणः’ ‘इडा’ । यद्यस्मात् तामिडामग्नौ न जुहोति ‘सा अप्रदग्धेव’ प्रदाहरहितेव भवति । ‘तस्मादयं’ मध्यमः ‘प्राणः’ ‘अनवतृण्णः’ अविच्छिन्नः सदा वर्तते ॥ ३३ ॥

Eggeling
  1. The four Patnīsaṁyājas are the two arms (or front legs) and the two thighs–the support, in fact 21; and the Iḍā is this vital air (in the centre); and inasmuch as that (Iḍā) is not offered in the fire, but remains as unburnt, therefore this (central) vital air is undivided.
मानसतरङ्गिणीकृत्

The two arms and the two thighs are the four Patnīsaṃyāja-s: verily the support. [The undivided/central] Prāṇa is the Iḍā offering. As that (Iḍā) is not offered in the fire but remains unburnt, therefore this prāṇaḥ is undivided (Foreshadowing the role of the spinal cord in the later tāntrika traditions).+++(5)+++

३४

विश्वास-प्रस्तुतिः

अ᳓स्थ्येव᳓ याज्याऽनुवा᳓क्याः॥
माᳫँ᳭स᳓ᳫँ᳓ हवि᳓स्,
त᳓न्+++(=याज्यानुवाक्य)+++-मितं छ᳓न्दो य᳓द् +++(तद्-मितत्वेन)+++ याज्याऽनुवा᳓क्यास् +++(एव)+++,
त᳓स्माद् उ समा᳓वन्त्य् एवा᳓स्थीनि
मे᳓द्यतश्+++(=पिन्वानस्य)+++ च कृ᳓श्यतश् च भवन्त्य्+++(5)+++,
अ᳓थ य᳓द् भू᳓य इव च हवि᳓र् गृह्णाति,
क᳓नीय इव च,
त᳓स्माद् उ माᳫँ᳭सा᳓न्य् एव᳓ मे᳓द्यतो मे᳓द्यन्ति
माᳫँ᳭सा᳓नि कृ᳓श्यतः कृश्यन्ति।
ते᳓नैते᳓न यज्ञे᳓न यां᳓ काम᳓यते देव᳓तां
तां᳓ यजति
य᳓स्यै हवि᳓र् भ᳓वति॥

मूलम् - श्रीधरादि

(णो᳘ ऽस्थ्ये) अ᳘स्थ्येव᳘ याज्या ऽनुवा᳘क्याः॥
(०) माᳫँ᳭स᳘ᳫँ᳘ हविस्त᳘न्मितं छ᳘न्दो य᳘द्याज्या ऽनुवा᳘क्यास्त᳘स्मादु समा᳘वन्त्येवा᳘स्थीनि मे᳘द्यतश्च कृ᳘श्यतश्च भवन्त्य᳘थ यद्भू᳘य ऽइव च हवि᳘र्गृह्णाति[[!!]] क᳘नीय ऽइव च त᳘स्मादु माᳫँ᳭सा᳘न्येव मे᳘द्यतो मे᳘द्यन्ति माᳫँ᳭सा᳘नि कृ᳘श्यतः कृश्यन्ति ते᳘नैते᳘न यज्ञे᳘न यां᳘ काम᳘यते देव᳘तां तां᳘ यजति य᳘स्यै हविर्भ᳘वति॥

मूलम् - Weber

अ᳘स्थ्येव᳘ याज्यानुवाॗक्याः॥
मांस᳘ᳫं᳘ हविस्त᳘न्मितं छ᳘न्दो य᳘द्याज्यानुवाॗक्यास्त᳘स्मादु समा᳘वन्त्येवा᳘स्थीनि मे᳘द्यतश्च कृ᳘श्यतश्च भवन्त्य᳘थ यद्भू᳘य इव च हवि᳘र्गृह्णा᳘ति क᳘नीय इव च त᳘स्मादु मांसा᳘न्येव मे᳘द्यतो मे᳘द्यन्ति मांसा᳘नि कृ᳘श्यतः कृश्यन्ति ते᳘नैते᳘न यज्ञे᳘न यां᳘ काम᳘यते देव᳘तां तां᳘ यजति य᳘स्यै हविर्भ᳘वति॥

मूलम् - विस्वरम्

अस्थ्येव याज्या ऽनुवाक्याः । मांसं हविः । तन्मितं छंदः । यद्याज्या ऽनुवाक्याः । तस्मादु समावंत्येवास्थीनि मेद्यतश्च कृश्यतश्च भवंति । अथ यद्भूय इव च हविर्गृह्णाति कनीय इव च । तस्मादु मांसान्येव मेद्यतो मेद्यंति, मांसानि कृश्यतः कृश्यंति । तेनैतेन यज्ञेन यां कामयते देवतां तां यजति, यस्यै हविर्भवति ॥ ३४ ॥

सायणः

याज्यानुवाक्यानां हविषां च क्रमेण धातुद्वयरूपतामाह- अस्थ्येव याज्यानुवाक्या इति । एतेषां यागानां याः ‘याज्यानुवाक्याः’ तान्यस्थीन्येव । हविस्तु मांसस्थानीयम् । याज्यानुवाक्या ऋच इति यत् ‘तन्मितं’ परिमितं छंदः । कदाचिदपि न्यूनाधिकभावो न भवति । तस्मात्कारणात् अस्थीन्यपि ‘मेद्यतः’ स्थूलीभवतः ‘कृश्यतः’ कृशीभवतश्च शरीरे ‘समावंति’ समपरिमाणान्येव ‘भवंति’ । देहवृद्धिक्षयाभ्यां अस्थ्नां वृद्धिक्षयौ न स्त इत्यर्थः । हवीरूपतां मांसस्य प्रतिपादयति- अथ यद्भूय इवेति । यागेषु हि कदाचित् ‘हविः’ ‘भूय इव’ अधिकमिव ‘कनीय इव’ अल्पमिव च गृह्यते । ‘तस्मात् मांसानि’ ‘मेद्यतः’ स्निग्धगात्रस्य पुरुषस्य ‘मेद्यंति’ वर्द्धन्ते । “ञिमिदा स्नेहने” (धा. पा. दि. प. १३७) इति धातुः । ‘कृश्यतः’ पुरुषस्य ‘कृश्यंति’ क्षीणानि भवंति । “कृश तनूकरणे” (धा. पा. दि. प. १२१) इति धातुः । एवमधिदेवमध्यात्मं च प्रयाजाज्यभागादीनां तत्तदात्मकतोक्ता । इदानीं तस्य फलमाह- तेनैतेन यज्ञेनेति । उक्तानां देवतानां मध्ये यां यां ‘देवतां’ यजमानः ‘कामयते’ ‘यस्यै’ देवतायै हविर्गृहीतं भवति, ‘तां’ कामयितव्यदेवतारूपेण यजते ॥ ३४ ॥

Eggeling
  1. The invitatory and offering-formulas are the bone, and the offering-material is the flesh. The invitatory and offering-formulas are (in) measured metre, whence the bones of a fat and a lean person are alike: but inasmuch as he takes now more, now less, offering-material, therefore the flesh of a fat person is fat, and the flesh of a lean person is lean. This sacrifice he performs to any deity he pleases and for whom there is a sacrificial dish.
मानसतरङ्गिणीकृत्

As the yājya incantations are measured by meters,
therefore the bones remain constant [be they] of a fat and a thin person.
However, even as he takes more [or less], offering material, the flesh of a fat person fattens, and the flesh of a thin person thins.
Thus, he performs this sacrifice to any deity he desires [and] for whom there is a sacrificial offering.

३५

विश्वास-प्रस्तुतिः

ता᳓ वा᳓ ऽएताः᳓॥
अनपोद्धार्य्या᳓ आ᳓हुतयो भवन्ति।
स᳓ य᳓द् +हैता᳓साम् अपोद्ध᳓रेद्
य᳓थै᳓कम् अ᳓ङ्गᳫँ᳭ शृणीया᳓त्
प्राणं᳓ वा निर्हण्या᳓द् एवं᳓ त᳓द्,
अन्या᳓न्य् एव᳓ हवीᳫँ᳭᳓ष्य् उ᳓प चाह्रियन्ते᳓
ऽप च ह्रियन्ते॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः᳘॥
(ऽ) अनपोद्धार्य्या ऽआ᳘हुतयो भवन्ति स य᳘द्धैता᳘सामपोद्ध᳘रेद्यथै᳘कम᳘ङ्गᳫँ᳭ शृणीया᳘त्प्राणं᳘ वा निर्हण्या᳘देवं त᳘दन्या᳘न्येव᳘ हवीᳫँ᳭ष्यु᳘प चाह्रियन्ते᳘ ऽप च ह्रियन्ते॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
अनपोद्धार्या आ᳘हुतयो भवन्ति स य᳘द्धैता᳘सामपोद्ध᳘रेद्यथै᳘कम᳘ङ्गं शृणीया᳘त्प्राणं᳘ 22 वा निर्हण्या᳘देवं त᳘दन्या᳘न्येव᳘ हवींष्यु᳘प चाह्रियन्ते᳘ऽप च ह्रियन्ते॥

मूलम् - विस्वरम्

ता वा एता अनपोद्धार्या आहुतयो भवंति । स यद्धैतासामपोद्धरेत् । यथैकमंगं शृणीयात्प्राणं वा निर्हण्यात् । एवं तत् । अन्यान्येव हवींष्युप चाह्रियंते ऽप च ह्रियंते ॥ ३५ ॥

सायणः

एतासां प्रयाजादीनां अध्यात्ममुक्तेषु अंगेषु मध्ये ‘यथा एकमंगं’ ‘शृणीयात्’ हिंस्यात् । ‘प्राणं वा निर्हण्यात्’ ‘एवं तत्’ अपोद्धृतमंगं स्यात् । तस्मादेतानि प्रयाजानुयाजादीनि प्राच्योदीच्यानि अंगजातानि तत्प्रतिनियतावयवरूपतया यज्ञशरीरनिष्पादकानि इति सर्वेष्टितंत्रसाधारणानि । अन्येषां प्रधानहविषाम् । आवापोद्धारयोग्यतामाह- अन्यान्येव हवींषीति । ‘उपाह्रियंते’ आज्यभागानंतरं स्विष्टकृद्यागात् पूर्वं प्रधानयागस्थाने प्रक्षिप्यन्ते प्रयोगांतरे ‘अपह्रियंते च’ उद्धार्यंते इत्यर्थः ॥ ३५ ॥

Eggeling
  1. Now, these are offerings from which nothing must be omitted; but were one to omit anything of them, it would be as if he were to break off some limb, or knock out some (channel of the) vital air. Other oblations, indeed, are either added to or omitted.
मानसतरङ्गिणीकृत्

These are the offerings not to be omitted. If one were to omit any of them, it would be as if he may cut off some organ or may remove some metabolic process. Then, the other oblations, indeed, are either added to or omitted.

३६

विश्वास-प्रस्तुतिः

ता᳓ वा᳓ ऽएताः᳓॥
षो᳓डशा᳓हुतयो भवन्ति,
षो᳓डश-कलो वै पु᳓रुषः,
पु᳓रुषो यज्ञ᳓स्
त᳓स्मात् षो᳓डशा᳓हुतयो भवन्ति॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः[[!!]]॥
षो᳘डशा᳘हुतयो भवन्ति षो᳘डशकलो वै पु᳘रुषः पु᳘रुषो यज्ञस्त᳘स्मात्षो᳘डशा᳘हुतयो भवन्ति॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
षो᳘डशा᳘हुतयो भवन्ति षो᳘डशकलो वै पु᳘रुषः पु᳘रुषो यज्ञस्त᳘स्मात्षो᳘डशा᳘हुतयो भवन्ति॥

मूलम् - विस्वरम्

ता वा एताः षोडशाहुतयो भवंति । षोडशकलो वै पुरुषः । पुरुषो यज्ञः । तस्मात्षोडशाहुतयो भवंति ॥ ३६ ॥

सायणः

उक्ता अंगाहुतीः संभूय प्रशंसति- ता वा एताः षोडशाहुतय इति । पंच प्रयाजाः, द्वावाज्यभागौ, स्विष्टकृत्, इडा, त्रयो ऽनुयाजाः, चत्वारः पत्नीसंयाजाः, इति षोडश सर्वत्र साधारण्येन भवंतीत्यर्थः । षोडशकलो वै पुरुष इति । सप्त शीर्षण्याः प्राणाः, अवाङ्प्राण एकः, इत्यष्टौ प्राणाः, चत्वारि दोर्बाहवानि, चत्वारि ऊर्वष्ठीवानि च, अष्टावंगानि । एतत् षोडशावयवात्मकं खलु शरीरम् । यद्वा 23 अत्रैव “पञ्चेमे प्राणाः” इत्यादिना अनुक्रांता एव प्राणाद्याः षोडशकला ज्ञातव्याः । यस्मादेवं षोडशकलात्मकस्य यज्ञशरीरस्य षोडशाहुतिसाध्यता तस्मात् सर्वास्वपीष्टिषु ‘एताः षोडशाहुतयः’ भवन्तीत्यर्थः ॥ ३६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे प्रथमे ऽध्याये षष्ठं ब्राह्मणम् ॥ (११ । १ । ६) ॥

Eggeling
  1. These, then, are sixteen offerings, for man consists of sixteen parts, and the sacrifice is the Man (Purusha): hence there are sixteen offerings.
मानसतरङ्गिणीकृत्

These, indeed, are the sixteen offerings, for the Puruṣa consists of sixteen parts. The sacrifice is the Puruṣa; therefore, there are sixteen offerings.

मानसतरङ्गिणीकृत् - टिप्पनी

Hence, in conclusion, we posit that the 16-fold structure of the Puruṣa-sūkta was intended to reflect homology between the anatomy of the Puruṣa and the structure of the ritual right from the time of its composition, or in the least, this connection was established early in its deployment.


  1. 12:1 Or, they toiled and became heated (with fervid devotion). For this cosmological legend, see J. Muir, Original Sanskrit Texts, iv, p. 24. ↩︎

  2. स इदमेव Sây. ↩︎

  3. इथमृक् शांखायनीया वा कण्वमाध्यन्दिनादिपञ्चदशान्यतमशाखीया वा स्यादिति प्रतिभाति । शाकलशाखीयसंहितायां तु- अस्यां ऋचो ऽन्ते ‘युयुत्से’ इत्यत्र ‘विवित्से’ इति पाठान्तरेण युक्त उत्तरार्ध एवोपलभ्यते । पूर्वार्धस्तु ‘क ऽउ नु ते महिमानं’ इत्यादिरस्ति ॥ ↩︎

  4. 14:1 Or, whosoever knows the ‘all-stealing’ power of the year. ↩︎

  5. अधिदेवता Sây. as a compound, against the accent. ↩︎

  6. परमाद्वाऽएष स्थाना Sây. ↩︎

  7. 15:1 Viz. Parjanya, the rain-god, according to Sāyaṇa. ↩︎

  8. 15:2 Viz. officiating as his, Prajāpati’s, priest. ↩︎

  9. 16:1 Or, perhaps, raise it, bring it nearer. The St. Petersb. Dict. takes ‘upa-kurute’ here in the sense of ’to cherish (hegen, pflegen);’ Professor Delbrück, Altind. Syntax, p. 238, doubtfully in that of ‘worship, revere (verehren);’–enām prācīṁ diśam upetya itaḥ paraṁ kurvīmahi kāryāntaraṁ sr̥jemahi, Sāy. ↩︎

  10. 17:1 The particle ‘khalu’ might perhaps be rendered by ‘really,’ or–‘could we but see it,’ ‘were it but (really) visible to us.’ ↩︎

  11. 17:2 That is, it was moved up to them. ↩︎

  12. 17:3 See IV, 3, 4, 14. ↩︎

  13. ऽस्या भूयिष्ठं Sây ↩︎

  14. 17:4 It seems hardly possible to take ‘yad–tena’ here in the usual causal sense,–it is only because (or, inasmuch as) one obtains (one’s object) after going forwards that one goes to the western quarter. What is implied, in any case, is that first some hope, or desire, is conceived the accomplishment of which is only brought about by a forward movement, or by action; and that success in attaining the object sought for is followed by the conception of fresh desires. For the same force of ‘yad–tena’ (when–then) see XI, 3, 3, 4-6. ↩︎

  15. Sây seems to read यदा वृष्टि, against the accent: he takes अबलीयसः as accus plur. instead of ablat. singul. ↩︎

  16. 18:1 Viz. the four quarters and the objects enumerated as represented by them. ↩︎

  17. 19:1 See I, 7, 3, 21, where I would now translate, He offers apart (sideways), as it were, from the other oblations,–the oblation to Agni Svishṭakr̥t being poured out on the north side of the fire, so as not to come in contact with the chief oblations and the butter-portions. ↩︎

  18. अ᳘नवानंन्यजे A. अ᳘नवानंत्यजे P. अनवानम् Sây. (नमिति). ↩︎

  19. 19:2 That is, including the testicles. ↩︎

  20. 19:3 Or, rather,–at the third after-offering (viz. that to Agni Svishṭakr̥t),–the Hotr̥ should (according to some authorities) pronounce the offering-formula, which is considerably longer than those of the two other offerings, without making a pause; whilst others allow him to pause once. ↩︎

  21. 20:1 Bāhudvayam ūrudvayaṁ catvāraḥ patnīsaṁyājāḥ, atas te pratishṭḥātmakāḥ; ayam eva madhyamaḥ prāṇa iḍā, Sāy. ↩︎

  22. शृणिया AP. ↩︎

  23. पंच शीर्षण्याः प्राणाः ५ द्वे चक्षुषी २ अवाङ्प्राणः १ द्वावाण्डौ २ शिश्नं च १ द्वौ बाहू २ द्वावूरू २ मध्यमः प्राणः १ एवं षोडशकलो वा १६ ॥ ↩︎