०१
विश्वास-प्रस्तुतिः
अ᳘द्यामावास्ये᳘ति म᳘न्यमान ऽउ᳘पवसति॥
(त्य᳘) अ᳘थैष᳘ पश्चा᳘द्ददृशे स᳘ हैष᳘ दिव्यः श्वा स य᳘जमानस्य पशू᳘नभ्य᳘वेक्षते त᳘दपशव्य᳘ᳫँ᳘ स्याद᳘प्रायश्चित्तिकृत ऽएत᳘स्मादु हैत᳘द्भी᳘षा ऽवचन्द्रमसादि᳘ति॥
मूलम् - श्रीधरादि
अ᳘द्यामावास्ये᳘ति म᳘न्यमान ऽउ᳘पवसति॥
(त्य᳘) अ᳘थैष᳘ पश्चा᳘द्ददृशे स᳘ हैष᳘ दिव्यः श्वा स य᳘जमानस्य पशू᳘नभ्य᳘वेक्षते त᳘दपशव्य᳘ᳫँ᳘ स्याद᳘प्रायश्चित्तिकृत ऽएत᳘स्मादु हैत᳘द्भी᳘षा ऽवचन्द्रमसादि᳘ति॥
मूलम् - Weber
अॗद्यामावास्ये᳘ति म᳘न्यमान उ᳘पवसति॥
अ᳘थैष᳘ पश्चा᳘द्ददृशे स᳘ हैष᳘ दिव्यः श्वा स य᳘जमानस्य पशू᳘नभ्य᳘वेक्षते त᳘दपशव्य᳘ᳫं᳘ स्याद᳘प्रायश्चित्तिकृत एत᳘स्मादु हैत᳘द्भीषावचन्द्रमसादि᳘ति॥
मूलम् - विस्वरम्
दर्शयागे पश्चाच्चंद्रदर्शने त्रिहविष्का अभ्युदितेष्टिः (प्रायश्चित्तेष्टिः) । 1
अद्यामावास्येति मन्यमान उपवसति । अथैष पश्चाद्ददृशे । स हैष दिव्यः श्वा । स यजमानस्य पशूनभ्यवेक्षते । तदपशव्यं स्यादप्रायश्चित्तिकृतः । एतस्मादु हैतद्भीषा ऽवचंद्रमसादिति ॥ १ ॥
सायणः
(गृह्यम्) दर्शयागे पुरस्ताच्चंद्रदर्शने प्रायश्चित्तेष्टिरुक्ता, अथ पश्चात्तद्दर्शने नैमित्तिकीमिष्टिं विधित्सुराह- अद्यामावास्येति मन्यमान इति । “पर्वणो यश्चतुर्थो ऽश आद्याः प्रतिपदस्त्रयः । यागकालः स विज्ञेयः” (मुरारिकृतपर्वनिर्णये.) इति स्मृत्युक्तकालमतिक्रम्य प्रतिपत्तुरीयपादादिकाले अद्येदानीं अमावास्येति दर्शयागस्यायं काल इति मोहात् ‘मन्यमानो’ यदा ‘उपवसति’ औपवसथ्यं कर्म करोति । अथानंतरं सायंकाले ‘एषः’ चंद्रमाः ‘पश्चात्’ प्रतीच्यां दिशि ‘ददृशे’ दृश्यते चोदितं कालमतिक्रम्याकाले कर्म कृतमिति ज्ञायत इत्यर्थः । ‘सः’ पश्चात् दृश्यमानः ‘एषः’ चंद्रः ‘दिव्यः’ दिवि भवः ‘श्वा’ श्ववत् बाधकः । ‘सः’ ‘अस्य’ यजमानस्य पशून् गो ऽश्वाविमहिषादीन् ‘अभ्यवेक्षते’ अभ्यवहर्तुं पश्यति । यथा सालावृको वने संचरतो मेषादीन् पशून् अभ्यवजिहीर्षति, तद्वत् । तस्मात् चंद्रदर्शनं ‘अप्रायश्चित्तिकृतः’ प्रायो नाम विध्यतिक्रमजनितो दोषः, तस्य चित्तिः, तत्समाधायकं ज्ञानपूर्वकं कर्म तदकुर्वतो यजमानस्य ‘अपशव्यं’ पशुभ्यो हितं पराव्यं तद्विलक्षणं स्यात् । तच्चंद्रदर्शनं पशुहानिकृदित्यर्थः एतदेवोपपाद्यते- एतस्मादिति । एतस्मादेव खलु चंद्रसंबंधिश्वरूपेण पूर्वोक्तात् । अत एव ‘अवचंद्रमसात्’ अवकृष्टो निकृष्टः चंद्रमाः अवचंद्रमसः । “अनसन्तान्नपुंसकात्” (पा. सू. ५ । ४ । १०३) इति अनपुंसकाल्लिंगादपि व्यत्ययेनाकारः समासांतः । तस्माच्चन्द्रादिति ‘भीषा’ उक्तरूपया भीत्या ॥ १ ॥
Eggeling
- He observes the fast thinking, ‘To-day is the day of new moon 2;’ and then that (moon) is seen in
the west. But, indeed, he (the moon) is that heavenly dog: he watches the Sacrificer’s cattle (to seize them), and that would not be good for cattle if amends were not made to them 3; and through fear of that ‘down-coming moon 4,’ as they think him to be,–
०२
विश्वास-प्रस्तुतिः
छायामु᳘पसर्प्पन्ति॥
(न्त्ये) एते᳘नो हैतदुपत᳘पदा᳘चक्षते[[!!]] श्व᳘लुचितमि᳘त्येत᳘मु है᳘वैतदा᳘चक्षते॥
मूलम् - श्रीधरादि
छायामु᳘पसर्प्पन्ति॥
(न्त्ये) एते᳘नो हैतदुपत᳘पदा᳘चक्षते[[!!]] श्व᳘लुचितमि᳘त्येत᳘मु है᳘वैतदा᳘चक्षते॥
मूलम् - Weber
छायामु᳘पसर्पन्ति॥
एते᳘नो हैत᳘दुपत᳘पदा᳘चक्षते 5 श्व᳘लुचितमि᳘त्येत᳘मु हैॗवैतदा᳘चक्षते॥
मूलम् - विस्वरम्
छायामुपसर्पन्ति । एतेनो हैतदुपतपत् आचक्षते श्वलुचितमिति । एतमु हैवैतदाचक्षते ॥ २ ॥
सायणः
‘छायामुपसर्पन्ति’ उपगच्छन्ति गवाद्याः पशवस्तिरोहिता यजमानस्य भवतीत्यर्थः । ‘एतेनो ह’ एतेनैव प्रकारेण इति ‘उपतपत्’ पशूनामुपतापकारि यदेतच्चंद्रदर्शनं ततः ‘श्वलुचितं’ शुना रिक्तीकृतमित्याचक्षते अभिज्ञाः कथयंति । ‘एतमु हैवैतत्’ एतमेव चंद्रगतदोषम् एवम् ‘आचक्षते’ ॥ २ ॥
Eggeling
- They steal away into the shade. And therefore, indeed, people call that burning pain ‘śvalucita’ (dog’s clutch);–and therefore they also call that one–
०३
विश्वास-प्रस्तुतिः
शश᳘श्चांद्रमस ऽइ᳘ति॥
चन्द्र᳘मा वै सो᳘मो देवा᳘नाम᳘न्नं तं᳘ पौर्णमास्यामभि᳘षुण्वन्ति᳘[[!!]] सो ऽपरप᳘क्षे ऽप ऽओ᳘षधीः प्र᳘विशति पश᳘वो वा᳘ ऽअप ऽओ᳘षधीरदन्ति त᳘देनमेताᳫँ᳭ रा᳘त्रिं पशु᳘भ्यः स᳘न्नयति॥
मूलम् - श्रीधरादि
शश᳘श्चांद्रमस ऽइ᳘ति॥
चन्द्र᳘मा वै सो᳘मो देवा᳘नाम᳘न्नं तं᳘ पौर्णमास्यामभि᳘षुण्वन्ति᳘[[!!]] सो ऽपरप᳘क्षे ऽप ऽओ᳘षधीः प्र᳘विशति पश᳘वो वा᳘ ऽअप ऽओ᳘षधीरदन्ति त᳘देनमेताᳫँ᳭ रा᳘त्रिं पशु᳘भ्यः स᳘न्नयति॥
मूलम् - Weber
शश᳘श्चान्द्रमस इ᳘ति॥
चन्द्र᳘मा वै सो᳘मो देवा᳘नाम᳘न्नं त᳘म् पौर्णमाॗस्यामभि᳘षुण्वन्तिॗ सोऽपरपॗक्षेऽप ओ᳘षधीः प्र᳘विशति पश᳘वो वा᳘ अप ओ᳘षधीरदन्ति त᳘देनमेतां रा᳘त्रीम् पशु᳘भ्यः सं᳘नयति॥
मूलम् - विस्वरम्
शशश्चांद्रमस इति । चंद्रमा वै सोमो देवानामन्नम् । तं पौर्णमास्यामभिषुण्वंति । सो ऽपरपक्षे ऽप ऽओषधीः प्रविशति । पशवो वा अप ओषधीरदंति । तदेनमेतां रात्रिं पशुभ्यः सन्नयति ॥ ३ ॥
सायणः
‘चन्द्रमसः’ संबंधी तन्मण्डलमध्यवर्ती ‘शशः’ इति । अत एव तस्य शशांक इति प्रसिद्धिः । इतो ऽपि चन्द्रदर्शनात्प्रागेव शुद्धायाममावास्यायां उपवसथः कार्य इत्याह- चंद्रमा वा इति । तं पौर्णमास्यामिति । उपचयकाष्ठा गतं तं देवान्नरूपं चंद्रमसं पौर्णमासीकाले ‘अभिषुण्वंति’ पातुं द्रवीकुर्वंति । स चाभिषवेणेतः अनुष्ठिता ऽपरपक्षे अप ओषधीश्च प्रविशति । पशवस्ता ओषधीर्जग्ध्वा अपश्च पीत्वा स्वात्मनि तं चांद्रमसं कृत्स्नं रसममावास्यायां धारयंति । तत ‘एनं’ रसमेतां रात्रिम् । “अत्यंतसंयोगे द्वितीया”- (पा. सू. २ । ३ । ५) । अमावास्यायाः संबन्धिन्यां रात्रौ ‘पशुभ्यः’ ‘सकाशात् सन्नयति’ सम्यक् प्रापयति । तत्सन्नयनं प्रतिपच्चंद्रदर्शने सति नोपपद्यत इत्यर्थः ॥ ३ ॥
Eggeling
- ‘The hare in the moon 6.’ Soma, the food of the gods, indeed, is the moon: at full moon they press him; and in the subsequent half of the month he enters the waters and plants; and, the cattle feeding on the water and the plants, he then during that night (of new moon) collects him from the cattle.
०४
विश्वास-प्रस्तुतिः
सो᳘ ऽद्यामावास्ये᳘ति म᳘न्यमान ऽउ᳘पवसति॥
(त्य᳘) अ᳘थैष᳘ पश्चा᳘द्ददृशे तद्य᳘जमानो यज्ञपथा᳘देति त᳘दाहुः कथं᳘ कुर्य्यादित्वा᳘ यज्ञपथाद्य᳘जेता३ न᳘ यजेता३ ऽइ᳘ति य᳘जेत हैव न᳘ ह्यन्य᳘दपक्र᳘मणं[[!!]] भ᳘वति श्वः᳘ श्व ऽए᳘वैष ज्या᳘यानु᳘देति स᳘ ऽआमावास्य᳘विधेनै᳘वेष्ट्वा ऽथे᳘ष्टिमनु निर्व्वपति तद᳘हर्व्वैव श्वो᳘ वा॥
मूलम् - श्रीधरादि
सो᳘ ऽद्यामावास्ये᳘ति म᳘न्यमान ऽउ᳘पवसति॥
(त्य᳘) अ᳘थैष᳘ पश्चा᳘द्ददृशे तद्य᳘जमानो यज्ञपथा᳘देति त᳘दाहुः कथं᳘ कुर्य्यादित्वा᳘ यज्ञपथाद्य᳘जेता३ न᳘ यजेता३ ऽइ᳘ति य᳘जेत हैव न᳘ ह्यन्य᳘दपक्र᳘मणं[[!!]] भ᳘वति श्वः᳘ श्व ऽए᳘वैष ज्या᳘यानु᳘देति स᳘ ऽआमावास्य᳘विधेनै᳘वेष्ट्वा ऽथे᳘ष्टिमनु निर्व्वपति तद᳘हर्व्वैव श्वो᳘ वा॥
मूलम् - Weber
सोॗऽद्यामावास्ये᳘ति म᳘न्यमान उ᳘पवसति॥
अ᳘थैष᳘ पश्चा᳘द्ददृशे तद्य᳘जमानो यज्ञपथा᳘देति त᳘दाहुः कथं᳘ कुर्यादित्वा᳘ यज्ञपथाद्य᳘जेता३ न᳘ यजेता३ इ᳘ति य᳘जेत हैव न ह्य᳘न्य᳘दपक्र᳘मणम् भ᳘वति श्वः᳘ श्व एॗवैष ज्या᳘यानु᳘देति स᳘ आमावास्य᳘विधेनैॗवेष्ट्वाथे᳘ष्टिमनुनि᳘र्वपति तद᳘हर्वैव श्वो᳘ वा॥
मूलम् - विस्वरम्
सो ऽद्यामावास्येति मन्यमान उपवसति । अथैष पश्चाद्ददृशे । तद्यजमानो यज्ञपथादेति । तदाहुः कथं कुर्यात् इत्वा यज्ञपथाद्यजेता ३ न यजेता ३ इति । यजेत हैव । न ह्यन्यदपक्रमणं भवति । श्वः श्व एवैष ज्यायानुदेति । सं आमावास्यविधेनैवेष्ट्वा- अथेष्टिमनुनिर्वपति । तदहर्वैव श्वो वा ॥ ४ ॥
सायणः
दर्शयागस्यातिक्रांतकालत्वे दोषमुपन्यस्य तत्रानुष्ठानप्रकारमाह- सो ऽद्यामावास्येति । व्याख्यातार्थः । तत्तथा पश्चाच्चंद्रदर्शने 7 सति यजमानो ‘यज्ञपथात्’ अनुष्ठानमार्गात् ‘एति’ अपक्रामति “ऋक्पूरब्धूः” (पा. सू. ५ । ४ । ७४) इति अकारः समासांतः । अत्र कर्तव्यविशेषमुपदेष्टुं ब्रह्मवादिनां प्रश्नमुद्भावयति- तदाहुः कथं कुर्यादित्वा यज्ञपथादिति । ‘इत्वा’ गत्वा प्रच्युतो भूत्वेत्यर्थः । किं प्रक्रांतेन दर्शयागेन ‘यजेत न यजेतेति’ तेषां मीमांसा । “विचार्यमाणानाम्” (पा. सू. ८ । २ । ९७) इत्युभयत्र प्लुतिः । एवं विचार्य यागपक्षमेव निर्द्धारयति- यजेत हैवेति । ‘अपक्रमणं’ दोषनिष्क्रमणद्वारं, तदानीमेव प्रकृतयागनिर्वर्तने कारणमाह- श्वः श्व एवैष इति । ‘श्वः श्वः’ उत्तरोत्तरदिवसे कलावृद्ध्या ‘ज्यायान्’ वृद्धतर एव सन्नुदेति । तथा च कालातिक्रम ओषधिगतश्चंद्रः प्रतिक्षणं ततो ऽपसर्पतीति प्रकृतो दर्शयागः शीघ्रं समापनीय इत्यर्थः । अनंतरमेवैतद्दोषपरिहाराय प्रायश्चित्तेष्टिः कर्तव्येति विधत्ते- स आमावास्यविधेनैवेति । यश्चोदितकाले ऽनुष्ठितो ऽमावास्यायागः, तत्प्रकारेणैव प्रतिपदि प्रक्रांतां दर्शेष्टिं समाप्य, अनंतरमेव एतां त्रिहविष्कां वक्ष्यमाणामिष्टिमनुनिर्वपेत् । सा च सद्यस्काला द्व्यहःकालसाध्या वा कार्येत्याह- तदहर्वैवेति ॥ ४ ॥
Eggeling
- He keeps the fast thinking, ‘To-day is the day of new moon;’ and then that (moon) is seen in the west, and the Sacrificer departs from the path of sacrifice. As to this they say, ‘What should one do when he has departed from the path of the sacrifice? Should he sacrifice, or should he not sacrifice?’ He should certainly sacrifice, for there is no other way out of it: day after day that (moon) rises larger. Having performed offering after the manner of the New-moon sacrifice, he takes out material for an additional offering either on the same, or on the following day.
०५
विश्वास-प्रस्तुतिः
त᳘स्यै त्री᳘णि हवी᳘ᳫँ᳘षि भवन्ति॥
(न्त्य) अग्न᳘ये पथिकृ᳘ते ऽष्टाकपालं पुरोडा᳘शमि᳘न्द्राय व्वृत्रघ्न ऽए᳘कादशकपालमग्न᳘ये व्वैश्वानरा᳘य द्वा᳘दशकपालं पुरोडा᳘शम्॥
मूलम् - श्रीधरादि
त᳘स्यै त्री᳘णि हवी᳘ᳫँ᳘षि भवन्ति॥
(न्त्य) अग्न᳘ये पथिकृ᳘ते ऽष्टाकपालं पुरोडा᳘शमि᳘न्द्राय व्वृत्रघ्न ऽए᳘कादशकपालमग्न᳘ये व्वैश्वानरा᳘य द्वा᳘दशकपालं पुरोडा᳘शम्॥
मूलम् - Weber
त᳘स्य त्री᳘णि हवीं᳘षि भवन्ति॥
अग्न᳘ये पथिकृ᳘तेऽष्टाकपालम् पुरोडा᳘शमि᳘न्द्राय वृत्रघ्न ए᳘कादशकपालमग्न᳘ये वैश्वानरा᳘य द्वा᳘दशकपालम् पुरोडा᳘शम्॥
मूलम् - विस्वरम्
तस्यै त्रीणि हवींषि भवंति । अग्नये पथिकृते ऽष्टाकपालं पुरोडाशम्, इंद्राय वृत्रघ्न एकादशकपालम्, अग्नये वैश्वानराय द्वादशकपालं पुरोडाशम् ॥ ५ ॥
सायणः
कतिहविष्का सेति तत्राह- तस्यै त्रीणीति । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ । वा.) । तान्येव हवींषि दर्शयति- अग्नये पथिकृत इति ॥ ५ ॥
Eggeling
- There are three chief oblations for this (offering),–(he prepares) a cake on eight potsherds for
Agni Pathikr̥t (the path-maker), one on eleven potsherds for Indra Vr̥trahan (the slayer of Vr̥tra), and a cake on twelve potsherds for Agni Vaiśvānara.
०६
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स य᳘दग्न᳘ये पथिकृ᳘ते निर्व्व᳘पति॥
(त्य) अग्निर्व्वै᳘ पथः᳘ कर्ता स य᳘स्मादे᳘वादो य᳘जमानो यज्ञपथादे᳘ति त᳘मेनमग्निः पं᳘थानमा᳘पादयति॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स य᳘दग्न᳘ये पथिकृ᳘ते निर्व्व᳘पति॥
(त्य) अग्निर्व्वै᳘ पथः᳘ कर्ता स य᳘स्मादे᳘वादो य᳘जमानो यज्ञपथादे᳘ति त᳘मेनमग्निः पं᳘थानमा᳘पादयति॥
मूलम् - Weber
स य᳘दग्न᳘ये पथिकृ᳘ते निर्व᳘पति॥
अग्निर्वै᳘ पथः᳘ कर्ता स य᳘स्मादेॗवादो य᳘जमानो यज्ञपथादे᳘ति त᳘मेनमग्निः प᳘न्थानमा᳘पादयति॥
मूलम् - विस्वरम्
स यदग्नये पथिकृते निर्वपति । अग्निर्वै पथः कर्ता । स यस्मादेवादो यजमानो यज्ञपथादेति । तमेनमग्निः पंथानमापादयति ॥ ६ ॥
सायणः
तानि क्रमेणानूद्य व्याचष्टे- स यदग्नये पथिकृत इति । ‘पथः’ यज्ञमार्गस्य भ्रष्टस्य ‘अग्निः’ खलु ‘कर्ता’ पुनः प्रापयिता । अतः सो ऽग्निस्तं पंथानम् ‘एनं’ यजमानं प्रापयति । ‘यस्मात्’ यज्ञपथादेव ‘अदः’ अमुत्र ‘यजमान एति’ अपक्रामति । अतः पथिकृद्विशेषणविशिष्टाग्नेर्यागो युक्त इत्यर्थः ॥ ६ ॥
Eggeling
- Now as to why he prepares (an oblation) for Agni Pathikr̥t,–it is that Agni, being the maker of the path, leads the Sacrificer (back) to the path of sacrifice, from which he now departs.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यदि᳘न्द्राय व्वृत्रघ्ने᳘॥
पाप्मा वै᳘ व्वृत्रो यो भू᳘तेर्व्वारयित्वा ति᳘ष्ठति कल्या᳘णात्क᳘र्म्मणः साधोस्त᳘मेतदि᳘न्द्रेणैव᳘ व्वृत्रघ्ना᳘ पाप्मानं[[!!]] व्वृत्र᳘ᳫँ᳘ हन्ति त᳘स्मादि᳘न्द्राय व्वृत्रघ्ने᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यदि᳘न्द्राय व्वृत्रघ्ने᳘॥
पाप्मा वै᳘ व्वृत्रो यो भू᳘तेर्व्वारयित्वा ति᳘ष्ठति कल्या᳘णात्क᳘र्म्मणः साधोस्त᳘मेतदि᳘न्द्रेणैव᳘ व्वृत्रघ्ना᳘ पाप्मानं[[!!]] व्वृत्र᳘ᳫँ᳘ हन्ति त᳘स्मादि᳘न्द्राय व्वृत्रघ्ने᳘॥
मूलम् - Weber
अ᳘थ यदि᳘न्द्राय वृत्रघ्ने᳟॥
पाप्मा वै᳘ वृत्रो यो भू᳘तेर्वारयित्वा ति᳘ष्ठति कल्या᳘णात्क᳘र्मणः साधोस्त᳘मेतदि᳘न्द्रेणैव᳘ वृत्रघ्ना᳘ पाप्मा᳘नं वृत्र᳘ᳫं᳘ हन्ति त᳘स्मादि᳘न्द्राय वृत्रघ्ने᳟॥
मूलम् - विस्वरम्
अथ यदिंद्राय वृत्रघ्ने । पाप्मा वै वृत्रः । यो भूतेर्वारयित्वा तिष्ठति कल्याणात्कर्मणः साधोः । तमेतदिंद्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हंति । तस्मादिंद्राय वृत्रघ्ने ॥ ७ ॥
सायणः
द्वितीययागदेवताया अपि विशेषणं प्रकृतोपयोगित्वेन समर्थयते- पाप्मा वै वृत्र इति । ‘वृत्रघ्ने’ इत्यत्र हननक्रियां प्रति कर्मभूतो यो वृत्रः सः ‘पाप्मा’ । तं विशिनष्टि- यो भूतेरिति । ‘साधोः’ यथाकालमनुष्ठितात्, कल्याणाच्छोभनफलसाधनात्, ‘कर्मणः’ या ‘भूतिः’ फलोत्पत्तिः, तां ‘वारयित्वा’ यः पाप्मा ‘तिष्ठति’ । भूतेरिति कर्मणि षष्ठी (पा. सू. २ । ३ । ५०) । तमेतदित्यादि स्पष्टम् ॥ ७ ॥
Eggeling
- And as to why to Indra Vr̥trahan,–Vr̥tra is sin: with the help of Indra, the slayer of Vr̥tra, he thus slays sin, Vr̥tra, which ever keeps him from well-being, from virtue, and from the good work: this is why he (offers) to Indra Vr̥trahan.
०८
विश्वास-प्रस्तुतिः
(घ्ने᳘ ऽथ) अ᳘थ य᳘दग्न᳘ये व्वैश्वानरा᳘य॥
द्वा᳘दशकपालं पुरोडा᳘शं निर्व्व᳘पति य᳘त्र वा ऽइ᳘न्द्रो व्वृत्रम᳘हंस्त᳘मग्नि᳘ना व्वैश्वानरे᳘ण स᳘मदहत्त᳘दस्य स᳘र्व्वं पाप्मा᳘नᳫँ᳭ स᳘मदहत्त᳘थो ऽए᳘वैष᳘ ऽएतदि᳘न्द्रेणैव᳘ व्वृत्रघ्ना᳘ पाप्मा᳘नं व्वृत्र᳘ᳫँ᳘ हत्वा त᳘मग्नि᳘ना व्वैश्वानरे᳘ण सं᳘दहति त᳘दस्य स᳘र्व्वं पाप्मा᳘नᳫँ᳭ सं᳘दहति स यो᳘ हैवं᳘ व्विद्वा᳘नेतये᳘ष्ट्या य᳘जते न᳘ हास्या᳘ल्पश्चन᳘ पाप्मा प᳘रिशिष्यते॥
मूलम् - श्रीधरादि
(घ्ने᳘ ऽथ) अ᳘थ य᳘दग्न᳘ये व्वैश्वानरा᳘य॥
द्वा᳘दशकपालं पुरोडा᳘शं निर्व्व᳘पति य᳘त्र वा ऽइ᳘न्द्रो व्वृत्रम᳘हंस्त᳘मग्नि᳘ना व्वैश्वानरे᳘ण स᳘मदहत्त᳘दस्य स᳘र्व्वं पाप्मा᳘नᳫँ᳭ स᳘मदहत्त᳘थो ऽए᳘वैष᳘ ऽएतदि᳘न्द्रेणैव᳘ व्वृत्रघ्ना᳘ पाप्मा᳘नं व्वृत्र᳘ᳫँ᳘ हत्वा त᳘मग्नि᳘ना व्वैश्वानरे᳘ण सं᳘दहति त᳘दस्य स᳘र्व्वं पाप्मा᳘नᳫँ᳭ सं᳘दहति स यो᳘ हैवं᳘ व्विद्वा᳘नेतये᳘ष्ट्या य᳘जते न᳘ हास्या᳘ल्पश्चन᳘ पाप्मा प᳘रिशिष्यते॥
मूलम् - Weber
अ᳘थ य᳘दग्न᳘ये वैश्वानरा᳘य॥
द्वा᳘दशकपालम् पुरोडा᳘शं निर्व᳘पति य᳘त्र वा इ᳘न्द्रो वृत्रम᳘हंस्त᳘मग्नि᳘ना वैश्वानरे᳘ण स᳘मदहत्त᳘दस्य स᳘र्वम् पाप्मा᳘नᳫं स᳘मदहत्त᳘थो एॗवैष᳘ एतदि᳘न्द्रेणैव᳘ वृत्रघ्ना᳘ पाप्मा᳘नं वृत्र᳘ᳫं᳘ हत्वा त᳘मग्नि᳘ना वैश्वानरे᳘ण संदहति त᳘दस्य स᳘र्वम् पाप्मा᳘नᳫं सं᳘दहति स यो᳘ हैवं᳘ विद्वा᳘नेतये᳘ष्ट्या य᳘जते न᳘ हास्या᳘ल्पश्चन᳘ पाप्मा प᳘रिशिष्यते॥
मूलम् - विस्वरम्
अथ यदग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति । यत्र वा इंद्रो वृत्रमहन् । तमग्निना वैश्वानरेण समदहत् । तदस्य सर्वं पाप्मानं समदहत् । तथो एवैष एतदिंद्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना वैश्वानरेण संदहति । तदस्य सर्वं पाप्मानं संदहति । स यो हैवं विद्वानेतयेष्ट्या यजते । न हास्याल्पश्चन पाप्मा परिशिष्यते ॥ ८ ॥
सायणः
वार्त्रघ्नयागानंतरमाग्नेययागस्य कर्तव्यतां प्रतिपादयति- यत्र वा इंद्र इति । हतस्य वृत्रस्य पुनरुद्भवशंकया ‘तं’ हतं वृत्रं वैश्वानरगुणकेनाग्निना ‘इंद्रः समदहत्’ भस्मसात्कृतवान् । तत्ततः सो ऽग्निः अस्येंद्रस्य ‘सर्वं’ वृत्ररूपं ‘पाप्मानं समदहत्’ । पुरावृत्तसंसिद्धमर्थं प्रकृते योजयति- तथो एवैष इति । ‘एषः’ यजमानः तथैव वृत्रहननगुणविशिष्टेन ‘इंद्रेणैव’ अयथाकालानुष्ठानजनितं पापरूपं ‘वृत्रं हत्वा’ ‘तं वैश्वानरेणाग्निना’ सम्यक् ‘दहति’ भस्मीकरोति । तदनंतरं सो ऽग्निः ‘अस्य’ यजमानस्य ‘सर्वं पाप्मानं संदहति’ । प्रकृतमुपसंहरति- स यो हैवमिति । अल्पश्चनेति । चनशब्दो ऽप्यर्थे ॥ ८ ॥
Eggeling
- And as to why he prepares a cake on twelve potsherds for Agni Vaiśvānara,–when Indra had slain Vr̥tra, he burnt him completely by means of Agni Vaiśvānara, and thereby burnt all his (Vr̥tra’s) sin; and in like manner does that (Sacrificer) now, after slaying sin, Vr̥tra, with the help of Indra Vr̥trahan, burn him, and all that sin of his, by means of Agni Vaiśvānara; and, verily, not the slightest sin remains in him who, knowing this, performs this offering.
०९
विश्वास-प्रस्तुतिः
त᳘स्यै सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
(न्त्यु) उपाᳫँ᳭शु᳘ देव᳘ता यजति याः᳘ काम᳘यते ता᳘ याज्या ऽनुवा᳘क्याः करोत्येवमा᳘ज्यभागावेव᳘ᳫँ᳘ संया᳘ज्ये॥
मूलम् - श्रीधरादि
त᳘स्यै सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
(न्त्यु) उपाᳫँ᳭शु᳘ देव᳘ता यजति याः᳘ काम᳘यते ता᳘ याज्या ऽनुवा᳘क्याः करोत्येवमा᳘ज्यभागावेव᳘ᳫँ᳘ संया᳘ज्ये॥
मूलम् - Weber
त᳘स्यै सप्त᳘दश सामिधेॗन्यो भवन्ति॥
उपांशु᳘ देव᳘ता यजति याः᳘ काम᳘यते ता᳘ याज्यानुवाॗक्याः करोत्येवमा᳘ज्यभागावेव᳘ᳫं᳘ संयाॗज्ये॥
मूलम् - विस्वरम्
तस्यै सप्तदश सामिधेन्यो भवंति । उपांशु देवता यजति । याः कामयते, ता याज्यानुवाक्याः करोति । एवमाज्यभागौ । एवं संयाज्ये ॥ ९ ॥
सायणः
अथास्याग्निष्टौ “प्रकृतिवत् विकृतिः कर्तव्या” इति चोदकप्राप्तेषु अंगेषु विशेषं विधत्ते- तस्यै सप्तदश सामिधेन्य इति । समिदाधानार्था ऋचः ‘सामिधेन्यः’ । ताः प्रकृतौ पंचदश । अत्र चोदकप्राप्तास्ताः “पृथुपाजवत्यौ धाय्ये द्वे” इति ‘सप्तदश भवंति’ । प्रकृतौ प्रधानयागे उच्चैष्ट्वं धर्मः । अत्र तदपवादेन उपांशुत्वं विधीयते- उपांशु देवता यजतीति । ‘देवताः’ प्रधानदेवताः । याः कामयत इत्यादि । प्रकृतदेवतालिंगयुक्ताः चतुःषष्ट्यां दाशतय्यां समाम्नाताः ‘याः’ ऋचः ‘कामयते’ ताः ‘याज्यानुवाक्याः’ कुर्यात् । तत्रैता एवेति नियमो नास्तीत्यर्थः । आज्यभागयोः स्विष्टकृद्यागे च याज्या ऽनुवाक्यासु याथाकाम्यमतिदिशति- एवमाज्यभागाविति । एवं संयाज्ये इति च ॥ ९ ॥
Eggeling
- For this (offering) there are seventeen kindling-verses. He offers to the deities in a low voice, and makes any (verses) he pleases his invitatory and offering-formulas. In like manner (those of) the two butter-portions and the two formulas of the Svishṭakr̥t.
१०
विश्वास-प्रस्तुतिः
तिसृधन्वं द᳘क्षिणां ददाति॥
ध᳘न्वना वै श्वा᳘नं बाधन्ते त᳘देत᳘मे᳘वैत᳘द्बाधते य᳘त्तिसृधन्वं द᳘क्षिणां ददाति[[!!]]॥
मूलम् - श्रीधरादि
तिसृधन्वं द᳘क्षिणां ददाति॥
ध᳘न्वना वै श्वा᳘नं बाधन्ते त᳘देत᳘मे᳘वैत᳘द्बाधते य᳘त्तिसृधन्वं द᳘क्षिणां ददाति[[!!]]॥
मूलम् - Weber
तिसृधन्वं द᳘क्षिणां ददाति॥
ध᳘न्वना वै श्वा᳘नम् बाधन्ते त᳘देत᳘मेॗवैत᳘द्बाधते य᳘त्तिसृधन्वं द᳘क्षिणां द᳘दाति॥
मूलम् - विस्वरम्
तिसृधन्वं दक्षिणां ददाति । धन्वना वै श्वानं बाधंते । तदेतमेवैतद्बाधते । यत्तिसृधन्वं दक्षिणां ददाति ॥ १० ॥
सायणः
दक्षिणाद्रव्यं विधाय स्तौति- तिसृधन्वमिति । तिसृभिरिषुभिर्युक्तं धन्व ‘तिसृधन्वम्’ । पूर्ववदकारांतः समासांतः (पा. सू. ५ । ४ । ७४) । धनुषा खलु लोके ‘श्वानं बाधंते’ । तत्तत ‘एतं’ चंद्रात्मकं दिव्यं श्वानं ‘एतत्’ एतेन दीयमानेन धनुषा ‘बाधते’ हिनस्ति ॥ १० ॥
Eggeling
- A bow with three arrows he gives as dakshiṇā; for with the bow a dog is driven away: he thus drives away that (dog, the moon) when he gives a bow with three arrows as dakshiṇā.
११
विश्वास-प्रस्तुतिः
दण्डं द᳘क्षिणां ददाति॥
दण्डे᳘न वै श्वा᳘नं बाधंते त᳘देत᳘मे᳘वैत᳘द्बाधते य᳘द्दण्डं द᳘क्षिणां द᳘दात्येषा ऽन्वा᳘दिष्टा द᳘क्षिणा दद्या᳘त्त्वे᳘वास्याम᳘प्यन्यद्या ऽइ᳘तरा द᳘क्षिणास्ता᳘सां य᳘त्संप᳘द्येत सा᳘ हैषा᳘ पशव्ये᳘ष्टिस्तया ऽप्य᳘नभ्युद्दृष्टो य᳘जेतैव[[!!]]॥
मूलम् - श्रीधरादि
दण्डं द᳘क्षिणां ददाति॥
दण्डे᳘न वै श्वा᳘नं बाधंते त᳘देत᳘मे᳘वैत᳘द्बाधते य᳘द्दण्डं द᳘क्षिणां द᳘दात्येषा ऽन्वा᳘दिष्टा द᳘क्षिणा दद्या᳘त्त्वे᳘वास्याम᳘प्यन्यद्या ऽइ᳘तरा द᳘क्षिणास्ता᳘सां य᳘त्संप᳘द्येत सा᳘ हैषा᳘ पशव्ये᳘ष्टिस्तया ऽप्य᳘नभ्युद्दृष्टो य᳘जेतैव[[!!]]॥
मूलम् - Weber
दण्डं द᳘क्षिणां ददाति॥
दण्डे᳘न वै श्वा᳘नम् बाधन्ते त᳘देत᳘मेॗवैत᳘द्बाधते य᳘द्दण्डं द᳘क्षिणां द᳘दात्येषा न्वा᳘दिष्टा द᳘क्षिणा दद्याॗत्त्वेॗवास्याम᳘प्यन्यद्या इ᳘तरा द᳘क्षिणास्ता᳘सां य᳘त्सम्प᳘द्येत सा᳘ हैषा᳘ पशव्ये᳘ष्टिस्तयाप्य᳘नभ्युद्दृष्टो य᳘जेतैव᳟॥
मूलम् - विस्वरम्
दंडं दक्षिणां ददाति । दण्डेन वै श्वानं बाधंते । तदेतमेवैतद्बाधते । यद्दंडं ददाति । एषा ऽन्वादिष्टा दक्षिणा । दद्यात्त्वेव अस्यामप्यन्यत् । या इतरा दक्षिणाः । तासां यत्संपद्येत । सा हैषा पशव्येष्टिः । तया ऽप्यनभ्युद्दृष्टो यजेतैव ॥ ११ ॥
सायणः
अन्यदपि देयं द्रव्यं दर्शयति- दण्डं दक्षिणां ददातीति । निगदसिद्धो ऽर्थः । एतावदेवेति दक्षिणाद्रव्यस्य नियमो नाभिप्रेत इत्याह- एषा ऽन्वादिष्टा दक्षिणेति । ‘एषा’ खलु ‘आदिष्टा’ अस्या इष्टेर्विशेषविहिता ‘दक्षिणा’ । अतो दद्यादेव अस्यामिष्ट्यां ‘अन्यदपि’ द्रव्यम् । या उक्तव्यतिरिक्ता इष्ट्यंतरेषु देयाः ‘दक्षिणाः’ । ‘तासां’ मध्ये यद्द्रव्यं ‘संपद्येत’ तद्दद्यादिति संबंधः ।
उक्तनिमित्ताभावे ऽपि पशुकामेन एषा इष्टिः कार्या इति विधत्ते- सा हैषेति । ‘सा’ खलु ‘एषा’ इष्टिः ‘पशव्या’ पशुभ्यो हिता तया ‘अनभ्युद्दृष्टो ऽपि’ अदृश्यमानचंद्रो ऽपि यजेतैव 8 ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे प्रथमाध्याये पञ्चमं ब्राह्मणम् ॥ (११-१-५) ॥
Eggeling
- A staff he gives as dakshiṇā; for with a staff
a dog is driven away: he thus drives away that (dog) when he gives a staff as dakshiṇā. This, indeed, is the prescribed dakshiṇā; but he may give anything else besides, of such other (objects meet for) dakshiṇās as may be at his disposal. This, doubtless, is an offering relating to cattle: he may perform it even though (the moon) was not seen (at his New-moon sacrifice).
-
काम्या चेयं पशव्येष्टिः । ↩︎
-
9:4 Amāvāsyā, lit. the night of their (the sun and moon’s) staying together. ↩︎
-
10:1 Aprāyaścittikr̥te (or -kr̥taḥ),–? in the case of (the owner) who did not make amends to, and quiet, them. ↩︎
-
10:2 Avakr̥shṭo nikr̥shṭaś candramā avacandramasaḥ, Sāy. ↩︎
-
हैतदु᳘पत᳘पदा᳘ AP. ↩︎
-
10:3 Sāyaṇa takes this to mean that for this reason the moon is called ‘śaśāṅka,’ ‘he who is marked with a hare.’ ↩︎
-
अयं दृशिर्ज्ञानार्थः, न प्रेक्षणार्थः । पश्चादभ्युद्दृष्ट इति सूत्रावयवव्याख्याने-तद्दर्शनं च शास्त्रतः प्रतिपद्येव भवति । भ्रात्या प्रतिपदि उपवासोपक्रम एतत् । इति कर्कः । ↩︎
-
कात्यायनः सर्वमेतदसुसूत्रत् “पश्चादभ्युद्दृष्ट आमावास्येनेष्ट्वा तदहर्वैव श्वो वा ऽग्नये पथिकृत इंद्राय व्वृत्रघ्न एकादशकपालो वैश्वानरश्च । त्रीषुकं धनुर्दक्षिणा दण्डो वा । प्राकृताश्चेच्छन् । अनभ्युद्दृष्टस्यापि पशुकामस्य” इति । का. श्रौ. सू. २५ । १०२-१०६ । ↩︎