०१

विश्वास-प्रस्तुतिः

तद्धै᳘के दृष्ट्वो᳘पवसंति॥
श्वो᳘ नोदेते᳘त्यभ्र᳘स्य वा हेतोर᳘निर्ज्ञाय वा᳘ ऽथोतो᳘पवसंत्य᳘थैनमु᳘ताभ्यु᳘देति स यद्य᳘गृहीतᳫँ᳭ हवि᳘रभ्युदियात्प्र᳘ज्ञातमेव त᳘दे᳘षैव᳘ व्व्रतचर्य्या य᳘त्पूर्व्वेद्युर्दुग्धं द᳘धि हविरात᳘ञ्चनं त᳘त्कुर्व्वंति प्रति प्र᳘मुञ्चन्ति व्वत्साँस्तान्पु᳘नरपा᳘कुर्व्वंति॥

मूलम् - श्रीधरादि

तद्धै᳘के दृष्ट्वो᳘पवसंति॥
श्वो᳘ नोदेते᳘त्यभ्र᳘स्य वा हेतोर᳘निर्ज्ञाय वा᳘ ऽथोतो᳘पवसंत्य᳘थैनमु᳘ताभ्यु᳘देति स यद्य᳘गृहीतᳫँ᳭ हवि᳘रभ्युदियात्प्र᳘ज्ञातमेव त᳘दे᳘षैव᳘ व्व्रतचर्य्या य᳘त्पूर्व्वेद्युर्दुग्धं द᳘धि हविरात᳘ञ्चनं त᳘त्कुर्व्वंति प्रति प्र᳘मुञ्चन्ति व्वत्साँस्तान्पु᳘नरपा᳘कुर्व्वंति॥

मूलम् - Weber

तद्धै᳘के दृष्ट्वो᳘पवसन्ति॥
श्वोॗ नोदेते᳘त्यभ्र᳘स्य वा हेतोर᳘निर्ज्ञाय वा᳘थोतो᳘पवसन्त्य᳘थैनमुॗताभ्यु᳘देति स यद्य᳘गृहीतᳫं हवि᳘रभ्युदियात्प्र᳘ज्ञातमेव त᳘देॗषैव᳘ व्रतचर्या य᳘त्पूर्वेद्युर्दुग्धं द᳘धि हविरात᳘ञ्चनं त᳘त्कुर्वन्ति प्रतिप्र᳘मुञ्चन्ति वत्सांस्तान्पु᳘नरपा᳘कुर्वन्ति॥

मूलम् - विस्वरम्

नैमित्तिकी त्रिहविष्का अभ्युदयेष्टिः ।

तद्धैके दृष्ट्वोपवसंति । श्वोनोदेतेति । अभ्रस्य वा हेतोः । अनिर्ज्ञाय वा । अथ उत उपवसंति । अथैनमुताभ्युदेति । स यद्यगृहीतं हविरभ्युदियात् । प्रज्ञातमेवैतत् । एषैव व्रतचर्या । यत्पूर्वेद्युर्दुग्धं दधि हविः आतंचनं तत्कुर्वंति । प्रति प्रमुंचन्ति वत्सान् तान्पुनरपाकुर्वंति ॥ १ ॥

सायणः

अभ्युदयनिमित्तं कर्म विधित्सुस्तस्य निमित्तस्य संभवमादौ कथयति- तद्धैके इति । तत्र दर्शपूर्णमासयागविषये ‘एके’ शाखिनः चतुर्दशीमिश्रितपर्वणि प्रभातसमये प्राच्यां दिशि चंद्रं ‘दृष्ट्वा उपवसंति’ अग्न्यन्वाधानादि उपवसथकर्म निर्वर्तयंति । तेषामयमाशयः ‘श्वः’ परस्मिन् दिवसे यागकाले चंद्रः ‘नोदेता’ नोदेष्यतीति । भविष्यदनद्यतनेलुट् (पा. सू. ३ । ३ । १५) । तत्र तस्य हेतोः मेघावरणनिमित्तात् । ‘अनिर्ज्ञाय’ तिथिनिर्णयमज्ञात्वा ‘वा’ । ‘अथ’ उतेति पदच्छेदः । उतशब्दो अप्यर्थे । अथापि कालनिर्णयाभावे ऽपि उपवसंति । अकाले यद्युपवसथं कर्म अग्न्यन्वाधानादिकं करोतीति यावत् । अथानंतरं यागदिवसे ‘एनं’ यजमानं चंद्रो ऽभ्युदेति । चतुर्द्दशीमिश्रितया चंद्रकलादर्शनं तस्य भवतीत्यर्थः । एवं निमित्तस्य संभावनोक्ता । चंद्रदर्शने सति कालविशेषोपजीवनेन कर्तव्यमुपदिशति स यद्यगृहीतमिति । अगृहीतमनिरुप्तमित्यर्थः । परदिवसे हविर्निर्वापात् पूर्वं अकाले कर्म प्रक्रांतमिति ‘यदि’ ज्ञायेत तदा ‘प्रज्ञातमेव’ । एतावंतं प्रयोगजातं कृतं निश्चित्य ततस्तूष्णीमासीत । ‘एषा’ वक्ष्यमाणैव ‘व्रतचर्या’ व्रतस्य नियमस्याचरणं कार्यं । का पुनरसावित्यत आह- यत्पूर्वेद्युरिति । ‘पूर्वेद्युः’ सायं ‘दुग्धं’ पयो दध्यात्मना विद्यते परस्मिन् दिवसे पुनः करणीयस्य सायंदोहरूपस्य हविषः ‘आतंचनार्थं’ तत्कुर्युः । प्रातर्दोहार्थं ये ऽप्युपाकृता वत्सास्तान् प्रतिप्रमुंचन्ति पुनर्मातृभिः संसृजेयुः । एवं कृत्वा पुनः सायंदोहार्थं ‘तान् वत्सान्’ ‘पुनरपाकुर्वंति’ मातृभ्यः पृथक् कुर्युः ॥ १ ॥

Eggeling
  1. Now, some people enter upon the fast 1 when

they (still) see (the moon, on the fourteenth day of the half-month), thinking, ‘To-morrow he will not rise,’–either on account of clouds or not having ascertained properly, they enter upon the fast, and (in the morning) he rises over him. Now if he (the moon) should rise on (the material for) the oblation being not yet taken out, then that approved (procedure is followed) and the same fasting-observance. The sour curds from last night’s milking they use for coagulating the sacrificial food 2; they let the calves join (their mothers), and drive them away again 3.

०२

विश्वास-प्रस्तुतिः

ता᳘नपराह्णे᳘ पर्णशाख᳘या ऽपा᳘करोति॥
तद्य᳘थै᳘वादः प्र᳘ज्ञातमामावास्य᳘ᳫँ᳘ हवि᳘रेव᳘मेव तद्य᳘द्यु व्व्रतचर्य्यां᳘ वा᳘ नोदाश᳘ᳫँ᳘सेत गृहीतं᳘ वा हवि᳘रभ्युदिया᳘दितर᳘थो त᳘र्हि कुर्य्यादेता᳘नेव᳘ तण्डुलान्त्सु᳘फलीकृतान्कृत्वा स ये᳘ ऽणीयाᳫँ᳭सस्ता᳘नग्न᳘ये दा᳘त्रे ऽष्टा᳘कपालं पुरोडा᳘शᳫँ᳭ श्रपयति॥

मूलम् - श्रीधरादि

ता᳘नपराह्णे᳘ पर्णशाख᳘या ऽपा᳘करोति॥
तद्य᳘थै᳘वादः प्र᳘ज्ञातमामावास्य᳘ᳫँ᳘ हवि᳘रेव᳘मेव तद्य᳘द्यु व्व्रतचर्य्यां᳘ वा᳘ नोदाश᳘ᳫँ᳘सेत गृहीतं᳘ वा हवि᳘रभ्युदिया᳘दितर᳘थो त᳘र्हि कुर्य्यादेता᳘नेव᳘ तण्डुलान्त्सु᳘फलीकृतान्कृत्वा स ये᳘ ऽणीयाᳫँ᳭सस्ता᳘नग्न᳘ये दा᳘त्रे ऽष्टा᳘कपालं पुरोडा᳘शᳫँ᳭ श्रपयति॥

मूलम् - Weber

ता᳘नपराह्णे᳘ पर्णशाख᳘यापा᳘करोति॥
तद्य᳘थैॗवादः प्र᳘ज्ञातमामावास्य᳘ᳫं᳘ हवि᳘रेव᳘मेव तद्य᳘द्यु व्रतचर्यां᳘ वाॗ नोदाश᳘ᳫं᳘सेत गृहीतं᳘ वा हवि᳘रभ्युदिया᳘दितर᳘थो त᳘र्हि कुर्यादेता᳘नेव᳘ तण्डुलान्त्सु᳘फलीकृतान्कृत्वा स ये᳘ऽणीयांसस्ता᳘नग्न᳘ये दाॗत्रेऽष्टा᳘कपालम् पुरोडा᳘शं श्रपयति 4

मूलम् - विस्वरम्

तानपराह्णे पर्णशाखया ऽपाकरोति । तद्यथैवादः प्रज्ञातम् आमावास्यं हविः । एवमेव तत् । यद्यु व्रतचर्यां वा नोदाशंसेत । गृहीतं वा हविरभ्युदियात् । इतरथो तर्हि कुर्यात् । एतानेव तंडुलान् सुफलीकृतान् कृत्वा स ये ऽणीयांसः- तानग्नये दात्रे ऽष्टाकपालं पुरोडाशं श्रपयति ॥ २ ॥

सायणः

तस्य कालं विधत्ते- तानपराह्ण इति । एवं परस्मिन् दिवसे पुनः सायंदोहार्थं तानपाकृत्य सायंदोहादिकं कृत्वा ततः परदिवसे प्रागनुष्ठितात् प्रज्ञातत्वेन स्थापितात् क्रियाकलापात् आरभ्य आमावास्येन हविषा काले यजेत । एवं सति अकाले प्रक्रमदोषो न भविष्यतीत्याह- तद्यथैवाद इति । तत्तस्यां व्रतचर्यायां सत्याम् ‘अदः’ प्रज्ञातकाले प्रक्रांतमामावास्यं हविः यथैवाविकलं भवति ‘एवमेव तत्’ चंद्रदर्शननिमित्तयुक्तहविर्दोषरहितं भवतीत्यर्थः । यदुक्तव्रतचर्याकरणाशक्तौ हविर्निर्वापोत्तरकाले च कर्तव्यम् तदुपदिशति- यद्यु व्रतचर्यामिति । यदि तु उक्तां ‘व्रतचर्यां’ कर्तुं नेच्छेत् । “आङः शसिरिच्छायाम्” (धा. पा. भ्वा. आ. २७) इति धातुः । तदा हविर्निर्वापात् पूर्वमपि वक्ष्यमाणो विधिर्ज्ञातव्यः । यदि ‘वा गृहीतं’ निरुप्तं हविरभ्युदियात् निर्वापोत्तरकालं चतुर्दश्यामकाले दर्शयागः प्रक्रांत इति जानीयादित्यर्थः । उभयत्रापि इतरथा उक्तात्प्रकारात्प्रकारांतरेण तर्हि कुर्यात् । तदेव प्रकारांतरमाह- एतानेवेति । य एते प्रकृतिदेवताभ्यो निरुप्ता व्रीहयश्च ते अवहननेन तंडुलाः सुफलीकृताश्च कार्याः । एवं कृत्वा तत्र ये ‘अणीयांसः’ कणशः कृताः सूक्ष्मतंडुलाः । उपलक्षणमेतत् । स्थूलतमा मध्यमाः सूक्ष्मतमाश्च इति त्रेधा विभागस्य च । एते विविधाः । तत्र ये मध्यमाः ‘तानग्नये दात्रे’ दातृगुणविशिष्टायाग्नये अष्टसु कपालेषु संस्कृतं ‘पुरोडाशं’ श्रपयेन् ॥ २ ॥

Eggeling
  1. In the afternoon he drives them away with the parṇa-branch; and as there that approved oblation of the New-moon offering (is prepared) so here. But if he should not care to undergo (again) the fasting-observance, or if (the moon) were to rise over (the material for) the oblation already taken out, then let him do otherwise: having properly cleansed the rice-grains of the husks, he cooks the smaller ones as a cake on eight potsherds for Agni Dātr̥ (the Giver).

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्पूर्व्वेद्युः॥
(र्दु) दुग्धं᳘ द᳘धि तदि᳘न्द्राय प्रदात्रे᳘ ऽथ तदानीं दुग्धे व्वि᳘ष्णवे शिपिविष्टा᳘य ताँ᳘स्तण्डुला᳘ञ्छृते᳘ चरु᳘ᳫँ᳘ श्रपयति चरु᳘रु᳘ ह्येव स य᳘त्र᳘ क्व[[!!]] च तण्डुला᳘नाव᳘पति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्पूर्व्वेद्युः॥
(र्दु) दुग्धं᳘ द᳘धि तदि᳘न्द्राय प्रदात्रे᳘ ऽथ तदानीं दुग्धे व्वि᳘ष्णवे शिपिविष्टा᳘य ताँ᳘स्तण्डुला᳘ञ्छृते᳘ चरु᳘ᳫँ᳘ श्रपयति चरु᳘रु᳘ ह्येव स य᳘त्र᳘ क्व[[!!]] च तण्डुला᳘नाव᳘पति॥

मूलम् - Weber

अ᳘थ यत्पूर्वेद्युः॥
दुग्धं᳘ द᳘धि तदि᳘न्द्राय प्रदात्रे᳘ऽथ तदानींदुग्धे वि᳘ष्णवे शिपिविष्टा᳘यैता᳘ᳫं᳘स्तण्डुला᳘ञ्छूते᳘ चरुं᳘ श्रपयति चरु᳘रुॗ ह्येव स य᳘त्र क्व᳘ च तण्डुला᳘नाव᳘पन्ति॥

मूलम् - विस्वरम्

अथ यत्पूर्वेद्युर्दुग्धं दधि- तदिंद्राय प्रदात्रे । अथ तदानीं दुग्धे विष्णवे शिपिविष्टाय तांस्तण्डुलान् शृते चरुं श्रपयति । चरुरु ह्येव सः । यत्र क्व च तंडुलानावपति ॥ ३ ॥

सायणः

यत्सायंदोहरूपं ‘दधि’ ‘तदिंद्राय प्रदात्रे’ प्रदातृगुणविशिष्टायेंद्राय कार्यम् । तत्र दध्नि स्थविष्ठान् तंडुलान् प्रक्षिप्य चरुं श्रपयतीत्यर्थः । अथानंतरम् तदानीं प्रातर्दुग्धे शृते ये अणीयांसस्तंडुलाः तान् समोप्य शिपिविष्टगुणकाय ‘विष्णवे’ ‘चरुं श्रपयति’ । (गृह्यं) प्रक्रांतहविषां नैमित्तिको देवतापनयः कृतः । एतत्सर्वं सूत्रकारेणोक्तं “चंद्रमसा ऽभ्युदित आमावास्ये पुरस्तात्तद्व्रतः स्यात्, दधिहविरातंचनं निदध्यात् सँसृज्य वत्सान् पुनरपाकरणम्, निरुप्ते व्रताशक्तौ वा त्रैधं तंडुलान् विभज्य मध्यमानग्नये दात्रे स्थविष्ठानिंद्राय प्रदात्रे दधनि चरुमणिष्ठान् विष्णवे शिपिविष्टाय शृते चरुम्, तस्य तंडुलापनयो वचनात्” (का. श्रौ. सू. २५ । ९३-९६ । ९९) इति । ननु सायंदोहप्रातर्दोही स्वतंत्रे हविषी । तयोश्चर्वाधारतया उपसर्जनत्वमयुक्तमित्यत आह- चरुरु ह्येव स यत्रेति । यस्मिन् कस्मिन् दधनि क्षीरे वा तंडुलाः प्रक्षिप्यन्ते चरुरेव स भवति । अतस्तयोः चरस्वरूपानुप्रवेशान्न प्राधान्यप्रच्युतिः । अत एव तत्र सान्नाय्यधर्माणामनुष्ठानम् । उक्तं हि सूत्रकृता- “संस्कारात्सान्नाय्यम्, अन्यद्वेज्यायोगात्” (का. श्रौ. सू. २५ । ९७ । ९८ ।) इति ॥ ३ ॥

Eggeling
  1. And the sour curds (from the milk) milked on the day before (he prepares) for Indra Pradātr̥

(the Bestower); and those (larger) rice-grains 5 he cooks in boiled fresh milk as a pap for Vishṇu Śipivishṭa (the Bald); for a pap it is whenever rice-grains are thrown (into milk or sour curds).

०४

विश्वास-प्रस्तुतिः

तद्य᳘देवं भ᳘वति॥
(त्ये) एष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘मास्त᳘मेतदु᳘पैप्सीत्तम᳘पारात्सीत्त᳘मस्मा ऽअग्नि᳘र्द्दाता द᳘दाती᳘न्द्रः प्रदाता[[!!]] प्र᳘यच्छति त᳘मस्मा ऽइन्द्राग्नी᳘ यज्ञं᳘ दत्तस्ते᳘नेन्द्राग्नि᳘भ्यां दत्ते᳘न यज्ञे᳘न यजते᳘ ऽथ यद्वि᳘ष्णवे शिपिविष्टाये᳘ति यज्ञो वै व्वि᳘ष्णुर᳘थ य᳘च्छिपिविष्टाये᳘ति य᳘मुपै᳘प्सीत्तम᳘पारात्सीत्त᳘च्छिपित᳘मिव यज्ञ᳘स्य भवति त᳘स्माच्छिपिविष्टाये᳘ति त᳘त्रो य᳘च्छक्नुयात्त᳘द्दद्या᳘न्नादक्षिण᳘ᳫँ᳘ हविः᳘ स्यादि᳘ति᳘ ह्याहुर᳘थ य᳘दैव᳘ नोदियादथो᳘पवसेत्॥

मूलम् - श्रीधरादि

तद्य᳘देवं भ᳘वति॥
(त्ये) एष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘मास्त᳘मेतदु᳘पैप्सीत्तम᳘पारात्सीत्त᳘मस्मा ऽअग्नि᳘र्द्दाता द᳘दाती᳘न्द्रः प्रदाता[[!!]] प्र᳘यच्छति त᳘मस्मा ऽइन्द्राग्नी᳘ यज्ञं᳘ दत्तस्ते᳘नेन्द्राग्नि᳘भ्यां दत्ते᳘न यज्ञे᳘न यजते᳘ ऽथ यद्वि᳘ष्णवे शिपिविष्टाये᳘ति यज्ञो वै व्वि᳘ष्णुर᳘थ य᳘च्छिपिविष्टाये᳘ति य᳘मुपै᳘प्सीत्तम᳘पारात्सीत्त᳘च्छिपित᳘मिव यज्ञ᳘स्य भवति त᳘स्माच्छिपिविष्टाये᳘ति त᳘त्रो य᳘च्छक्नुयात्त᳘द्दद्या᳘न्नादक्षिण᳘ᳫँ᳘ हविः᳘ स्यादि᳘ति᳘ ह्याहुर᳘थ य᳘दैव᳘ नोदियादथो᳘पवसेत्॥

मूलम् - Weber

तद्य᳘देवम् भ᳘वति॥
एष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘मास्त᳘मेतदु᳘पैत्सीत्तम᳘पारात्सीत्त᳘मस्मा अग्नि᳘र्दाता द᳘दाती᳘न्द्रः प्र᳘दाता प्र᳘यछति त᳘मस्मा इन्द्राग्नी᳘ यज्ञं᳘ दत्तस्ते᳘नेन्द्राग्नि᳘भ्यां दत्ते᳘न यज्ञे᳘न यजते᳘ऽथ यद्वि᳘ष्णवे शिपिविष्टाये᳘ति यज्ञो वै वि᳘ष्णुर᳘थ य᳘छिपिविष्टाये᳘ति य᳘मुपै᳘त्सीत्तम᳘पारात्सीत्त᳘छिपित᳘मिव यज्ञ᳘स्य भवति त᳘स्माछिपिविष्टाये᳘ति त᳘त्रो य᳘छक्नुयात्त᳘द्दद्याॗन्नादक्षिण᳘ᳫं᳘ हविः᳘ स्यादि᳘तिॗ ह्याहुर᳘थ यॗदैवॗ नोदियादथो᳘पवसेत्॥

मूलम् - विस्वरम्

तद्यदेवं भवति । एष वै सोमो राजा देवानामन्नम्- यच्चंद्रमाः, तमेतदुपैप्सीत्- तमपारात्सीत् । तमस्मा अग्निर्दाता ददाति । इंद्रः प्रदाता प्रयच्छति । तमस्मा इंद्राग्नी यज्ञं दत्तः । तेनेंद्राग्निभ्यां दत्तेन यज्ञेन यजते । अथ यद्विष्णवे शिपिविष्टायेति । यज्ञो वै विष्णुः । अथ यच्छिपिविष्टायेति यमुपैप्सीत् तमपारात्सीत् । तच्छिपितमिव यज्ञस्य भवते । तस्माच्छिपिविष्टायेति । तत्रो यच्छक्नुयात्, तद्दद्यात् । नादक्षिणं हविः स्यात् इति ह्याहुः । अथ यदैव नोदियात् । अथोपवसेत् ॥ ४ ॥

इति नैमित्तिकी दर्शयागे पुरस्ताच्चन्द्रदर्शने त्रिहविष्का अभ्युदयेष्टिसंज्ञिका प्रायश्चित्तेष्टिः ॥

सायणः

विहितां नैमित्तिकीमभ्युदयेष्टिमनूद्य प्रयोजनकथनेन स्तोति- तद्यदेवमिति । तत्तत्र एवं त्रिहविष्केष्टिं निर्वपतीति यत् तस्य प्रयोजनमुच्यत इत्यर्थः । तमेतदुपैप्सीदिति । तं देवान्नभूतं चंद्रमसम् एतत्सगुणकान्नम् उपाप्तुं ऐच्छत् स चायम् अमावास्यायां भूमौ वसतीति उपाप्तुं शक्यते । अत उपाप्तुमिच्छति । ‘तमपारात्सीत्’ अपराधात् अकाले कर्मणामारंभात् अपराधप्रच्युतिमकार्षीत् । अतो देवान्नभूतस्य चंद्रमसो ग्रहणाभावान्निरुप्तं हविर्विकलमेव स्यादित्यर्थः । ‘तं’ तथाविधमन्नरूपं चंद्रमसम् दातृगुणविशिष्टः ‘अग्निः’ ‘अस्मै’ यजमानाय ददाति । इंद्रः प्रदातेत्यादि । तमस्मा इंद्राग्नी यज्ञमिति । अविकलं यथाकालमनुष्ठेयो दर्शयागो यज्ञः । तृतीययागस्य देवतां प्रशंसति- अथ यद्विष्णव इति । अवाप्तव्यो यज्ञ एव विष्णुरिति तस्य हविः प्रति निमित्तत्वेन देवतात्वमत्र युक्तमित्यर्थः ।

तद्विशेषणप्रयोजनमाह- अथ यच्छिपिविष्टायेति । यं देवान्नरूपं चंद्रमसं अकाले उपाप्तुं ऐच्छत् ‘तमपारात्सीत्’ अपराधो भ्रंशः तद्विशिष्टमकार्षीत् । तच्चंद्रात्मकमकाले निरुप्तं हविः शिपिस्तदाश्रितो दोषविशेषः, तद्युक्तमिव यज्ञस्य शरीरं भवति । तस्मात् अस्मिन् समये तादृक्शरीरविशिष्टो भवति । अतो यज्ञरूपाय विष्णवे शिपिविष्टायेति विशेषणोपादानमर्थवत्स्यात् ।

अभ्युदयेष्टौ यथाशक्ति दक्षिणां दद्यादिति विधत्ते- तत्रो यच्छक्नुयादिति । (गृह्यं) चंद्रोदये दोषदर्शनात् निर्द्दिष्टं पक्षमाह- अथेति । यदा खलु चंद्रो ‘नोदियात्’ पूर्वस्यां दिशि नाविर्भवति । चतुर्दशीसंस्पर्शो यस्मिन् दिने नास्ति तस्मिन्नेव दिवसे अग्न्यन्वाधानादि कर्म औपवसथ्यं कुर्यादित्यर्थः ॥ ४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे प्रथमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (११-१-४) ॥

Eggeling
  1. And as to this being so, it is because that moon is no other than King Soma, the food of the gods;–he (the Sacrificer) at that time sought to secure him 6, and missed him: Agni, the Giver, gives that (moon) to him, and Indra, the Bestower, bestows that one upon him; Indra and Agni give that (moon, Soma) as a sacrifice to him, and that sacrifice given by Indra and Agni he offers. And as to why (he offers) to Vishṇu, the Bald, it is because Vishṇu is the sacrifice; and as to why to the Bald 7 (śipivishṭa),–it is that his missing him whom he sought to secure is the bald part (? śipita) of the sacrifice, hence to the Bald one. And on this occasion he should give (to the priests) as much as he is able to give, for no oblation, they say, should be without a dakshiṇā. And let him observe the fast just (on the day) when he (the moon) does not rise.

  1. 7:3 As, for the Full-moon offering, the Sacrificer should enter on the fast at the very time of full moon (I, 6, 3, 34), so, for the New-moon offering, he should do so at the time when the last sign of the moon has disappeared, cf. I, 6, 4, 14. ↩︎

  2. 8:1 Literally, they make it the means of coagulating the havis; that is to say, they put the sour-milk (of last night’s milking) into the milk obtained from the milking of this, the second, day so as to produce the sour curds required on the next, or offering-day. See I, 6, 4, 6 seq.;–pūrvedyuḥ sāyaṁdugdhaṁ payo yad dadhy ātmanā vidyate parasmin divase punaḥ karaṇīyasya sāyaṁdoharūpasya havisha ātañcanārthaṁ kuryuḥ, Sāy. ↩︎

  3. 8:2 See I, 7, 1, 1 seq. The milk of the evening milking will be required for the sour curds and whey to be mixed with the sweet (boiled) milk of the following morning in the preparation of the Sānnāyya. ↩︎

  4. श्रपयंति P. ↩︎

  5. 9:1 According to Katy. Śrautas. XXV, 4, 40, the rice-grains are sorted in three different sizes; those of medium size being used for Agni Dātr̥, the largest for Indra Pradātr̥, and the smallest for Vishṇu Śipivishṭa. ↩︎

  6. 9:2 That is, at the time of new moon when Soma is supposed to stay on earth. ↩︎

  7. 9:3 The native dictionaries also assign the meaning ‘affected by a skin-disease’ to ‘śipivishṭa.’ ↩︎