०१
विश्वास-प्रस्तुतिः
पौर्णमासे᳘नेष्ट्वा᳘॥
(ष्ट्वे᳘न्द्रा) इ᳘न्द्राय व्विमृ᳘धे ऽनु नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजत ऽआमावास्ये᳘नेष्ट्वा᳘ ऽअदित्यै चरु᳘मनु नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते॥
मूलम् - श्रीधरादि
पौर्णमासे᳘नेष्ट्वा᳘॥
(ष्ट्वे᳘न्द्रा) इ᳘न्द्राय व्विमृ᳘धे ऽनु नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजत ऽआमावास्ये᳘नेष्ट्वा᳘ ऽअदित्यै चरु᳘मनु नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते॥
मूलम् - Weber
पौर्णमासे᳘नेष्ट्वा᳟॥
इ᳘न्द्राय विमृ᳘धेऽनुनि᳘र्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ 1 यजत आमावास्ये᳘नेष्ट्वा᳘दित्यै चरु᳘मनुनि᳘र्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते॥
मूलम् - विस्वरम्
पौर्णमासेनेष्ट्वा इंद्राय विमृधे ऽनु निर्वपति, तेन यथेष्ट्या एवं यजते । आमावास्येनेष्ट्वा अदित्यै चरुमनु निर्वपति, तेन यथेष्ट्या एवं यजते ॥ १ ॥
सायणः
पौर्णमासयागे दर्शयागे च निवृत्ते क्रमेणानुनिर्वाप्यं हविर्विधत्ते- पौर्णमासेनेष्ट्वेति । विमृधति शत्रून् हिनस्तीति कृतगुणकायेन्द्राय ‘अनु’ पौर्णमासयागानंतरं एकादशकपालं पुरोडाशे निर्वपेत् । ‘तेन’ हविषा ‘यथेष्ट्या’ येन प्रकारेण प्राच्यांगकलापेन पूर्णमासेष्टिः क्रियते, एवमनेनैव प्रकारेण यजेत । तथा अमावास्यानुष्ठेयेन दर्शयागेनेष्ट्वा, ‘अदित्यै’ अदितिदेवताकं ‘चरूमनुनिर्वपति’ । तेन यथेष्ट्या इति अनुष्ठानप्रकारोपदेशः । उभयत्र क्त्वा श्रुत्या समानकर्तृकत्वप्रतीतेः । “वाजपेयेनेष्टवा बृहस्पतिसवेन यजेत” इत्यादिवत् अंगांगीभावो ऽवगंतव्यः ॥ १ ॥
Eggeling
- When he has performed the Full-moon sacrifice, he prepares an additional (cake) for Indra Vimr̥dh (the repeller of scorners), and offers it in accordance with the procedure of an ishṭi 2; and when he has performed the New-moon sacrifice, he prepares an additional rice-pap for Aditi 3, and offers it in accordance with the procedure of an ishṭi.
०२
विश्वास-प्रस्तुतिः
स य᳘त्पौर्णमासे᳘नेष्ट्वा᳘॥
(ष्ट्वे᳘न्द्रा) इ᳘न्द्राय व्विमृ᳘धे ऽनु नि᳘र्व्वपतीन्द्रो[[!!]] वै᳘ यज्ञ᳘स्य देवता᳘ ऽथैत᳘दग्नीषोमी᳘यं पौर्णमास᳘ᳫँ᳘हवि᳘र्भवति त᳘त्र ने᳘न्द्राय त्वे᳘ति कि᳘ञ्चन᳘ क्रियत ऽएते᳘नो हास्यै तत्से᳘न्द्रᳫँ᳭ हविर्भ᳘वत्येते᳘न से᳘न्द्रो यज्ञो᳘ ऽथ य᳘द्विमृ᳘धेत्वे᳘ति स᳘र्व्वा ऽउ हि मृ᳘धो नाष्ट्राः᳘ पौर्णमासे᳘न ह᳘न्ति॥
मूलम् - श्रीधरादि
स य᳘त्पौर्णमासे᳘नेष्ट्वा᳘॥
(ष्ट्वे᳘न्द्रा) इ᳘न्द्राय व्विमृ᳘धे ऽनु नि᳘र्व्वपतीन्द्रो[[!!]] वै᳘ यज्ञ᳘स्य देवता᳘ ऽथैत᳘दग्नीषोमी᳘यं पौर्णमास᳘ᳫँ᳘हवि᳘र्भवति त᳘त्र ने᳘न्द्राय त्वे᳘ति कि᳘ञ्चन᳘ क्रियत ऽएते᳘नो हास्यै तत्से᳘न्द्रᳫँ᳭ हविर्भ᳘वत्येते᳘न से᳘न्द्रो यज्ञो᳘ ऽथ य᳘द्विमृ᳘धेत्वे᳘ति स᳘र्व्वा ऽउ हि मृ᳘धो नाष्ट्राः᳘ पौर्णमासे᳘न ह᳘न्ति॥
मूलम् - Weber
स य᳘त्पौर्णमासे᳘नेष्ट्वा᳟॥
इ᳘न्द्राय विमृ᳘धेऽनुनिर्व᳘पती᳘न्द्रो वै᳘ यज्ञ᳘स्य देवता᳘थैदग्नीषोमी᳘यम् पौर्णमास᳘ᳫं᳘ हवि᳘र्भवति त᳘त्र ने᳘न्द्राय त्वे᳘ति किं᳘ चन᳘ क्रियत एते᳘नो हास्यैतत्से᳘न्द्रᳫं हविर्भ᳘वत्येते᳘न से᳘न्द्रो यज्ञो᳘ऽथ य᳘द्विमृ᳘धे त्वे᳘ति स᳘र्वा उ हि मृ᳘धो नाष्ट्राः᳘ पौर्णमासे᳘न हन्ति॥
मूलम् - विस्वरम्
स यत् पौर्णमासेनेष्ट्वा, इंद्राय विमृधे ऽनुनिर्वपति । इंद्रो वै यज्ञस्य देवता । अथैतत् अग्नीषोमीयं पौर्णमासं हविर्भवति । तत्र नेंद्रायत्वेति किंचन क्रियते । एतेनो हास्यै तत्सेंद्रं हविर्भवति । एतेन सेंद्रो यज्ञः । अथ यद्विमृधे त्वेति । सर्वा उ हि मृधो नाष्ट्राः पौर्णमासेन हंति ॥ २ ॥
सायणः
वैमृधस्य हविषो ऽनुनिर्वपणमनूद्य स्तौति- स यत्पौर्णमासेनेति । इंद्रो वा इत्यादि । ‘इंद्रः’ खलु ‘यज्ञस्य’ प्रधानभूता ‘देवता’ । अथैवं सति यदेतत् पौर्णमासमग्नीषोमीयदेवताकं हविर्भवति । तत्र ‘इंद्राय त्वा’ इत्याद्युद्दिश्य ‘किंचन’ किमपि हविर्न ‘क्रियते’ अतस्तत्र इंद्रसंबंधविरहात् स यज्ञो देवताशून्य एव स्यात् । एतेनैव हविषा अस्य पूर्णमाससंबंधिनः एतस्य अग्नीषोमीययागस्य संबंधि हविरैंद्रं इंद्रदैवत्यं भवति । एतेनैव हविषा यज्ञश्च देवतारूपेण इन्द्रसहितो भवति । इत्थं इन्द्रायेति विशेष्याभिप्रायेण स्तुत्वा विशेषणाभिप्रायमाविष्करोति- अथ यद्विमृधे त्वेति । एतेन विशेषणेन सर्वा एव हि मृधो हिंसाः ‘नाष्ट्राः’ नाशकारिणीः प्रजाः पौर्णमासयागेन हतवान् भवतीत्यर्थः ॥ २ ॥
Eggeling
- And as to why, after performing the Full-moon sacrifice, he prepares (a cake) for Indra Vimr̥dh, it is because Indra is the deity of the sacrifice; but the chief oblation of the Full-moon sacrifice belongs to Agni and Soma, and nothing is offered there with the formula ‘To Indra (I offer) thee!’ Hereby then that oblation comes to be shared by Indra, and so does the sacrifice come to be shared by Indra. And as to why (he offers) with ‘To (Indra) Vimr̥dh!’ it is that by the Full-moon sacrifice he slays all scorners (mr̥dh), all evil spirits.
०३
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दामावास्ये᳘नेष्ट्वा᳘॥
(ष्ट्वा᳘ ऽदि) अ᳘दित्यै चरु᳘मनु निर्व्व᳘पत्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स य᳘त्रैष᳘ ऽएताᳫँ᳭ रा᳘त्रिन्न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे ते᳘नैतद᳘नद्धेव हविर्भ᳘वति तेना᳘प्रतिष्ठितमियं वै᳘ पृथिव्य᳘दितिः᳘ सेय᳘मद्धा᳘ सेयं प्र᳘तिष्ठितैते᳘नो हास्यैत᳘द᳘द्धेव हविर्भ᳘वत्येते᳘न प्र᳘तिष्ठितमेतन्नु तद्य᳘स्मादनु निर्व्व᳘पत्य᳘थ य᳘स्मा᳘न्नानु नि᳘र्व्वपेत्[[!!]]॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दामावास्ये᳘नेष्ट्वा᳘॥
(ष्ट्वा᳘ ऽदि) अ᳘दित्यै चरु᳘मनु निर्व्व᳘पत्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स य᳘त्रैष᳘ ऽएताᳫँ᳭ रा᳘त्रिन्न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे ते᳘नैतद᳘नद्धेव हविर्भ᳘वति तेना᳘प्रतिष्ठितमियं वै᳘ पृथिव्य᳘दितिः᳘ सेय᳘मद्धा᳘ सेयं प्र᳘तिष्ठितैते᳘नो हास्यैत᳘द᳘द्धेव हविर्भ᳘वत्येते᳘न प्र᳘तिष्ठितमेतन्नु तद्य᳘स्मादनु निर्व्व᳘पत्य᳘थ य᳘स्मा᳘न्नानु नि᳘र्व्वपेत्[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘दामावास्ये᳘नेष्ट्वा᳟॥
अ᳘दित्यै चरु᳘मनुनिर्व᳘पत्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स य᳘त्रैष᳘ एतां रा᳘त्रिं न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे ते᳘नैतद᳘नद्धेव हविर्भ᳘वति तेना᳘प्रतिष्ठितमियं वै᳘ पृथिव्य᳘दितिःॗ सेयमद्धाॗ सेयम् प्र᳘तिष्ठितैते᳘नो हास्यैत᳘दॗद्धेव हविर्भ᳘वत्येते᳘न प्र᳘तिष्ठितमेतन्नु तद्य᳘स्मादनुनिर्व᳘पत्य᳘थ य᳘स्माॗन्नानुनिर्व᳘पेत् 4 ॥
मूलम् - विस्वरम्
अथ यत्, आमावास्येनेष्ट्वा अदित्यै चरुमनु निर्वपति । एष वै सोमो राजा देवानामन्नम् । यच्चंद्रमाः, स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे । तेनैतदनद्धेव हविर्भवति । तेनाप्रतिष्ठितम् । इयं वै पृथिव्यदितिः । सेयमद्धा । सेयं प्रतिष्ठिता । एतेनो हास्यैतदद्धेव हविर्भवति । एतेन प्रतिष्ठितं । एतन्नु तत् । यस्मादनु निर्वपति । अथ यस्मान्नानुनिर्वपेत् ॥ ३ ॥
सायणः
दर्शयागे विहितमनुनिर्वाप्यं हविरनूद्य स्तौति- अथ यदामावास्येनेति । एष वा इत्यादि । ‘एषः’ दृश्यमानश्चंद्रमाः खलु लतारूपः ‘सोमः’ भूत्वा ‘देवानामन्नं’ भवति । स एषः अन्नरूपश्चंद्रमाः ‘यत्र’ यस्मिन् हविर्विषये ‘एतां रात्रिं’ अत्यंतसंयोगे द्वितीया (पा. सू. २ । ३ । ५) । अमावास्यादिवसस्य यावती रात्रिः, तावति काले न पूर्वस्यां दिशि दृश्यते । नापि प्रतीच्यां ‘तेन’ सोमादर्शननिमित्तेन । एतदामावास्यं हविः ‘अनद्धेव’ अप्रत्यक्षमिव असत्प्रायमिव ‘भवति’ तेनैव कारणेन ‘अप्रतिष्ठितं’ निराधारं च भवति, हविराध रस्य सोमस्यादृश्यमानत्वात् । तस्य दोषद्वयस्य समाधानार्थं आदित्यस्य हविषो निर्वाप इत्याह- इयं वै पृथिव्यदितिरिति । ‘अद्धा’ प्रत्यक्षतया साक्षिरूपा (सद्रूपा) सर्वाधारत्वात् ‘प्रतिष्ठिता’ वस्त्वासनात् । अनुनिर्वाप्यपक्षं निगमयति- एतन्नु तदिति । ‘यस्मात्’ कारणात् उक्तं हविर्द्वयं ‘अनुनिर्वपति’ तत्कारणम् एतत् समनंतरं प्रतिपादितम् । ‘नु शब्दः’ पक्षविशेषाविष्करणे । अथानुनिर्वाप्याभावपक्षमभिधत्ते- अथ यस्मादिति । यस्मात् कारणात् उक्तहविर्द्वयस्य अनुनिर्वापो न कर्तव्यः । तत्कारणमुच्यत इति शेषः ॥ ३ ॥
Eggeling
- And as to why, after performing the New-moon sacrifice, he prepares a pap for Aditi,–that moon doubtless is the same as King Soma, the food of the gods: when on that night he is not seen either in the east or in the west, the oblation becomes, as it were, uncertain and unfirm. Now Aditi is this earth, and she, indeed, is certain and firmly established: thereby, then, that oblation of his becomes certain and firmly established. Such, then, is the reason why he prepares additional oblations; now as to why he should not prepare them.
०४
विश्वास-प्रस्तुतिः
(त्स) स य᳘त्पौर्णमासे᳘नेष्ट्वा᳘॥
(ष्ट्वे᳘न्द्रा) इ᳘न्द्राय व्विमृ᳘धे ऽनु निर्व्व᳘पति से᳘न्द्रो मे य᳘ज्ञो ऽसदि᳘ति स᳘र्व्वो वै᳘ यज्ञ ऽइ᳘न्द्रस्यैव स यत्स᳘र्व्वो यज्ञ ऽइ᳘न्द्रस्यै᳘वैते᳘नो हास्येतत्से᳘न्द्रᳫँ᳭ हविर्भ᳘वत्येते᳘न[[!!]] से᳘न्द्रो यज्ञः᳘॥
मूलम् - श्रीधरादि
(त्स) स य᳘त्पौर्णमासे᳘नेष्ट्वा᳘॥
(ष्ट्वे᳘न्द्रा) इ᳘न्द्राय व्विमृ᳘धे ऽनु निर्व्व᳘पति से᳘न्द्रो मे य᳘ज्ञो ऽसदि᳘ति स᳘र्व्वो वै᳘ यज्ञ ऽइ᳘न्द्रस्यैव स यत्स᳘र्व्वो यज्ञ ऽइ᳘न्द्रस्यै᳘वैते᳘नो हास्येतत्से᳘न्द्रᳫँ᳭ हविर्भ᳘वत्येते᳘न[[!!]] से᳘न्द्रो यज्ञः᳘॥
मूलम् - Weber
स य᳘त्पौर्णमासे᳘नेष्ट्वा᳟॥
इ᳘न्द्राय विमृ᳘धेऽनुनिर्व᳘पति से᳘न्द्रो मे यॗज्ञोऽसदि᳘ति स᳘र्वो वै᳘ यज्ञ इ᳘न्द्रस्यैव स यत्स᳘र्वो यज्ञ इ᳘न्द्रस्यैॗवैते᳘नो हास्येतत्से᳘न्द्रᳫं हवि᳘र्भवत्येते᳘न से᳘न्द्रो यज्ञः᳟॥
मूलम् - विस्वरम्
स यत् पौर्णमासेनेष्ट्वा, इंद्राय विमृधे ऽनु निर्वपति । सेन्द्रो मे यज्ञो ऽसदिति । सर्वो वै यज्ञ इंद्रस्यैव संपत् । सर्वो यज्ञ इंद्रस्यैव । ऐतेनो हास्यैतत्सेंद्रं हविर्भवति । एतेन सेंद्रो यज्ञः ॥ ४ ॥
सायणः
उक्तस्य प्रयोजनस्य अनुनिर्वाप्यमंतरेणापि सिद्धिं वक्तुं तदनुवदति- स यत्पौर्णमासेनेति । ‘मे’ मदीयः ‘यज्ञः’ ‘सेन्द्रः’ इंद्रसहितः असद्भवेत् इत्यनेनाभिप्रायेण हि वैमृधस्यानुनिर्वापः क्रियते । तत्र सेंद्रत्वमन्यथा ऽपि सिध्यति । कुतः ? सर्वो हि ‘यज्ञ इंद्रस्यैव’ स्वकः । अथ तस्य न पृथगिन्द्रसंबंधो ऽपेक्षितः । एतेनैवास्य यजमानस्य पौर्णमासं हविः सेन्द्रमिन्द्रसंबद्धं भवति । तत्साध्यो यज्ञश्च ‘सेन्द्रः’ इंद्रसहित एव भवति । अत ऐन्द्रस्य हविषः अनुनिर्वापापेक्षा न विद्यत इत्यर्थः ॥ ४ ॥
Eggeling
- When, after performing the Full-moon sacrifice, he prepares an additional (cake) for Indra Vimr̥dh, he does so in order that his sacrifice should become shared in by Indra, for every sacrifice belongs to Indra. But inasmuch as every sacrifice belongs to Indra, thereby that oblation of his, and that sacrifice, is already shared in by Indra.
०५
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथ) अ᳘थ य᳘दामावास्ये᳘नेष्ट्वा᳘॥
(ष्ट्वा᳘ ऽदि) अ᳘दित्यै चरु᳘मनु निर्व्व᳘पत्यामावास्यं वा᳘ ऽअनुनिर्व्वा᳘प्यं पौर्णमासे᳘न वा ऽइ᳘न्द्रो व्वृत्र᳘महंस्त᳘स्मा ऽएत᳘द्वृत्रं᳘ जघ्नु᳘षे देवा᳘ ऽएत᳘द्धवि᳘रनुनि᳘रवपन्न्य᳘दामावास्यं कि᳘मनुनिर्व्वा᳘प्ये ऽनु नि᳘र्व्वपेदि᳘ति त᳘स्मा᳘न्नानु नि᳘र्व्वपेत्॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथ) अ᳘थ य᳘दामावास्ये᳘नेष्ट्वा᳘॥
(ष्ट्वा᳘ ऽदि) अ᳘दित्यै चरु᳘मनु निर्व्व᳘पत्यामावास्यं वा᳘ ऽअनुनिर्व्वा᳘प्यं पौर्णमासे᳘न वा ऽइ᳘न्द्रो व्वृत्र᳘महंस्त᳘स्मा ऽएत᳘द्वृत्रं᳘ जघ्नु᳘षे देवा᳘ ऽएत᳘द्धवि᳘रनुनि᳘रवपन्न्य᳘दामावास्यं कि᳘मनुनिर्व्वा᳘प्ये ऽनु नि᳘र्व्वपेदि᳘ति त᳘स्मा᳘न्नानु नि᳘र्व्वपेत्॥
मूलम् - Weber
अ᳘थ य᳘दामावास्ये᳘नेष्ट्वा᳟॥
अ᳘दित्यै चरु᳘मनुनिर्व᳘पत्यामावास्यं वा᳘ अनुनिर्वा᳘प्यम् पौर्णमासे᳘न वा इ᳘न्द्रो वृत्र᳘महंस्त᳘स्मा एत᳘द्वृत्रं᳘ जघ्नु᳘षे देवा᳘ एत᳘द्धवि᳘रनुनि᳘रवपन्य᳘दामावास्यं कि᳘मनुनिर्वाप्येऽनुनि᳘र्वपेदि᳘ति त᳘सॗम्:न्नानुनि᳘र्वपेत्॥
मूलम् - विस्वरम्
अथ यत् आमावास्येनेष्ट्वा, अदित्यै चरुमनुनिर्वपति । आमावास्यं वा अनुनिर्वाप्यम् । पौर्णमासेन वा इंद्रो वृत्रमहन् । तस्मा एतद्वृत्रं जघ्नुषे । देवा एतद्धविरनुनिरवपन् । यदामावास्यम् किमनुनिर्वाप्ये ऽनुनिर्वपेदिति । तस्मान्नानुनिर्वपेत् ॥ ५ ॥
सायणः
दर्शयागे ऽनुनिर्वाप्यस्यापि प्रयोजनमर्थवादपुरःसरं समर्थयति- अथ यदामावास्येनेति । आमावास्यमित्यादि । पौर्णमासयागेन वृत्रं हतवते इंद्राय देवाः ‘एतदामावास्यं’ हविरनुनिरवपन् पौर्णमासयागस्यानुनिर्वाप्यं कुर्वन् तस्मादामावास्यं हविरेवानुनिर्वाप्यम् । नह्यनुनिर्वाप्ये ऽनुनिर्वाप्यांतरमपेक्ष्यते संभवति वा । तस्मादनुनिर्वाप्यस्य सतो दर्शयागस्यानुनिर्वाप्यहविरंतरापेक्षाविरहात् आदित्यं हविर्नानुनिर्वपेदित्यर्थः ॥ ५ ॥
Eggeling
- And when, after performing the New-moon sacrifice, he prepares an additional pap for Aditi,–surely the New-moon sacrifice is itself an additional one; for by the Full-moon sacrifice Indra slew Vr̥tra, and for him who had slain Vr̥tra, the gods
then prepared that additional oblation, the New-moon sacrifice: why, then, should he prepare an oblation to be added to an additional offering? Let him, therefore, not prepare the additional oblations.
०६
विश्वास-प्रस्तुतिः
(त्स) स य᳘त्पौर्णमासे᳘नेष्ट्वा[[!!]]॥
(ष्ट्वा᳘ ऽथा) अ᳘थान्य᳘द्धवि᳘रनु निर्व्व᳘पत्यामावास्ये᳘नेष्ट्वा᳘ ऽथान्य᳘द्धवि᳘रनु निर्व्व᳘पति द्विष᳘न्तᳫँ᳭ ह स भ्रा᳘तृव्यं प्रत्यु᳘च्छ्रयते᳘ ऽथ यः᳘ पौर्णमासे᳘नैव᳘ पौर्णमासीं य᳘जत ऽआमावास्ये᳘नामावा᳘स्यामसपत्ना᳘ है᳘वास्यानुपबाधा श्री᳘र्भवति॥
मूलम् - श्रीधरादि
(त्स) स य᳘त्पौर्णमासे᳘नेष्ट्वा[[!!]]॥
(ष्ट्वा᳘ ऽथा) अ᳘थान्य᳘द्धवि᳘रनु निर्व्व᳘पत्यामावास्ये᳘नेष्ट्वा᳘ ऽथान्य᳘द्धवि᳘रनु निर्व्व᳘पति द्विष᳘न्तᳫँ᳭ ह स भ्रा᳘तृव्यं प्रत्यु᳘च्छ्रयते᳘ ऽथ यः᳘ पौर्णमासे᳘नैव᳘ पौर्णमासीं य᳘जत ऽआमावास्ये᳘नामावा᳘स्यामसपत्ना᳘ है᳘वास्यानुपबाधा श्री᳘र्भवति॥
मूलम् - Weber
स य᳘त्पौर्णमासे᳘नेष्ट्वा᳟॥
अ᳘थान्य᳘द्धवि᳘रनुनिर्व᳘पत्यामावास्ये᳘नेष्ट्वा᳘थान्य᳘द्धवि᳘रनुनिर्व᳘पति द्विष᳘न्तᳫं ह स भ्रा᳘तृव्यं प्रत्यु᳘छ्रयते᳘ऽथ यः᳘ पौर्णमासीं य᳘जत आमावास्ये᳘नामावाॗस्यामसपत्ना᳘ हैॗवास्यानुपबाधा श्री᳘र्भवति॥
मूलम् - विस्वरम्
स यत् पौर्णमासेनेष्ट्वा, अथान्यद्धविरनुनिर्वपति । आमावास्येनेष्ट्वा, अथान्यद्धविरनुनिर्वपति । द्विषंतं ह स भ्रातृव्यं प्रत्युच्छ्रयते । अथ यः पौर्णमासेनैव पौर्णमासीं यजते; आमावास्येनामावास्यम् । असपत्ना हैवास्यानुपबाधा श्रीर्भवति ॥ ६ ॥
सायणः
इममेव पक्षमुपोद्बलयितुं अनुनिर्वाप्यपक्षे दोषमाह- स यत्पौर्णमासेनेत्यादि । यजमानस्थानीयौ हि दर्शपूर्णमासौ, भ्रातृव्यस्थानीयमन्यद्धविः, यदि तदनुनिर्वपेत् तर्हि सो ऽध्वर्युर्यजमानस्य ‘भ्रातृव्यं’ ‘प्रत्युच्छ्रयते’ प्रतिपक्षत्वेनोच्छ्रितमुद्यतं करोति । अतः पौर्णमास्याममावास्यायां च दर्शपूर्णमासयागावेव कर्तव्यौ, नान्यत् किंचिद्धविः । अनुनिर्वाप्यमित्युपसंहरति- अथ यः पौर्णमासेनैवेति । असपत्ना हैवेति । ‘असपत्ना’ शत्रुरहिता, अत एव ‘अनुपबाधा’ तत्कृतबाधारहिता च ‘अस्य’ यजमानस्य यागफलरूपा श्रीर्भवति ॥ ६ ॥
Eggeling
- When, after performing the Full-moon sacrifice, he afterwards prepares another oblation; and when, after performing the New-moon sacrifice, he afterwards prepares another oblation, he rises and defies his malicious enemy; and, indeed, unassailed and undisturbed is the prosperity of him who at full moon performs the Full-moon sacrifice, and at new moon the New-moon sacrifice 5.
०७
विश्वास-प्रस्तुतिः
पौर्णमासे᳘न वै᳘ देवाः᳘॥
पौर्णमासीं य᳘जमाना ऽआमावास्ये᳘नामावा᳘स्यां क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपा᳘घ्नत क्षिप्रे प्रा᳘जायंत स यो᳘ हैवं᳘ व्विद्वा᳘न्पौर्णमासे᳘नैव᳘ पौर्णमासीं य᳘जत ऽआमावास्ये᳘नामावा᳘स्यां क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपहते᳘ क्षिप्रे प्र᳘जायते स य᳘द्यनु निर्व्व᳘पेद्दद्याद्द᳘क्षिणा᳘न्नादक्षिण᳘ᳫँ᳘ हविः᳘ स्यादि᳘ति᳘ ह्याहु᳘र्द्दर्शपूर्णमास᳘यो᳘र्ह्ये᳘वैषा द᳘क्षिणा य᳘दन्वाहा᳘र्य्य ऽइ᳘ति᳘ न्वनुनिर्व्वा᳘प्यस्या᳘थाभ्यु᳘दितस्य[[!!]]॥
मूलम् - श्रीधरादि
पौर्णमासे᳘न वै᳘ देवाः᳘॥
पौर्णमासीं य᳘जमाना ऽआमावास्ये᳘नामावा᳘स्यां क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपा᳘घ्नत क्षिप्रे प्रा᳘जायंत स यो᳘ हैवं᳘ व्विद्वा᳘न्पौर्णमासे᳘नैव᳘ पौर्णमासीं य᳘जत ऽआमावास्ये᳘नामावा᳘स्यां क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपहते᳘ क्षिप्रे प्र᳘जायते स य᳘द्यनु निर्व्व᳘पेद्दद्याद्द᳘क्षिणा᳘न्नादक्षिण᳘ᳫँ᳘ हविः᳘ स्यादि᳘ति᳘ ह्याहु᳘र्द्दर्शपूर्णमास᳘यो᳘र्ह्ये᳘वैषा द᳘क्षिणा य᳘दन्वाहा᳘र्य्य ऽइ᳘ति᳘ न्वनुनिर्व्वा᳘प्यस्या᳘थाभ्यु᳘दितस्य[[!!]]॥
मूलम् - Weber
पौर्णमासे᳘न वै᳘ देवाः᳟॥
पौर्णमासीं य᳘जमाना आमावास्ये᳘नामावाॗस्यां क्षिप्र᳘ एव᳘ पाप्मा᳘नमपा᳘घ्नत क्षिप्रे प्रा᳘जायन्त स यो᳘ हैवं᳘ विद्वा᳘न्पौर्णमासे᳘नैव᳘ पौर्णमासीं य᳘जत आमावास्ये᳘नामावाॗस्यां क्षिप्र᳘ एव᳘ पाप्मा᳘नमपहते᳘ क्षिप्रे प्र᳘जायते स य᳘द्यनुनिर्व᳘पेद्दद्याद्द᳘क्षिणांॗ नादक्षिण᳘ᳫं᳘ हविः᳘ स्यादि᳘तिॗ ह्याहु᳘र्दर्शपूर्णमास᳘योॗर्ह्येॗवैषा द᳘क्षिणा य᳘दन्वाहा᳘र्य इ᳘ति न्व᳘नुनिर्वा᳘प्यस्या᳘थाभ्यु᳘दितस्य॥
मूलम् - विस्वरम्
पौर्णमासेन वै देवाः पौर्णमासीं यजमानाः; आमावास्येनामावास्याम् क्षिप्र एव पाप्मानमपाघ्नत । क्षिप्रे प्राजायंत । स यो हैवं विद्वान् पौर्णमासेनैव पौर्णमासीं यजते- आमावास्येनामावास्याम्, क्षिप्र एव पाप्मानमपहते । क्षिप्रे प्रजायते । स यदि अनुनिर्वपेत् दद्याद्दक्षिणाम् । नादक्षिणं हविः स्यात् इति ह्याहुः । दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्यः । इति न्वनुनिर्वाप्यस्य । अथाभ्युदितस्य ॥ ७ ॥
सायणः
अत एव, अनुनिर्वाप्यरहितयोरेवैतयोरनुष्ठानं पापहतिहेतुत्वेन प्रजातिहेतुत्वेन च प्रशंसति- पौर्णमासेन वै देवा इत्यादि । ‘पौर्णमासीममावास्याम्’ अत्यंतसंयोगे द्वितीया (पा. सू. २ । ३ । ५) । सर्वासु पौर्णमासीषु पौर्णमासेनैव यागेन नानुनिर्वाप्येन, हविषा । एवं सर्वास्वमावास्यासु आमावास्येनैव हविषा नान्येन । एवं कर्म कुर्वतो देवाः ‘क्षिप्रे’ अल्प एव काले कृत्स्नपापक्षयं पुत्रपौत्रादिलक्षणप्रजासमृद्धिं च प्राप्नुवन् । अत इदानीन्तनस्यापि तथा कुर्वाणस्य यजमानस्य तत् फलद्वयं भवतीत्यर्थः । इत्थं पक्षद्वयप्रतिपादनेनानुनिर्वाप्यस्य हविषो विकल्पो ऽयं षोडशीग्रहणवत्सिद्धेः 6 । तत्रानुनिर्वापपक्षे तस्य प्रातिस्विकं यत्किंचित् दक्षिणात्वेन दातव्यमिति विधत्ते- स यद्यनु निर्वपेदिति । तत्र दक्षिणादाने हेतुरुच्यते- नादक्षिणमिति । ‘न’ खलु दक्षिणारहितं च ‘यत्’ किंचिद्धवि ‘स्यात् इति’ यतः ‘आहुः’ ब्रह्मवादिनः; अतो ऽवश्यं दक्षिणा दातव्येति ।
ननु अनुनिर्वाप्ययोर्वैमृधादित्ययोर्हविषोर्दर्शपूर्णमासकर्मांगत्वात् तद्दक्षिणयैव प्रयाजादिवत् दक्षिणावत्त्वेन पृथग्दक्षिणाकांक्षाविरहात् दक्षिणान्तरविधानमसङ्गतमित्यत आह- दर्शपूर्णमासयोर्ह्येवैषेति । ‘अन्वाहार्य इति’ या अस्ति । एषा दर्शपूर्णमासयोरेव दक्षिणा, नतु ‘अनुनिर्वाप्यस्य’ हविषः । तस्य बहिस्तंत्रवर्तित्वेन प्रयाजादिवैलक्षण्यात् । ऋत्विगानत्यर्थं पृथगेव दक्षिणा दातव्येत्यभिप्रायः । प्रकृतमर्थमुपसंहरति- इति न्वनुनिर्वाप्यस्येति । ‘अनुनिर्वाप्यस्य हविषः’ या मीमांसा ‘इति’ अनेन प्रकारेण वृत्तेत्यर्थः । वर्तिष्यमाणप्रयोगजातस्य विषयं दर्शयति- अथाभ्युदितस्येति । आमावास्ये हविषि निरुप् सति यदि चंद्रो ऽभ्युदियात् तस्याभ्युदितस्य हविषो नैमित्तिकस्प प्रयोग इतः परमधिक्रियत इति वृत्तवर्तिष्यमाणसौकर्यपरिहारार्थो विभागनिर्देशः ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे प्रथमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (११ । १ । ३) ॥
Eggeling
- For by performing the Full-moon sacrifice at full moon, and the New-moon sacrifice at new moon, the gods forthwith dispelled evil, and were forthwith reproduced; and, verily, he who, knowing this, performs the Full-moon sacrifice at full moon, and the New-moon sacrifice at new moon, forthwith dispels evil, and is forthwith reproduced. If he offer an additional oblation, let him give a sacrificial fee (to the priests); for no oblation, they say, should be without a dakshiṇā; and for the Full and New-moon sacrifices there is that dakshiṇā, to wit, the Anvāhārya (mess of rice 7). Thus much as to the additional oblations; now as to (the sun) rising over him.
-
यथेष्टि Sây. ↩︎
-
5:2 That is to say, after the model of the Full-moon sacrifice. ↩︎
-
5:3 See part i, p. 375, where read ‘Aditi’ for ‘Āditye.’ ↩︎
-
य᳘स्मा᳘न्नानुनि᳘र्वपेत् AP ↩︎
-
7:1 That is, he who performs these sacrifices without additional oblations:–ataḥ paurṇamāsyāyām amāvāsyāṁ ca darśapūrṇamāsayāgāv eva kartavyau, nānyat kiṁcid dhavir anunitvāpyam, Sāy. Whilst favouring this view, the author, however, also admits the other as ensuring the same benefits. ↩︎
-
अयं षोडशीग्रहणवत्सिद्ध इति विकल्पो वाजसनेयिसूत्रादादिविकल्पो बोध्यः । तथा कात्यायनः “इंद्राय विमृध एकादशकपालः पौर्णमासमनु, आदिविकल्पः, आदित्यश्चरुरामावास्यम्" (का. श्रौ. सू. ४ । ५ । २३-२५) आदिविकल्प इत्येतस्मिन् सूत्रे कर्कः- स चायं शाखांतरात् आदित एवारभ्य आंताद्विकल्प इति । आदौ आरम्भ एव विकल्पो यस्य सः । आरभ्यते नवेति यदि आरभ्यते तदा यावज्जीवं क्रियत एव । तदुक्तम्- “रूपं कालो ऽनुनिर्वापो देवताश्रपणं हविः । आदौ ये विधृताः पक्षास्त इमे सर्वदा मताः” इति । ↩︎
-
7:2 See part i, p. 49, note 1. ↩︎