०१
विश्वास-प्रस्तुतिः
घ्न᳘न्ति वा᳘ ऽएत᳘द्यज्ञं[[!!]]॥
य᳘देनं तन्व᳘ते य᳘न्वेव रा᳘जानमभिषुण्वं᳘ति तत्तं᳘ घ्नन्ति स य᳘त्पशु᳘ᳫँ᳘ संज्ञप᳘यंति व्विशा᳘सति तत्तं᳘ घ्नन्त्युलूखलमुसला᳘भ्यां दृषदुपला᳘भ्याᳫं᳭ हविर्य्यज्ञं᳘ घ्नन्ति॥
मूलम् - श्रीधरादि
घ्न᳘न्ति वा᳘ ऽएत᳘द्यज्ञं[[!!]]॥
य᳘देनं तन्व᳘ते य᳘न्वेव रा᳘जानमभिषुण्वं᳘ति तत्तं᳘ घ्नन्ति स य᳘त्पशु᳘ᳫँ᳘ संज्ञप᳘यंति व्विशा᳘सति तत्तं᳘ घ्नन्त्युलूखलमुसला᳘भ्यां दृषदुपला᳘भ्याᳫं᳭ हविर्य्यज्ञं᳘ घ्नन्ति॥
मूलम् - Weber
घ्न᳘न्ति वा᳘ एत᳘द्यज्ञ᳘म्॥
य᳘देनं तन्व᳘ते यॗन्न्वेव रा᳘जानमभिषुण्व᳘न्ति तत्तं᳘ घ्नन्ति य᳘त्पशु᳘ᳫं᳘ संज्ञप᳘यन्ति विशा᳘सति तत्तं᳘ घ्नन्त्युलूखलमुसला᳘भ्यां दृषदुपला᳘भ्याᳫं हविर्यज्ञं᳘ घ्नन्ति॥
मूलम् - विस्वरम्
घ्नंति वा एतद्यज्ञं, यदेनं तन्वते । यन्वेव राजानमभिषुण्वंति । तत्तं घ्नंति । स यत् पशुं संज्ञपयन्ति । विशासीत । तत्तं घ्नंति । उलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नंति ॥ १ ॥
सायणः
एवमाधानस्यामावास्यालक्षणं प्रारंभकालं नियम्य दर्शपूर्णमासयोरपि उपवसथकालं निर्णेष्यन् आदौ च तत्रत्यानामाहुतीनां संख्याविशेषमुपजीव्य स्तोतुमुपोद्घातयति- घ्नंति वा इति । ‘एतत्’ एतर्हि इष्टिपशुसोमात्मानं त्रिविधं ‘यज्ञं घ्नंति’ हिंसंति ऋत्विग्यजमानाः । ‘यत्’ यदा ‘एनं तन्वते’ विस्तारयंति । एतदेव विविच्यते- यन्वेवेत्यादिना । ‘राजानं’ लतारूपं सोमं, ‘अभिषुण्वंति’ निष्पीडयंतीत्यर्थः । ‘पशुं संज्ञपयंति’ मारयंतीत्यर्थः । “मारणतोषणनिशामनेषु ज्ञा” (धा. पा. भ्वा. प. ८१२) इति मित्प्रकरणे स्मरणात् । “मितां ह्रस्वः” (पा. सू. ६ । ४ । ९२) इति ह्रस्वत्वम् । ‘विशासति’ विशासनं त्वगस्थ्यादेरनवदानीयात् हृदयाद्यवदानस्य पृथगुद्धरणं तत्कुर्वंतीत्यर्थः । “जक्षित्यादयः षट्” (पा. सू. ६ । १ । ६) इत्यभ्यस्तसंज्ञा । “अदभ्यस्तात्" (पा. सू. ७ । १ । ४) इत्यदादेशः । एवं सोमपशुयागयोर्हननमुक्तम् । अथ हविर्यज्ञस्योच्यते- उलूखलमुसलाभ्यां दृषदुपलाभ्यामिति । “व्रीहिभिर्यजेतेति” पुरोडाशप्रकृतित्वेन विहिता व्रीहयो अत्र हविर्यज्ञशब्देन तत्साध्ययागवाचिना विवक्षिताः । ते प्रथमं ‘उलूखलमुसलाभ्यां’ अवहननेन वितुषीक्रियंते । पश्चात् ‘दृषदुपलाभ्यां’ पिष्यन्ते इति हविर्यज्ञस्यैवंपरंपरया हननं कृतं भवतीत्यर्थः ॥ १ ॥
Eggeling
- Now when they spread (and perform) the sacrifice, they kill it; and when they press out king Soma, they kill him; and when they ‘quiet’ and cut up the victim, they kill it,–it is by means of the mortar and pestle, and by the two mill-stones that they kill the Haviryajña (grain-offering).
०२
विश्वास-प्रस्तुतिः
त᳘ᳫँ᳘ हत्वा᳘ यज्ञ᳘म्॥
(म) अग्ना᳘वेव यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘सिञ्चत्यग्निर्वै यो᳘निर्य्यज्ञ᳘स्य स त᳘तः प्र᳘जायते तद्द᳘शता ऽआ᳘हुतीः सं᳘पादयेद्या᳘भ्यो व्वषट्क्रिय᳘ते॥
मूलम् - श्रीधरादि
त᳘ᳫँ᳘ हत्वा᳘ यज्ञ᳘म्॥
(म) अग्ना᳘वेव यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘सिञ्चत्यग्निर्वै यो᳘निर्य्यज्ञ᳘स्य स त᳘तः प्र᳘जायते तद्द᳘शता ऽआ᳘हुतीः सं᳘पादयेद्या᳘भ्यो व्वषट्क्रिय᳘ते॥
मूलम् - Weber
त᳘ᳫं᳘ हत्वा᳘ यज्ञ᳘म्॥
अग्ना᳘वेव यो᳘नौ रे᳘तो भूत᳘ᳫं᳘ सिञ्चत्यग्निर्वै यो᳘निर्यज्ञ᳘स्य स त᳘तः प्र᳘जायते तद्द᳘श ता आ᳘हुतीः 1 स᳘म्पादयेद्या᳘भ्यो वषट्क्रियते॥
मूलम् - विस्वरम्
तं हत्वा यज्ञं अग्नावेव योनौ रेतोभूतं सिंचति । अग्निर्वै योनिर्यज्ञस्य । स ततः प्रजायते । तद्दशता आहुतीः संपादयेत् । याभ्यो वषट्क्रियते ॥ २ ॥
सायणः
तँहत्वेत्यादि । अभिषवसंज्ञपनावहननैः ‘तम्’ उक्तविधं त्रिविधं ‘यज्ञं हत्वा’ । अग्निरूपायां ‘योनौ रेतोभूतं’ कारणरूपतामापन्नम् । ‘सिंचति’ प्रक्षिपति प्रौढः सन्नुत्पद्यत इति । अग्नेर्यज्ञयोनित्वं प्रसिद्धमित्याह- अग्निर्वै योनिरिति । अग्निरेव खलु ‘यज्ञस्य योनिः’ उत्पत्तिकारणम् गार्हपत्याद्यग्निसाध्यत्वात्तस्येत्यर्थः । ‘सः’ च रेतोभूतो अग्नौ सिक्तो यज्ञः । ‘ततः’ तस्मात् योन्यात्मकादग्नेः प्रकर्षेण जायते । एवमग्नेः सकाशात् यज्ञस्योत्पत्तिमुपोद्घातत्वेन प्रतिपाद्य तत्रत्यानामाहुतीनामग्नेरुत्पद्यमानानां दशसंख्यासंपादनं विधत्ते- तद्दशता इति । दशसंख्यासंपन्नो वर्गो दशता । “पंचदशतौ वर्गे वा” (पा. सू. ५ । १ । ६०) इति स्मृतेः । तत्रत्याभ्य आहुतिभ्यः ‘वषट्क्रियते’ वषट्कारप्रदानास्ताः ‘आहुतीः’ ‘दशताः’ दशकसंघातरूपाः ‘संपादयेत्’ न न्यूनाधिकसंख्या इत्यर्थः ॥ २ ॥
Eggeling
- And having killed the sacrifice, he pours it, as seed, into the fire as its womb, for, indeed, the fire is the womb of the sacrifice, from out of it it is produced: let him therefore perform those ten oblations 2 for which the Vashaṭ is uttered.
०३
विश्वास-प्रस्तुतिः
(ते ऽयं) अयं वै᳘ यज्ञो᳘ यो ऽयं प᳘वते[[!!]]॥
सो ऽयमे᳘क ऽइवैव᳘ पवते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टो दशधा विहितः स᳘ ऽएवं᳘ कॢत्पैः᳘ प्राणै᳘रग्नेर्य्यो᳘नेर᳘धिजायते᳘ सैषा द᳘शाक्षरा व्विरा᳘ट् सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - श्रीधरादि
(ते ऽयं) अयं वै᳘ यज्ञो᳘ यो ऽयं प᳘वते[[!!]]॥
सो ऽयमे᳘क ऽइवैव᳘ पवते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टो दशधा विहितः स᳘ ऽएवं᳘ कॢत्पैः᳘ प्राणै᳘रग्नेर्य्यो᳘नेर᳘धिजायते᳘ सैषा द᳘शाक्षरा व्विरा᳘ट् सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - Weber
अयं वै᳘ यज्ञोॗ योऽयम् प᳘वते᳟᳟॥
सोऽयमे᳘क इवैव᳘ पवतेॗ सोऽयम् पु᳘रुषेऽन्तः प्र᳘विष्टो दशधाविहितः स᳘ एव᳘म् कॢप्तैः᳘ प्राणै᳘रग्नेर्यो᳘नेर᳘धिजायतेॗ सैषा द᳘शाक्षरा विराॗट् सैषा᳘ सम्पत्स᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अयं वै यज्ञः, यो ऽयं पवते । सो ऽयमेक इवैव पवते । सो ऽयं पुरुषे ऽन्तःप्रविष्टो दशधा विहितः । स एवं क्लृप्तैः प्राणैरग्नेर्योनेरधिजायते । सैषा दशाक्षरा विराट् । सैषा संपत् । स यज्ञः ॥ ३ ॥
सायणः
तस्य दशसंख्यासंपादनस्य प्रयोजनमाह- अयं वै यज्ञ इति । ‘यो ऽयं’ वायुरंतरिक्षे ‘पवते’ अयमेव खलु ‘सः’ यज्ञः । “वातवदध्वयुर्यज्ञं प्रयुंक्ते” इत्यादिश्रुतेः । ‘सो ऽयं’ अंतरिक्षे संचरन् ‘एक एव’ अनिरूपितभेदः सन् एकरूप एव अंते संचरति । यो ऽयं बाह्यो वायुः ‘पुरुषे’ मनुष्यादिशरीरे ‘अंतःप्रविष्टः’ प्राणो वायुर्भूत्वा चक्षुःश्रोत्रादिरंध्रदशकात् विनिर्गच्छन् ‘दशधा विहितः’ विभक्तः । स एवमित्यादि । ‘सः’ जायमानः ‘यज्ञः’ एवमुदीरितप्रकारेण ‘क्लृप्तैः’ दशभिः ‘प्राणैः’ सह अग्निलक्षणाया योनेरधिजायते “अधिपरी अनथको” इत्यधिरनर्थकः । ‘सैषा’ आहुतीनां दशसंख्या दशाक्षरविराट्रूपतया संपन्ना । ‘सा’ पूर्वोक्ता ‘संपत्’ एषैव येयं विराट्रूपता । यज्ञश्च यो विराट्संपन्नः स एव यज्ञः । तत्र दर्शपूर्णमासयोः प्रथमं पंच प्रयाजाः । ततो द्वावाज्यभागौ । आग्नेयः, अग्निषोमीयः, उपांशुयाजश्चेति पौर्णमास्यां त्रीणि प्रधानानि । दर्श आग्नेयो ऽष्टाकपालः, वैष्णव उपांशुयाजः, ऐन्द्रं दधिपयः, इति त्रीणि । एवं दश वषट्कारप्रदाना आहुतयः । एवं पशुसोमयोरित्यनेन न्यायेन दशसंख्यासंपत्तिर्द्रष्टव्या ॥ ३ ॥
Eggeling
- And, indeed, this sacrifice is the blowing (wind): he blows here, as it were, as a single one, but when he has entered into man, he is divided into ten parts;–with the vital airs thus distributed, it (the sacrifice) is born from out of its womb, the fire: this is that Virāj of ten syllables, this is that perfection, the sacrifice.
०४
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि न᳘व स्युः॥
(स्त᳘) त᳘न्न्यूनां व्विरा᳘जं करोति प्रज᳘ननाय᳘ न्यूनाद्वा᳘ इमाः᳘ प्रजाः प्र᳘जायंते᳘ सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि न᳘व स्युः॥
(स्त᳘) त᳘न्न्यूनां व्विरा᳘जं करोति प्रज᳘ननाय᳘ न्यूनाद्वा᳘ इमाः᳘ प्रजाः प्र᳘जायंते᳘ सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - Weber
अ᳘थो अ᳘पि न᳘व स्युः॥
तॗन्न्यूनां विरा᳘जं करोति प्रज᳘ननायॗ न्यूनाद्वा᳘ इमाः᳘ प्रजाः प्र᳘जायन्तेॗ सैषा᳘ सम्पत्स᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अथो अपि नव स्युः । तन्न्यूनां विराजं करोति प्रजननाय । न्यूनाद्वा इमाः प्रजाः प्रजायंते । सैषा संपत् । स यज्ञः ॥ ४ ॥
सायणः
असोमयाजिनस्तु 3 पौर्णमासे अग्नीषोमीययागो नास्ति, अतस्तदपेक्षया नवसंख्योपजीवनेन स्तौति- अथो अपि नव स्युरिति । ‘अथो’ इति प्रकारांतरद्योतनार्थः । वषट्कारप्रदाना आहुतयो नवसंख्याकाः ‘अपि’ कदाचित् भवेयुः । ‘तत्’ तदा एकेन ‘न्यूनां’ विराजं संपादयंति । किमर्थं ‘प्रजननाय’ प्रजारूपेणोत्पत्तये । न्यूनस्य प्रजोत्पत्तिहेतुता प्रसिद्धेत्याह- न्यूनाद्वा इति । न्यूनादेव तु गर्भाशयरूपात् प्रजननस्थानात् ‘इमाः’ मनुष्याद्याः ‘प्रजाः प्रजायंते’ सैषेत्यादि सिद्धम् ॥ ४ ॥
याजुर्वेदिके होत्रे तु कात्यायनः “विष्णुश्चे दिदं विष्णुरिति । तथा आध्वर्यवे ऽपि । पुरोडाशावंतरेणाग्नीषोमा उपाँश्वाज्यस्य (३ । ३ । २३) विष्णुर्वामावास्यायाँ हौत्राम्नानात्” (३ । ३ । २४) इति ।
अत्र कर्कः “अमावास्यायां विष्णुर्वा इज्यते । अग्नीषोमौ वा । एवं हि हौत्रे आम्नायते- विष्णुश्चेदिदं विष्णुरिति । ततश्च वाजसनेयिनां (असोमयाजिनामपि) पौर्णमासे अग्नीषोमीय उपांशुयागो नियत एव । दर्शे तु अग्नीषोमीयो वैष्णवो वा उपांशुयागः तेन दशवषट्कारप्रदाना दशाहुतयः, न नवेति” ।
Eggeling
०५
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘प्ये ऽका᳘ ऽतिरिक्ता स्यात्॥
(त्सा᳘) सा᳘ प्रजा᳘पतिमभ्य᳘तिरिच्यते᳘ सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘प्ये ऽका᳘ ऽतिरिक्ता स्यात्॥
(त्सा᳘) सा᳘ प्रजा᳘पतिमभ्य᳘तिरिच्यते᳘ सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - Weber
अ᳘थो अप्येका᳘तिरिक्ता स्यात्॥
सा᳘ प्रजा᳘पतिमभ्य᳘तिरिच्यतेॗ सैषा᳘ सम्पत्स᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अथो अप्येका ऽतिरिक्ता स्यात् । सा प्रजापतिमभ्यतिरिच्यते । सैषा संपत् । स यज्ञः ॥ ५ ॥
सायणः
प्रधानानंतरभाविस्विष्टकृद्यागापेक्षया स्तौति- अथो अप्येका ऽतिरिक्ता स्यादिति । वषट्कारप्रदानाहुतिदशकानंतरम् स्विष्टकृद्यागरूपा एका स्विष्टकृदाहुतिरूपा ‘अतिरिक्ता’ विराजो अधिका ‘स्यात्’ सा प्रजापतिमभिलक्ष्यातिरिच्यते । उभयोरेकत्वसंख्यायोगः साम्यं । ‘एषा’ प्रजापतिरूपैव एकस्या आहुतेः ‘संपत्’ तथाच यो यज्ञः प्रजापत्यात्मकः ‘सः’ एव ‘यज्ञः’ ॥ ५ ॥
Eggeling
- But there may be one additional (oblation) 6,that one remains over for Prajāpati: this is that perfection, the sacrifice.
०६
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि द्वे ऽअ᳘तिरिक्ते स्याताम्॥
द्वन्द्वं वै᳘ मिथुनं᳘ प्रज᳘ननं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते᳘ सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि द्वे ऽअ᳘तिरिक्ते स्याताम्॥
द्वन्द्वं वै᳘ मिथुनं᳘ प्रज᳘ननं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते᳘ सैषा᳘ संपत्स᳘ यज्ञः[[!!]]॥
मूलम् - Weber
अ᳘थो अ᳘पि द्वे अ᳘तिरिक्ते स्याताम्॥
द्वन्द्वं वै᳘ मिथुन᳘म् प्रज᳘ननम् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियतेॗ सैषा᳘ सम्पत्स᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अथो अपि द्वे अतिरिक्ते स्याताम् । द्वंद्वं वै मिथुनम् । प्रजननं मिथुनम् । एवैतत्प्रजननं क्रियते । सैषा संपत् । स यज्ञः ॥ ६ ॥
सायणः
इत्थमिष्टिविषये स्विष्टकृतः संपत्तिमभिधाय पशुयागविषयो विशेषो विद्यते इत्यभिप्रेत्य प्रतिपादयति- अथो अपि द्वे इति । तत्र हि वनस्पतियागः स्विष्टकृद्यागश्चेति ‘द्वे’ आहुती अधिके ‘स्यातां’ तत्र हि द्वित्त्वसंख्यया प्रजोत्पत्तये मिथुनरूपतासंपत्तिः प्रतिपाद्यत इत्यर्थः । सैषा संपदिति उक्तार्थनिगमनम् ॥ ६ ॥
Eggeling
- And there may be two additional (oblations) 7,
–a productive pair consists of two: thus a productive pair is produced; this is that perfection, the sacrifice.
०७
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि तिस्रो᳘ ऽतिरिक्ताः स्युः॥
(र्द्व) द्वन्द्वम᳘हमिथुनं᳘ प्रज᳘ननम᳘थ यज्जा᳘यते त᳘त्तृती᳘य᳘ᳫँ᳘ सैषा᳘ संपत्स᳘ यज्ञः᳘॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि तिस्रो᳘ ऽतिरिक्ताः स्युः॥
(र्द्व) द्वन्द्वम᳘हमिथुनं᳘ प्रज᳘ननम᳘थ यज्जा᳘यते त᳘त्तृती᳘य᳘ᳫँ᳘ सैषा᳘ संपत्स᳘ यज्ञः᳘॥
मूलम् - Weber
अ᳘थो अ᳘पि तिस्रो᳘ऽतिरिक्ता स्युः॥
द्वन्द्वम᳘ह मिथुन᳘म् प्रज᳘ननम᳘थ यज्जा᳘यते त᳘त्तृतीॗयᳫं सैषा᳘ सम्पत्स᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अथो अपि तिस्रो ऽतिरिक्ताः स्युः । द्वंद्वमहमिथुनं प्रजनम् । अथ यज्जायते तत्तृतीयम् । सैषा संपत् । स यज्ञः ॥ ७ ॥
सायणः
अथ दशपूर्णमासयोरनुयाजसंख्योपजीवनेन संपत्तिमाह- अथो अपि तिस्र इति । अनुयाजयागरूपाः ‘तिस्रः’ आहुतयः प्रकृतादाहुतिदशकादधिका भवेयुः । ‘अह’ शब्दो अवधारणे । स्त्रीपुंसरूपं द्वंद्वमेव खलु ‘प्रजननं’ प्रजोत्पादकम् । अथानंतरं तस्मात् द्वंद्वात्, यदपत्यं ‘जायते’ ‘तत् तृतीयं’ पितृमातृपुत्ररूपास्ता आहुतय इत्यर्थः । सैषेत्यादि पूर्ववत् ॥ ७ ॥
Eggeling
- And there may be three additional ones 8,–a productive pair consists of two, and that which is produced is the third: this is that perfection, the sacrifice.
०८
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि च᳘तस्रो᳘ ऽतिरिक्ताः स्युः॥
(स्त) तद्य᳘थै᳘कैवं च᳘तस्रस्त्र᳘यो वा᳘ ऽइमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोकां᳘स्तिसृ᳘भिराप्नो᳘ति प्रजा᳘पतिर्वा ऽअ᳘तीमां᳘ल्लोकां᳘श्चतुर्थस्त᳘त्प्रजा᳘पतिमेव᳘ चतुर्थ्या ऽऽप्नोति᳘[[!!]] सैषा᳘ संपत्स᳘[[!!]] यज्ञः[[!!]]॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथो) अ᳘थो ऽअ᳘पि च᳘तस्रो᳘ ऽतिरिक्ताः स्युः॥
(स्त) तद्य᳘थै᳘कैवं च᳘तस्रस्त्र᳘यो वा᳘ ऽइमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोकां᳘स्तिसृ᳘भिराप्नो᳘ति प्रजा᳘पतिर्वा ऽअ᳘तीमां᳘ल्लोकां᳘श्चतुर्थस्त᳘त्प्रजा᳘पतिमेव᳘ चतुर्थ्या ऽऽप्नोति᳘[[!!]] सैषा᳘ संपत्स᳘[[!!]] यज्ञः[[!!]]॥
मूलम् - Weber
अ᳘थो अ᳘पि च᳘तस्रो᳘ऽतिरिक्ताः स्युः॥
तद्यथै᳘कैवं 9 च᳘तस्रस्त्र᳘यो वा᳘ इमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोका᳘ᳫं᳘स्तिसृ᳘भिराप्नोति प्रजा᳘पतिर्वा अ᳘तीमां᳘लोकां᳘श्चतुर्थस्त᳘त्प्रजा᳘पतिमेव᳘ चतुॗर्थ्याप्नोतिॗ सैषा᳘ सम्प᳘त्स यज्ञः᳟॥
मूलम् - विस्वरम्
अथो अपि चतस्रो ऽतिरिक्ताः स्युः । तद्यथैका । एवं चतस्रः । त्रयो वा इमे लोकाः । तदिमानेव लोकांस्तिसृभिराप्नोति । प्रजापतिर्वा अतीमांल्लोकांश्चतुर्थः । तत्प्रजापतिमेव चतुर्थ्या ऽऽप्नोति । सैषा संपत् । स यज्ञः ॥ ८ ॥
सायणः
इत्यमेकैकं स्तुत्वा स्विष्टकृदनुयाजान् संभूयापि प्रशंसति- अथो अपि चतस्र इति । प्रागुदीरितात् प्रधानपर्यंतात् आहुतिदशकात् ‘चतस्रः’ स्विष्टकृदनुयाजरूपा आहुतयः ‘अतिरिक्ताः’ भवेयुः । यद्वा सोमस्त्वष्टा देवपत्न्यो ऽग्निर्गृहपतिरिति चत्वारः पत्नीसंयाजाः । ते ऽपि उक्ताद्दशकादतिरिच्यंत इति । तदपेक्षया चतस्र इत्येतत् व्याख्येयम्- तद्यथैकैवमित्यादि । तत्र चतसृभिरेका । यथा एका अतिरिक्ता प्रजापतिरूपेण संपन्ना । एवं चतस्रो ऽपि पर्यवसानवृत्त्या प्रजापतिमेवाप्नोति सैषा संपत्तिरूपेण संपद्यत इत्यर्थः । तामेव संपत्तिमाह- त्रयो वा इमे लोका इति । प्रजापतिर्वा इत्यादि । पूर्वाभिस्तिसृभिराहुतिभिः प्राप्तान् पृथिव्यादीन् त्रीन् लोकानतिक्रम्य ‘प्रजापतिः’ एव हि तदपेक्षया ‘चतुर्थः’ चतुःसंख्यापूरकः । तत्तस्मात् ‘चतुर्थ्या’ आहुत्या ‘प्रजापतिमेव’ प्राप्नोति । सैषा संपदिति उक्तार्थनिगमनम् ॥ ८ ॥
Eggeling
- And there may be four additional ones 10,–as the one so the four. There are these three worlds; these worlds he thus gains by three (oblations); and Prajāpati, indeed, is the fourth beyond these worlds: by the fourth (oblation) he thus gains Prajāpati,–this is that perfection, the sacrifice.
०९
विश्वास-प्रस्तुतिः
स यद्द्वा᳘भ्यामूनं त᳘दूनम्[[!!]]॥
(ᳫँ᳭) सो᳘ ऽयज्ञो य᳘त्पञ्च᳘भिर᳘तिरिक्तं तद᳘तिरिक्तᳫँ᳭ सो᳘ ऽयज्ञः᳘[[!!]] सै᳘षैव᳘ दशत्य᳘धिसंप᳘देषा᳘ व्विᳫँ᳭शत्या᳘मेषा᳘ ऽऽसह᳘स्रात्॥
मूलम् - श्रीधरादि
स यद्द्वा᳘भ्यामूनं त᳘दूनम्[[!!]]॥
(ᳫँ᳭) सो᳘ ऽयज्ञो य᳘त्पञ्च᳘भिर᳘तिरिक्तं तद᳘तिरिक्तᳫँ᳭ सो᳘ ऽयज्ञः᳘[[!!]] सै᳘षैव᳘ दशत्य᳘धिसंप᳘देषा᳘ व्विᳫँ᳭शत्या᳘मेषा᳘ ऽऽसह᳘स्रात्॥
मूलम् - Weber
स यद्द्वा᳘भ्यामूनं त᳘दूनं᳟॥
सो᳘ऽयज्ञो य᳘त्पञ्च᳘भिर᳘तिरिक्तं तद᳘तिरिक्तᳫं सो᳘ऽयॗज्ञः सैॗषैव᳘ दशत्य᳘धि सम्प᳘देषा᳘ विंशत्या᳘मेषा᳘ सह᳘स्रात्॥
मूलम् - विस्वरम्
स यद्द्वाभ्यामूनं तदूनम्, सो ऽयज्ञः । यत्पञ्चभिरातिरिक्तं तदतिरिक्तम् । सो ऽयज्ञः । सैषैव दशत्यधिसंपत् । एषा विंशत्याम् । एषा ऽ ऽसहस्रात् ॥ ९ ॥
सायणः
एवमेकेन न्यूनत्वं चतुर्भिरतिरिक्तत्वं च प्रतिपाद्य प्रशंसा कृता । एवं द्वाभ्यां न्यूनत्वं पंचभिरतिरिक्तत्वं च प्रदर्श्य कस्मान्न स्तूयत इत्याशंक्याह- स यद्द्वाभ्यामिति । ‘सः’ इति प्रसिद्धौ । लिंगव्यत्ययः । यज्ञसंबंधि ‘अंगं’ द्वाभ्यां न्यूनं भवति । ‘तत्’ ऊनमेव न संपूर्णं अत एव अयज्ञः स भवति । ‘यत्’ तु यज्ञसंबंधि अंगं पंचसंख्यया ‘अतिरिक्तं’ तत् अतिरिक्तमेव यज्ञशरीरमतिक्रम्य वर्तते । अतः सो ऽपि ‘अयज्ञः’ भवति “हानिवदंगानामतिरेको ऽपि विरोध” इति न्यायात् । मंत्रवर्णादपि अयमर्थो अवगम्यते “अतिरिक्तं यच्च कर्मणो हीनम्” इति । तस्मादत्र एकेन न्यूनत्वस्य चतुर्भिरतिरेकस्य प्रागुदीरितरीत्या संपत्तिहेतुत्वेन यज्ञसमृद्धिकरत्वात् उपन्यासः, तद्राहित्यात् द्वाभ्यामूनत्वस्य पंचभिरतिरेकस्यचानुपन्यासः, इति विभागो द्रष्टव्यः । प्रकृतां संपत्तिं निगमयति- सैषेति । विंशतिप्रभृतिषु दशकेषु एवमेषा अनुसंधेया । तत उपर्यपि ‘आसहस्रात्’ यावत्सहस्रसंख्या पूर्यते तावत्पर्यंतम् एकैकं दशकं विभज्य एषा विराट् संपत्ति र्ज्ञातव्येत्यर्थः । एवकारः प्रकारांतरव्युदसनार्थः । ‘अधिः’ सप्तम्यर्थानुवादी । ‘दशतौ’ दशवर्गे ‘एषा’ उक्ता संपत् ज्ञातव्येत्यर्थः ॥ ९ ॥
Eggeling
१०
विश्वास-प्रस्तुतिः
(दा) आजिं वा᳘ ऽएते᳘ धावंति॥
ये᳘ दर्शपूर्णमासा᳘भ्यां य᳘जंते स वै प᳘ञ्चदश व्वर्षा᳘णि यजेत ते᳘षां पञ्चदशानां᳘ व्वर्षा᳘णां त्री᳘णि च शता᳘नि षष्ठि᳘श्च पौर्णमा᳘स्यश्चामावा᳘स्याश्च[[!!]] त्री᳘णि च वै᳘ शता᳘नि षष्ठि᳘श्च संव्वत्सर᳘स्य रा᳘त्रयस्तद्रा᳘त्रीराप्नोति॥
मूलम् - श्रीधरादि
(दा) आजिं वा᳘ ऽएते᳘ धावंति॥
ये᳘ दर्शपूर्णमासा᳘भ्यां य᳘जंते स वै प᳘ञ्चदश व्वर्षा᳘णि यजेत ते᳘षां पञ्चदशानां᳘ व्वर्षा᳘णां त्री᳘णि च शता᳘नि षष्ठि᳘श्च पौर्णमा᳘स्यश्चामावा᳘स्याश्च[[!!]] त्री᳘णि च वै᳘ शता᳘नि षष्ठि᳘श्च संव्वत्सर᳘स्य रा᳘त्रयस्तद्रा᳘त्रीराप्नोति॥
मूलम् - Weber
आजिं वा᳘ एते᳘ धावन्ति॥
ये᳘ दर्शपूर्णमासा᳘भ्यां य᳘जन्ते स वै प᳘ञ्चदश वर्षा᳘णि यजेत ते᳘षाम् पञ्चदशानां᳘ वर्षा᳘णां त्री᳘णि च शता᳘नि षष्टि᳘श्च पौर्णमास्य᳘श्चामावाॗस्याश्च त्री᳘णि च वै᳘ शता᳘नि षष्टि᳘श्च संवत्सर᳘स्य रा᳘त्रयस्तद्रा᳘त्रीराप्नोति॥
मूलम् - विस्वरम्
आजिं वा एते धावंति, ये दर्शपूर्णमासाभ्यां यजंते । स वै पंचदश वर्षाणि यजेत । तेषां पंचदशानां वर्षाणां त्रीणि च शतानि षष्ठिश्च पौर्णमास्यश्चामावास्याश्च । त्रीणि च वै शतानि षष्ठिश्च संवत्सरस्य रात्रयः, तद्रात्रीराप्नोति ॥ १० ॥
सायणः
यावज्जीवं दर्शपौर्णमासाभ्यां यजेतेत्येकः पक्षः । त्रिंशतं वा वर्षाणीति पक्षांतरम् । तदिदानीं प्रतिपाद्यते- आजिं वा एत इति । क्रियातः प्राप्तव्यो अवधिः ‘आजिः’ ‘ये दर्शपूर्णमासाभ्यां यजंते’ ‘एते’ आजिमेव खलु धावंति । अतो यावता कालेनाजिः प्राप्यते तावत्ताभ्यां यष्टव्यम् । ननु कियता कालेन तत्प्राप्तिरित्याशंक्य तदुचितं कालं विधत्ते- स वै पंचदशवर्षाणीति । तावता कालेन संवत्सरात्मकस्य यज्ञस्य रात्रिलक्षणार्द्धभागप्राप्तिमाह- तेषां पंचदशानामिति । एकैकस्मिन् वर्षे चतुर्विंशतिसंख्याकाः दर्शपूर्णमासयागाः, तेषां पंचदशसंख्यया गणने सति षष्ट्युत्तरा त्रिशती संख्या संपद्यते । एकस्मिन् वत्सरे विद्यमाना रात्रयो ऽपि तावत्यः । अतस्तत्संख्याकैर्यागैस्तां रात्रीराप्नोतीत्यर्थः ॥ १० ॥
Eggeling
- Verily, they who perform the Full and New-moon sacrifice, run a race 13. One ought to perform it during fifteen years;–in these fifteen years there are three hundred and sixty full moons and new
moons; and there are in a year three hundred and sixty nights: it is the nights he thus gains.
११
विश्वास-प्रस्तुतिः
(त्य) अथा᳘पराणि प᳘ञ्चदशैव᳘ व्वर्षा᳘णि यजेत॥
ते᳘षाम्पञ्चदशानां᳘ व्वर्षा᳘णां त्री᳘णि चैव᳘ शता᳘नि षष्ठि᳘श्च पौर्णमास्य᳘श्चामावा᳘स्याश्च त्री᳘णि च वै᳘ शता᳘नि षष्ठि᳘श्च सम्वत्सरस्या᳘हानि तद᳘हान्याप्नोति त᳘द्वेव᳘ सम्व्वत्सर᳘माप्नोति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘पराणि प᳘ञ्चदशैव᳘ व्वर्षा᳘णि यजेत॥
ते᳘षाम्पञ्चदशानां᳘ व्वर्षा᳘णां त्री᳘णि चैव᳘ शता᳘नि षष्ठि᳘श्च पौर्णमास्य᳘श्चामावा᳘स्याश्च त्री᳘णि च वै᳘ शता᳘नि षष्ठि᳘श्च सम्वत्सरस्या᳘हानि तद᳘हान्याप्नोति त᳘द्वेव᳘ सम्व्वत्सर᳘माप्नोति॥
मूलम् - Weber
अथा᳘पराणि प᳘ञ्चदशैव᳘ वर्षा᳘णि यजेत॥
ते᳘षाम् पञ्चदशानां᳘ वर्षा᳘णां त्री᳘णि चैव᳘ शता᳘नि षष्टि᳘श्च पौर्णमास्य᳘श्चामावाॗस्याश्च त्री᳘णि च वै᳘ शता᳘नि षष्टि᳘श्च संवत्सरस्या᳘हानि तद᳘हान्याप्नोति॥
त᳘द्वेव᳘ संवत्सर᳘माप्नोति॥
मूलम् - विस्वरम्
अथापराणि पंचदशैव वर्षाणि यजेत । तेषां पंचदशानां वर्षाणां त्रीणि चैव शतानि षष्ठिश्च पौर्णमास्यश्चामावास्याश्च । त्रीणि च वै शतानि षष्ठिश्च संवत्सरस्याहानि । तदहान्याप्नोति, तद्वेव संवत्सरमाप्नोति ॥ ११ ॥
सायणः
संवत्सरसंबंधिनामह्नामाप्तये पुनः पंचदश वर्षाणि ताभ्यां यष्टव्यमिति विधत्ते- अथापराणीति ‘तेषां पंचदशानां’ इत्यादि पूर्ववद्यो ऽज्यम् ॥ ११ ॥
Eggeling
- He should then offer for another fifteen years; in these fifteen years there are three hundred and sixty full moons and new moons; and there are in a year three hundred and sixty days it is the days he thus gains, and the year itself he thus gains.
१२
विश्वास-प्रस्तुतिः
म᳘र्त्या ह वा ऽअ᳘ग्रे देवा᳘ ऽआसुः॥
स᳘ य᳘दैव ते᳘ संव्वत्सर᳘मापुर᳘थामृ᳘ता ऽआसुः स᳘र्व्वं वै᳘ सम्व्वत्सरः स᳘र्व्वं वा᳘ ऽअक्षय्य᳘मेते᳘नोहास्याक्षय्य᳘ᳫँ᳘ सुकृतं᳘ भवत्यक्षय्यो᳘ लोकः[[!!]]॥
मूलम् - श्रीधरादि
म᳘र्त्या ह वा ऽअ᳘ग्रे देवा᳘ ऽआसुः॥
स᳘ य᳘दैव ते᳘ संव्वत्सर᳘मापुर᳘थामृ᳘ता ऽआसुः स᳘र्व्वं वै᳘ सम्व्वत्सरः स᳘र्व्वं वा᳘ ऽअक्षय्य᳘मेते᳘नोहास्याक्षय्य᳘ᳫँ᳘ सुकृतं᳘ भवत्यक्षय्यो᳘ लोकः[[!!]]॥
मूलम् - Weber
म᳘र्त्या ह वा अ᳘ग्रे देवा᳘ आसुः॥
स᳘ यॗदैव ते᳘ संवत्सर᳘मापुर᳘थामृ᳘ता आसुः स᳘र्वं वै᳘ संवत्सरः स᳘र्वं वा᳘ अक्षय्य᳘मेते᳘नो हास्याक्षय्य᳘ᳫं᳘ सुकृत᳘म् भवत्यक्षय्यो᳘ लोकः᳟॥
मूलम् - विस्वरम्
मर्त्या ह वा अग्रे देवा आसुः । स यदैवते संवत्सरमापुः । अथामृता आसुः । सर्वं वै संवत्सरः, सर्वं वा अक्षय्यां एतेनो हास्याक्षय्यं सुकृतं भवति । अक्षय्यो लोकः ॥ १२ ॥
सायणः
एवमुक्तामहोरात्रविभागेन संवत्सरप्राप्तिमनूद्य स्तीति- मर्त्या इति । पुरा खलु मरणधर्माणः ‘देवाः’ बभूवुः । ‘ते’ यस्मिन् काल उक्तरीत्या ‘संवत्सरमापुः’ अथानंतरम् ‘अमृताः’ ते बभूवुः मर्त्यतां परित्यज्य देवत्वं प्राप्ताः । अतः संवत्सरव्याप्तिरेवामृतत्वप्राप्तिरितिभावः । एतदेवोपपादयति- सर्वं वा इति । सर्ववस्त्वात्मको हि ‘संवत्सरः’ तत्रैव तस्योत्पत्तेः । सर्वात्मकं हि वस्तु ‘अक्षय्यम्’ । अक्षयोपतं कर्म शक्यम् । “क्षय्यजय्यौ शक्यार्थे” (पा. सू. ६ । १ । ८१) इति निपात्यते । एतेन संवत्सरप्रापणेनैव ‘अस्य’ दर्शपूर्णमासयाजिनः ‘सुकृतमक्षय्यं’ क्षयरहितं ‘भवति’ । तत्फलभूतो लोकश्च तथा भवति ॥ १२ ॥
Eggeling
- Now, indeed, the gods were at first mortal; and only when they had gained the year they were immortal; for the year is everything, and the imperishable means everything: thereby then accrues to him imperishable merit, the imperishable world.
१३
विश्वास-प्रस्तुतिः
स᳘ ऽआजिसृ᳘तामे᳘कः॥
(को) य᳘ ऽएवं᳘ व्विद्वां᳘स्त्रिᳫँ᳭श᳘तं व्वर्षा᳘णि य᳘जते त᳘स्मादु त्रिᳫँ᳭श᳘तमेव᳘ व्वर्षा᳘णि यजेत य᳘द्यु दाक्षायणयज्ञी स्याद᳘थो ऽअ᳘पि प᳘ञ्चदशैव᳘ व्वर्षा᳘णि यजेता᳘त्र᳘ ह्येव सा᳘ संप᳘त्संप᳘द्यते द्वे हि᳘ पौर्णमा᳘स्यौ य᳘जते द्वे᳘ ऽअमावा᳘स्ये ऽअ᳘त्रो ऽएव ख᳘लु सा᳘ सम्प᳘द्भवति॥
मूलम् - श्रीधरादि
स᳘ ऽआजिसृ᳘तामे᳘कः॥
(को) य᳘ ऽएवं᳘ व्विद्वां᳘स्त्रिᳫँ᳭श᳘तं व्वर्षा᳘णि य᳘जते त᳘स्मादु त्रिᳫँ᳭श᳘तमेव᳘ व्वर्षा᳘णि यजेत य᳘द्यु दाक्षायणयज्ञी स्याद᳘थो ऽअ᳘पि प᳘ञ्चदशैव᳘ व्वर्षा᳘णि यजेता᳘त्र᳘ ह्येव सा᳘ संप᳘त्संप᳘द्यते द्वे हि᳘ पौर्णमा᳘स्यौ य᳘जते द्वे᳘ ऽअमावा᳘स्ये ऽअ᳘त्रो ऽएव ख᳘लु सा᳘ सम्प᳘द्भवति॥
मूलम् - Weber
स᳘ आजिसृ᳘तामे᳘कः॥
य᳘ एवं᳘ विद्वा᳘ᳫं᳘स्त्रिंश᳘तं वर्षा᳘णि य᳘जते त᳘स्मादु त्रिंश᳘तमेव᳘ वर्षा᳘णि यजेत य᳘द्यु दाक्षायणयज्ञी स्याद᳘थो अ᳘पि प᳘ञ्चदशैव᳘ वर्षा᳘णि यजेता᳘त्रॗ ह्येव सा᳘ सम्प᳘त्सम्प᳘द्यते द्वे हि᳘ पौर्णमाॗस्यौ य᳘जते द्वे᳘ अमावाॗस्ये अ᳘त्रो एव ख᳘लु सा᳘ सम्प᳘द्भवति॥
मूलम् - विस्वरम्
स आजिसृतामेकः । य एवं विद्वांस्त्रिंशतं वर्षाणि यजते । तस्मादु त्रिंशतमेव वर्षाणि यजेत । यद्यु दाक्षायणयज्ञी स्यात् । अथो अपि पंचदशैव वर्षाणि यजेत । अत्र ह्येव सा संपत्संपद्यते । द्वे हि पौर्णमास्यौ यजते द्वे अमावास्ये । अत्रो एव खलु सा संपद्भवति ॥ १३ ॥
सायणः
स च ‘आजिसृतां जगद्व्यापारनिर्वाहार्थमुदयाचलादिस्थानविशेषं नियमेन प्राप्नुवतां सूर्यादीनां मध्ये स्वयमप्येको भवति, ‘एवं विद्वान्’ उक्तप्रकारेण संवत्सरस्वरूपप्राप्तिं जानन् यो यजमानः त्रिंशद्वर्षपर्यंतं यजेत । प्रतिपादितमर्थं निगमयति- तस्मादु त्रिंशतमेवेति ।
यस्तु दर्शपूर्णमासारंभकाले आवृत्तिगुणविशिष्टौ तौ आरभमाणो दाक्षायणयज्ञयाजी स्यात् तस्य विशेषमाह- यद्यु दाक्षायणयज्ञी स्यादिति । ‘यद्यु’ यदि तु तदा दाक्षायणेनेष्टवान् स्यात् ‘पंचदशैव वर्षाणि यजेत’ न हि ‘त्रिंशतं वर्षाणि’ कुत इत्यत आह- अत्र ह्येवेति । ‘सा’ प्रागुक्ता अहोरात्रविभागेन संवत्सरप्राप्तिरूपा ‘संपत्’ तत्रोपपत्तिमाह- द्वे हीति । एवं प्रतिपर्व द्विरावृत्त्या अनुष्ठिते सति त्रिंशद्वर्षानुष्ठानेन या संपत् भवति । अत्र दाक्षायणयज्ञयागे पंचदर्शवर्षानुष्ठानेऽपि सा संपत्सिद्ध्यतीत्यर्थः ॥ १३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादश काण्डे प्रथमा ऽध्याये द्वितीयं ब्राह्मणम् ॥ (११-१-२) ॥
Eggeling
- He who, knowing this, offers (the Full and New-moon sacrifice) for thirty years, becomes one of the race-runners, whence one ought to offer sacrifice for not less than thirty years. But if he be a performer of the Dākshāyaṇa sacrifice 14, he need only offer for fifteen years, for therein that perfection is brought about, since he performs (every month) two Full-moon and two New-moon offerings, and thus that perfection is indeed brought about therein.
-
दशत आहुतीः Sây. ↩︎
-
3:1 These ten oblations of the New and Full-moon sacrifice (as the model for Haviryajñas generally), as enumerated by Sāyaṇa, are (a) at full moon–five fore-offerings, two butter-portions, two cake-offerings to Agni, and Agni-Soma, and a low-voiced offering to Agni-Soma, (b) at new moon–five fore-offerings, two butter-portions, a cake to Agni, a low-voiced offering to Vishṇu, and an offering of (sweet and sour) milk, or Sānnāyya, to Indra. ↩︎
-
इदं प्रवचनं (कृष्णयानुष) मूलं, आश्वलायनः “-यथग्निषोमीय उपांशुयाजो ऽग्नीषोमीयो अद्यवामान्यंदियोमातरिश्वाजभार” (पू. ष. १ । ६) विकल्पमाह । शांखायनसूत्रे तु (१ । ८ । ८) सान्नाय्ययाजिने अग्नीषोमीययागः, असान्नाय्यथाजिनो वैष्णव इति व्यवस्थितविकल्पः । ↩︎
-
3:2 Viz. inasmuch as, according to Sāyaṇa, at the Full-moon sacrifice the offering to Agni-Soma only takes place in the case of one who is a Soma-offerer. I find, however, no authority for this. ↩︎
-
3:3 Or, from the lower part (nyūna); cf. II, 1, 1, 13; 5, I, 20. ↩︎
-
3:4 That is, if the oblation to Agni Svishṭakr̥t (part i, p. 199 seqq.) is taken into account. ↩︎
-
3:5 According to Sāyaṇa, the second additional offering is the oblation of clotted ghee to Vanaspati (the lord of the forest, or the tree, i.e. the sacrificial stake, or Soma) at the animal sacrifice. Cf. part ii, p. 208. ↩︎
-
4:1 These three oblations, according to Sāyaṇa, are the three after-offerings (to the Barhis, to Nārāśaṁsa, and to Agni), see part i, p. 230 seqq. ↩︎
-
तद्य᳘थै᳘कैवं AP. - ibid. लोकां᳘स्तिसृ᳘भिराप्नो᳘ति AP. ↩︎
-
4:2 Viz. either the Svishṭakr̥t and the three after-offerings; or the four Patnīsaṁyājas (to Soma, Tvashṭr̥, the wives of the gods, and Agni Gr̥hapati), cf. part i, p. 256 seqq. ↩︎
-
4:3 That is, if it includes only eight oblations, see paragraph 4. ↩︎
-
4:4 That is, counting every ten (oblations) one Virāj, or metrical pāda of ten syllables. ↩︎
-
4:5 Viz. running along, as they do, with the revolutions of the moon and the sun. ↩︎
-
5:1 For this modification of the New and Full-moon sacrifice, see part i, p. 374 seqq. ↩︎