०१
विश्वास-प्रस्तुतिः
सम्वत्सरो वै᳘ यज्ञः᳘ प्रजा᳘पतिः॥
(स्त᳘) त᳘स्यैतद्द्वा᳘रं य᳘दमावा᳘स्या चन्द्र᳘मा ऽएव᳘ द्वारपिधा᳘नः॥
मूलम् - श्रीधरादि
सम्वत्सरो वै᳘ यज्ञः᳘ प्रजा᳘पतिः॥
(स्त᳘) त᳘स्यैतद्द्वा᳘रं य᳘दमावा᳘स्या चन्द्र᳘मा ऽएव᳘ द्वारपिधा᳘नः॥
मूलम् - Weber
संवत्सरो वै᳘ यज्ञः᳘ प्रजा᳘पतिः॥
त᳘स्यैतद्द्वा᳘रं य᳘दमावाॗस्या चन्द्र᳘मा एव᳘ द्वारपिधा᳘नः॥
मूलम् - विस्वरम्
संवत्सरो वै यज्ञः प्रजापतिः । तस्यैतद्द्वारम् । यदमावास्या । चंद्रमा एव द्वारपिधानः ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥
इत्थं कांडदशकात्मकः 1 शतपथपूर्वभागो व्याख्यातः । तत्र प्रथमद्वितीयकांडाभ्यां दर्शपूर्णमासाधानाग्निहोत्रतदुपस्थानादीनि चातुर्मास्यांतानि प्रतिपादितानि । तृतीयचतुर्थाभ्यामेकहाहीनसत्रात्मकसकलसोमयागप्रकृतिभूतश्चतुःसंस्थो ज्योतिष्टोमः प्रत्यपादि । पञ्चमेन वाजपेयराजसूयौ षष्ठादिकांडचतुष्टयेन प्रकृतिविकृतिभूतसोमयागांगभूतमग्निचनाख्यं कर्म विस्तरेण प्रतिपादितम् । दशमे तत्प्रशंसा ऽर्थमुखेन तदाश्रितान्युपशमनानि विहितानि, इति पूर्वभागार्थसंक्षेपः । उत्तरभागे अष्टाध्यायीसौत्रामण्यश्वमेधाख्यास्त्रयः काण्डाः । चतुर्थस्तु ब्रह्मप्रतिपादको बृहदारण्यकाख्यः । तत्र प्रथमे कांडे पूर्वोक्तमाधानादिकं कर्मानूद्य प्राग्विहितकालाद्यवशिष्टांगकलापविधिः तत्प्रशंसा च क्रियते ।
तत्र तावदग्निहोत्रदर्शपूर्णमासाग्निष्टोमानां मूलप्रकृतीनां तद्विकृतीनां मासाग्निहोत्रसौर्ययागविश्वजिदादीनां सर्वेषां श्रौतकर्मणां गार्हपत्याद्यग्निसाध्यत्वात् । तस्य त्वाधानपवमानेष्टिभ्यामग्निसिद्धिरिति न्यायेनाधाननिष्पाद्यत्वादाधानमेवादौ वक्तव्यम् । तस्य च स्वाभिमतं कालं विसृजन् यज्ञादीन् संवत्सराद्यात्मना निरूपयति- संवत्सरो वै यज्ञ इत्यादिना ।
यो ऽयं दर्शपूर्णमासादियज्ञात्मकः ‘प्रजापतिः’ ‘स संवत्सरो वै’ संवत्सरात्मकः तत्साध्यत्वात् । ओश्रावयेत्यादिसप्तदशाक्षरसाध्यत्वाद्यज्ञस्य प्रजापतित्वम् । तथा च तैत्तिरीयके- ओश्रावयेति चतुरक्षरमिति प्रक्रम्य “एष वै सप्तदशः प्रजापतिर्यजमानाय ते” (तै. सं. १ । ६ । १०) इत्याम्नातं । संवत्सरस्यापि द्वादश मासाः पंचर्तवः संवत्सर इति सप्तदशावयवत्वसाम्यात् प्रजापतेस्तस्य च तादात्म्यम् । यथा- “आदित्यो यूपः” इत्यत्र तेजःसारूप्यात् यूपस्यादित्यात्मना स्तुतिः । एवमत्रापि संख्यासारूप्यात् स्तुतिरेव मंतव्या । वैशब्द उक्तार्थप्रसिद्धिद्योतनार्थः । तथाच तैत्तिरीयकम्- “द्वादश मासाः पंचर्तवः” (तै. सं. ५ । ६ । ७) इति । हेमन्तशिशिरयोः समासेन तावान् संवत्सरः प्रजापतिरिति । एवं यज्ञस्य संवत्सरकालात्मकत्वमुक्त्वा केन द्वारेण स प्रवेष्टव्य इत्याकांक्षायामाह- तस्यैतद्द्वारमित्यादि ।
‘अमावास्या’ अमेत्ययं शब्दः सहशब्दार्थे वर्तते । प्रतिपदादितिथिषु मध्ये यस्यां तिथौ अमा सूर्येण सह चंद्रो वसति सा ऽमावास्या । अमापूर्वाद्वसेः “ऋहलोर्ण्यत्” (पा. सू. ३ । १ । १२४) इति ण्यत्प्रत्ययः । यद्वा वसुशब्दाभिधेय इंद्रः सान्नाय्यपानार्थं देवैः सह अस्यां तिथौ वसतीत्यमावास्या । तथा च तैत्तिरीयकम्- “अमा वैनो ऽद्य वसतीन्द्रो हि देवानां वसु तदमावास्याया अमावास्यात्वम्” (तै. सं. २ । ५ । ३) इति । अमावास्येति यदस्ति ‘एतत्तस्य’ संवत्सरात्मनो यज्ञस्य द्वारम् । लौकिकद्वारवत् कर्मानुष्ठानप्रवेशनसाधनमित्यर्थः । अमावास्या संवत्सरस्य द्वारं चेत्; तस्य केन चित् द्वारपिधायकेन भवितव्यं- किं तदित्यत आह-
चंद्रमा एवेति । माति प्रतिपदाद्यांस्तिथीन्परिच्छिनत्तीति माः । “मा माने” (धा. पा. अ. प. ५२) इत्यस्मादसुन् । चंद्रः अमृतमयैः किरणैः सर्वजनाल्हादकः । चंद्रश्चासौ माश्च चंद्रमाः । सः एव द्वारपिधानः, द्वारस्यामावास्यारूपस्य पिधानः तिरोधायकः । सच अमावास्यायां नास्तीत्येतदात्मकं विवृतमेव भवति । अतस्तेनैव द्वारेण यज्ञप्रवेशः सुकर इत्यर्थः ॥ १ ॥
श्रीकाशीनिवासिजावजीभट्टानां पुस्तकस्था एकादशकाण्डप्रतिपाद्यविषयानुक्रमणिकाश्लोकाः ।
एकादशे ऽस्मिन् कांडे वै अष्टाध्यायीतिनामनि । आधानाहानुनिर्वापौ छाया चाभ्युदयस्तथा ॥
हिरण्यगर्भाद्युत्पत्तिर्दैवीसंपदथात्मनः । व्रतोपायनमीमांसा अभिमानकथा तथा ॥
ऋणत्रयापाकरणा ऽऽहुतेरर्थस्तु ब्रह्म च । न्यूनातिरिक्तदोषास्तु वेद्यालंभकथापि च ॥
पूर्णशब्ददर्शशब्दार्थो ऽश्वमेधफलं तु यत् । तदेव च दर्शपूर्णमासाभ्यामग्निहोत्रतः ॥
प्रणीताशिर इत्यादिसंस्तुतिर्देवयाजिनः । तथापि चात्मयाजित्वं श्रेष्ठमेवेति निर्णयः ॥
यज्ञः संवत्सरात्मकस्तत्साधनर्त्विगादि च । निन्द्ये ऽपि च ऋतुध्यासादनिंद्ययज्ञवत्फलम् ॥
अग्निहोत्रहोमद्रव्यं ब्रह्मचर्यफलं तथा । आधारादेस्तुमीमांसा सा प्रश्नोत्तरपूर्विका ॥
सुगादानातिक्रमयोस्तथा स्रुग्धारणस्य च । आश्रावणस्य होमार्थं स्रुगुपाहरणस्य च ॥
मित्रविन्दा च हविषः समृद्धिः षट्प्रकारतः । न्यूनातिरिक्तयज्ञस्य मिश्रसंपूरितस्य च ॥
समृद्धिरग्नेरुप्तत्तिकथा चारणिकी ततः । चातुर्मास्यदेवतानामंगरूपनिरूपणम् ॥
ब्रह्मोद्यमग्निहोत्रं चोपनयनप्रसंगतः । विधिस्तथा देवगणाः स्वर्गे गताः कथा ऽपि च ॥
पञ्चमहायज्ञफलं ब्रह्मयज्ञस्य च पृथक् । प्रजापतेरनंतरं पृथिव्यादित्रयं ततः ॥
तापेन सूर्यादित्रिकमेवं वेदाः क्रमेण तु । प्रायश्चित्तप्रसंगेन ऋत्विजामपि निर्णयः ॥
जयरूपा ऽग्निहोत्रस्य कथा कामापरा तथा । अतिप्रश्नकथा सम्यक् हविर्यज्ञपशोर्विधिः ॥
सायं वै अग्निहोत्रस्योपस्थानस्य च कारणम् । आहृतोद्धृतप्रहृतविहृताग्नेस्तु निर्णयः ॥
पशुदेवतानिर्णयो ऽनुप्राणनविधिस्ततः । आदित्यस्या ऽऽदानकथा प्रायश्चित्तं त्तु धर्मधुक् ॥
शार्दूलेन हता चेदित्यस्मिन्नेष क्रमस्तु सः । व्याख्यातः सायनाचार्यैर्माधवापरनामकैः ॥
॥ इति एकादशकांडप्रतिपाद्यविषयानुक्रमणिकाश्लोकाः ॥
Eggeling
- Verily, Prajāpati, the Sacrifice, is the Year: the night of new moon is its gate, and the moon itself is the bolt of the gate.
०२
विश्वास-प्रस्तुतिः
स᳘ यो ऽमावा᳘स्यायामग्नी᳘ ऽआधत्ते[[!!]]॥
य᳘था व्वि᳘वृतायां द्वारि᳘ द्वारा पु᳘रं प्रप᳘द्येत स त᳘त ऽएव᳘ स्वर्गं᳘ लोक᳘मिया᳘देवं त᳘द्यो ऽमावा᳘स्यायामाधत्ते᳘॥
मूलम् - श्रीधरादि
स᳘ यो ऽमावा᳘स्यायामग्नी᳘ ऽआधत्ते[[!!]]॥
य᳘था व्वि᳘वृतायां द्वारि᳘ द्वारा पु᳘रं प्रप᳘द्येत स त᳘त ऽएव᳘ स्वर्गं᳘ लोक᳘मिया᳘देवं त᳘द्यो ऽमावा᳘स्यायामाधत्ते᳘॥
मूलम् - Weber
सॗ योऽमाॗवास्यायामग्नी᳘ आधत्ते᳟॥
य᳘था वि᳘वृतायां द्वारि᳘ द्वारा पु᳘रम् प्रप᳘द्येत स त᳘त एव᳘ स्वर्गं᳘ लोक᳘मिया᳘देवं तॗद्योऽमावाॗस्यायामाधत्ते᳟॥
मूलम् - विस्वरम्
स यो ऽमावस्यायामग्नी आधत्ते । यथा विवृतायां द्वारि द्वारा पुरं प्रपद्येत । स तत एव स्वर्गं लोकमियात् । एवं तत् । यो ऽमावास्यायामाधत्ते ॥ २ ॥
सायणः
इत्थममावास्यां प्रशंस्य तत्राधानकर्तव्यतामाह- स य इति । ‘यः’ कश्चिदग्न्याधित्सुर्भवति । ‘सः’ सर्वो ऽपि यजमानः ‘अमावास्यायां’ तिथौ । ‘अग्नौ’ प्राधान्यात् गार्हपत्याहवनीयाख्यौ । ‘आदधीत’ आयतनेषु 2 विधानेन स्थापयेत्, अप्राप्तार्थत्वात्पंचमलकाराश्रयणेन विध्यर्थो ऽत्राधिगंतव्यः । दक्षिणाग्नेः सद्भावे ऽपि द्वयोरेव प्राधान्यं श्रुत्यंतरे ऽप्याम्नातम्- “उपस्तीर्य पूर्वश्चाग्निरपरश्चेत्याहुः” इति । “उभावग्नी उपस्तृणत” इति च ।
उक्तद्वारादिकल्पनोपजीवनेनामावास्याधानं दृष्टांतेनोपपादयति- यथा विवृतायामिति । ‘यथा’ लोके नगरस्य ‘द्वारि’ द्वारे ‘विवृतायाम्’ उद्घाटितकपाटे सति ‘द्वारा’ तेन द्वारेण ‘पुरं प्रपद्येत’ प्रविशेत प्रविश्य च स्वाभिलषितं देशं प्राप्नोति । ‘एवं तत्’ अमावास्याधानमेतत्सदृशम् अमावास्यायाः संवत्सरात्मकयज्ञद्वारत्वात्, तत्रापिधायकचंद्रादर्शनेन विवृतत्वाच्च । अपि च आधानतः ‘तत एव’ अमावास्यारूपद्वारेण यज्ञप्रवेशादेव । “स्वर्गं लोकं’ लोक्यत इति लोकः । सुष्ठु अर्ज्यते शोभनेनार्जनेन गम्यत इति वा स्वर्गः । सर्वजनेनाभिलषणीयं दुःखासंभिन्नं कर्मफलमित्यर्थः । तथाचाहुः- “यन्न दुःखेन संभिन्नं न च ग्रस्तमनंतरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्” इति । तादृशं स्वर्गफलं ‘इयात्’ प्राप्नुयात् । यस्मादेवं अमावास्याधानं प्रशस्तं तस्मादेवममावास्यायामेवाधातव्यमित्युक्तमेवार्थं दार्ढ्यायोपसंहरति- यो ऽमावास्यायामग्नी आधत्त इति । स य इति पूर्वत्र संबंधः ॥ २ ॥
Eggeling
- And when one lays down the two fires at new moon 3,–even as one would enter a stronghold by the gate, when the gate is open, and would thence reach the world of heaven, so it is when one lays down the fires at new moon.
०३
विश्वास-प्रस्तुतिः
(त्ते᳘ ऽथ) अ᳘थ यो न᳘क्षत्र ऽआ᳘धत्ते[[!!]]॥
यथा᳘ पिहितायां द्वार्य्य᳘द्वारा पु᳘रं प्रपि᳘त्सेत्स᳘ जिह्मः᳘ पुरः स्या᳘देवं तद्यो न᳘क्षत्र ऽआधत्ते त᳘स्मान्न न᳘क्षत्र ऽआ᳘दधीत॥
मूलम् - श्रीधरादि
(त्ते᳘ ऽथ) अ᳘थ यो न᳘क्षत्र ऽआ᳘धत्ते[[!!]]॥
यथा᳘ पिहितायां द्वार्य्य᳘द्वारा पु᳘रं प्रपि᳘त्सेत्स᳘ जिह्मः᳘ पुरः स्या᳘देवं तद्यो न᳘क्षत्र ऽआधत्ते त᳘स्मान्न न᳘क्षत्र ऽआ᳘दधीत॥
मूलम् - Weber
अ᳘थ यो न᳘क्षत्र आधत्ते᳟॥
यथा᳘पिहितायां द्वार्य᳘द्वारा पु᳘रम् प्रपि᳘त्सेत्स᳘ जिह्मः᳘ पुरः स्या᳘देवं तद्यो न᳘क्षत्र आधत्ते त᳘स्मान्न न᳘क्षत्र आ᳘दधीत॥
मूलम् - विस्वरम्
अथ यो नक्षत्र आधत्ते । यथा पिहितायां द्वारि । अद्वारा पुरं प्रपित्सेत् । स जिह्मः पुरः स्यात् । एवं तत् । यो नक्षत्र आधत्ते । तस्मान्न नक्षत्र आदधीत ॥ ३ ॥
सायणः
उक्तामावास्याधानप्रशंसार्थमस्मच्छाखायां 2 तैत्तिरीयादिशाखांतरे च विहितं नक्षत्राधानमनूद्य दूषयति- अथ यो नक्षत्र आधत्त इति ।
अथेति पक्षांतरद्योतनार्थः । यस्तु यजमानो ऽमावास्यां विहाय केवले कृत्तिकादिनक्षत्रे अग्नी आधत्ते पूर्वोक्तमग्न्याधानं कुर्यात् ‘सः’ च । ‘यथा’ नगरस्य ‘द्वारि पिहितायां’ सत्यां लौकिको जनः । ‘अद्वारा’ द्वारवर्जितप्रदेशेन मोहात् ‘पुरं प्रपित्सेत्’ प्रपत्तुं प्रवेष्टुमिछेत् । “प्रपूर्वात्पदगतौ”- (धा. पा. दि. प. ६३) इत्यस्मादिच्छार्थे सनि द्विर्वचने । “सनि मीमाघुरभलभशकपतपदामच इस्”- (पा. सू. ७ । ४ । ५४) इत्यचः स्थाने इस् । “अत्र लोपो ऽभ्यासस्य”- (पा. सू. ७ । ४ । ५८) इत्यभ्यासलोपः । सव ‘अद्वारा पुरं’ प्रविशेत् । ‘पुरः’ पुरोभागे । ‘जिह्मः’ वक्रः प्रतिहतगतिर्भवतीत्यर्थः । अतो ‘यो नक्षत्र आधते’ तस्य तन्नक्षत्राधानमेवमेव । आधानदिवसे चन्द्रदर्शनेन अमावास्यारूपस्य द्वारस्य पिहितत्वात् तस्य यज्ञप्रवेशो दुष्कर इत्यर्थः । नक्षत्राधानं दूषयित्वा स्वमतदार्ढ्यार्थं निषेधति-तस्मान्न नक्षत्र आदधीत इति ॥ ३ ॥
Eggeling
- And if one lays down the fires under a (special) asterism 4,–just as if one tried to enter a stronghold, when the gate is closed, in some other way than through the gate, and failed to get inside the stronghold, so it is when one lays down the fires under an asterism: let him therefore not lay down the fires under an asterism.
०४
विश्वास-प्रस्तुतिः
यद᳘हरे᳘वैषः[[!!]]॥
(पो) न᳘ पुर᳘स्तान्न᳘ पश्चा᳘दृश्ये᳘त तद᳘हरु᳘पवसेत्त᳘र्हि᳘ ह्येष᳘ ऽइमं᳘ लोक᳘माग᳘च्छति त᳘स्मिन्निह व्व᳘सति॥
मूलम् - श्रीधरादि
यद᳘हरे᳘वैषः[[!!]]॥
(पो) न᳘ पुर᳘स्तान्न᳘ पश्चा᳘दृश्ये᳘त तद᳘हरु᳘पवसेत्त᳘र्हि᳘ ह्येष᳘ ऽइमं᳘ लोक᳘माग᳘च्छति त᳘स्मिन्निह व्व᳘सति॥
मूलम् - Weber
यद᳘हरेॗवैषः᳟॥
न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्दृश्ये᳘त तद᳘हरु᳘पवसेत्त᳘र्हिॗ ह्येष᳘ इमं᳘ लोक᳘माग᳘छति त᳘स्मिन्निह व᳘सति॥
मूलम् - विस्वरम्
यदहरेवैष न पुरस्तान्न पश्चात् दृश्येत । तदहरुपवसेत् । तर्हि एष इमं लोकमागच्छति । तस्मिन्निह वसति ॥ ४ ॥
सायणः
अथाधानोपक्रमस्य विवक्षितममावास्याविशेषं दर्शयति- यदहरेवैष न पुरस्तान्न पश्चात् दृश्येत तदहरुपवसेदिति । ‘यदहः’ यस्मिन्नहनि । ‘एषः’ चंद्रमाः । ‘पुरस्तात्’ पूर्वस्यां ‘न दृश्येत’ तथा ‘पश्चात्’ प्रतीच्यां दिश्यपि न दृश्येत । ‘तदहः’ तस्मिन्नहनि ‘उपवसेत्’ उपवासो नाम आधानसंभारान् संभृत्य गार्हपत्यायतनसमीपे व्रतंचारिणा अवस्थानम् चतुर्द्दशीप्रतिपन्मिश्रितायाममावास्यायामाधानं प्रारभेतेत्यर्थः । उक्तगुणविशिष्टाया अमावास्यायाः को ऽतिशयः ? इत्याह- तर्हि ह्येष इमं लोकमागच्छति तस्मिन्निह वसति । “सर्वे देवा वसंति, सर्वाणि भूतानि, सर्वा देवताः, सर्वे ऋतवः, सर्वे स्तोमाः, सर्वाणि पृष्ठानि, सर्वाणि छंदांसि” इति । यस्यां पुरस्तात्पश्चाच्च न संदृश्यते चन्द्रमाः । तर्हि तस्याममावस्यायामेषः चन्द्रो द्युलोकं विहायेमं ‘लोकमागछति’ आगत्य च ‘तस्मिन्’ दिवसे इहास्मिन्नेव लोके ‘वसति’ । अत एव स्मर्यते- “वनस्पतिगते सोम” इति ॥ ४ ॥
Eggeling
- On the same day on which that one (the moon) should not be seen either in the east or in the west,
let him fast, for it is then that he (the moon) comes to this world 5, and on that (day) he abides here (on the sacrificial ground).
०५
विश्वास-प्रस्तुतिः
स᳘र्व्वे देवा᳘ व्वसन्ति॥
स᳘र्व्वाणि भूता᳘नि स᳘र्व्वा देव᳘ताः स᳘र्व्व ऽऋत᳘वः स᳘र्व्वे स्तो᳘माः स᳘र्व्वाणि पृष्ठा᳘नि स᳘र्व्वाणि च्छं᳘दाᳫँ᳭सि॥
मूलम् - श्रीधरादि
स᳘र्व्वे देवा᳘ व्वसन्ति॥
स᳘र्व्वाणि भूता᳘नि स᳘र्व्वा देव᳘ताः स᳘र्व्व ऽऋत᳘वः स᳘र्व्वे स्तो᳘माः स᳘र्व्वाणि पृष्ठा᳘नि स᳘र्व्वाणि च्छं᳘दाᳫँ᳭सि॥
मूलम् - Weber
स᳘र्वे देवा᳘ वसन्ति॥
स᳘र्वाणि भूता᳘नि स᳘र्वा देव᳘ताः स᳘र्व ऋत᳘वः स᳘र्वे स्तो᳘माः स᳘र्वाणि पृष्ठा᳘नि स᳘र्वाणि छ᳘न्दांसि॥
मूलम् - विस्वरम्
सर्व्वे देवा वसंति । सर्वाणि भूतानि । सर्वा देवताः । सर्व ऋतवः । सर्वे स्तोमाः । सर्वाणि पृष्ठानि । सर्वाणि छन्दांसि ॥ ५ ॥
सायणः
तस्मिन् दिवसे चंद्रो भूम्यां वसति तदुपजीविनो देवाद्याः इमं लोकमधिवसंतीत्याह- सर्वे देवा इत्यादि । ‘देवाः’ इंद्रादयः ते ‘सर्वे’ चंद्रमसो निवृत्या अमावास्यायामस्मिन्नेव लोके ‘वसंति’ । तथा ‘भूतानि’ लोकांतरवर्तीनि प्राणिजातान्यपि । तथा अन्या अपि याः काश्चन ‘देवताः’ ‘सर्वाः’ इहैव वसंति । ‘ऋतवः’ वसंताद्याः ते अपि चंद्रगत्यवधानत्वात् तमनुसृत्य वसंति । ‘स्तोमाः’ त्रिवृदादयः । ‘पृष्ठानि’ बृदद्द्रथं तरवैरूपादीनि । ‘छंदांसि’ गायत्र्युष्णिगनुष्टुबादीनि । दिव्यस्यैव चंद्रमसः सोमलतारूपेण भूमावस्थानात् सोमयागांगभूतास्त्रिवृदाद्याः सर्वे ऽपि तमनुसृत्य इह लोके सह वसंतीत्यर्थः ॥ ५ ॥
Eggeling
- And all the gods abide (here), all the spirits, all the deities, all the seasons, all the Stomas (hymn-forms), all the Pr̥shṭḥas 6, and all the metres.
०६
विश्वास-प्रस्तुतिः
स᳘र्व्वेषु ह वा᳘ ऽअस्य देवे᳘षु॥
स᳘र्व्वेषु भूते᳘षु स᳘र्व्वासु देव᳘तासु स᳘र्व्वेष्वृतु᳘षु स᳘र्व्वेषु स्तो᳘मेषु स᳘र्वेषु पृष्ठे᳘षु स᳘र्व्वेषु च्छं᳘दःस्वग्नी ऽआ᳘हितौ भवतो᳘ यो ऽमावा᳘स्या यामाधत्ते त᳘स्मादमावा᳘स्यायामे᳘वाग्नी ऽआ᳘दधीत᳘॥
मूलम् - श्रीधरादि
स᳘र्व्वेषु ह वा᳘ ऽअस्य देवे᳘षु॥
स᳘र्व्वेषु भूते᳘षु स᳘र्व्वासु देव᳘तासु स᳘र्व्वेष्वृतु᳘षु स᳘र्व्वेषु स्तो᳘मेषु स᳘र्वेषु पृष्ठे᳘षु स᳘र्व्वेषु च्छं᳘दःस्वग्नी ऽआ᳘हितौ भवतो᳘ यो ऽमावा᳘स्या यामाधत्ते त᳘स्मादमावा᳘स्यायामे᳘वाग्नी ऽआ᳘दधीत᳘॥
मूलम् - Weber
स᳘र्वेषु ह वा᳘ अस्य देवे᳘षु॥
स᳘र्वेषु भूते᳘षु स᳘र्वासु देव᳘तासु स᳘र्वेष्वृतु᳘षु स᳘र्वेषु स्तो᳘मेषु स᳘र्वेषु पृष्ठे᳘षु स᳘र्वेषु छ᳘न्दःस्वग्नी आ᳘हितौ भवतोॗ योऽमावाॗस्यायामाधत्ते त᳘स्मादमावाॗस्यायामेॗवाग्नी आ᳘दधीत॥
मूलम् - विस्वरम्
सर्वेषु ह वा अस्य देवेषु । सर्वेषु भूतेषु । सर्वासु देवतासु । सर्वेषु ऋतुषु । सर्वेषु स्तोमेषु । सर्वेषु पृष्ठेषु । सर्वेषु छन्दःसु । अग्नी आहितौ भवतः । यो ऽमावास्यायामाधत्ते । तस्मादमावास्यायामेव । अग्नी आदधीत ॥ ६ ॥
सायणः
अस्त्वेवममावास्यातिशयः । आधानस्य किं जातमित्यत आह- सर्वेषु ह वा इति । ये देवाद्या अमावास्यासंबंधितया प्रथमान्तशब्दनिर्द्दिष्टाः तेषु ‘सर्वेषु अग्नी सत्सु अमावास्याधानकर्तुरग्नी ‘आहितौ’ स्थापितौ ‘भवतः’ । उक्तमर्थं निगमयति- तस्मादिति । निगदसिद्धो ऽर्थः ॥ ६ ॥
Eggeling
- And, verily, it is for all the gods, for all spirits, for all deities, for all seasons, for all Stomas, for all Pr̥shṭḥas, and for all metres that the fires of him are laid down who lays them down at new moon: he should therefore lay them down at new moon.
०७
विश्वास-प्रस्तुतिः
यो ऽसौ᳘ व्वैशाख᳘स्यामावा᳘स्या॥ त᳘स्यामा᳘दधीत सा᳘ रोहिण्या सं᳘पद्यत ऽआत्मा वै᳘ प्रजा᳘ पश᳘वो रोहि᳘ण्यात्म᳘न्ये᳘वैत᳘त्प्रजा᳘यां पशु᳘षु प्र᳘तितिष्ठत्यमावा᳘स्या वा᳘ ऽअग्न्याधेयरूपं त᳘स्मादमावा᳘स्यायामे᳘वाग्नी ऽआ᳘दधीत पौर्णमास्या᳘मन्वा᳘रभेतामा᳘वास्यायां[[!!]] दीक्षेत॥
मूलम् - श्रीधरादि
यो ऽसौ᳘ व्वैशाख᳘स्यामावा᳘स्या॥ त᳘स्यामा᳘दधीत सा᳘ रोहिण्या सं᳘पद्यत ऽआत्मा वै᳘ प्रजा᳘ पश᳘वो रोहि᳘ण्यात्म᳘न्ये᳘वैत᳘त्प्रजा᳘यां पशु᳘षु प्र᳘तितिष्ठत्यमावा᳘स्या वा᳘ ऽअग्न्याधेयरूपं त᳘स्मादमावा᳘स्यायामे᳘वाग्नी ऽआ᳘दधीत पौर्णमास्या᳘मन्वा᳘रभेतामा᳘वास्यायां[[!!]] दीक्षेत॥
मूलम् - Weber
योऽसौ᳘ वैशाख᳘स्यामावाॗस्या त᳘स्यामा᳘दधीत सा᳘ रोहिण्या स᳘म्पद्यत आत्मा वै प्रजा᳘ पश᳘वो रोहिॗण्यात्म᳘न्येॗवैत᳘त्प्रजा᳘याम् पशु᳘षु प्र᳘तितिष्ठत्यमावाॗस्या वा᳘ अग्न्याधेयरूपं त᳘स्मादमावाॗस्यायामेॗवाग्नी आ᳘दधीत पौर्णमास्या᳘मन्वा᳘रभेतामावाॗस्यायां दीक्षेत॥
मूलम् - विस्वरम्
या असौ वैशाखस्यामावास्या तस्यामादधीत । सा रोहिण्या संपद्यते । आत्मा वै प्रजा पशवः । रोहिण्या ऽऽत्मन्येवैतत्प्रजायां पशुषु प्रतितिष्ठति । अमावास्या वा अग्न्याधेयरूपम् । तस्मादमावास्यायामेव । अग्नी आदधीत । पौर्णमास्यामन्वारभेत । अमावास्यायां दीक्षेत ॥ ७ ॥
सायणः
उक्तामावास्याया ऋक्षविशेषसंबंधरूपं गुणं विधत्ते- या ऽसाविति । विशाखानक्षत्रयुक्ता पौर्णमासी यस्मिन् मासि स वैशाखः, तत्संबंधिनी या अमावास्या तस्यामग्नी आदधीत । उक्तामावास्यायाः फलविशेषे हेतुमाह- सा रोहिण्येति । ‘सा’ वैशाखी अमावास्या ‘रोहिण्या’ संपद्यते रोहिणीनक्षत्रयुक्ता भवति । यतो वैशाख्यां पौर्णमास्यां तावद्विशाखानक्षत्रं । ततः पञ्चदशसु नक्षत्रेषु परिगणितेषु अमावास्यायां रोहिणी भवति । अस्त्वेवं किं तत इत्याह- आत्मा वा इति ।
‘प्रजा’ पुत्रादिरूपा या अस्ति सा ‘पशवः’ तत्साधनभूतत्वात् । रोहत्यनया पश्वादिसमृद्धिमिति तद्व्युत्पत्तेः तथा च तैत्तिरीयकम्- “प्रजापती रोहिण्यामग्निमसृजत देवा रोहिण्यामादधत ते वैते सर्वानरोहानरोहन् तद्रोहिण्यै रोहिणीत्वम्” इति । एवंच आधाता एकदेवतारोहिण्यात्मनि आत्मप्रतिरूपायां में ‘प्रजायां पशुषु’ च ‘प्रतितिष्ठति’ प्रतिष्ठो भवति । रोहिण्याधानेन पुत्रपश्वादिसमृद्धो भवतीत्यर्थः । इत्थममावास्याधानं बहुशः प्रशंस्य निगमयति- अमावास्या वा अग्न्याधेयरूपमिति । उक्तार्थप्रसिद्धौ वै शब्दः । यस्मादुक्तेन प्रकारेण अमावास्यायाः खल्वग्न्याधेयस्य रूपत्वम् । नक्षत्राधानादमावास्याधानप्राशस्त्यस्य दर्शितत्वात् तस्मादित्यादि सिद्धम् । इत्थमाधानेन गार्हपत्याद्यग्निस्वरूपसिद्धौ तन्निष्याद्यानां दर्शपूर्णमासानामनियमेन प्रारंभे प्राते तं नियमयति- पौर्णमास्यामिति । अमावास्यायां पवमानेष्टिभिः सहाधाने परिसमाप्ते यद्यपि दर्शयागः प्राप्तावसरः, तथापि आगामिन्यां पौर्णमास्यामन्वारभेत 7 । “अन्वारंभणीयेष्टिं कुर्यात्, दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत” इत्यादौ दर्शयागस्य प्राथम्यमाम्नायते । कथं ? पौर्णमासयागस्य प्राथम्यमिति । नैष दोषः । पूर्णमासश्च दर्शश्चेति विगृह्य द्वंद्वसमासे अल्पाक्षरत्वात् दर्शशब्दस्य पूर्वनिपातः नानुष्ठानापेक्षया । पौर्णमास्यां पौर्णमासेनेष्ट्वा आगामिन्याममावास्यायां दर्शयागमपि कृत्वा तस्यामेव ‘अमावास्यायां दीक्षेत’ सोमयागं प्रारभेत । सोमयागस्य च दर्शपूर्णमासपूर्वकत्वं तैत्तिरीये ऽप्याम्नातम्- “यो दर्शपूर्णमासाविष्ट्वा सोमेन यजेत” (तै. सं. २ । ५ । ६) इत्यादि ॥
ननु “सोमेन यक्ष्यमाणो न ऋतून् प्रेक्षेन्न नक्षत्रम्” इत्यादि श्रुतेराधानं सोमपूर्वमित्युच्यते । सोमयाग एवारभ्यते चेत्; तदा आधानानंतरं सोमप्रारंभ एवावसीयते । नैष दोषः । तथाहि आधानं तावत्त्रिविधं-अवश्यारभ्याणामग्निहोत्रसोमेष्टीनां भेदात् । आधानानानंतरं सर्वकर्मभ्यः पूर्वं यद्यग्निहोत्रमारभ्यते तदा ऽऽधानं होमपूर्वकमित्युच्यते । सोमयाग एवारभ्यते चेत्; तदा ऽऽधानं सोमपूर्वमिति गीयते । अथ दर्शपौर्णमासौ वा तर्हि तदाधानमिष्टिपूर्वं भवति । अत्र तु इष्टिपूर्वस्याधानस्य क्रमनियमो ऽयमिति न विरोधः ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे प्रथमा ऽध्याये प्रथमं ब्राह्मणम् ॥ (११-१-१) ॥
Eggeling
- He may lay down the fires on the new moon which falls in the (month) Vaiśākha, for that coincides with the Rohiṇī (asterism); for the Rohiṇī means the self, offspring and cattle 8: he thus becomes established in a self, in offspring and cattle. But, indeed, the new moon is the form of the Agnyādheya: let him therefore lay down the fires at new moon;–let him perform the preliminary ceremony 9 at full moon, and the initiation ceremony at new moon.
-
अस्य काण्डस्य “संग्रहम्” इति नामान्तरम् । “ततः षष्ठिपथं कृत्स्नं सरहस्यं ससंग्रहम्” (म. भा. शां. प. मो. घ. ४३ । १६) इत्यत्र प्रतिपादितम् । ↩︎
-
आयतनेष्विति बहुवचनं “दक्षिणाग्नेः सद्भावे ऽपि द्वयोरेव प्राधान्यम्" इत्याद्यग्रिमस्वीयभाष्याविरोधात् अग्नौ आधत्ते इति मूलश्रुतिविरोधाच्चासंगतं भवतीति “आयतनयोः” इति द्विवचनेन परिणामितव्यम् । ↩︎ ↩︎
-
1:1 For the performance of the Agnyādhāna, or setting up the sacrificial fires, see part i, p. 274 seqq. ↩︎
-
1:2 For the Nakshatras, or lunar mansions, under which the Agnyādhāna may be performed, see II, 1, 2, 1 seqq., and especially II, 1, 2, 19, where the practice of regulating the time of the ceremony by the Nakshatras is discouraged. ↩︎
-
2:1 See I, 6, 4, 5. ↩︎
-
2:2 For the six Pr̥shṭḥa-sāmans, see part iii, introd., p. xx seqq. ↩︎
-
तथा ऽत्र कात्यायनः सूत्रयामास “दर्शपूर्णमासाभ्यामिष्ट्वा ऽन्येन यजेतेति श्रुतेः, सोमेन वोपक्लृप्तसोमः” (का. श्रौ. सू. ७ । १ । १ । २) इति च । अत्र कर्कादयः । अन्यशब्देन यजतेरेवाभिधानं न जुहोतेरपि । अन्येन यजेतेति वचनात् । तथाच प्रागप्यग्निहोत्रं न निवार्यत इति । ततश्च प्रागप्यग्निहोत्रं हूयत एव तेनाधानस्य होमपूर्वकत्वं निरस्तं भवति । तथा आधानस्य सर्वार्थतायाः सर्वसंमतत्त्वेन उपक्लृप्तसोमस्याधातुः सोमपूर्वत्वं अनुपक्लृप्तसोमस्याधातुर्दर्शपूर्णमासपूर्वत्वसोमपूर्वत्वे ऽपि चान्ययजतीनां सोमानुष्ठानानंतरं वाचनिकं दर्शपूर्णमासपूर्वकमेवारंभणम् । तथात्रैव सूत्रव्याख्याने- वाशब्दश्च व्यवस्थितविभाषार्थः । उपक्लृप्तसोमस्य सोमपूर्वत्वं इतरस्य इष्टिपूर्वत्वमिति । सोमपूर्वत्वे ऽपि च अन्येषां यागानां दर्शपूर्णमासपूर्वतैव वाचनिकीति कर्कादिसिद्धांतात् । त्रिविधमाधानं निरस्तं भवति । तया सोमेन यक्ष्यमाणो नर्तुमिच्छेन्न नक्षत्रमित्यनेनाधानस्य कालांतरतोच्यते । न सर्वार्थता ऽप्यपनीयत इति अत्रैव सूत्रे कर्कादिसिद्धांतात् सोमपूर्णमाधानमित्युद्घोषो ऽपि निरस्तो भवति ॥ ↩︎
-
2:3 See II, 1, 2, 6. 7. ↩︎
-
2:4 For the Anvārambhaṇīyā-ishṭi, lit. ’taking-hold offering,’ see part ii, p. 40, note 1. ↩︎