०१ अर्कस्यार्कत्वम्

विश्वास-प्रस्तुतिः

नै᳓वेह᳓ कि᳓ञ्चना᳓ग्र ऽआसीत्॥
मृत्यु᳓नै᳓वेद᳓म् आ᳓वृतम् आसीद्, अशनाय᳓या। +अशनाया᳓ हि᳓ मृत्यु᳓स्, त᳓न् म᳓नो ऽकुरुत - +आत्मन्वी᳓ स्याम् इ᳓ति।
सो᳓ ऽर्चन्न् अचरत्।
त᳓स्या᳓र्चत ऽआ᳓पो ऽजायन्त -
अ᳓र्चते वै᳓ मे क᳓म् अभूद् इ᳓ति।
त᳓द् ए᳓वा᳓र्क्यस्यार्कत्त्वं᳓,
क᳓ᳫँ᳓ ह वा᳓ ऽअस्मै भवति
य᳓ ऽएव᳓म् एत᳓द् अ᳓र्क्यस्यार्कत्वं᳓ व्वे᳓द॥

मूलम् - श्रीधरादि

नै᳘वेह कि᳘ञ्चना᳘ग्र ऽआसीत्॥
(न्मृ) मृत्यु᳘नै᳘वेदमा᳘वृतमासीदशनाय᳘या ऽशनाया हि᳘ मृत्युस्तन्म᳘नो ऽकुरुतात्मन्वी᳘ स्यामि᳘ति सो᳘ ऽर्चन्नचरत्तस्या᳘र्चत ऽआ᳘पो ऽजायन्ता᳘र्चते वै᳘ मे क᳘मभूदि᳘ति त᳘दे᳘वा᳘र्क्यस्यार्कत्त्वं[[!!]] क᳘ᳫँ᳘ ह वा᳘ ऽअस्मै भवति य᳘ ऽएव᳘मेत᳘द᳘र्क्यस्यार्कत्वं[[!!]] व्वेद[[!!]]॥

मूलम् - Weber

नैॗवेह किं᳘ चना᳘ग्र आसीत्॥
मृत्यु᳘नैॗवेदमा᳘वृतमासीदशनाय᳘याशनाया हि᳘ मृत्युस्तन्म᳘नोऽकुरुतात्मन्वी᳘ स्यामि᳘ति सो᳘ऽर्चन्नचरत्तस्या᳘र्चत आ᳘पोऽजायन्ता᳘र्चते वै᳘ मे क᳘मभूदि᳘ति त᳘देॗवार्क्य᳘स्यार्कत्वं क᳘ᳫं᳘ ह वा अस्मै भवति य᳘ एव᳘मेत᳘दर्क्य᳘स्यार्कत्वं वे᳘द॥

मूलम् - विस्वरम्

उपास्यस्य हिरण्यगर्भस्य स्वरूपप्रतिपादकं ब्राह्मणम् ।

नैवेह किं चनाग्र ऽआसीत्- मृत्युनैवेदमावृतमासीत् । अशनायया ऽशनाया हि मृत्युस्तन्मनो कुरुत- आत्मन्वी स्यामिति । सो ऽर्चन्नचरत् । तस्यार्चत अपो ऽजायन्त । अर्चते वै मे कमभूदिति । तदेवार्क्यस्यार्कत्वम् । कं ह वा अस्मै भवति- य एवमेतदर्क्यस्यार्कत्वं वेद ॥ १ ॥

सायणः

Eggeling
  1. Verily, there was nothing here in the beginning: by Death this (universe) was covered, by hunger, for Death is hunger. He created for himself this mind, thinking, ‘May I have a soul.’ He went on worshipping. Whilst he was worshipping the waters were produced. ‘Verily, to me worshipping (arc) water (kam) has been produced,’ thus (he thought): this, indeed, is the Arka-nature of the Arkya 1; and, verily, there is joy (kam) for him who thus knows the Arka-nature of the Arkya.

०२

विश्वास-प्रस्तुतिः

(न्दा᳘) आ᳘पो वा᳘ ऽअर्कः[[!!]]॥
(स्त) तद्य᳘दपाᳫँ᳭ श᳘र ऽआ᳘सीत्तत्स᳘महन्यत सा᳘ पृथिव्य᳘भवत्त᳘स्यामश्राम्यत्त᳘स्य श्रान्त᳘स्य तप्त᳘स्य ते᳘जो र᳘सो नि᳘रवर्तत्ताग्निः[[!!]]॥

मूलम् - श्रीधरादि

(न्दा᳘) आ᳘पो वा᳘ ऽअर्कः[[!!]]॥
(स्त) तद्य᳘दपाᳫँ᳭ श᳘र ऽआ᳘सीत्तत्स᳘महन्यत सा᳘ पृथिव्य᳘भवत्त᳘स्यामश्राम्यत्त᳘स्य श्रान्त᳘स्य तप्त᳘स्य ते᳘जो र᳘सो नि᳘रवर्तत्ताग्निः[[!!]]॥

मूलम् - Weber

आ᳘पो वा᳘ अर्कः᳟॥
तद्य᳘दपां श᳘र आ᳘सीत्तत्स᳘महन्यत सा᳘ पृथिव्य᳘भवत्त᳘स्यामश्राम्यत्त᳘स्य श्रान्त᳘स्य तप्त᳘स्य ते᳘जो र᳘सो नि᳘रवर्तताग्निः᳟॥

मूलम् - विस्वरम्

आपो वा ऽअर्कः । तद् यदपां शर आसीत्- तत्समहन्यत । सा पृथिव्यभवत् । तस्यामश्राम्यत्- तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २ ॥

सायणः

“आपो वा अर्कः”- कः पुनरसावर्क इति उच्यते । आपो वै अर्चनांगभूताः ता एवार्कः अग्नेरर्कस्य हेतुत्वात् । अप्सु चाग्निः प्रतिष्ठित इति । न पुनः साक्षादेवार्कस्ताः । तासामप्रकरणात् अग्नेश्च प्रकरणं, वक्ष्यति- “अयमग्निरर्क इति” । ‘तत्’ तत्र ‘यदपां शरः’ इव शरो दध्र इव मंडभूतम् ‘आसीत्’- ‘तत्समहन्यत’ संघातमापद्यत तेजसा बाह्यान्तः पच्यमानं लिंगव्यत्ययेन वा य अपां शरः स समहन्यतेति । ‘सा पृथिवी अभवत्’ स संघातः येयं पृथिवी सा अभवत् । ताभ्यो ऽद्भ्यः अंडमभिनिर्वृतमित्यर्थः । ‘तस्यां’ पृथिव्यामुत्पादितायां स मृत्युः प्रजापतिः ‘अश्राम्यत्’ श्रमयुक्तो बभूव । सर्वो हि लोकः कार्यं कृत्वा श्राम्यति । प्रजापतेश्च तन्महत्कार्यं यत्पृथिवीसर्गः । किं तस्य श्रांतस्य इत्युच्यते- ‘तस्य श्रांतस्य तप्तस्य’ खिन्नस्य ‘तेजो रसः’ तेज एव रसस्तेजोरसः रसःसारः ‘निरवर्तत’ प्रजापतिशरीरान्निष्क्रांत इत्यर्थः । को ऽसौ निष्क्रांतः ‘अग्निः’ स अंडस्यांतर्विराट् प्रजापतिः प्रथमजः कार्यकारणसंघातवान् जातः । “स वै शरीरी प्रथमः”- इति स्मरणात् ॥ २ ॥

Eggeling
  1. The Arka, doubtless, is the waters; and the cream (froth) which was on the waters was compacted, and became this earth. Thereon he wearied himself, and the glow and essence (sweat) of him thus wearied and heated developed into Fire.

०३

विश्वास-प्रस्तुतिः

स᳘ त्रे᳘धा ऽऽत्मा᳘नं᳘ व्यकुरुत[[!!]]॥
(ता) आदित्यं᳘ तृ᳘तीयं[[!!]] व्वायुं᳘ तृ᳘तीयᳫँ᳭[[!!]] स᳘ ऽएष᳘ प्राण᳘स्त्रेधा विहितस्त᳘स्य प्रा᳘ची दिक्छि᳘रो ऽसौ᳘ चासौ᳘ चेर्माव᳘थास्य[[!!]] प्रती᳘ची दिक्पु᳘च्छमसौ᳘ चासौ᳘ च स᳘क्थ्यौ द᳘क्षिणा चो᳘दीची च पार्श्वे द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमुद᳘रमियमु᳘रः स᳘ ऽए᳘षो ऽप्सु प्र᳘तिष्ठितो य᳘त्र᳘ क्व[[!!]] चै᳘ति त᳘देव प्र᳘तितिष्ठत्येवं᳘ व्विद्वा᳘न्॥

मूलम् - श्रीधरादि

स᳘ त्रे᳘धा ऽऽत्मा᳘नं᳘ व्यकुरुत[[!!]]॥
(ता) आदित्यं᳘ तृ᳘तीयं[[!!]] व्वायुं᳘ तृ᳘तीयᳫँ᳭[[!!]] स᳘ ऽएष᳘ प्राण᳘स्त्रेधा विहितस्त᳘स्य प्रा᳘ची दिक्छि᳘रो ऽसौ᳘ चासौ᳘ चेर्माव᳘थास्य[[!!]] प्रती᳘ची दिक्पु᳘च्छमसौ᳘ चासौ᳘ च स᳘क्थ्यौ द᳘क्षिणा चो᳘दीची च पार्श्वे द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमुद᳘रमियमु᳘रः स᳘ ऽए᳘षो ऽप्सु प्र᳘तिष्ठितो य᳘त्र᳘ क्व[[!!]] चै᳘ति त᳘देव प्र᳘तितिष्ठत्येवं᳘ व्विद्वा᳘न्॥

मूलम् - Weber

स᳘ त्रेॗधात्मा᳘नं व्य᳘कुरुत॥
आदित्यं᳘ तृती᳘यं वायुं᳘ तृती᳘यᳫं स᳘ एष᳘ प्राण᳘स्त्रेधाविहितस्त᳘स्य प्रा᳘ची दिक्शि᳘रोऽसौ᳘ चासौ᳘ चेर्मा᳘व᳘थास्य प्रती᳘ची दिक्पु᳘छमसौ᳘ चासौ᳘ च सॗक्थ्यौ द᳘क्षिणा चो᳘दीची च पार्श्वे द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमुद᳘रमियमु᳘रः स᳘ एॗषोऽप्सु प्र᳘तिष्ठितो य᳘त्र क्व᳘ चै᳘ति त᳘देव प्र᳘तितिष्ठत्येवं᳘ विद्वान्॥

मूलम् - विस्वरम्

स त्रेधा ऽऽत्मानं व्यकुरुत- आदित्यं तृतीयम्, वायुं तृतीयम् । स एष प्राणस्त्रेधा विहितस्य प्राची दिक् शिरः । असौ चासौ चेर्मौ । अथास्य प्रतीची दिक् पुच्छम् । असौ चासौ च सक्थ्यौ । दक्षिणा चोदीची च पार्श्वे । द्यौष्पृष्ठम् । अन्तरिक्षमुदरम् । इयमुरः । स एषो ऽप्सु प्रतिष्ठितो यत्र क्व चैति- तदेव प्रतितिष्ठति । एवं विद्वान् ॥ ३ ॥

सायणः

‘स त्रेधा ऽऽत्मानं’ स च जातः प्रजापतिः- त्रेधा त्रिप्रकारं आत्मानं स्वयमेव कार्यकारणसंघातं ‘व्यकुरुत’ व्यभजत् । इत्येतत्कथं त्रेधेत्वाह- ‘आदित्यं तृतीयं’ अग्निवाय्वपेक्षया त्रयाणां पूरणं अकुरुतेत्यनुवर्तते । तथा अग्न्यादित्यापेक्षया ‘वायुं तृतीयं’ तथा वाय्वादित्यापेक्षया अग्निं तृतीयमिति द्रष्टव्यं । सामर्थ्यस्य तुल्यत्वात् त्रयाणां संख्यापूरणत्वे । ‘स एष प्राणः’ सर्वभूतानामात्मा ऽपि अग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः’ विभक्तो न विराट्स्वरूपोपमर्दनेन । तस्यास्य प्रथमस्याग्नेरश्वमेधोपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते । सर्वा हि पूर्वोक्ता उत्पत्तिः अस्य स्तुत्यर्था इत्यवोचाम । इत्थमसौ शुद्धजन्मेति । ‘तस्य प्राची दिक्शिरः’ विशिष्टत्वसामान्यात् ‘असौ चासौ च’ ऐशान्याग्नेय्यौ- ‘ईर्म्मौ’ बाहू ‘ईरयतेर्गतिकर्मणः’ । ‘अथास्य’ अग्नेः ‘प्रतीची दिक् पुच्छं’ जघन्यो भागः । प्राङ्मुखस्य प्रत्यग्दिग्संबंधात् । ‘असौ चासौ च’ वायव्यनैर्ऋत्यौ- ‘सक्थ्यौ’ सक्थिनी पृष्ठकोणत्वसामान्यात् । दक्षिणा चोदीची च पार्श्वे’ उभयदिक्संबंधसामान्यात् । द्यौः पृष्ठमंतरिक्षमुदरम् इति पूर्ववत् । ‘इयमुरः’ अधोभागसामान्यात् । ‘स एषः’ अग्निः प्रजापतिरूपो लोकाद्यात्मको अग्निः ‘अप्सु प्रतिष्ठितः’ “एवमिमे लोका अप्स्वन्तः” इति श्रुतेः । ‘यत्र क्वच’ यस्मिन् कस्मिंश्चित् ‘एति’ गच्छति । ‘तदेव’ तत्रैव । ‘प्रतितिष्ठति’ स्थितिं लभते । को ऽसावेवं यथोक्तमप्सु प्रतिष्ठितत्वं अग्नेर्विद्वान् विजानन् । गुणफलमेतत् ॥ ३ ॥

Eggeling
  1. He made himself threefold–(Agni being one-third), Āditya one-third, and Vāyu one-third: that is this threefold breath. The eastern quarter was his head, this and that (intermediate quarters) are his fore-feet, the western quarter his tail, this and that (intermediate quarters) his thighs, the southern and northern quarters his flanks; the sky his back, the air his belly, and this (earth) his chest:–on the waters he was established any and everywhere, and so indeed is he established who knows this.

०४ द्वितीयोद्भवः

विश्वास-प्रस्तुतिः

सो᳙ ऽकामयत-
द्विती᳓यो म आत्मा᳓ जायेते᳓ति।
स᳓ म᳓नसा वा᳓चम् मिथुनं᳓ स᳓मभवद् -
+++(यथा)+++ अशनाया᳓म् मृत्युस्,
त᳓द् य᳓द् रे᳓त आ᳓सीत्,
स᳓ संवत्सरो᳙ ऽभवत्।
न᳓ ह पुरा᳓ त᳓तः संवत्सर᳓ आस।
त᳓म् एता᳓वन्तं +++(→संवत्सरं)+++ काल᳓म् अबिभर् या᳓वान्त् संवत्सरस्,
त᳓म् एता᳓वतः काल᳓स्य पर᳓स्ताद् असृजत।
तं᳓ जात᳓म् अभिव्या᳓ददात् +++(खादितुम्)+++।
स᳓ “भा᳓ण्” अकरोत्। सै᳓व᳓ वा᳓ग् अभवत्॥

मूलम् - श्रीधरादि

(न्त्सो) सो ऽकामयत॥
द्विती᳘यो म ऽआत्मा᳘ जायेते᳘ति स म᳘नसा व्वा᳘चं मिथुनᳫँ᳭ स᳘मभवदशनाया᳘ मृत्युस्तद्यद्रे᳘त ऽआ᳘सीत्स᳘ संव्वत्स᳘रो ऽभवन्न᳘ ह पुरा त᳘तः संव्वत्सर᳘ ऽआस त᳘मेता᳘वन्तं काल᳘मबिभर्य्या᳘वान्त्संव्वत्सरस्त᳘मेता᳘वतः काल᳘स्य पर᳘स्तादसृजत तं᳘ जात᳘मभिव्या᳘ददात्सभा᳘णकरो᳘त्सैव व्वा᳘गभवत्॥

मूलम् - Weber

सोऽकामयत॥
द्विती᳘यो म आत्मा᳘ जायेते᳘ति स म᳘नसा वा᳘चम् मिथुनᳫं स᳘मभवदशनाया᳘म् मृत्युस्तद्यद्रे᳘त आ᳘सीत्स᳘ संवत्सॗरोऽभवन्न᳘ ह पुरा त᳘तः संवत्सर᳘ आस त᳘मेता᳘वन्तं काल᳘मबिभर्या᳘वान्त्संवत्सरस्त᳘मेता᳘वतः काल᳘स्य पर᳘स्तादसृजत तं᳘ जात᳘मभिव्या᳘ददात्स भा᳘णकरोॗत्सैव वा᳘गभवत्॥

मूलम् - विस्वरम्

सो ऽकामयत- द्वितीयो म आत्मा जायेतेति । स मनसा वाचं मिथुनं समभवत्- अशनाया मृत्युः । तद् यद्रेत आसीत् । स संवत्सरो ऽभवत् । न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः । तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् । स भाणकरोत् । सैव वागभवत् ॥ ४ ॥

सायणः

‘सो ऽकामयत’ यः असौ मृत्युः- स अबादिक्रमेण आत्मना आत्मानं अंडस्यांतःकार्यकारणसंघातवंतं विराजमग्निं असृजत “त्रेधा ऽऽत्मानं व्यकुरुत’ (कं० ३) इत्युक्तम् ।

स किंव्यापारः सन्नसृजत इत्युच्यते- स मृत्युरकामयत कामितवान् किं ? ‘द्वितीयो मे मम आत्मा जायेतेति’ द्वितीयो मे मम आत्मा शरीरं येनाहं शरीरी स्याम्, स जायेतोत्पद्यत इत्येवमेतदकामयत । ‘सः’ एवं कामयित्वा ‘मनसा’ पूर्वोत्पन्नेन ‘वाचं’ त्रयीलक्षणां ‘मिथुनं’ द्वंद्वभावं ‘समभवत्’ संभवनं कृतवान् । मनसा त्रयीमालोचितवान् त्रयीविहितं सृष्टिक्रमं मनसा अन्वालोचयत् इत्यर्थः । क असौ अशनायया लक्षितो मृत्युः “अशनाया मृत्युः” इत्युक्तं तमेव परामृशति । अन्यत्र प्रसंगो मा ऽभूदिति ।

‘तद्यद्रेत आसीत्’ तत्तत्र मिथुने यद्रेत आसीत् प्रथमशरीरिणः प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपं त्रय्यालोचनायां यत् दृष्टवानासीत् जन्मांतरकृतम् । तद्भावभावितः अपः सृष्ट्वा तेन रेतसा बीजेन अप्सु अनुप्रविश्य अंडरूपेण गर्भीभूतः ‘सः’ ‘संवत्सरो ऽभवत्’ संवत्सरकालनिर्माता संवत्सरः प्रजापतिरभवत् । ‘न ह पुरा’ पूर्वं- ‘ततः’- तस्मात्संवत्सरकालनिर्मातुः प्रजापतेः- ‘संवत्सरः’ कालः न ‘आस’ न बभूवह । ‘तं संवत्सरकालनिर्मातारं अंतर्गर्भं प्रजापतिं ‘यावान्’ इह प्रसिद्धः कालः ‘एतावंतं’ एतावस्संवत्सरपरिमाणं ‘कालं’ ‘अबिभः’ भृतवान् ‘मृत्युः’ यावान् संवत्सर इह प्रसिद्धः ।

ततः परस्तात् किं कृतवान् । ‘तमेतावतः कालस्य’ संवत्सरमात्रस्य ‘परस्तात्’ ऊर्ध्वं ‘असृजत’ सृष्टवान् अंडमभिनदित्यर्थः । ‘तं’ एवं कुमारं जातमग्निं प्रथमशरीरिणं अशनायावत्त्वात् मृत्युः ‘अभिव्याददात्’ मुखविदारणं कृतवान् अत्तुम् । ‘सः’ च कुमारो भीतः स्वाभाविक्या अविद्यय युक्तः ‘भाण्’ इत्येवं 2 शब्दं ‘अकरोत्’ ‘सैव वागभवत्’ वाक् शब्दः अभवत् ॥ ४ ॥

Eggeling
  1. He desired, ‘May a second self be produced for me.’ By his mind he entered into union with speech,–(to wit) Death with hunger: the seed which was produced became the year, for theretofore there was no year. For as long as the year he (Death) carried him (within him), and at the end of that time he produced him 3. He opened his mouth (to devour) the new-born one, and he (the child) cried ‘bhāṇ’; thus speech was produced.

०५

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ ऽऐक्षत॥
य᳘दि वा᳘ ऽइम᳘मभिमᳫँ᳭स्ये क᳘नीयो᳘ ऽन्नं करिष्य ऽइ᳘ति स त᳘या व्वाचा ते᳘नात्म᳘नेदᳫँ᳭ स᳘र्व्वमसृजत य᳘दिदं किञ्च᳘ ऽर्चो य᳘जूᳫँ᳭षि सा᳘मानि च्छ᳘न्दाᳫँ᳭सि यज्ञा᳘न्प्रजां᳘ पशून्त्स य᳘द्यदेवा᳘सृजत त᳘त्तद᳘त्तुमध्रियत स᳘र्व्वं वा᳘ ऽअत्ती᳘ति तद᳘दितेरदितित्वᳫँ᳭ स᳘र्व्वस्यात्ता᳘ भवति स᳘र्व्वमस्या᳘न्नं भवति य᳘ ऽएव᳘मेतद᳘दितेरदितित्वं व्वे᳘द॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ ऽऐक्षत॥
य᳘दि वा᳘ ऽइम᳘मभिमᳫँ᳭स्ये क᳘नीयो᳘ ऽन्नं करिष्य ऽइ᳘ति स त᳘या व्वाचा ते᳘नात्म᳘नेदᳫँ᳭ स᳘र्व्वमसृजत य᳘दिदं किञ्च᳘ ऽर्चो य᳘जूᳫँ᳭षि सा᳘मानि च्छ᳘न्दाᳫँ᳭सि यज्ञा᳘न्प्रजां᳘ पशून्त्स य᳘द्यदेवा᳘सृजत त᳘त्तद᳘त्तुमध्रियत स᳘र्व्वं वा᳘ ऽअत्ती᳘ति तद᳘दितेरदितित्वᳫँ᳭ स᳘र्व्वस्यात्ता᳘ भवति स᳘र्व्वमस्या᳘न्नं भवति य᳘ ऽएव᳘मेतद᳘दितेरदितित्वं व्वे᳘द॥

मूलम् - Weber

स᳘ ऐक्षत॥
य᳘दि वा᳘ इम᳘मभिमंस्ये 4 क᳘नीयो᳘ऽन्नं करिष्य इ᳘ति स त᳘या वाचा ते᳘नात्म᳘नेदᳫं स᳘र्वमसृजत य᳘दिदं किं च᳘र्चो य᳘जूंषि सा᳘मानि छ᳘न्दांसि यज्ञा᳘न्प्रजा᳘म् पशून्त्स य᳘द्यदेवा᳘सृजत त᳘त्तद᳘त्तुमध्रियत स᳘र्वं वा᳘ अत्ती᳘ति तद᳘दितेरदितित्वᳫं स᳘र्वस्यात्ता᳘ भवति स᳘र्वमस्या᳘न्नम् भवति य᳘ एव᳘मेतद᳘दितेरदितित्वं वे᳘द॥

मूलम् - विस्वरम्

स ऐक्षत । यदि वा इममभिमंस्ये । कनीयो ऽन्नं करिष्य इति । स तथा वाचा, तेनात्मनेदं सर्वमसृजत- यदिदं किं च ऋचः, यजूंषि, सामानि, छन्दांसि, यज्ञान्, प्रजाम्, पशून् । स यद्यदेवा असृजत- तत्तदत्तुमध्रियत । सर्वं वा अत्तीति । तददितेरदितित्वम् । सर्वस्यात्ता भवति । सर्वमस्यान्नं भवति- य एवमेतददितेरदितित्वं वेद ॥ ५ ॥

सायणः

‘स ऐक्षत’ स एवं भीतं कृतरवं कुमारं दृष्ट्वा मृत्युरैक्षत ईक्षितवान् अशनायावानपि ‘यदि वा’ कदाचिद्वा ‘इमं’ कुमारं ‘अभिमंस्ये’ ‘अभिपूर्वो मन्यतिर्हिंसार्थः’ हिंसिष्ये इत्यर्थः । ‘कनीयो ऽन्नं करिष्ये’ कनीयः अल्पमन्नं करिष्ये इति । एवमीक्षित्वा तद्भक्षणादुपरराम । बहु हि अन्नं कर्तव्यं दीर्घकालभक्षणाय न कनीयः तद्भक्षणे हि कनीयो ऽन्नं स्यात् बीजभक्षण इव सस्याभावः । स एवं प्रयोजनं अन्नबाहुल्यमालोच्य ‘तया’ एव त्रय्या ‘वाचा’ पूर्वोक्तया ‘तेन’ एव च ‘आत्मना’ मनसा मिथुनीभावमालोचनं उपगम्य उपगम्य ‘इदं सर्वं’ स्थावरं जंगमं च ‘असृजत’ ‘यदिदं किंच’ यत्किंचेदम् । किं तत् । ‘ऋचो यजूंषि सामानि छंदांसि’ च सप्त गायत्र्यादीनि । स्तोत्रशस्त्रादिकर्मांगभूतान् त्रिविधान् मंत्रान् गायत्र्यादिच्छंदोविशिष्टान् ‘यज्ञांश्च’ तत्साध्यान् । प्रजाः तत्कर्त्रीः । ‘पशून्’ च ग्राम्यानारण्यान् कर्मसाधनभूतान् ।

ननु- त्रय्या मिथुनीभूतया ऽसृजतेत्युक्तं ऋगादीनीह कथमसृजतेति । नैष दोषः । मनसस्तु अव्यक्तो ऽयं मिथुनीभावस्त्रय्या बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्गं इति । स प्रजापतिः एवमन्नवृद्धिं बुद्ध्वा ‘यत् यदेव’ क्रियां क्रियासाधनं फलं वा किंचित् ‘असृजत’ ‘तत्तदत्तुं’ भक्षयितुं ‘अध्रियत’ धृतवान् मनः । सर्यं कृत्स्नं वै यस्मात् ‘अत्तीति’ ‘तत्’ तस्मात् ‘अदितेः’ अदितिनाम्नो मृत्योः ‘अदितित्वं’ प्रसिद्धम् । तथाच मंत्रः- “अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता०”- (वा. सं. २५ । २३ ।) इत्यादि । ‘सर्वस्य’ एतस्य जगतः अन्नभूतस्य ‘अत्ता’ सर्वात्मनैव भवति । अन्यथा विरोधात् । नहि कश्चित् सर्वस्य एको अत्ता दृश्यते तस्मात् सर्वात्मा भवतीत्यर्थः ॥

‘सर्वमस्यान्नं भवति’ अत एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते । ‘य एवमेतत्’ यथोक्तं ‘अदितेः’ मृत्योः प्रजापतेः सर्वस्यादनात् अदितित्वं वेद तस्यैतत्फलम् ॥ ५ ॥

Eggeling
  1. He bethought him, ‘Surely, if I kill him, I shall gain but little food 5.’ By that speech and that soul of his he created all this (universe) whatsoever there is,–R̥c (hymn-verses), Yajus (formulas), Sāman (hymn-tunes), metres, sacrifices, men, and beasts. And whatsoever he created he set about devouring; and because he eats (ad) everything, hence the name ‘Aditi’; and, verily, he who thus knows the nature of Aditi becomes an eater of everything, and all food becomes his.

०६

विश्वास-प्रस्तुतिः

सो ऽकामयत॥
भू᳘यसा यज्ञे᳘न भू᳘यो यजेये᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत त᳘स्य श्रान्त᳘स्य तप्त᳘स्य य᳘शो व्वी᳘र्य्यमु᳘दक्रामत्प्राणा वै य᳘शो व्वीर्य्यं[[!!]] त᳘त्प्राणेषू᳘त्क्रान्तेषु श᳘रीरᳫँ᳭ श्व᳘यितुमध्रियत त᳘स्य शरीर ऽएव[[!!]] म᳘न ऽआ᳘सीत्॥

मूलम् - श्रीधरादि

सो ऽकामयत॥
भू᳘यसा यज्ञे᳘न भू᳘यो यजेये᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत त᳘स्य श्रान्त᳘स्य तप्त᳘स्य य᳘शो व्वी᳘र्य्यमु᳘दक्रामत्प्राणा वै य᳘शो व्वीर्य्यं[[!!]] त᳘त्प्राणेषू᳘त्क्रान्तेषु श᳘रीरᳫँ᳭ श्व᳘यितुमध्रियत त᳘स्य शरीर ऽएव[[!!]] म᳘न ऽआ᳘सीत्॥

मूलम् - Weber

सोऽकामयत॥
भू᳘यसा यज्ञे᳘न भू᳘यो यजेये᳘तिॗ सोऽश्राम्यत्स त᳘पोऽतप्यत त᳘स्य श्रान्त᳘स्य तप्त᳘स्य य᳘शो वीर्य᳘मु᳘दक्रामत्प्राणा वै य᳘शो वीर्यं᳘ त᳘त्प्राणेषू᳘त्क्रान्तेषु श᳘रीरं श्व᳘यितुमध्रियत त᳘स्य श᳘रीर एव म᳘न आसीत्॥

मूलम् - विस्वरम्

सो ऽकामयत- भूयसा यज्ञेन भूयो यजेयेति । सो ऽश्राम्यत्, स तपो ऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशः, वीर्यं तत् प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत । तस्य शरीर एव मन आसीत् ॥ ६ ॥

सायणः

सो ऽकामयतेति । अश्वाश्वमेधयोर्निर्वचनार्थमिदमाह 6- ‘भूयसा’ महता ‘यज्ञेन’ ‘भूयः’ पुनरपि ‘यजेयेति’ जन्मांतरकरणापेक्षया भूयःशब्दः । स प्रजापतिर्जन्मांतरे अश्वमेधेनायजत । स तद्भावभावित एव कल्पादौ व्यावर्तत । सो ऽश्वमेधक्रियाकारकफलात्मत्वेन निर्वृतः सन्नकामयत । भूयसा यज्ञेन भूयो यजेयेति एवं महत् कार्यं कामयित्वा लोकवत् ‘अश्राम्यत्’ ।

‘स तपो ऽतप्यत’ । ‘तस्य श्रांतस्य तप्तस्येति’ पूर्ववत् । ‘यशोवीर्यमुदक्रामत्’ इति । स्वयमेवपदार्थमाह- ‘प्राणाः’ चक्षुरादयः ‘वै’ ‘यशः’ यशोहेतुत्वात् तेषु हि सत्सु ख्यातिर्भवति । तथा ‘वीर्यं’ बलं अस्मिन् शरीरे नहि उत्क्रांतप्राणो यशस्वी बलवान् वा भवति तस्मात्प्राणा एव यशो वीर्यं चास्मिन् शरीरे । तदेवं प्राणलक्षणं यशो वीर्यं ‘उदक्रामत्’ उत्क्रांतवत् । तदेवं यशोवीर्यभूतेषु ‘प्राणेषूत्क्रांतेषु’ शरीरान्निष्क्रांतेषु तत् ‘शरीरं’ प्रजापतेः ‘श्वयितुं’ उच्छूनभावं गंतुं ‘अध्रियत’ अमेध्यं चाभवत् । ‘तस्य’ प्रजापतेः शरीरान्निर्गतस्यापि तस्मिन्नेव ‘शरीरे मन आसीत्’ यथा कस्यचित् प्रिये विषये दूरं गतस्यापि मनो भवति तद्वत् ॥ ६ ॥

Eggeling
  1. He desired, ‘May I again sacrifice by yet another sacrifice.’ He wearied himself and practised austerity. From him, thus wearied and heated, glory and vigour departed; and glory and vigour, indeed, are the vital airs. The vital airs having departed, that body of his began to swell. The mind was yet in the body;–

०७

विश्वास-प्रस्तुतिः

(त्सो) सो ऽकामयत॥
मे᳘ध्यं म ऽइद᳘ᳫँ᳘ स्यादात्म᳘न्व्यने᳘न[[!!]] स्यामि᳘ति ततो᳘ ऽश्वः स᳘मभवद्यद᳘श्वत्तन्मे᳘ध्यमभूदि᳘ति त᳘दे᳘वाश्वमेध᳘स्याश्वमेधत्व᳘मेष᳘ ह वा᳘ ऽअश्वमेधं व्वेद य᳘ ऽएनमेवं व्वे᳘द॥

मूलम् - श्रीधरादि

(त्सो) सो ऽकामयत॥
मे᳘ध्यं म ऽइद᳘ᳫँ᳘ स्यादात्म᳘न्व्यने᳘न[[!!]] स्यामि᳘ति ततो᳘ ऽश्वः स᳘मभवद्यद᳘श्वत्तन्मे᳘ध्यमभूदि᳘ति त᳘दे᳘वाश्वमेध᳘स्याश्वमेधत्व᳘मेष᳘ ह वा᳘ ऽअश्वमेधं व्वेद य᳘ ऽएनमेवं व्वे᳘द॥

मूलम् - Weber

सोऽकामयत॥
मे᳘ध्यं म इद᳘ᳫं᳘ स्यादात्मन्व्य᳘ने᳘न स्यामि᳘ति ततो᳘ऽश्वः स᳘मभवद्यद᳘श्वत्तन्मे᳘ध्यमभूदि᳘ति त᳘देॗवाश्वमेध᳘स्याश्वमेधत्व᳘मेष᳘ ह वा᳘ अश्वमेधं वेद य᳘ एनमेवं वे᳘द॥

मूलम् - विस्वरम्

सो ऽकामयत- मेध्यं म इदं स्यात्- आत्मन्वी अनेन स्यामिति । ततो ऽश्वः समभवत् । यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद- य एनमेवं वेद ॥ ७ ॥

सायणः

स तस्मिन्नेव शरीरे गतमनाः सन् किमकरोत् इति उच्यते । ‘सो ऽकामयत’ कथं ‘मेध्यं’ मेधार्हं यज्ञियं मे इदं शरीरं स्यात् । किंच- ‘आत्मन्वी’ आत्मवांश्च ‘अनेन’ शरीरेण शरीरवान् स्याम् इति प्रविवेश ‘यत्’ यस्मात् ‘तत्’ शरीरं मद्वियोगात् गतयशोवीर्यं सत् ‘अश्वत्’ अश्वयत्- ‘ततः’ तस्मात् ‘अश्वः’ ‘समभवत्’ ततः अश्वनामा प्रजापतिरेव साक्षात् इति स्तूयते । यस्माच्च पुनस्तत्प्रवेशात् गतयशोवीर्यत्वात् अमेध्यं सत् ‘मेध्यम्’ अभूत् । ‘तदेव’ तस्मादेव ‘अश्वमेधस्य’ अश्वमेधनाम्नः क्रतोः अश्वमेधनामलाभः । क्रियाकारकफलात्मको हि क्रतुः स च प्रजापतिरेवेति स्तूयते ।

क्रतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्तं “उषा वा अश्वस्य मेध्यस्य” (श. प. १० । ६ । ४ । १) इत्यादिना तस्यैवाश्वस्य मेधस्य प्रजापतिस्वरूपस्याग्नेश्च यथोक्तस्य ऋतुफलात्मरूपतया समस्योपासनं विधातव्यं इत्यारभ्यते- पूर्वत्र क्रियापदस्य विधायकस्याश्रुतत्वात् क्रियापदापेक्षत्वाच्च प्रकरणस्य अयमर्थो अवगम्यते- ‘एष ह वा अश्वमेधं’ ‘क्रतुं वेद’ ‘यः’ कश्चित् ‘एनं’ अश्वं अग्निरूपमर्कं च यथोक्तं ‘एवं’ वक्ष्यमाणेन समासेन प्रदर्श्यमानेन विशेषणेन विशिष्टं ‘वेद’ सः ‘एषः’ अश्वमेधं वेद नान्यः । तस्मात् एवं वेदितव्य इत्यर्थः ॥ ७ ॥

Eggeling
  1. He desired, ‘May this (body) of mine be sacrificially pure: may I thereby be possessed of a self!’ Thereupon the horse (aśva) was produced; and because that which was swelling 7 (aśvat) became pure (medhya) therefore the name Aśvamedha (belongs to that sacrifice). He, indeed, knows the Aśvamedha who thus knows him 8.

०८

विश्वास-प्रस्तुतिः

तम᳘नवरुध्द्येवामन्यत॥
त᳘ᳫँ᳘ संव्वत्सर᳘स्य पर᳘स्तादात्म᳘न ऽआ᳘लभत पशू᳘न्देव᳘ताभ्यः प्र᳘त्यौहत्त᳘स्मात्सर्व्वदे᳘वत्यं प्रो᳘क्षितं प्राजापत्यमा᳘लभन्त ऽएष वा᳘ ऽश्वमेधो य ऽएष[[!!]] त᳘पति त᳘स्य संव्वत्सर᳘ ऽआ᳘त्मा ऽय᳘मग्नि᳘रर्कस्त᳘स्येमे᳘ लोका᳘ आत्मा᳘नस्ता᳘वेता᳘वर्काश्वमेधौ᳘ सो पु᳘नरे᳘कैव᳘ देव᳘ता भवति मृत्युरेवा᳘प[[!!]] पुनर्मृत्युं᳘ जयति᳘ नैनं मृत्यु᳘राप्नोति मृत्यु᳘रस्यात्मा᳘ भवति स᳘र्व्वमा᳘युरेत्येता᳘सां देव᳘तानामे᳘को भवति य᳘ ऽएवं व्वेद[[!!]]॥ (शतम् ५५००)॥

मूलम् - श्रीधरादि

तम᳘नवरुध्द्येवामन्यत॥
त᳘ᳫँ᳘ संव्वत्सर᳘स्य पर᳘स्तादात्म᳘न ऽआ᳘लभत पशू᳘न्देव᳘ताभ्यः प्र᳘त्यौहत्त᳘स्मात्सर्व्वदे᳘वत्यं प्रो᳘क्षितं प्राजापत्यमा᳘लभन्त ऽएष वा᳘ ऽश्वमेधो य ऽएष[[!!]] त᳘पति त᳘स्य संव्वत्सर᳘ ऽआ᳘त्मा ऽय᳘मग्नि᳘रर्कस्त᳘स्येमे᳘ लोका᳘ आत्मा᳘नस्ता᳘वेता᳘वर्काश्वमेधौ᳘ सो पु᳘नरे᳘कैव᳘ देव᳘ता भवति मृत्युरेवा᳘प[[!!]] पुनर्मृत्युं᳘ जयति᳘ नैनं मृत्यु᳘राप्नोति मृत्यु᳘रस्यात्मा᳘ भवति स᳘र्व्वमा᳘युरेत्येता᳘सां देव᳘तानामे᳘को भवति य᳘ ऽएवं व्वेद[[!!]]॥ (शतम् ५५००)॥

मूलम् - Weber

तम᳘नवरुध्येवामन्यत॥
त᳘ᳫं᳘ संवत्सर᳘स्य पर᳘स्तादात्म᳘न आ᳘लभत पशू᳘न्देव᳘ताभ्यः प्र᳘त्यौहत्त᳘सम्:त्सर्वदे᳘वत्यम् प्रो᳘क्षितम् प्राजापत्यमा᳘लभन्त एष वा᳘ अश्वमेधो य᳘ एष त᳘पति त᳘स्य संवत्सर᳘ आॗत्माय᳘मग्नि᳘रर्कस्त᳘स्येमे᳘ लोका᳘ आत्मा᳘नस्ता᳘वेता᳘वर्कामेधौॗ सो पु᳘नरे᳘कैव᳘ देव᳘ता भवति मृत्यु᳘रेवा᳘प पुनर्मृत्युं᳘ जयतिॗ नैनम् मृत्यु᳘राप्नोति मृत्युरस्यात्मा᳘ भवति स᳘र्वमा᳘युरेत्येता᳘सां देव᳘तानामे᳘को भवति य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

तमनवरुध्द्येवामन्यत । तं संवत्सरस्य परस्तादात्मान ऽआलभत । पशून्देवताभ्यः प्रत्यौहत् । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त । एष वा अश्वमेधः- य एष तपति । तस्य संवत्सर आत्मा, अयमग्निरर्कः, तस्येमे लोका आत्मानः । तावेतावर्काश्वमेधौ । सा उ पुनरेकैव देवता भवति मृत्युरेव । अप पुनर्मृत्युं जयति । नैनं मृत्युराप्नोति । मृत्युरस्यात्मा भवति । सर्वमायुरेति । एतासां देवतानामेको भवति- य एवं वेद ॥ ८ ॥

सायणः

कथं ? तत्र पशुविषयमेव तावद्दर्शनमाह- ‘तमनवरुध्यैवामन्यत’ तत्र प्रजापतिः भूयसा यज्ञेन भूयो यजेयेति कामयित्वा- आत्मानमेव पशुं मेध्यं कल्पयित्वा तं पशुमनवरुध्यैव उत्सृष्टपशुमवरोधमकृत्वैव मुक्तग्रहं अमन्यताचिंतयत् । ‘तं संवत्सरस्य’ पूर्णस्य ‘परस्तात्’ ऊर्ध्वं ‘आत्मने’ आत्मार्थम् ‘आलभत’ प्रजापतिदेवताकत्वेनेत्येतदालभत आलंभं कृतवान् ‘पशून्’ अन्यान् ग्राम्यानारण्यांश्च ‘देवताभ्यः’ यथादैवतं ‘प्रत्यौहत्’ प्रतिगमितवान् । यस्माच्च एवं प्रजापतिरमन्यत तस्मात् एवं अन्यः अपि उक्तेन विधिना आत्मानं पशुं अश्वं मेध्यं कल्पयित्वा सर्वदेवत्यो ऽहम् प्रोक्ष्यमाण आलभ्यमानस्त्वहं मद्देवत्य एव स्याम् । अन्य इतरे पशवः ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यंते मदवयवभूताभ्य एवेति विद्यात् । अत एव इदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभंते याज्ञिकाः । एवं ‘एष ह वा अश्वमेधो य एष तपति’ यस्त्वेवं पशुसाधनकः क्रतुः स एषः साक्षात्फलभूता निर्द्दिश्यते ‘एष ह वा अश्वमेधः’ को ऽसौ ‘य एषः’ सविता ‘तपति’ जगत् अवभासयति तेजसा ‘तस्य’ अस्य क्रतुफलात्मनः ‘संवत्सरः’ कालविशेषः ‘आत्मा’ शरीरं तन्निर्वर्त्यत्वात्संवत्सरस्य तस्यैव क्रत्वात्मनो अग्निसाध्यत्वाच्च फलस्य क्रतुत्वरूपेणैव निर्देशः । ‘अयं’ पार्थिवः ‘अग्निरर्कः’ साधनभूतः ‘तस्य’ च अर्कस्य क्रतौ चित्यस्य ‘इमे लोकाः’ त्रयो ऽपि ‘आत्मानः’ शरीरावयवाः । तथाच व्याख्यातम्- “तस्य प्राची दिक्” इत्यादिना । ‘तौ अग्न्यादित्यौ’ एतौ यथाविशेषितौ ‘अर्काश्वमेधौ’ क्रतुफले । अर्को यः पार्थिवो ऽग्निः स साक्षात् क्रतुरूपः क्रियात्मकः क्रतोरग्निसाध्यत्वात् तद्रूपेणैव निर्देशः । क्रतुसाध्यत्वाच्च फलस्य ऋतुरूपेणैव निर्देश आदित्यो ऽश्वमेध इति । तौ साध्यसाधनौ क्रतुफलभूतौ अग्न्यादित्यौ । ‘सा’ ‘उ’ ‘पुनः’ भूयः- ‘एकैव देवता भवति’ का सा ? ‘मृत्युरेव’ पूर्वमपि एकैवासीत् क्रियासाधनफलभेदाय विभक्ता । तथा चोक्तम्- “स त्रेधा ऽऽत्मानं व्यकुरुत” इति । सा पुनरपि क्रियानिर्वृत्त्युत्तरकालं एकैव देवता भवति- मृत्युरेव फलरूपः । यः पुनरेवं एनमश्वमेधं मृत्युं एकां देवतां वेद, अहमेव मृत्युरस्मि अश्वमेध एका देवता मद्रूपाश्वग्निसाधनसाध्येति । सः ‘अप जयति’ पुनर्मृत्युं पुनर्मरणं सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः । अपजितो ऽपि मृत्युः एनं पुनरायायात् इत्याशंक्याह- ‘नैनं’ ‘मृत्युराप्नोति’ कस्मात् ? ‘मृत्युरस्य’ एवंविदः ‘आत्मा भवति’ । किंच मृत्युरेव फलरूपः सन् ‘एतासां देवतानामेको भवति’ तस्यैतत्फलम् ॥ ८ ॥ (काण्वानामत्र सप्तमी कंडिका समाप्ता) ॥

Eggeling
  1. He bethought him of leaving it unrestrained 9. At the end of a year he slaughtered it for his own self, and made over the (sacrificial) animals to the deities: therefore they slaughter the consecrated (victim) as one that, in its nature as Prajāpati, represents all the deities. But the Aśvamedha, in truth, is he that shines yonder (the sun), and the year is his body. The Arka is this Fire, and these worlds are his bodies. These two are the Arka and Aśvamedha; but these, indeed, become again one deity, to wit, Death. And, verily, whosoever knows this, conquers recurrent Death, and Death has no hold on him: Death is his own self; he attains all life, and becomes one of those deities.

०९

विश्वास-प्रस्तुतिः

(दा᳘) अ᳘थ व्वᳫँ᳭शः᳘॥
समान᳘मासा᳘ञ्जीवी पु᳘त्रात्सा᳘ञ्जीवीपु᳘त्रो मा᳘ण्डूकायनेर्म्मा᳘ण्डूकायनिर्म्मा᳘ण्डव्यान्मा᳘ण्डव्यः कौ᳘त्सात्कौ᳘त्सो मा᳘हित्थेर्म्मा᳘हित्थिर्व्वामकक्षायणा᳘द्वामकक्षायणो व्वा᳘त्स्याद्वा᳘त्स्यः शा᳘ण्डिल्याच्छा᳘ण्डिल्यः कु᳘श्रेः कु᳘श्रिर्य्यज्ञ᳘वचसो राजस्तम्बा᳘यनाद्यज्ञ᳘वचा राजस्तम्बा᳘यनस्तुरात्का᳘वषेयात्तुरः का᳘वषेयः प्प्रजा᳘पतेः प्प्रजा᳘पतिर्ब्र᳘ह्मणो ब्र᳘ह्म स्वय᳘म्भु ब्र᳘ह्मणे᳘ नमः[[!!]]॥

मूलम् - श्रीधरादि

(दा᳘) अ᳘थ व्वᳫँ᳭शः᳘॥
समान᳘मासा᳘ञ्जीवी पु᳘त्रात्सा᳘ञ्जीवीपु᳘त्रो मा᳘ण्डूकायनेर्म्मा᳘ण्डूकायनिर्म्मा᳘ण्डव्यान्मा᳘ण्डव्यः कौ᳘त्सात्कौ᳘त्सो मा᳘हित्थेर्म्मा᳘हित्थिर्व्वामकक्षायणा᳘द्वामकक्षायणो व्वा᳘त्स्याद्वा᳘त्स्यः शा᳘ण्डिल्याच्छा᳘ण्डिल्यः कु᳘श्रेः कु᳘श्रिर्य्यज्ञ᳘वचसो राजस्तम्बा᳘यनाद्यज्ञ᳘वचा राजस्तम्बा᳘यनस्तुरात्का᳘वषेयात्तुरः का᳘वषेयः प्प्रजा᳘पतेः प्प्रजा᳘पतिर्ब्र᳘ह्मणो ब्र᳘ह्म स्वय᳘म्भु ब्र᳘ह्मणे᳘ नमः[[!!]]॥

मूलम् - Weber

अ᳘थ वंशः᳟॥
समानमा 10 सां᳘जीवीपु᳘त्रात्सां᳘जीवीपु᳘त्रो मा᳘ण्डूकायनेर्मा᳘ण्डूकायनिर्मा᳘ण्डव्यान्मा᳘ण्डव्यः कौ᳘त्सात्कौ᳘त्सो मा᳘हित्थेर्मा᳘हित्थिर्वामकक्षायणा᳘द्वामकक्षायणो वा᳘त्स्याद्वा᳘त्स्यः शा᳘ण्डिल्याछा᳘ण्डिल्यः कु᳘श्रेः कु᳘श्रिर्यज्ञ᳘वचसो राजस्तम्बा᳘यनाद्यज्ञ᳘वचा राजस्तम्बा᳘यनस्तुरात्का᳘वषेयात्तुरः का᳘वषेयः प्रजा᳘पतेः प्रजा᳘पतिर्ब्र᳘ह्मणो ब्र᳘ह्म स्वय᳘म्भु ब्र᳘ह्मणे न᳘मः॥

मूलम् - विस्वरम्

अथ वंशः- समानम् आ साञ्जीवीपुत्रात् । साञ्जीवीपुत्रो माण्डूकायनेः । माण्डूकायनिर्माण्डव्यात् । माण्डव्यः कौत्सात् । कौत्सो माहित्थेः । माहित्थिर्वामकक्षायणात् । वामकक्षायणो वात्स्यात् । वात्स्यः शाण्डिल्यात् । शाण्डिल्यः कुश्रेः । कुश्रिर्यज्ञवचसो राजस्तम्बायनात् । यज्ञवचा राजस्तम्बायनस्तुरात् कावषेयात् । तुरः कावषेयः प्रजापतेः । प्रजापतिर्ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः ॥ ९ ॥

सायणः

वंशब्राह्मणसमाम्नास्यमानानां विद्यासम्प्रदायप्रवर्त्तकानामृषीणां मध्ये ऽग्निरहस्यविद्याप्रवर्त्तकमृषिप्रवाहमनुक्रामति- अथ वंशः समानम् आसांजीवीपुत्रादिति ॥ ९ ॥

विद्यासंप्रदायप्रवर्तकानां ऋषीणां वंशः ।

१ स्वयंभु ब्रह्म २ प्रजापतिः ३ तुरः कावषेयः ४ यज्ञवचा राजस्तंबायनः ५ कुश्रिः- (वाजश्रवसः गोतमः) ६ शांडिल्यः ७ वात्स्यः ८ वामकक्षायणः ९ माहित्थिः १० कौत्सः ११ मांडव्यः १२ मांडूकायनिः १३ सांजीवीपुत्रः

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे षष्ठे ऽध्याये चतुर्थं पञ्चमं च ब्राह्मणम् ॥ (१० । ६ । ४-५) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे षष्ठो ऽध्यायः समाप्तः ॥ (१०-६) ॥

अग्निरहस्यं नाम दशमं काण्डं समाप्तम् ॥

इति शतपथ ब्राह्मणस्य पूर्वार्द्धं समाप्तम् ॥

Eggeling
  1. Now the line of succession (of teachers). The same as far as Sāṁjīvīputra. Sāṁjīvīputra (received it) from Māṇḍūkāyani, Māṇḍūkāyani from Māṇdavya, Māṇdavya from Kautsa, Kautsa from Māhitthi, Māhitthi from Vāmakakshāyaṇa, Vāmakakshāyaṇa from Vātsya, Vātsya from Śāṇḍilya, Śāṇḍilya from Kuśri, Kuśri from Yagñavacas Rājastambāyana, Yajñavacas Rājastambāyana from Tura Kāvasheya, Tura Kāvasheya from Prajāpati, Prajāpati from Brahman (n.). Brahman is the self-existent: reverence be to Brahman!

  1. 402:1 See X, 3, 4, 3 seq.; 4, 1, 4. 15. 21 seq. ↩︎

  2. बहुवचनांतः पाठः काण्वीयः । माध्यंदिनीयो ह्येकवचनांतः । ↩︎

  3. 403:1 Viz. Prajāpati, the year; Agni, the Purusha, the Self. ↩︎

  4. इम᳘मभि᳘मᳫस्ये A. ↩︎

  5. 403:2 Or, I shall lessen my food (which would have become more abundant if the child had been allowed to live and grow). ↩︎

  6. इदमित्यनेन “भूयसा यज्ञेनेत्यादि” कं० ६ “तदेवाश्वमेधस्याश्वमेधत्वं” कं० ७ इत्यन्तं श्रुतिः स्वयमेवाह इति अवगम्यताम् । ↩︎

  7. 403:3 The commentaries on the Br̥had-āraṇyakop. take this together with the preceding clause,–and because that (body) was swelling (aśvat), therefore the horse (aśva) was produced. ↩︎

  8. 403:4 Viz. Agni-Prajāpati, or Death, in the form of the horse. ↩︎

  9. 404:1 For the construction, see IX, 5, 1, 35; on the negative form of the gerund (tam anavarudhyaivāmanyata) with a direct object, see Delbrück, Altindische Syntax, § 264. ↩︎

  10. समान᳘मा A. M. - ibid. ब्र᳘ह्मणे᳘ नमः A M. The accentuation of the proper names too shows some irregularities: we read here कु᳘श्रि instead of कु्श्रि᳘ (१०. ५. ५.१.), का᳘वषेय instead of कावषे᳘य (९. ५. २. १५.), राजस्तम्बा᳘यन instead of राजस्तम्बायन᳘ (१० ४.२.१.), वामकक्षायण᳘ instead of वा᳘मकक्षायण (७.१.२.११. १०. ४. १. ११.). ↩︎