०१

विश्वास-प्रस्तुतिः

उषा᳓ वा᳓ ऽअ᳓श्वस्य मे᳓ध्यस्य शि᳓रः॥
सू᳓र्यश् च᳓क्षुर्, वा᳓तः प्राणो᳓, व्या᳓त्तम् अग्नि᳓र् वैश्वानरः᳓,
संवत्सर᳓ आत्मा᳓श्वस्य मे᳓ध्यस्य।
द्यौ᳓ष् पृष्ठ᳓म्,
अन्त᳓रिक्षम् उद᳓रम्, पृथिवी᳓ पाजस्यं᳓+++(=उदरस्याधोभागः)+++,
दि᳓शः पार्श्वे᳓, अवान्तरदि᳓शः प᳓र्शव,
ऋतवो᳓ ऽङ्गानि, मा᳓साश् चार्धमासा᳓श् च प᳓र्वाण्य्,
अहोरात्रा᳓णि प्रतिष्ठा᳓,
न᳓क्षत्राण्य् अ᳓स्थीनि,
न᳓भो मांसान्य्,
ऊ᳓वध्यं+++(=उदर-स्थान्नम्)+++ सि᳓कताः,
सि᳓न्धवो गु᳓दा, य᳓कृच् च क्लोमा᳓नश्+++(=पुप्पुसाश्)+++ च प᳓र्वता,
ओ᳓षधयश् च व᳓नस्पतयश् च लो᳓मान्य्,
उद्य᳓न् पूर्वार्धो᳓, निम्लो᳓चन् जघनार्धो᳓।

य᳓द् विजृ᳓म्भते +++(←अदन्ताङ्गत्वाद् धातु-स्वरः)+++ त᳓द् वि᳓द्योतते।+++(५)+++
य᳓द् विधूनुते᳓ त᳓त् स्तनयति।
य᳓न् मे᳓हति त᳓द् वर्षति।
वा᳓ग् ए᳓वास्य᳓ वा᳓क्।

अ᳓हर् वा᳓ अ᳓श्वम् पुर᳓स्तान् “महिमा᳓” +++(नाम पात्रं)+++ ऽन्वजायत।
त᳓स्य पू᳓र्वे समुद्रे यो᳓निः।
रा᳓त्रिर् एनम् पश्चा᳓न् “महिमा᳓” +++(पात्रम्)+++ ऽन्वजायत।
तस्या᳓परे समुद्रे᳓ यो᳓निर्,
एतौ᳓ वा᳓ अ᳓श्वम् +++(अश्वमेधे प्रयुज्यमानाव्)+++ “महिमा᳓नाव्” अभि᳓तः स᳓म्बभूवतुः।

ह᳓यो भूत्वा᳓ देवा᳓न् अ᳓वहद्,
वाजी᳓ गन्धर्वान्,
अर्वा᳓ ऽसुरान्,
अ᳓श्वो मनुष्या᳙न्।

समुद्र᳓ ए᳓वास्य᳓ ब᳓न्धुः,
समुद्रो᳓ यो᳓निः॥

मूलम् - श्रीधरादि

उषा वा ऽअ᳘श्वस्य मे᳘ध्यस्य शि᳘रः॥
सू᳘र्य्यश्च᳘क्षुर्व्वा᳘तः प्राणो व्व्या᳘त्तमग्नि᳘र्व्वैश्वानरः᳘ संव्वत्सर᳘ ऽआत्मा᳘ ऽश्वस्य मे᳘ध्यस्य द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमुद᳘रं पृथिवी᳘ पाज᳘स्यं[[!!]] दि᳘शः पार्श्वे᳘ ऽअवान्तरदि᳘शः प᳘र्शव ऽऋतवो᳘ ऽङ्गानि मा᳘साश्चार्द्धमासा᳘श्च प᳘र्व्वाण्यहोरात्रा᳘णि प्रतिष्ठा न᳘क्षत्राण्य᳘स्थीनि न᳘भो माᳫँ᳭सान्यू᳘वध्यᳫँ᳭ सि᳘कताः सि᳘न्धवो गु᳘दा य᳘कृच्च क्लोमा᳘नश्च प᳘र्व्वता ऽओ᳘षधयश्च व्व᳘नस्प᳘तयश्च लो᳘मान्युद्य᳘न्पूर्व्वार्द्धो᳘ निम्लो᳘चञ्जघनार्द्धो य᳘द्विजृ᳘म्भते तद्वि᳘द्योतते य᳘द्विधूनुते त᳘त्स्तन᳘यति यन्मे᳘हति त᳘द्वर्षति व्वागे᳘वास्य[[!!]] व्वाग᳘हर्व्वा ऽअ᳘श्वं पुर᳘स्तान्महिमा᳘ ऽन्वजायत त᳘स्य पू᳘र्व्वे समुद्रे यो᳘नी रा᳘त्रिरेनं पश्चा᳘न्महिमा᳘ ऽन्वजायत तस्या᳘परे समुद्रे यो᳘निरेतौ वा ऽअ᳘श्वं महिमा᳘नावभि᳘तः स᳘म्बभूवतुर्ह᳘यो भूत्वा᳘ देवान᳘वहद्वाजी᳘ गन्धर्व्वा᳘नर्व्वा ऽसुरान᳘श्वो मनु᳘ष्यान्त्समुद्र᳘ ऽए᳘वास्य ब᳘न्धुः समुद्रो यो᳘निः॥

मूलम् - Weber

उषा वा अ᳘श्वस्य मे᳘ध्यस्य शि᳘रः॥
सू᳘र्यश्च᳘क्षुर्वा᳘तः प्राणो व्या᳘त्तमग्नि᳘र्वैश्वानरः᳘ संवत्सर᳘ आत्मा᳘श्वस्य मे᳘ध्यस्य द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमुद᳘रम् पृथिवी᳘ पाजस्यं᳘ दि᳘शः पार्श्वे᳘ अवान्तरदि᳘शः प᳘र्शव ऋतवो᳘ऽङ्गानि मा᳘साश्चार्धमासा᳘श्च प᳘र्वाण्यहोरात्रा᳘णि प्रतिष्ठा न᳘क्षत्राण्य᳘स्थीनि न᳘भो मांसान्यू᳘वध्यᳫं सि᳘कताः सि᳘न्धवो गु᳘दा य᳘कृच्च क्लोमा᳘नश्च प᳘र्वता ओ᳘षधयश्च व᳘नस्पतयश्च लो᳘मान्युद्य᳘न्पूर्वार्धो᳘ निम्लो᳘चन्जघनार्धो य᳘द्विजृ᳘म्भते तद्वि᳘द्योतते य᳘द्विधूनुते त᳘त्स्तनयति यन्मे᳘हति त᳘द्वर्षति वा᳘गेॗवास्य वाग᳘हर्वा अ᳘श्वम् पुर᳘स्तान्महिमा᳘न्वजायत त᳘स्य पू᳘र्वे समुद्रे यो᳘नीरा᳘त्रिरेनम् पश्चा᳘न्महिमा᳘न्वजायत तस्या᳘परे समुद्रे यो᳘निरेतौ वा अ᳘श्वम् महिमा᳘नावभि᳘तः स᳘म्बभूवतुर्ह᳘यो भूत्वा᳘ देवान᳘वहद्वाजी᳘ गन्धर्वानर्वा᳘सुरान᳘श्वो मनुॗष्यान्त्समुद्र᳘ एॗवास्य ब᳘न्धुः समुद्रो यो᳘निः॥

मूलम् - विस्वरम्

अश्वावयवेषु विराडवयवोपासनं ब्राह्मणम् ।

उषा वा अश्वस्य मेध्यस्य शिरः, सूर्यश्चक्षुः, वातः प्राणः, व्यात्तमाग्निर्वैश्वानरः । संवत्सर आत्मा । अश्वस्य मेध्यस्य- द्यौष्पृष्ठम्, अन्तरिक्षमुदरम्, पृथिवी पाजस्यम्, दिशः पार्श्वे, अवान्तरदिशः पर्शवः, ऋतवो ऽङ्गानि, मासाश्चार्धमासाश्च पर्वाणि, अहोरात्राणि प्रतिष्ठा, नक्षत्राण्यस्थीनि, नभो मांसानि, ऊवध्यं सिकताः, सिन्धवो गुदा, यकृच्च क्लोमानश्च पर्वताः, ओषधयश्च वनस्पतयश्च लोमानि, उद्यन्पूर्वार्धः, निम्लोचञ्जघनार्धः, यद्विजृम्भते- तद् विद्योतते । यद्विधूनुते- तत्स्तनयति । यन्मेहति- तद्वर्षति । वागेवास्य वाक्, अहर्वा अश्वं पुरस्तान्महिमा ऽन्वजायत । तस्य पूर्वे समुद्रे योनिः । रात्रिरेनं पश्चान्महिमा ऽन्वजायत । तस्यापरे समुद्रे योनिः । एतौ वा अश्वं महिमानावभितः सम्बभूवतुः । हयो भूत्वा देवानवहद् । वाजी गन्धर्वान् । अर्वा ऽसुरान् । अश्वो मनुष्यान् । समुद्र एवास्य बन्धुः, समुद्रो योनिः ॥ १ ॥

सायणः

अस्य “उषा वा ऽश्वस्य, नैवेह किञ्चन” इति ब्राह्मण द्वयस्य सायणाचार्यैर्भाष्यं न कृतं वार्तिककारेण उपबृंहणपुरःसरं प्रपंचितत्वात् इति तैरेवावोचि । अतो ऽत्र एतस्मिन्ब्राह्मणद्वये श्रीमच्छंकराचार्यकृतं भाष्यं तदीयबृहदारण्यभाष्यादुद्धृत्य संगृहीतं । अस्य ब्राह्मणद्वयस्य माध्यंदिनपाठे काण्वपाठे च सार्वात्म्येन पाठसाम्यं, क्वचित् कण्डिकाभेदेन एकद्विपदाधिक्येन अस्ति किंचित् वैलक्षण्यं, तथापि न तद्विरुध्यते इति ध्येयम् ।

शङ्करः

अस्य तु अश्वमेधकर्मसम्बन्धिनो विज्ञानस्य प्रयोजनम् येषामश्वमेधे नाधिकारः तेषामस्मादेव विज्ञानात् तत्फलप्राप्तिः । “विद्यया वा कर्मणा वा, तद्धैतल्लोकजिदेव” इत्येवमादिश्रुतिभ्यः कर्मविषयत्वमेव विज्ञानस्येति चेन्न; “योऽश्वमेधेन यजते य उ चैनमेवं वेद” इति विकल्पश्रुतेः । विद्याप्रकरणे चाम्नानात् कर्मांतरे च सम्पादनदर्शनात् विज्ञानात् तत्फलप्राप्तिरस्तीत्यवगम्यते ।

सर्वेषां च कर्मणां परं कर्म अश्वमेधः समष्टिव्यष्टिप्राप्तिफलत्वात् । तस्य चेह ब्रह्मविद्याप्रारंभ ऽआम्नानं 1 सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थं । तथाच दर्शयिष्यति फलं अशनाया मृत्युभावं । न नित्यानां संसारविषयफलत्वमिति चेत्; न सर्वकर्मफलोपसंहारश्रुतेः । सर्वं हि पत्नीसंबद्धं कर्म । “जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्व्वीयेत्येतावान्वै कामः” (बृ. उप. १४ । १ । २ । १७) इति निसर्गत एव सर्व कर्मणां काम्यत्वं दर्शयित्वा पुत्रकर्मापरविद्यानां च “त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोकः” (बृ. १४ । १ । ३ । १६ ।) इति फलं दर्शयित्वा अन्नात्मकतां चांते उपसंहरिष्यति । “त्रयं वा इदं नाम रूपं कर्म’ (बृ. १४ । ४ । १) इति सर्वकर्मणां फलं व्याकृतं संसार एवेति ।

इदमेव त्रयं प्रागुत्पत्तेस्तर्ह्यव्याकृतमासीत् । तदेव पुनः सर्वप्राणिकर्मवशात् व्याक्रियते । बीजादिव वृक्षः । सो ऽयं व्याकृताव्याकृतरूपः संसारः अविद्या विषयः । क्रियाकारकफलात्मकतया आत्मरूपत्वेनाध्यारोपितः अविद्ययैव मूर्तामूर्ततद्वासनात्मकः । अतो विलक्षणो ऽनामरूपकर्मात्मको ऽद्वयो नित्यशुद्धबुद्धमुक्तस्वभावो ऽपि क्रियाकारकफलभेदादिविपर्ययेणावभासते । अतो ऽस्मात्क्रियाकारकफलभेदस्वरूपात् एतावदिदमिति साध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रह्मविद्या ऽऽरभ्यते ।

तत्र तावदश्वमेधविज्ञानाय “उषा वा अश्वस्य” इत्यादि । तत्राश्वविषयमेव दर्शनमुच्यते । प्राधान्यादश्वस्य । प्राधान्यं च- तन्नामांकितत्वात्क्रतोः प्रजापत्यत्वाच्च ।

उषा इति । ब्राह्मो मुहूर्तः उषाः । वै शब्दः स्मारणार्थः । प्रसिद्धं कालं स्मारयति । शिरः प्राधान्यात् । शिरश्च प्रधानं शरीरावयवानां । ‘अश्वस्य मेध्यस्य’ मेधार्हस्य यज्ञियस्य उषा शिर इति सम्बन्धः । कर्मांगस्य पशोः संस्कर्तव्यत्वात् कालादिदृष्टयः शिरआदिषु क्षिप्यंते । प्राजापत्यत्वं च प्रजापतिदृष्ट्यध्यारोपणात् । काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशोः । एवंरूपो हि प्रजापतिः विष्णुत्वादिकरणमिव प्रतिमादौ ।

सूर्यश्चक्षुः शिरसो ऽनन्तरत्वात् सूर्याधिदैवतत्वाच्च । ‘वातः प्राणः’ वायुस्वाभाव्यात् । ‘व्यात्तमग्निर्वैश्वानरः’ व्यात्तं विवृतं मुखं अग्निर्वैश्वानरः वैश्वानर इत्यग्नेर्विशेषणम् । वैश्वानरो नामा ऽग्निर्विवृतं मुखमित्यर्थः । मुखस्याग्निदैवतत्वात् संवत्सर आत्मा संवत्सरो द्वादशमासस्त्रयोदशमासो वा । आत्मा शरीरं । कालावयवानां च संवत्सरः शरीरं शरीरं चात्मा । “मध्यं ह्येषामंगानामात्मा” इति श्रुतेः । ‘अश्वस्य मेध्यस्य’ इति सर्वत्रानुषंगार्थं पुनर्वचनं । द्यौः 2 पृष्ठम् ऊर्ध्वत्वसामान्यात् । ‘अन्तरिक्षमुदरं’ सुषिरत्वसामान्यात् । ‘पृथिवी पाजस्यं’ पादस्यमिति वर्णव्यत्ययेन पादासनस्थानमित्यर्थः । ‘दिशः पार्श्वे’ दिशश्चतस्रो ऽपि पार्श्वे पार्श्वेन दिशां संबंधात् । पार्श्वयोर्दिशां च सङ्ख्यावैषम्यादयुक्तमिति चेन्न सर्वमुखत्वोपपत्तेरीश्वरस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः । ‘अवांतरदिशः पर्शवः’ अवांतरदिशः आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि । ‘ऋतवो ऽङ्गानि’ संवत्सरावयवत्वात् अंगसाधर्म्यात् । ‘मासाश्चार्धमासाश्च पर्वाणि’ पर्वाणि सन्धयः- सन्धिसामान्यात् । ‘अहोरात्राणि प्रतिष्ठाः’ बहुवचनात् प्राजापत्यदैवपित्र्यमानुषाणि प्रतिष्ठाः पादाः प्रतितिष्ठति एतैरिति । अहोरात्रैर्हि कालात्मा प्रतितिष्ठति अश्वश्च पादैः ‘नक्षत्राण्यस्थीनि’ शुक्लत्वसामान्यात् । ‘नभो मांसानि’ नभो नभस्था मेघाः अन्तरिक्षस्योदरत्वोक्तेर्मांसानि- उदकरुधिरसेचनसामान्यात् । ‘ऊवध्यं सिकताः’- ऊवध्यमुदरस्थमर्द्धजीर्णमशनं सिकताः विश्लिष्टावयवत्वसामान्यात् ‘सिन्धवो गुदाः’ स्यंदनसामान्यान्नद्यो गुदानाड्यो बहुवचनाच्च । यकृच्च क्लोमानश्च हृदयस्याधस्तात् दक्षिणोत्तरौ मांसखंडौ क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव पर्वताः काठिन्यादुच्छ्रितत्वाच्च । ‘ओषधयश्च वनस्पतयश्च लोमानि’ ओषधयश्च क्षुद्राः स्थावराः वनस्पतयो महांतः लोमानि केशाश्च यथासंभवं । ‘उद्यन् पूर्वार्धः’ उद्यन् उद्गच्छन् भवति सविता आमध्याह्नात् अश्वस्य पूर्वार्धो नाभेरूर्ध्वमित्यर्थः । ‘निम्लोचन् जघनार्द्धः’ अस्तं यन् आ मध्याह्नात् जघनार्द्धो ऽअपरार्द्धः पूर्वापरत्वसाधर्म्यात् । ‘यत् विजृंभते तद्विद्योतते’ यद्विजृंभते गात्राणि विनामयति विक्षिपति तद्विद्योतते विद्योतनं मुखवनविदारणसामान्यात् । ‘यद्विधूनते तत्स्तनयति’ यद्विधूनते गात्राणि कंपयति तत्स्तनयति गर्जनशब्दसामान्यात् ॥

‘यन्मेहति तद्वर्षति’ यत् मेहति मूत्रं करोत्यश्वः- तद्वर्षति वर्षणं तत् सेचनसामान्यात् । ‘वागेवास्य वाक्’ वागेव शब्द एव अस्याश्वस्य वाक् इति नात्र कल्पनेत्यर्थः ॥ (काण्व पाठानुसारेणात्र प्रथमा कंडिका समाप्ता)

अहर्वा इति, सौवर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रतः पृष्ठतश्च स्थाप्येते, तद्विषयमिदं दर्शनम्। अहः सौवर्णो ग्रहः, दीप्तिसामान्याद्वै। अहरश्वं पुरस्तान्महिमान्वजायतेति कथम् ? अश्वस्य प्रजापतित्वात् ; प्रजापतिर्ह्यादित्यादिलक्षणोऽह्ना लक्ष्यते ; अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहः, वृक्षमनु विद्योतते विद्युदिति यद्वत्। तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनिः, विभक्तिव्यत्ययेन ; योनिरित्यासादनस्थानम्। तथा रात्री राजतो ग्रहः, वर्णसामान्याज्जघन्यत्वसामान्याद्वा। एनमश्वं पश्चात्पृष्ठतो महिमा अन्वजायत ; तस्यापरे समुद्रे योनिः। महिमा महत्त्वात्। अश्वस्य हि विभूतिरेषा, यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते। तावेतौ वै महिमानौ महिमाख्यौ ग्रहौ, अश्वमभितः सम्बभूवतुः उक्तलक्षणावेव सम्भूतौ। इत्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं स्तुत्यर्थम्। तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव। हयो हिनोतेर्गतिकर्मणः, विशिष्टगतिरित्यर्थः ; जातिविशेषो वा ; देवानवहत् देवत्वमगमयत् , प्रजापतित्वात् ; देवानां वा वोढाभवत् ; ननु निन्दैव वाहनत्वम् ; नैष दोषः ; वाहनत्वं स्वाभाविकमश्वस्य, स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसम्बन्धोऽश्वस्य इति स्तुतिरेवैषा। तथा वाज्यादयो जातिविशेषाः ; वाजी भूत्वा गन्धर्वानवहदित्यनुषङ्गः ; तथार्वा भूत्वासुरान् ; अश्वो भूत्वा मनुष्यान्। समुद्र एवेति परमात्मा, बन्धुर्बन्धनम् , बध्यतेऽस्मिन्निति ; समुद्रो योनिः कारणमुत्पत्तिं प्रति ; एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते ; ‘अप्सुयोनिर्वा अश्वः’ (तै. सं. २। ३। १२) इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः ॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यैः परमहंसपरिव्राजकाचार्यैः श्रीशंकरभगवद्भिः (काण्वपाठानुसारिबृहदारण्यकादौ कृतं) अत्रोद्धृतं “उषा वा अश्वस्य मेध्यस्य” इत्यस्य ब्राह्मणस्य भाष्यं समाप्तम् ॥ (१०-६-४) ॥

Eggeling
  1. Verily, the dawn is the head of the sacrificial horse 3, the sun its eye, the wind its breath, Agni Vaiśvānara (the fire belonging to all men) its open mouth. The year is the body of the sacrificial horse, the sky its back, the air its belly, the earth the under part of its belly, the quarters its flanks, the intermediate quarters its ribs, the seasons its limbs, the months and half-months its joints, the days and nights its feet, the stars its bones, the welkin its flesh, the sand its intestinal food, the rivers its bowels, the mountains its liver and lungs, the herbs and trees its hair, the rising sun the forepart, and the setting sun the hindpart of its body, the lightning its yawning, the thundering its whinnying, the raining its voiding urine, and speech its voice.

The day, indeed, was produced as the Mahiman 4 (cup) before the horse, and its birthplace is in the eastern sea. The night was produced as the Mahiman (cup) behind (or after) it, and its birth-place was in the western sea: these two Mahiman (cups), indeed, came to be on both sides of the horse. As Haya (steed) it carried the gods, as Vajin (racer) the Gandharvas, as Arvan (courser) the Asuras, as Aśva (horse) men. The sea, indeed, is its kindred, the sea its birth-place.


  1. काण्वशास्त्रीयपाठानुसारेणेति बोद्धव्यम् । ↩︎

  2. द्यौष्पृष्ठमिति माध्यंदिनीयानां पाठः । ↩︎

  3. 401:1 That is, of Prajāpati, in the form of a horse. For this and the next chapters see the beginning of the Kāṇva recension of the Br̥had-āraṇyakopanishad. ↩︎

  4. 401:2 This is the name of two gold cups used at the Aśvamedha; cf. XIII, 2, 11, I seq.; 5, 2, 23. ↩︎