विश्वास-प्रस्तुतिः
१०.6.३
मूलम् - श्रीधरादि
१०.6.३
०१
विश्वास-प्रस्तुतिः
सत्यं ब्रह्मेत्यु᳘पासीत॥
(ता᳘ ऽथ) अ᳘थ ख᳘लु क्रतुम᳘यो ऽयं पु᳘रुषः स या᳘वत्क्रतुरय᳘मस्मा᳘ल्लोकात्प्रै᳘त्येवं क्रतु᳘र्हामुं᳘ लोकं प्रे᳘त्याभिस᳘म्भवति॥
मूलम् - श्रीधरादि
सत्यं ब्रह्मेत्यु᳘पासीत॥
(ता᳘ ऽथ) अ᳘थ ख᳘लु क्रतुम᳘यो ऽयं पु᳘रुषः स या᳘वत्क्रतुरय᳘मस्मा᳘ल्लोकात्प्रै᳘त्येवं क्रतु᳘र्हामुं᳘ लोकं प्रे᳘त्याभिस᳘म्भवति॥
मूलम् - Weber
सत्यम् ब्रह्मेत्यु᳘पासीत॥
अ᳘थ ख᳘लु क्रतुम᳘योऽयम् पु᳘रुषः स या᳘वत्क्रतुरय᳘मस्मा᳘ल्लोकात्प्रै᳘त्येवंक्रतु᳘र्हामुं᳘ लोकम् प्रे᳘त्याभिस᳘म्भवति॥
मूलम् - विस्वरम्
शाण्डिल्याग्न्युपासनं ब्राह्मणम् ।
सत्यं ब्रह्मेत्युपासीत । अथ खलु ऋतुमयो ऽयं पुरुषः- स यावत्क्रतुरयमस्माल्ँ लोकात्प्रैति । एवं क्रतुर्हामुं लोकं प्रेत्याभिसम्भवति ॥ १ ॥
सायणः
तृतीये शाण्डिल्यविद्योच्यते- सत्यं ब्रह्मेत्युपासीतेति । ‘सत्यम्’ अबाध्यं नित्यं ब्रह्मेति वक्ष्यमानैर्मनोमयत्वादिभिर्गुणैरुपेतमात्मानमुपासीत ‘ब्रह्म’ बृहतः सकलजगतः सृष्टिस्थितिसंहृतिहेतुभूतम् । तथा च च्छान्दोग्ये शाण्डिल्यविद्यामेव प्रस्तोतुमाम्नायते- “सर्वं खल्विदं ब्रह्म तज्जलान् इति शान्त उपासीत”- (छान्दो. उप. ३ । १४ । १) इति । तदुपासनप्रतिपादनाय- अथ खल्वित्यादिग्रन्थः- अथ खल्विति । हेत्वर्थः । अथ खलु यस्मात् ‘क्रतुमयः’ क्रतुर्निश्चयो ऽध्यवसायः । एवमेव नान्यथेत्यविचलितप्रत्ययः । तदात्मकः सः पुरुषो जीवो ‘यावत्क्रतुः’ यादृशक्रतुः, यथाव्यवसायो यादृङ्निश्चयो ऽस्मिन् लोके जीवत्पुरुषो भवति । तथा ऽयं क्रतुरस्माल्लोकात्प्रेत्य मृत्वा ‘अमुं लोकमभिसम्भवति’ क्रत्वनुरूपफलात्मको भवतीत्यर्थः । एवं च एतच्छास्त्रतो दृष्टम्- “यं यं वा ऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः” (भ. गी. अ. ८ । २) इति । यतः क्रत्वनुरूपं फलमुक्तं । ब्रह्मात्मविषयः क्रतुः कर्तव्य इत्यभिप्रायः ॥ १ ॥
Eggeling
- Let him meditate upon the ’true Brahman.’ Now, man here, indeed, is possessed of understanding 1, and according to how great his understanding is when he departs this world, so does he, on passing away, enter yonder world.
०२
विश्वास-प्रस्तुतिः
स᳘ ऽआत्मा᳘नमु᳘पासीत॥
मनोम᳘यं प्राण᳘शरीरं भा᳘रूपमाकाशा᳘त्मानं कामरूपि᳘णं म᳘नोजवसᳫँ᳭ सत्य᳘संकल्पᳫँ᳭ स᳘त्यधृतिᳫँ᳭[[!!]] स᳘र्व्वगन्धᳫँ᳭ स᳘र्व्वरसᳫँ᳭ स᳘र्व्वा ऽअ᳘नु दि᳘शः प्र᳘भूतᳫँ᳭ स᳘र्व्वमिद᳘म᳘भ्याप्त᳘मवाक्क᳘मनादरं य᳘था व्व्रीहि᳘र्वा य᳘वो वा श्यामा᳘को वा श्यामाकतण्डुलो᳘ वैव᳘मय᳘मन्त᳘रात्मन्पु᳘रुषो हिरण्म᳘यो य᳘था ज्यो᳘तिरधूम᳘मेवं ज्या᳘यान्दिवो ज्या᳘यानाकाशाज्ज्या᳘यानस्यै᳘ पृथिव्यै ज्या᳘यान्त्स᳘र्व्वेभ्यो भूते᳘भ्यः स᳘ प्राण᳘स्या᳘त्मैष᳘ म ऽआ᳘त्मैत᳘मित᳘ ऽआत्मा᳘नं प्रे᳘त्याभिस᳘म्भविष्यामी᳘ति य᳘स्य स्या᳘दद्धा न᳘ व्विचिकित्सा ऽस्ती᳘ति ह स्माह शा᳘ण्डिल्य ऽएव᳘मेतदि᳘ति॥
मूलम् - श्रीधरादि
स᳘ ऽआत्मा᳘नमु᳘पासीत॥
मनोम᳘यं प्राण᳘शरीरं भा᳘रूपमाकाशा᳘त्मानं कामरूपि᳘णं म᳘नोजवसᳫँ᳭ सत्य᳘संकल्पᳫँ᳭ स᳘त्यधृतिᳫँ᳭[[!!]] स᳘र्व्वगन्धᳫँ᳭ स᳘र्व्वरसᳫँ᳭ स᳘र्व्वा ऽअ᳘नु दि᳘शः प्र᳘भूतᳫँ᳭ स᳘र्व्वमिद᳘म᳘भ्याप्त᳘मवाक्क᳘मनादरं य᳘था व्व्रीहि᳘र्वा य᳘वो वा श्यामा᳘को वा श्यामाकतण्डुलो᳘ वैव᳘मय᳘मन्त᳘रात्मन्पु᳘रुषो हिरण्म᳘यो य᳘था ज्यो᳘तिरधूम᳘मेवं ज्या᳘यान्दिवो ज्या᳘यानाकाशाज्ज्या᳘यानस्यै᳘ पृथिव्यै ज्या᳘यान्त्स᳘र्व्वेभ्यो भूते᳘भ्यः स᳘ प्राण᳘स्या᳘त्मैष᳘ म ऽआ᳘त्मैत᳘मित᳘ ऽआत्मा᳘नं प्रे᳘त्याभिस᳘म्भविष्यामी᳘ति य᳘स्य स्या᳘दद्धा न᳘ व्विचिकित्सा ऽस्ती᳘ति ह स्माह शा᳘ण्डिल्य ऽएव᳘मेतदि᳘ति॥
मूलम् - Weber
स᳘ आत्मा᳘नमु᳘पासीत॥
मनोम᳘यम् प्राण᳘शरीरम् भा᳘रूपमाकाशा᳘त्मानं कामरूपि᳘णम् म᳘नोजवसᳫं सत्य᳘संकल्पᳫं सत्य᳘धृतिᳫं 2 स᳘र्वगन्धᳫं स᳘र्वरसᳫं स᳘र्वा अ᳘नु दि᳘शः प्र᳘भूतᳫं स᳘र्वमिद᳘मॗभ्याप्त᳘मवाक्क᳘मनादरं य᳘था व्रीहि᳘र्वा य᳘वो वा श्यामा᳘को वा श्यामाकतण्डुलो᳘ वैव᳘मय᳘मन्त᳘रात्मन्पु᳘रुषो हिरण्म᳘यो य᳘था ज्यो᳘तिरधूम᳘मेवं ज्या᳘यान्दिवो ज्या᳘यानाकाशाज्ज्या᳘यानस्यै᳘ पृथिव्यै ज्या᳘यान्त्स᳘र्वेभ्यो भूते᳘भ्यः स᳘ प्राण᳘स्याॗत्मैष᳘ म आॗत्मैत᳘मित᳘ आत्मा᳘नम् प्रे᳘त्याभिस᳘म्भविष्यामी᳘ति य᳘स्य स्या᳘दद्धा न᳘ विचिकित्सास्ती᳘ति ह स्माह शा᳘ण्डिल्य एव᳘मेतदि᳘ति॥
मूलम् - विस्वरम्
स आत्मानमुपासीत । मनोमयं प्राणशरीरं भारूपमाकाशात्मानं, कामरूपिणं, मनोजवसं, सत्यसंङ्कल्पं, सत्यधृतिं, सर्वगन्धं, सर्वरसं, सर्वा अनु दिशः प्रभूतं सर्वमिदमभ्याप्तमवाक्कमनादरम् । यथा व्रीहिर्वा, यवो वा, श्यामाको वा, श्यामाकतण्डुलो वा । एवमयमन्तरात्मन्पुरुषो हिरण्मयः । यथा ज्योतिरधूमम्, एवम् ज्यायान् दिवः । ज्यायानाकाशात् । ज्यायानस्यै पृथिव्यै । ज्यायान्त्सर्वेभ्यो भूतेभ्यः । स प्राणस्यात्मा । एष मे आत्मा । एतमित आत्मानं प्रेत्याभिसम्भविष्यामीति यस्य स्यात् । अद्धा न विचिकित्सा ऽस्ति इति ह स्माह शाण्डिल्यः । एवमेतदिति ॥ २ ॥
सायणः
कथं क्रतुकरणमिति तत्राह- स आत्मानमुपासीत मनोमयमित्यादि । सत्यं ब्रह्म मनोमयत्वादिगुणविशिष्टमात्मानमुपासीत एतदेव क्रतुकरणं ‘मनोमयं’ मनःप्रायं- मनुते ऽनेनेति मनः- यस्य प्रवृत्त्या विषयेषु प्रवृत्तो भवति- तेन मनसा- तन्मयः- तत्प्रवृत्तौ प्रवृत्त इव- तदपाये निवृत्त इव । अत एव मनोमयं प्राणशरीरं प्राणः शरीरं यस्य- प्राणो लिङ्गात्मा । विज्ञानक्रियाशक्तिद्वयसंमूर्च्छितः । “यो वै प्राणः स प्रज्ञा या वा प्रज्ञा स प्राणः” (कौषि. उ. । ३ । ३ ।) इति । “स एष प्राण एव प्रज्ञात्मा” (कौषि. उप. । ४ । २०) इति । “यस्य प्राणः शरीरं” (श. प. । १४ । ३ । ७ । २१ ।) इति श्रुतेः । “अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति” (श. प. । १४ । १ । २ । ७ ।) इति च श्रुतेः । ‘भारूपं’ भा दीप्तिश्चैतन्यात्मलक्षणा रूपं यस्य तम्, आकाशात्मानं आकाश इव आत्मा स्वरूपं सर्वगतत्वसूक्ष्मत्वरूपादिविहीनत्वादिना ऽऽकाशतुल्यं । ‘कामरूपिणं’ सर्वकामात्मकं । ‘मनोजवसं’ मनोवेगं ‘सत्यसंकल्पम्’ अवितथसङ्कल्पम्; संसारिणो ऽनैकान्तिकफलः सङ्कल्पः नैवमीश्वरस्येत्यर्थः । ‘सत्यधृतिं’ यथार्थधारणं । ‘सर्वगन्धं’ सर्वे गन्धाः सुखकराः अस्य । “पुण्यो गन्धः पृथिव्यां च" इति स्मृतेः । ‘सर्वरसं’ तथा रसा अपि विज्ञेयाः । अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धिनिमित्तश्रवणात् । तस्मात् “स नोभयं जिघ्रति यत्सुरभि यद्दुर्गन्धि न पाप्मना ह्येष विद्धः” इति श्रुतेः । न च पाप्मसंसर्ग ईश्वरस्य अविद्याशेषानुपपत्तेः । ‘सर्वा अनुदिशः प्रभूतं’ “सर्वा दिशो ऽनु प्रभूतं सर्वतो ब्रह्म” इति श्रुतेः । ‘सर्वमिदमभ्याप्तं’ सर्वमिदं जगदभ्याप्तम् । आप्नोतेर्व्याप्तिकर्मणः कर्तरि निष्ठा । ‘अवाक्कं’ वाचा रहितं पूर्वं गन्धरसादिश्रवणेन ईश्वरस्य प्राप्तानि घ्राणादीनि गन्धादिग्रहणाय, अतो वाक्प्रतिषेधेन तानि प्रतिषिध्यन्ते । “अपाणिपादो जवनो ग्रहीता, पश्यत्यचक्षुः, स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महांतम् ॥” (श्वेता० ३ । १९) इति मन्त्रवर्णात् । ‘अनादरम्’ असंभ्रमम्- अप्राप्तौ अतिसंभ्रमः स्यादनाप्तकामस्य । नतु नित्यतृप्तस्येश्वरस्य संभ्रमो ऽस्ति । एवं गुणकमात्मानमुपासीतेत्यन्वयः । तस्यैवाणुत्वज्यायस्त्वपरिमाणं दर्शयति- यथा व्रीहिर्वा यवो वेति । व्रीह्याद्युपन्यासो ऽत्यन्तसूक्ष्मत्वप्रदर्शनार्थः, श्यामाकतण्डुलो वा यथा सूक्ष्मः एवं यथोक्तगुणो ऽयम् ‘अन्तरात्मन्’ अन्तर्देहे अयं पुण्डरीकमध्ये ‘हिरण्मयः’ सुवर्णसमानतेजाः पुरुषो ऽणीयानित्यर्थः । “आप्रणश्वान् सर्व एव सुवर्णः” इति श्रुतेः । अणुश्च न सर्व एव सुवर्णसमानकेवलज्योतीरूप इत्याह- यथा ज्योतिरधूममेवमिति । यथा धूमवर्जितं ज्योतिर्दीप्यते- एवं हिरण्मयः पुरुषो हृदयमध्ये दीप्यते । व्रीहियवश्यामाकतण्डुलवदणीयानित्युक्तेः । अणुपरिमाणत्वं प्राप्तमाशङ्क्य तत्प्रतिषेधायारभते- ज्यायानिति । ज्यायः परिमाणाज्ज्यायस्त्वं दर्शयन्ननन्तपरिमाणं दर्शयति- ज्यायान् सर्वेभ्यो भूतेभ्य इति । यथोक्तगुणलक्षण ईश्वरो ध्येयः । अत एव “तत्त्वमस्यात्मैवेदं सर्वमिति” तत्तत्तादात्म्यमात्रप्रतिपादने तात्पर्यम् । एष म आत्मैतमित आत्मानं प्रेत्याभिसंभविष्यामीति लिङ्गात् आत्मशब्देन प्रत्यगात्मैवोच्यते । ‘मे’ इति षष्ठ्यासम्बन्धार्थप्रत्यायकत्वात्- एतमभिसंभविष्यामीति च कर्मकर्तृविरोधात् । अतः उक्तगुणः ‘प्राणस्यात्मा’ प्राणरूपस्य मे मम आत्मा इतो ऽस्माच्छरीरात् प्रेत्य पूतमात्मानं क्रत्वनुरूपफलात्मकमभिसंभविष्यामि संपत्स्य इति- निश्चिता बुद्धिर्यस्यैवं विदितं स्याद्भवेत् ‘अद्धा’ अपरोक्षेण च ‘न विचिकित्सा ऽस्ति’ एतस्मिन् क्रतुफलसम्बन्धे तथैवेश्वरभावं प्रतिपद्यत इत्येवमेतत् ‘आह स्म’ उक्तवान् ‘शाण्डिल्यः’ नाम ऋषिरिति । अत्रेदं चिन्त्यते- किं मनोमयः प्राणशरीर इत्यादि विशेषणैर्जीवो वा ईश्वरो वेति विचारायाचार्यैरधिकरणमवतारितम्- “सर्वत्र प्रसिद्धोपदेशात्” (ब्र. सू. १ । २ । १ । १) इति । तदर्थः श्लोकद्वयेन संगृहीतः “मनोमयो ऽयं शारीर ईशो वा प्राणमानसः । हृदयस्थित्यणीयस्त्वे जीवे स्तस्तेन जीवगीः । समवायगतं ब्रह्म तद्धितादिरपेक्षते । प्राणादियोगश्चित्तार्थः श्चित्तं ब्रह्मप्रसिद्धितः ॥” (वै. न्या. मा. १ । २ । १ ।) इति । तद्धि च्छान्दोग्ये तृतीयाध्याये (खं. ३ । १४ । १ ।) शाण्डिल्यविद्यायामाम्नायते “मनोमयः प्राणशरीरो भारूपः” (छां. उ. ३ । १४ । २) इति । तत्र जीव ईश्वरो वेति सन्देहे जीव इति प्राप्तम्, मनःसम्बन्धादीनां जीवे सुसंपादत्वात् मनसो विकारो मनोमय इति मनःसम्बन्धः, प्राणः शरीरं यस्येति प्राणसम्बन्धः । न चेदं द्वयमीश्वरे सुसंपादं “अप्राणो ह्यमनाः शुभ्रः” (मुंड. उ. २ । १ । २) इति निषेधात् । तथा “एष य आत्मा ऽन्तर्हृदये ऽणीयान्” (छांदो. ३ । १४ । ३) इति निरूप्यमाणं हृदयावस्थानमणीयस्त्वं च निराधारस्य सर्वगतस्य न कथञ्चिदप्युपपद्यते- तस्माज्जीव इति प्राप्ते ब्रूमः- “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपसीत” (छांदो. ३ । १४ । १) इति । एतस्मिन् शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म- तदेव मनोमयः प्राणशरीर इत्येताभ्यां तद्धितबहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते । शमवाक्यस्यायमर्थः-यस्मात्सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात्तल्लत्वात्तदनत्वाच्च 3 इति तस्मात् सर्वात्मके ब्रह्मणि रागद्वेषादिविषयासम्भवात् उपास्तिकाले शान्तो भवेदिति तद्वाक्यगतब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यस्यापि ब्रह्मपरत्वं भविष्यति । न च ब्रह्मणो मनःप्राणसम्बन्धाद्यनुपपत्तिः- निरुपाधिके तदनुपपत्तावपि सोपाधिकस्यैवोपास्यस्य चिन्तनार्थतया तदुपत्तेः । तस्मात्सर्वेष्वपि वेदान्तेषु यद्ब्रह्मोपास्यत्वेन प्रसिद्धं तदेवात्राप्युपास्यम् । न हि क्वचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम् । ततो ब्रह्मेति राद्धान्तः । तत्रापि “मनोमयः प्राणशरीरः” इत्यादिश्रुतेः । यथा “व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकतण्डुलाद्वा” (छां. ३ । १४ । ३) इति श्रुतेः । एष म आत्मेति । अयं जीवो ब्रह्म वेति सन्देहः । “सत्यं ब्रह्मेत्युपासीत” (श. प. १४ । १० । ६ । ३ । १) इति सत्यश्रुतेर्ब्रह्मैवेति सिद्धान्तः । सत्यामेव शाण्डिल्यविद्यामधिकृत्यान्यच्चिंतितम्- “समान एवं चाभेदात्” (ब्र. सू. भा. ३ । ३ । १० । १९) इत्यधिकरणे । तदर्थः श्लोकद्वयेनाचार्यैः संगृहीतः- “शाण्डिल्यविद्याकाण्वानां द्विविधैकविधा ऽथवा । द्विरुक्तेरेकशाखायां द्वे विद्ये इति गम्यते । एका मनोमयेत्यादिप्रत्यभिज्ञानतो भवेत् । विद्याया विधिरेकत्र स्यादन्यत्र गुणो विधिः ॥” (वै. न्या. मा. ३ । ३ । १० । १९) इति । अत्र ह्येवमाग्नायते- “स आत्मनमुपासीत मनोमयं प्राणशरीरम्” इत्यादिकम् । इदानीमुदाहृता बृहदारण्यकोपनिषदि एषैव विद्या पठिता “मनोमयो ऽयं पुरुषो भाः सत्यः” (बृ. उ. ५ । ६ । १) इति । तत्र पौनरुक्त्यभयाद्विद्याभेद इति प्राप्ते ब्रूमः- मनोमयत्वादिकस्य वेद्यरूपस्य प्रत्यभिज्ञानादेकैव विद्या न च पुनरुक्तिः; एकत्र विद्यां विधायापरत्र तदनुवादेन सत्यत्वसर्वेशानत्वादिगुणानां विधातुं शक्यत्वात् । “अग्निहोत्रं जुहोति, दध्ना जुहोति” इत्यादिवत् । तस्मादेकविधैव शाण्डिल्यविद्या ॥ २ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे षष्ठे ऽध्याये तृतीयं ब्राह्मणम् ॥ (१०-६-३) ॥
Eggeling
- Let him meditate on the Self, which is made up of intelligence, and endowed with a body of spirit, with a form of light, and with an etherial nature, which changes its shape at will, is swift as thought, of true resolve, and true purpose, which consists of all sweet odours and tastes, which holds sway over all the regions and pervades this whole universe, which is speechless and indifferent 4;even as a grain of rice, or a grain of barley, or a grain of millet, or the smallest granule of millet, so is this golden 5 Purusha in the heart; even as a smokeless light, it is greater than the sky, greater than the ether, greater than the earth, greater than all existing things;–that self of the spirit (breath) is my self: on passing away from hence I shall obtain that self. Verily, whosoever has this trust 6, for him there is no uncertainty. Thus spake Sāṇḍilya, and so it is 7.
-
400:1 Or, will, purpose,–kratumayaḥ, kratur niścayodhyavasāya evam eva nānyathety avivakshitapratyayaḥ, tadātmakoyaṁ purusho jīvaḥ. For this chapter (the Śāṇḍilyavidyā) see Chāndogyop. III, 14 (‘man is a creature of will,’ Prof. Max Müller). ↩︎
-
स᳘त्यधृतिᳫ A. - ibid. विचिकित्सा᳟स्ती᳘ति A. ↩︎
-
तज्जेति । तस्माज्जायत इति तज्जं । तस्मिँलीयत इति तल्लं । तस्मिन्ननिति चेष्टत इति तदनं । तज्जं च तल्लं च तदनं च तत्- इति तज्जलान् कर्मधारये ऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्यतच्छद्वस्य लोपः । तल्जलानामितिवाच्ये अवयवलोपश्छांदसः । इति हेतो । इति न्यायनिर्णयः ॥ ↩︎
-
400:2 Anādaram asambhramam (without mental affects). Sāy. ↩︎
-
400:3 That is, of the brilliance of gold (suvarṇasamānatejāḥ). Sāy. ↩︎
-
400:4 Or, thought, knowledge (buddhiḥ), as Sāyaṇa supplies. ↩︎
-
400:5 Sāyaṇa takes this along with ‘so spake Sāṇḍilya,’–ity evam etad āha sma uktavān śāṇḍilyo nāmarshir iti. The final ‘iti’ seems to be intended to indicate that Śāṇḍilya’s opinion is adopted by the Brāhmaṇa. ↩︎