०१
विश्वास-प्रस्तुतिः
द्वयं वा᳘ ऽइद᳘मत्ता᳘ चै᳘वा᳘द्यं[[!!]] च॥
त᳘द्य᳘दोभ᳘यᳫँ᳭ समाग᳘च्छत्य᳘त्तै᳘वाख्याय᳘ते᳘ ना᳘द्यम्[[!!]]॥
मूलम् - श्रीधरादि
द्वयं वा᳘ ऽइद᳘मत्ता᳘ चै᳘वा᳘द्यं[[!!]] च॥
त᳘द्य᳘दोभ᳘यᳫँ᳭ समाग᳘च्छत्य᳘त्तै᳘वाख्याय᳘ते᳘ ना᳘द्यम्[[!!]]॥
मूलम् - Weber
द्वयं वा᳘ इद᳘मत्ता᳘ चैॗवाद्यं᳘ च॥
त᳘द्यॗदोभ᳘यᳫं समाग᳘छत्यॗत्तैॗवाख्याय᳘तेॗ नाद्य᳘म्॥
मूलम् - विस्वरम्
पुरुषस्याग्न्यर्कोक्थविधत्वोपासनं ब्राह्मणम् ।
तत्राग्निविधोपासनम् ।
द्वयं वा इदम्- अत्ता चैवाद्यं च । तद् यदोभयं समागच्छति- अत्तैवाख्यायते । नाद्यम् ॥ १ ॥
सायणः
द्वितीये पुरुषस्यैवाग्निविधत्वमर्कविधत्वमुक्थविधत्वमुच्यते- द्वयं वा इदमिति । ‘इदं’ जगत् ‘अत्ता चैवाद्यं च’ इति ‘द्वयं’ द्व्यात्मकं यो ऽत्ता भोक्ता, ‘आद्यं’ भोग्यं तदुभयं यदा ‘समागच्छति’ युक्तमेकीभूतं भवति तदा ‘द्वयम्’ अत्तैवेत्याख्यायते, आद्यमिति नाख्यायते ॥ १ ॥
Eggeling
- Now, indeed, there is this twofold thing, to wit, the eater and that which is eaten 1; and when this pair meets it is called the eater, and not the eaten.
०२
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स वै[[!!]] यः᳘ सो᳘ ऽत्ता ऽग्नि᳘रेव सः[[!!]]॥
(०) त᳘स्मिन्यत्कि᳘ञ्चाभ्याद᳘धत्या᳘हितय ऽए᳘वास्य ता᳘ ऽआ᳘हितयो ह वै ता ऽआ᳘हुतय ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवाः᳘॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स वै[[!!]] यः᳘ सो᳘ ऽत्ता ऽग्नि᳘रेव सः[[!!]]॥
(०) त᳘स्मिन्यत्कि᳘ञ्चाभ्याद᳘धत्या᳘हितय ऽए᳘वास्य ता᳘ ऽआ᳘हितयो ह वै ता ऽआ᳘हुतय ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवाः᳘॥
मूलम् - Weber
स वैॗ यः सोॗऽत्ताग्नि᳘रेव सः᳟॥
त᳘स्मिन्यत्किं᳘ चाभ्याद᳘धत्याहितय एॗवास्य ता᳘ आ᳘हितयो ह वै ता आ᳘हुतय इत्या᳘चक्षते परो᳘ऽक्षम् परो᳘ऽक्षकामा हि᳘ देवाः᳟॥
मूलम् - विस्वरम्
स वै यः सो ऽत्ता- अग्निरेव सः । तस्मिन् यत्किञ्च अभ्यादधाति- आहितय एवास्य ताः । आहितयो ह वै ता आहुतय इत्याचक्षते । परो ऽक्षम् । परो ऽक्षकामा हि देवाः ॥ २ ॥
सायणः
यो ऽत्तेत्युक्तः सो ऽग्निरेव तस्मिन्नत्तृरूपे ऽग्नौ यत्किंञ्च वस्त्वभ्यादधति प्रक्षिपन्ति- अस्याग्नेस्ताः प्रक्षिप्ता आहितय इत्युच्यन्ते आधानादाहितयः । दधातेः- क्तिनि । (पा. सू. ७ । ४ । ४२) हिरादेशः । आहितानामेवाहुतित्वम् ॥ २ ॥
Eggeling
- Now that eater is the same as this Agni (the fire and fire-altar); and whatever they assign to him is his assignments; and these assignments (āhiti) are mystically called oblations (āhuti), for the gods love the mystic.
०३
विश्वास-प्रस्तुतिः
(०) आदित्यो वा᳘ ऽअत्ता॥
त᳘स्य चन्द्र᳘मा ऽएवा᳘हितयश्चन्द्र᳘मस᳘ᳫँ᳘[[!!]] ह्यादित्य᳘ ऽआद᳘धती᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
(०) आदित्यो वा᳘ ऽअत्ता॥
त᳘स्य चन्द्र᳘मा ऽएवा᳘हितयश्चन्द्र᳘मस᳘ᳫँ᳘[[!!]] ह्यादित्य᳘ ऽआद᳘धती᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
आदित्यो वा᳘ अत्ता॥
त᳘स्य चन्द्र᳘मा एवा᳘हितयश्चन्द्र᳘मॗसᳫं ह्यादित्य᳘ आद᳘धती᳘त्यधिदेवत᳘म्॥
मूलम् - विस्वरम्
आदित्यो वा अत्ता । तस्य चन्द्रमा एवाहितयः । चन्द्रमसं ह्यादित्य आदधति । इत्यधिदेवतम् ॥ ३ ॥
सायणः
अत्रोक्तयोः अत्त्राहुत्योरधिदैवमध्यात्मं चार्थमाह-आदित्यो वा अत्तेति । ‘यो ऽयमत्ता ऽग्निः’ ‘सः’ आदित्यः । तस्याहितयः ‘चन्द्रमाः’ । ‘चन्द्रमसं ह्यादित्य आदधति’ इत्यनेन चन्द्रमस आदित्ये आधानादाहितित्वं प्रतिपादितम् ॥ ३ ॥
Eggeling
- And the eater, doubtless, is the sun, and his assignments (offerings) are the moon, for the moon is assigned to the sun 2. Thus much as to the deity.
०४
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा᳘ ऽअत्ता तस्या᳘न्नमेवा᳘हितयो᳘ ऽन्नᳫँ᳭ हि᳘ प्राण᳘ ऽआद᳘धती᳘ति᳘ न्वग्नेः[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा᳘ ऽअत्ता तस्या᳘न्नमेवा᳘हितयो᳘ ऽन्नᳫँ᳭ हि᳘ प्राण᳘ ऽआद᳘धती᳘ति᳘ न्वग्नेः[[!!]]॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
प्राणो वा᳘ अत्ता तस्या᳘न्नमेवा᳘हितयो᳘ऽन्नᳫं हि᳘ प्राण᳘ आद᳘धती᳘ति न्व᳘ग्नेः᳟॥
मूलम् - विस्वरम्
अथाध्यात्मम्- प्राणो वा अत्ता, तस्यान्नमेवाहितयः । अन्नं हि प्राणा आदधति । इति तु अग्नेः ॥ ४ ॥
सायणः
अध्यात्मं प्राण एवात्ता । ‘तस्य’ आद्यम् ‘अन्नमेवाहितयः’ ‘प्राणे’ अन्नस्याधानादाहितित्वं व्यक्तम् । इति न्वग्नेः- इति । इति नु अत्ता आद्यम् एवम् ‘उभयम्’ भागद्वयमग्नेरेव समाख्या । स चात्ता ऽग्निरिति तस्याग्नेस्तत्र च निहितानां वस्तूनामधिदैवाध्यात्मपरत्वेनार्थद्वयव्याख्यानादग्नेर्विधोक्तेति शेषः । अग्निशब्दोपजीवनादग्निविधः पुरुष इत्युक्तं भवतीति तात्पर्यम् ॥ ४ ॥
Eggeling
- Now as to the body. The eater, doubtless, is the breath, and its assignments are food, for the food is consigned to (the channel of) the breath. Thus much as to Agni.
०५
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थार्क᳘स्य॥
(स्या) अग्निर्व्वा᳘ ऽअर्कस्तस्या᳘हुतय ऽएव कमा᳘हुतयो᳘ ह्यग्न᳘ये[[!!]] क᳘म्॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थार्क᳘स्य॥
(स्या) अग्निर्व्वा᳘ ऽअर्कस्तस्या᳘हुतय ऽएव कमा᳘हुतयो᳘ ह्यग्न᳘ये[[!!]] क᳘म्॥
मूलम् - Weber
अ᳘थार्क᳘स्य॥
अग्निर्वा᳘ अर्कस्तस्या᳘हुतय एव कमा᳘हुतयो ह्य᳘ग्न᳘ये क᳘म्॥
मूलम् - विस्वरम्
अर्कविधोपासनम् ।
अथार्कस्य- अग्निर्वा अर्कः । तस्याहुतय एव कम् आहुतयो ह्यग्नये कम् ॥ ५ ॥
सायणः
अर्कशब्दोपजीवनेन पूर्ववदग्न्याहुत्योरर्थद्वयं दर्शयितुं प्रतिजानीते- अथार्कस्येति । विधोच्यते- इति शेषः । अग्निर्हि- ‘अर्कः’ इत्युच्यते, ‘तस्याहुतय एव कम्’- इति ‘कं’ पदेनोच्यते । ‘हि’ यस्मात् ‘अग्नये’ आहुतयः कं सुखहेतवो ऽतो ऽर्कशब्देनाग्न्याहुतिद्वयं विवक्ष्यत इत्यर्थः ॥ ५ ॥
Eggeling
- Now as to the Arka (flame). The Arka, doubtless, is Agni; and his joy are the oblations, for the oblations are a joy 3 to Agni.
०६
विश्वास-प्रस्तुतिः
(मा) आदित्यो वा᳘ ऽअर्कः[[!!]]॥
(स्त᳘) स्त᳘स्य चन्द्र᳘मा ऽएव कं᳘ चन्द्र᳘मा᳘ ह्यादित्या᳘य कमि᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
(मा) आदित्यो वा᳘ ऽअर्कः[[!!]]॥
(स्त᳘) स्त᳘स्य चन्द्र᳘मा ऽएव कं᳘ चन्द्र᳘मा᳘ ह्यादित्या᳘य कमि᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
आदित्यो वा᳘ अर्कः᳟॥
त᳘स्य चन्द्र᳘मा एव कं᳘ चन्द्र᳘मा᳘ ह्यादित्या᳘य कमि᳘त्यधिदेवत᳘म्॥
मूलम् - विस्वरम्
आदित्यो वा अर्कः, । तस्य चन्द्रमा एव कम् । चन्द्रमा ह्यादित्याय कम् । इत्यधिदेवतम् ॥ ६ ॥
सायणः
एतयोरर्कवाच्ययोरग्न्याहुत्योरधिदैवाध्यात्मपरत्वेनार्थमाह- आदित्यो वा अर्क इति । अथाध्यात्ममिति । इति न्वेवार्कस्य इति । पूर्ववद्व्याख्येयम् ॥ ६ ॥ ७ ॥
Eggeling
- And the Arka, doubtless, is the sun; and his joy is the moon, for the moon is a joy to the sun. Thus much as to the deity.
०७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा᳘ ऽअर्कस्तस्या᳘न्नमेव कम᳘न्नᳫँ᳭ हि᳘ प्राणा᳘य कमि᳘ति᳘ न्वे᳘वार्कस्य[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा᳘ ऽअर्कस्तस्या᳘न्नमेव कम᳘न्नᳫँ᳭ हि᳘ प्राणा᳘य कमि᳘ति᳘ न्वे᳘वार्कस्य[[!!]]॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
प्राणो वा᳘ अर्कस्तस्या᳘न्नमेव कम᳘न्नᳫं हि᳘ प्राणा᳘य कमि᳘तिॗ न्वेॗवार्क᳘स्य॥
मूलम् - विस्वरम्
अथाध्यात्मम् । प्राणो वा अर्कः । तस्यान्नमेव कम् । अन्नं हि प्राणाय कम् । इति नु एवार्कस्य ॥ ७ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- Now as to the body. The Arka, doubtless, is the breath, and his joy is food, for food is a joy to (the channel of) the breath. Thus much as to the Arka.
०८
विश्वास-प्रस्तुतिः
(स्या᳘) अ᳘थोक्थ᳘स्य॥
(स्या) अग्निर्व्वा ऽउक्तस्या᳘हुतय ऽएव थमा᳘हुतिभि᳘र्ह्यग्नि᳘रुत्ति᳘ष्ठति[[!!]]॥
मूलम् - श्रीधरादि
(स्या᳘) अ᳘थोक्थ᳘स्य॥
(स्या) अग्निर्व्वा ऽउक्तस्या᳘हुतय ऽएव थमा᳘हुतिभि᳘र्ह्यग्नि᳘रुत्ति᳘ष्ठति[[!!]]॥
मूलम् - Weber
अ᳘थोक्थ᳘स्य॥
अग्निर्वा उक्तस्या᳘हुतय एव थमा᳘हुतिभिर्ह्य᳘ग्नि᳘रुत्ति᳘ष्ठति॥
मूलम् - विस्वरम्
उक्थविधोपासनम् ।
अथोक्थस्य अग्निर्वा, उक् तस्याहुतय एव थम् । आहुतिभिर्ह्यग्निरुत्तिष्ठति ॥ ८ ॥
सायणः
उक्थशब्दोपजीवनेन पूर्ववदग्न्याहुत्योरर्थद्वयं वक्तुं प्रतिजानीते- अथोक्थस्येति । उक्थशब्दवाच्यः ‘अग्निः’ थंशब्दवाच्याः ‘आहुतयः’ । ‘हि’ यस्मात् ‘आहुतिभिः’ अग्निरुत्तिष्ठति- उत्तिष्ठत्यनेनाग्निरिति उक्थशब्दनिष्पत्त्या, अग्न्याहुत्योरुक्थशब्दवाच्यत्वं छान्दसो वर्णो यजनो द्रष्टव्यः ॥ ८ ॥
Eggeling
- Now as to the Uktha (song of praise). The ‘uk,’ doubtless, is Agni, and his ’tham’ is oblations, for by oblations Agni rises (ut-thā, i. e. blazes up).
०९
विश्वास-प्रस्तुतिः
(त्या) आदित्यो वा ऽउक्[[!!]]॥
(क्त᳘) त᳘स्य चन्द्र᳘मा ऽएव थं᳘ चन्द्र᳘मसा᳘ ह्यादित्य᳘ ऽउत्ति᳘ष्ठती᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
(त्या) आदित्यो वा ऽउक्[[!!]]॥
(क्त᳘) त᳘स्य चन्द्र᳘मा ऽएव थं᳘ चन्द्र᳘मसा᳘ ह्यादित्य᳘ ऽउत्ति᳘ष्ठती᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
आदित्यो वा उ᳘क्॥
त᳘स्य चन्द्र᳘मा एव थं᳘ चन्द्र᳘मसाॗ ह्यादित्य᳘ उत्ति᳘ष्ठती᳘त्यधिदेवत᳘म्॥
मूलम् - विस्वरम्
आदित्यो वा उक्, तस्य चन्द्रमा एव थम् । चन्द्रमसा हि आदित्य उत्तिष्ठति । इत्यधिदेवतम् ॥ ९ ॥
सायणः
तयोरुक्थवाच्ययोरग्न्याहुत्योरधिदैवाध्यात्मपरत्वेनार्थमाह- आदित्यो वा उगिति । अथाध्यात्ममिति इति । इति न्वेवोक्थस्येति- पूर्ववत् । एवमग्न्यादिशब्दार्थवचने यदुक्तं तद्दर्शयति- स एषो ऽग्निविध इति । यत्पुरुषः स इति । तस्योक्तरीत्या ऽग्निविधादिसम्पत्तिः । यथोक्तं पुरुषं विदुषः फलमाह- स यो हैतमेवमिति- ‘भ्रातृव्यः’ सपत्नः ‘म्लायति’ नश्यति ॥ ९ ॥ १० ॥
Eggeling
- And the ‘uk,’ doubtless, is the sun, and his ’tham’ is the moon, for by the moon the sun rises. Thus much as to the deity.
१०
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा ऽउक्तस्या᳘न्नमेव थम᳘न्नेन हि᳘ प्राण᳘ ऽउत्ति᳘ष्ठती᳘ति᳘ न्वे᳘वोक्थ᳘स्य स᳘ ऽए᳘षो ऽग्नि᳘विधो ऽर्क᳘विध ऽउक्थ᳘विधो यत्पु᳘रुषः स यो᳘ हैत᳘मेव᳘मग्नि᳘विधमर्क᳘विधमुक्थ᳘विधं पुरुषमुपा᳘स्ते[[!!]] व्विदुषो[[!!]] है᳘वास्यैवं भ्रा᳘तृव्यो म्लायति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा ऽउक्तस्या᳘न्नमेव थम᳘न्नेन हि᳘ प्राण᳘ ऽउत्ति᳘ष्ठती᳘ति᳘ न्वे᳘वोक्थ᳘स्य स᳘ ऽए᳘षो ऽग्नि᳘विधो ऽर्क᳘विध ऽउक्थ᳘विधो यत्पु᳘रुषः स यो᳘ हैत᳘मेव᳘मग्नि᳘विधमर्क᳘विधमुक्थ᳘विधं पुरुषमुपा᳘स्ते[[!!]] व्विदुषो[[!!]] है᳘वास्यैवं भ्रा᳘तृव्यो म्लायति॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
प्राणो वा उक्तस्या᳘न्नमेव थम᳘न्नेन हि᳘ प्राण᳘ उत्ति᳘ष्ठती᳘तिॗ न्वेवोक्थ᳘स्य स᳘ एॗषोऽग्नि᳘विधोऽर्क᳘विध उक्थ᳘विधो यत्पु᳘रुषः स यो᳘ हैत᳘मेव᳘मग्नि᳘विधमर्क᳘विधमुक्थ᳘विधम् पु᳘रुषमुपा᳘स्ते विदु᳘षो हैॗवास्यैवम् भ्रा᳘तृव्यो म्लायति॥
मूलम् - विस्वरम्
अथाध्यात्मम्- प्राणो वा ऽउक्, तस्यान्नमेव थम् । अन्नेन हि प्राण उत्तिष्ठति- इति नु एवोक्थस्य । स एषो ऽग्निविधः, अर्कविधः, उक्थविधः । यत् पुरुषः सः । यो हैतमेवमग्निविधमर्कविधमुक्थविधं पुरुषमुपास्ते । विदुषो हैवास्यैवं भ्रातृव्यो म्लायति ॥ १० ॥
सायणः
[व्याख्यानं नवमे]
Eggeling
- Now as to the body. The ‘uk,’ doubtless, is the breath, and the ’tham’ is food, for by food the breath rises (increases). Thus much as to the Uktha. That Agni-like, Arka-like, Uktha-like one is the same as the Purusha; and, verily, the enemy withers away of whosoever, knowing this, thus serves that Agni-like, Arka-like, Uktha-like Purusha.
११
विश्वास-प्रस्तुतिः
प्राणे᳘न वा᳘ ऽअग्नि᳘र्दीप्यते॥
(ते ऽग्नि᳘) अग्नि᳘ना वायु᳘र्व्वायुना ऽऽदित्य᳘ ऽआदित्ये᳘न[[!!]] चन्द्र᳘माश्चन्द्र᳘मसा न᳘क्षत्राणि न᳘क्षत्रैर्व्विद्यु᳘देता᳘वती वै दी᳘प्तिरस्मिं᳘श्च लो᳘के ऽमु᳘ष्मिंश्च स᳘र्व्वाᳫँ᳭ हैतां दी᳘प्तिं दीप्यते ऽस्मिं᳘श्च लो᳘के ऽमुष्मिंश्च[[!!]] य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
प्राणे᳘न वा᳘ ऽअग्नि᳘र्दीप्यते॥
(ते ऽग्नि᳘) अग्नि᳘ना वायु᳘र्व्वायुना ऽऽदित्य᳘ ऽआदित्ये᳘न[[!!]] चन्द्र᳘माश्चन्द्र᳘मसा न᳘क्षत्राणि न᳘क्षत्रैर्व्विद्यु᳘देता᳘वती वै दी᳘प्तिरस्मिं᳘श्च लो᳘के ऽमु᳘ष्मिंश्च स᳘र्व्वाᳫँ᳭ हैतां दी᳘प्तिं दीप्यते ऽस्मिं᳘श्च लो᳘के ऽमुष्मिंश्च[[!!]] य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
प्राणे᳘न वा᳘ अग्नि᳘र्दीप्यते॥
अग्नि᳘ना वायु᳘र्वायु᳘नादित्य᳘ आदित्ये᳘न चन्द्र᳘माश्चन्द्र᳘मसा न᳘क्षत्राणि न᳘क्षत्रैर्विद्यु᳘देता᳘वती वै दी᳘प्तिरस्मिं᳘श्च लोॗकेऽमु᳘ष्मिंश्च स᳘र्वा हैतां दी᳘प्तिं दीप्यतेऽस्मिं᳘श्च लोॗकेऽमु᳘ष्मिंश्च य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
प्राणेन वा अग्निर्दीप्यते, अग्निना वायुः, वायुना ऽऽदित्यः, आदित्येन चन्द्रमाः, चन्द्रमसा नक्षत्राणि, नक्षत्रैर्विद्युत् । एतावती वै दीप्तिः अस्मिंश्च लोके- अमुष्मिंश्च । सर्वां हैतां दीप्तिं दीप्यते । अस्मिंश्च लोके, अमुष्मिंश्च । य एवं वेद ॥ ११ ॥
सायणः
प्राणाग्न्यादित्यचन्द्रमःप्रसङ्गाज्ज्योतीरूपोपासनं फलं चाह- प्राणेन वा अग्निर्दीप्यत इति । यो ऽयमग्निरत्ता इत्युक्तः स ह प्राणेन दीप्यते प्राणवायोरभावे ऽल्पत्वे ऽग्नेर्दीपनं नास्ति । अग्निना वायुर्दीप्यते वायुना ऽऽदित्यावष्टंभात् मानोर्दीपनम्, आदित्येन चन्द्रमसः प्रकाशो- ज्योतिःशास्त्रे प्रसिद्धः । रात्रौ नक्षत्राणि चन्द्रमसा प्रकाशन्ते । दिवा हि महत्तरेण सूर्यप्रकाशेन तिरोभूतत्वान्न तदा प्रकाशः । नक्षत्रैर्विद्युत्प्रकाश्यते एतावती हि लोकद्वये दीप्तिः । भूलोके हि प्राणाग्निवायवः, इतरेतरस्मिन्निति । यः पुरुषः एतावतीं लोकद्वयगतां दीप्तिं ‘वेद’ जानाति उपास्ते तस्य सर्वतेजोरूपत्वं फलमित्यर्थः ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे षष्ठे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (१० । ६ । २) ॥
Eggeling
- The fire, indeed, is kindled by the breath, the wind by the fire, the sun by the wind, the moon by the sun, the stars by the moon, and the lightning by the stars 4:–so great, indeed, is the kindling both in this and in yonder world; and, verily, whosoever knows this is enkindled to that full extent both in this and in yonder world.
-
398:1 Or, as Sāyaṇa takes it,–this (world) is twofold, the eater and the eaten. ↩︎
-
398:2 The moon here would seem to be considered as serving for food to the sun, as it does to the gods. The commentary is not very explicit on this point,–tascyāhutayaś (!) candramāḥ candramasaṁ hy āditya ādadhatīty anena candramasa āditye ādhānād ādhititvaṁ pratipāditam. ↩︎
-
398:3 ‘Kam’ is used adverbially ‘well,’–they do him good, they please him. ↩︎
-
399:1 Agnir prāṇena dīpyate, prāṇavāyor abhāve alpatve agner dīpanaṁ nāsti; agninā vāyur dīpyate vāyunādityovashṭambhamātreṇa tad dipanam; ādityena candramāḥ prabhāṁśo jyotiḥśāstrasiddhaḥ; rātrau nakshatrāṇi candramasā prakāśante divā hi mahattareṇa sūryaprakāśena tirobhūtatvān na tadā prakāśaḥ; nakshatrair vidyut prakāśyate. Sāy. ↩︎