०१

विश्वास-प्रस्तुतिः

अ᳘थ है᳘ते ऽरुणे[[!!]]॥
(ण ऽ) औ᳘पवेशौ समा᳘जग्मुः सत्य᳘यज्ञः पौ᳘लुषिर्महा᳘शालो जाबालो᳘ बुडिल ऽआ᳘श्वतराश्विरि᳘न्द्रद्युम्नो भाल्लवेयो᳘ जनः शा᳘र्कराक्ष्यस्ते᳘ ह व्वैश्वानरे स᳘मासत ते᳘षाᳫँ᳭ ह व्वैश्वानरे न स᳘मियाय॥

मूलम् - श्रीधरादि

अ᳘थ है᳘ते ऽरुणे[[!!]]॥
(ण ऽ) औ᳘पवेशौ समा᳘जग्मुः सत्य᳘यज्ञः पौ᳘लुषिर्महा᳘शालो जाबालो᳘ बुडिल ऽआ᳘श्वतराश्विरि᳘न्द्रद्युम्नो भाल्लवेयो᳘ जनः शा᳘र्कराक्ष्यस्ते᳘ ह व्वैश्वानरे स᳘मासत ते᳘षाᳫँ᳭ ह व्वैश्वानरे न स᳘मियाय॥

मूलम् - Weber

अ᳘थ हैॗतेऽरुणे᳟॥
औ᳘पवेशौ समा᳘जग्मुः सत्य᳘यज्ञः पौ᳘लुषिर्महा᳘शालो जाबालो᳘ बुडिल आ᳘श्वतराश्विरि᳘न्द्रद्युम्नो भाल्लवेयो᳘ जनः शा᳘र्कराक्ष्यस्ते᳘ ह वैश्वानरे स᳘मासत ते᳘षाᳫं ह वैश्वानरे न स᳘मियाय॥

मूलम् - विस्वरम्

वैश्वानराग्न्युपासनं ब्राह्मणम् ।

अथ हैते ऽरुणे औपवेशौ समाजग्मुः- सत्ययज्ञः पौलुषिः, महाशालो जाबालः, बुडिल आश्वतराश्विः, इन्द्रद्युम्नो भाल्लवेयः, जनः शार्कराक्ष्यः । ते ह वैश्वानरे समासत । तेषां ह वैश्वानरे न समियाय ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

षष्ठाध्याये प्रथमे ब्राह्मणे वैश्वानरविद्या, द्वितीयब्राह्मणे पुरुषस्याग्निविधार्क्कविधोक्थविधित्वनिरूपणम् । तृतीये शाण्डिल्यविद्या, चतुर्थे उषा वा अश्वस्येत्यस्मिन् ब्राह्मणे उषा ऽश्वोपासना, पञ्चमे ऽर्काश्वमेधाग्न्युक्थोपासना विद्या सम्प्रदायप्रवर्त्तकमुनिवंशकथनमिति प्रतिपाद्यसङ्ग्रहः । वैश्वानरविद्यायां- अथ हैते ऽरुण- इत्याख्यायिका सुखावबोधार्था विद्यासम्प्रदायप्रदर्शनार्था च । अथ अनन्तरम् एते वक्ष्यमाणाः सत्ययज्ञादयः पंच ऋषयः । औपवेशौ उपवेशापुत्रे अरुणे- नामतः ‘समाजग्मुः’ वैश्वानरविद्यामध्येतुमरुणसकाशं गतवन्त इत्यर्थः । सत्ययज्ञो नामतः यः ‘पौलुषिः’ पुलुषपुत्रः, महाशालो नामतः यः जाबालपुत्रः, बुडिलो नामतः अश्वतरस्यापत्यमाश्वतराश्विः, ‘इन्द्रद्युम्नः’ नामतः, भाल्लवेरपत्यं भाल्लवेयः । जनो नामतः, शर्क्कराक्षस्यापत्यं ‘शार्कराक्ष्यः’ । एते पञ्चापि ‘वैश्वानरे’ ‘समासत’ वैश्वानरस्वरूपपरिज्ञानाय अरुणसमीपे स्थिताः । अथ सो ऽरुणः । ‘तेषां’ सत्ययज्ञादीनां पञ्चानां वैश्वानरं बोधयितुं ‘न समियाय’ सङ्गतः शक्तो नाभवत् ॥ १ ॥

Eggeling
  1. Now at the house of Aruṇa Aupaveśi 1 these came once together,–Satyayajña Paulushi, Mahāśāla Jābāla, Buḍila Āśvatarāśvi, Indradyumna Bhāllaveya, and Janaśārkarākshya. They took counsel together regarding (Agni) Vaiśvānara, but did not agree as to Vaiśvānara 2.

०२

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र᳘) अ᳘श्वपतिर्व्वा᳘ ऽअयं कै᳘केयः सम्प्रति᳘ व्वैश्वानरं᳘ व्वेद तं᳘ गच्छामे᳘ति ते हा᳘श्वपतिं कै᳘केयमा᳘जग्मुस्ते᳘भ्यो ह पृ᳘थगावसथान्पृ᳘थग᳘पचितीः पृ᳘थक्साहस्रान्त्सो᳘मान्प्रो᳘वाच ते᳘ ह प्रातर᳘संविदाना ऽएव᳘ समि᳘त्पाणयः प्र᳘तिचक्रमिर ऽउ᳘प त्वायामे᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र᳘) अ᳘श्वपतिर्व्वा᳘ ऽअयं कै᳘केयः सम्प्रति᳘ व्वैश्वानरं᳘ व्वेद तं᳘ गच्छामे᳘ति ते हा᳘श्वपतिं कै᳘केयमा᳘जग्मुस्ते᳘भ्यो ह पृ᳘थगावसथान्पृ᳘थग᳘पचितीः पृ᳘थक्साहस्रान्त्सो᳘मान्प्रो᳘वाच ते᳘ ह प्रातर᳘संविदाना ऽएव᳘ समि᳘त्पाणयः प्र᳘तिचक्रमिर ऽउ᳘प त्वायामे᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
अ᳘श्वपतिर्वा᳘ अयं कै᳘केयः सम्प्रति᳘ वैश्वानरं᳘ वेद तं᳘ गछामे᳘ति ते हा᳘श्वपतिं कै᳘केयमा᳘जग्मुस्ते᳘भ्यो ह पृथगावसथान्पृ᳘थग᳘पचितीः पृ᳘थक्साहस्रान्त्सो᳘मान्प्रो᳘वाच ते᳘ ह प्रातर᳘संविदाना एव᳘ समि᳘त्प्राणयः प्र᳘तिचक्रमिर उ᳘प त्वायामे᳘ति॥

मूलम् - विस्वरम्

ते होचुः- अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद । तं गच्छामेति । ते हाश्वपतिं कैकेयमाजग्मुः । तेभ्यो ह पृथगावसथान्, पृथगपचितीः, पृथक्साहस्रान्त्सोमान्प्रोवाच । ते ह प्रातरसंविदाना एव समित्पाणयः प्रतिचक्रमिरे । उप त्वायामेति ॥ २ ॥

सायणः

ते होचुरितीति । तदा अरुणः, इतरे सत्ययज्ञादयः पञ्च परस्परम् ‘ऊचुः’- केकयदेशाधिपतिः ‘अश्वपतिः’ नामतः ‘सम्प्रति’ इदानीं ‘वैश्वानरं’ ‘वेद’ जानाति ‘त’ गच्छामेति विचार्य ‘अश्वपतिं’ समाजग्मुः । स राजा एतेषां महर्षीणां ‘पृथगावसथान्’ गृहान् पृथक् पृथक् ‘अपचितीः’ पूजाश्च कृत्वा एते प्रतिग्रहार्थमागता इति बुद्ध्वा तेषां ‘पृथक्साहस्रान् सोमान् प्रोवाच’ । सहस्रदक्षिणाकेषु सोमयज्ञेषु युष्मान् ऋत्विजो वृत्वा तत्रैकैकस्य ऋषेः सहस्रं ददामीत्यर्थः । एवमश्वपतिनोक्ते मुनयः स्वागमनप्रयोजनमनुक्त्वा परेद्युः शिष्यलक्षणयुता उपसेदुरित्याह- प्रातरसंविदाना इति । ‘असंविदानाः’ सङ्केतमकुर्वाणा राज्ञे स्वाशयमनाविष्कुर्वन्त एव प्रातः समित्पाणयः सन्तः ‘हे राजन् त्वामुपयाम’ उपासीदामेति वदन्तः ‘प्रतिचक्रमिरे’ तंप्रति आजग्मुः इत्यन्वयः । अत्र समित्पाणित्वं शिष्यलक्षणमित्यन्यत्राम्नायते- “समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् (मुण्ड. १ । २ । १२) इति । जातितो हीनं राजानं विद्यार्थिनो विनयेनोपजग्मुः; तथा ऽन्यैर्विद्यार्थिभिर्भवितव्यमिति कथितं भवति ॥ २ ॥

Eggeling
  1. They said, ‘There is that Aśvapati Kaikeya who knows Vaiśvānara thoroughly 3: let us go to him!’ They went to Aśvapati Kaikeya. He ordered for them separate dwellings, separate honours, separate Soma-sacrifices each with a thousand gifts. In the morning, still at variance with one another, they

came again to him, with fuel in their hands 4, saying, ‘We want to become thy pupils.’

०३

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
यन्नु भ᳘गवन्तो ऽनूचाना᳘ ऽअनूचानपुत्राः कि᳘मिदमि᳘ति ते᳘ होचुर्व्वैश्वानर᳘ᳫँ᳘ ह भ᳘गवान्त्सम्प्रति᳘ व्वेद तं᳘ नो ब्रूही᳘ति स᳘ होवाच सम्प्रति ख᳘लु न्वा᳘ ऽअहं᳘ व्वैश्वानरं᳘ व्वेदाभ्या᳘धत्त समि᳘ध ऽउ᳘पेता स्थे᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
यन्नु भ᳘गवन्तो ऽनूचाना᳘ ऽअनूचानपुत्राः कि᳘मिदमि᳘ति ते᳘ होचुर्व्वैश्वानर᳘ᳫँ᳘ ह भ᳘गवान्त्सम्प्रति᳘ व्वेद तं᳘ नो ब्रूही᳘ति स᳘ होवाच सम्प्रति ख᳘लु न्वा᳘ ऽअहं᳘ व्वैश्वानरं᳘ व्वेदाभ्या᳘धत्त समि᳘ध ऽउ᳘पेता स्थे᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
यन्नु भ᳘गवन्तोऽनूचाना᳘ अनूचानपुत्राः कि᳘मिदमि᳘ति ते᳘ होचुर्वैश्वानर᳘ᳫं᳘ ह भ᳘गवान्त्सम्प्रति᳘ वेद तं᳘ नो ब्रूही᳘ति स᳘ होवाच सम्प्रति ख᳘लु न्वा᳘ अहं᳘ वैश्वानरं᳘ वेदाभ्या᳘धत्त समि᳘ध उ᳘पेता स्थे᳘ति॥

मूलम् - विस्वरम्

स होवाच- यन्नु भगवन्तो ऽनूचाना अनूचानपुत्राः ! किमिदमिति । ते होचुः- वैश्वानरं ह भगवान्सम्प्रति वेद, तं नो ब्रूहीति । स होवाच- सम्प्रति खलु न्वा अहं वैश्वानरं वेद । अभ्याधत्त समिधः, उपेताः स्थेति ॥ ३ ॥

सायणः

पूर्वसम्भवं मत्वा इदानीं महर्षीणां समित्पाणित्वेनोपसदनम् राजा पृच्छति- सहोवाच यन्नु भगवन्त इति । यद्यस्माद्यूयं हे भगवन्तो महर्षयः अनूचानाः साङ्गवेदाध्यायिनो ऽनुष्ठातारः ‘अनूचानपुत्राः’ सनत्कुमारपुत्राः भवन्तः सन्तः किमिदमनुचितमित्युवाचेति सम्बन्धः । जातितो हीनो ऽहं यूयं तु महानुभावाः तदेवमुपसदनं किमर्थमित्युक्तवानित्यर्थः । अथ ते नः विद्यार्थित्वेनागमनमिति स्वाभाविकमाविष्कुर्वन्ति- ते होचुर्वैश्वानरमिति । भगवान् वेदार्थसम्पन्नो भवान् ‘संप्रति’ इदानीं ‘वैश्वानरं’ ‘वेद’ जानाति तं वैश्वानरं ‘नः’ अस्मभ्यं ‘ब्रूहि’ उपदिशेति । वैश्वानरपदेन परमेश्वर इति- एतद्ब्राह्मणावसानाधिकरणेन प्रतिपादितव्यमिति ‘सः’ राजा ‘उवाच’ सम्प्रति खलु न्वा अहं वैश्वानरं वेदेति । सम्प्रति इदानीं वैश्वानरं वेद जानामि । खलु न्वै । खलु न्वा इति निपातसमुदाय एकार्थवाची । नु वै इति पदद्वयं । नुशब्दस्य उकारं वैशब्दे परतः याजुषा लुंपंति । वेत्तेर्लोट्युत्तमैकवचने रूपम् । यूयं ‘समिधो अभ्याधत्त’ अग्नौ । ‘उपेताः स्थ’ उपसन्ना भवथेति राजोवाच ॥ ३ ॥

Eggeling
  1. He said, ‘How is this, venerable sirs, when ye are learned in the scriptures, and sons of men learned in the scriptures?’ They replied, ‘Venerable sir, thou knowest Vaiśvānara thoroughly: teach us him!’ He said, ‘I do indeed know Vaiśvānara thoroughly: put your fuel on (the fire), ye are become my pupils 5.’

०४

विश्वास-प्रस्तुतिः

स᳘ होवाचारुणमौ᳘पवेशिम्॥
(ङ्गौ᳘) गौ᳘तम कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘ति पृथिवी᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ प्रतिष्ठा᳘ व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्वं᳘ प्रतिष्ठां᳘ व्वैश्वानरं[[!!]] व्वे᳘त्थ[[!!]] त᳘स्मात्त्वं[[!!]] प्र᳘तिष्ठितः प्रज᳘या पशु᳘भिरसि यो वा᳘ ऽएतं᳘ प्रतिष्ठां᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति पा᳘दौ त्वा᳘ ऽएतौ᳘ व्वैश्वानर᳘स्य पा᳘दौ ते ऽम्लास्यतां य᳘दि ह ना᳘गमिष्य ऽइ᳘ति पा᳘दौ ते᳘ विदितावभविष्यतां य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा᳘॥

मूलम् - श्रीधरादि

स᳘ होवाचारुणमौ᳘पवेशिम्॥
(ङ्गौ᳘) गौ᳘तम कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘ति पृथिवी᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ प्रतिष्ठा᳘ व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्वं᳘ प्रतिष्ठां᳘ व्वैश्वानरं[[!!]] व्वे᳘त्थ[[!!]] त᳘स्मात्त्वं[[!!]] प्र᳘तिष्ठितः प्रज᳘या पशु᳘भिरसि यो वा᳘ ऽएतं᳘ प्रतिष्ठां᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति पा᳘दौ त्वा᳘ ऽएतौ᳘ व्वैश्वानर᳘स्य पा᳘दौ ते ऽम्लास्यतां य᳘दि ह ना᳘गमिष्य ऽइ᳘ति पा᳘दौ ते᳘ विदितावभविष्यतां य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा᳘॥

मूलम् - Weber

स᳘ होवाचारुणमौ᳘पवेशिं॥
गौ᳘तम कं त्वं᳘ वैश्वानरं᳘ वेत्थे᳘ति पृथिवी᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ वैश्वानर᳘ एतᳫं हि वै त्व᳘म् प्रतिष्ठां᳘ वैश्वानरं᳘ वेत्थ᳘ त᳘स्मात्त्व᳘म् प्र᳘तिष्ठितः प्रज᳘या पशु᳘भिरसि यो वा᳘ एत᳘म् प्रतिष्ठां᳘ वैश्वानरं वेदा᳘प पुनर्मृत्यु᳘ह्+ जयति स᳘र्वमा᳘युरेति पा᳘दौ त्वा᳘ एतौ᳘ वैश्वानर᳘स्य पा᳘दौ तेऽम्लास्यतां य᳘दि ह ना᳘गमिष्य इ᳘ति पा᳘दौ ते᳘ऽविदितावभविष्यतां 6 य᳘दि ह ना᳘गमिष्य इ᳘ति वा॥

मूलम् - विस्वरम्

स होवाचारुणमौपवेशिम् ! गौतम । कं त्वं वैश्वानरं वेत्थेति । पृथिवीमेव राजन्निति होवाच । ओमिति होवाच । एष वै प्रतिष्ठा वैश्वानरः । एवं हि वै त्वं प्रतिष्ठां वैश्वानरं वेत्थ । तस्मात्त्वं प्रतिष्ठितः प्रजया, पशुभिरसि । यो वा एतं प्रतिष्ठां वैश्वानरं वेद- अप पुनर्मृत्युं जयति । सर्वमायुरेति । पादौ त्वा एतौ वैश्वानरस्य । पादौ ते अम्लास्यताम् । यदिह नागमिष्य इति । पादौ ते विदितावभविष्यताम्- यदि ह नागमिष्य इति वा ॥ ४ ॥

सायणः

एवमन्येनापि विद्यादानेच्छा ग्राह्या, च श्रद्दधानतयेति शिष्यकार्यं स्वीकार्यं सः कथमुवाचेत्याह- स होवाचारुणमौपवेशिमिति । राजा प्रथममुपवेशपुत्रवरुणम् उवाच गौतमेति अरुणस्य संबुद्धिः । ‘कं त्वं वैश्वानरं वेत्थेति’ स्वाभिमतं वैश्वानरस्वरूपमुपदेष्टुं राज्ञो ऽवगमार्थः प्रश्नः, पृथिवीमेव तं वैश्वानरं वेद्मि ‘राजन्निति’ अरुण उवाच ‘ओम्’ इत्यङ्गीकारः, ‘एषः’ पृथिवीरूपो ‘वैश्वानरः’ ‘प्रतिष्ठा’ यस्मात्त्वं वैश्वानरैकदेशं प्रतिष्ठारूपं वैश्वानरं वेत्थ- तस्मात्त्वं प्रजया, पशुभिः, प्रतिष्ठितो ऽसि एवंरूपं वैश्वानरमुपासीनस्य फलमाह- यो वा एतं प्रतिष्ठामिति । ‘यः’ कश्चिदेतं यथोक्तमेतं वैश्व नरं वेद- सः ‘पुनर्मृत्युं जयति’ ‘सर्वमायुः’ अमृतत्वमेति । एष प्रतिष्ठारूपः वैश्वानरस्यावयवादिभिः परमेश्वरस्य पादावेव न समस्तो वैश्वानरः ‘त्वा’ इति निपातद्वयं । तु वै इति पदद्वयं । तु शब्दस्य उकारं वैशब्दे परतो याजुषा लुम्पंति । अतः समस्तबुद्ध्या वैश्वानरस्य ज्ञानात् पादौ ते तव विपरीतग्राहिणे ‘अम्लास्यताम्’ म्लानौ गमनासमर्थावभविष्यतां यदि मां नागमिष्यः । इत्थं दोषपर्यवसानमुक्तम् । एकदेशज्ञानमेव दोष इत्याह- पादौ ते विदिताविति । वैश्वानरस्य पादमात्रं त्वया विदितं, न तु कृत्स्नो वैश्वानरः अतः साध्वकार्षीर्यन्मामागतो ऽसीत्यभिप्रायः । क्रियातिपत्तौ लृङ्प्रयोगः । वाशब्दो विकल्पार्थः ॥ ४ ॥

Eggeling
  1. He then said to Aruṇa Aupaveśi, ‘O Gautama, as whom knowest thou Vaiśvānara 7?’–‘As Earth only, O king;’ he replied.–‘Yea,’ he said, ’that indeed is Vaiśvānara, the foundation; and because thou knowest the Vaiśvānara Foundation (pratishṭḥā) therefore thou art firmly established (pratishṭḥita) with offspring and cattle; and, verily, he who knows that Vaiśvānara Foundation, repels Death and attains all life. But, in truth, these are only the feet 8 of Vaiśvānara, and thy feet would have withered away, hadst thou not come hither; or the feet would be unknown to thee, hadst thou not come hither 9.’

०५

विश्वास-प्रस्तुतिः

(वा᳘ ऽथ) अ᳘थ होवाच सत्य᳘यज्ञं पौ᳘लुषिम्॥
(म्प्रा᳘) प्रा᳘चीनयोग्य कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थेत्यप᳘ ऽएव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ रयि᳘र्व्वैश्वानर ऽएतᳫँ᳭[[!!]] हि वै त्वँ᳘ रयिं᳘ व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्वं᳘ᳫँ᳘ रयिमान्पु᳘ष्टिमानसि यो वा᳘ ऽएत᳘ᳫँ᳘ रयिं᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति बस्तिस्त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्य बस्ति᳘स्त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति बस्तिस्ते᳘ विदितो ऽभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा᳘॥

मूलम् - श्रीधरादि

(वा᳘ ऽथ) अ᳘थ होवाच सत्य᳘यज्ञं पौ᳘लुषिम्॥
(म्प्रा᳘) प्रा᳘चीनयोग्य कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थेत्यप᳘ ऽएव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ रयि᳘र्व्वैश्वानर ऽएतᳫँ᳭[[!!]] हि वै त्वँ᳘ रयिं᳘ व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्वं᳘ᳫँ᳘ रयिमान्पु᳘ष्टिमानसि यो वा᳘ ऽएत᳘ᳫँ᳘ रयिं᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति बस्तिस्त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्य बस्ति᳘स्त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति बस्तिस्ते᳘ विदितो ऽभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा᳘॥

मूलम् - Weber

अ᳘थ होवाच सत्य᳘यज्ञम् पौ᳘लुषिम्॥
प्रा᳘चीनयोग्य कं त्वं᳘ वैश्वानरं᳘ वेत्थे᳘त्यप᳘ एव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ रयि᳘र्वैश्वानर᳘ एतᳫं हि वै त्वं᳘ रयिं᳘ वैश्वानरं वे᳘त्थ त᳘स्मात्त्वं᳘ रयिमान्पु᳘ष्टिमानसि यो वा᳘ एतं᳘ रयिं᳘ वैश्वानरं वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति वस्तिस्त्वा᳘ एष᳘ वैश्वानर᳘स्य वस्ति᳘स्त्वाहास्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति वस्तिस्ते᳘ऽविदितोऽभविष्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति वा॥

मूलम् - विस्वरम्

अथ होवाच सत्ययज्ञं पौलुषिम् । प्राचीनयोग्य ! कं त्वं वैश्वानरं वेत्थेति । अप एव राजन्निति होवाच । ओमिति होवाच । एष वै रयिर्वैश्वानरः । एतं हि वै त्वं रयिं वैश्वानरं वेत्थ । रयिमान्पुष्टिमानसि यो वा एतं रयिं वैश्वानरं वेद- अप पुनर्मृत्युं जयति सर्वमायुरेति । बस्तिस्त्वा एष वैश्वानरस्य । बस्तिस्त्वा ऽहास्यद् यदि ह नागमिष्य इति । बस्तिस्ते विदितो ऽभविष्यद् यदि ह नागमिष्य इति वा ॥ ५ ॥

सायणः

एवमुत्तरे पञ्च पर्यायाः सामान्येन व्याख्येयाः । विशेषस्तु कथ्यते- प्राचीनयोग्येति- सत्ययज्ञस्य संबोधनम्, आपः ‘एव’ अब्रूपं वैश्वानरं जानामि ‘राजन्निति’ सत्ययज्ञस्योत्तरम् । एष वै रविर्वैश्वानर इति । एष अवात्मको वैश्वानरः, ‘रयिः’ धनरूपः यस्माद्धनरूपं वेत्थ तस्माद्धनवान् ‘पुष्टिमानसि’ । बस्तिस्त्वा एष वैश्वानरस्येति । एष रयिरूपो ऽवात्मको वैश्वानरः वैश्वानरस्थावयविन ईश्वरस्य बस्तिर्मूत्राशय एव न समस्तमित्यर्थः । बस्तिस्त्वा एष इत्यत्र ‘त्वा’ इति निपातद्वयम् । बस्तिस्त्वा हास्यद्यदीति । युष्मच्छब्दद्वितीयैकवचनादेशस्त्वाशब्दः त्वां भवन्तमेकदेशोपासकं सत्ययज्ञं बस्तिरहस्यं त्यक्तमभविष्यत् “ओहाक् त्यागे”- (धा. पा. जु. प. ८) ॥ ५ ॥

Eggeling
  1. He then said to Satyayajña Paulushi, ‘O Prācīnayogya, as whom knowest thou Vaiśvānara?’

–‘As Water only, O king;’ he replied.–‘Yea,’ he said, ’that indeed is the Vaiśvānara Wealth; and because thou knowest that Vaiśvānara Wealth, therefore thou art wealthy and prosperous; and, verily, he who knows that Vaiśvānara Wealth, repels death and attains all life. But, in truth, this is only the bladder of Vaiśvānara, and thy bladder would have failed thee, hadst thou not come hither; or the bladder would be unknown to thee, hadst thou not come hither.’

०६

विश्वास-प्रस्तुतिः

(वा᳘ ऽथ) अ᳘थ होवाच महा᳘शालं जाबालम्[[!!]]॥
(मौ᳘) औ᳘पमग्नन्यव कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘त्याकाश᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ बहुलो᳘ व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्वं᳘ बहुलं᳘ व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्वं᳘ बहुः᳘ प्रज᳘या पशु᳘भिरसि यो वा᳘ ऽएतं᳘ बहुलं᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेत्यात्मा त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्यात्मा᳘ त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘त्यात्मा ते᳘ विदितो ऽभविष्यद्यदि[[!!]] ह ना᳘गमिष्य ऽइ᳘ति वा᳘॥

मूलम् - श्रीधरादि

(वा᳘ ऽथ) अ᳘थ होवाच महा᳘शालं जाबालम्[[!!]]॥
(मौ᳘) औ᳘पमग्नन्यव कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘त्याकाश᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ बहुलो᳘ व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्वं᳘ बहुलं᳘ व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्वं᳘ बहुः᳘ प्रज᳘या पशु᳘भिरसि यो वा᳘ ऽएतं᳘ बहुलं᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेत्यात्मा त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्यात्मा᳘ त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘त्यात्मा ते᳘ विदितो ऽभविष्यद्यदि[[!!]] ह ना᳘गमिष्य ऽइ᳘ति वा᳘॥

मूलम् - Weber

अ᳘थ होवाच महा᳘शालं जाबाल᳘म्॥
औ᳘पमन्यव कं त्वं᳘ वैश्वानरं᳘ वेत्थे᳘त्याकाश᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ बहुलो᳘ वैश्वानर᳘ एतᳫं हि वै त्व᳘म् बहुलं᳘ वैश्वानरं वे᳘त्थ त᳘स्मात्त्व᳘म् बहुः᳘ प्रज᳘या पशु᳘भिरसि यो वा᳘ एत᳘म् बहुलं᳘ वैश्वानरं वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेत्यात्मा त्वा᳘ एष᳘ वैश्वानर᳘स्यात्मा᳘ त्वाहास्यद्य᳘दि ह ना᳘गमिष्य इ᳘त्यात्मा ते᳘ऽविदितोऽभविष्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति वा॥

मूलम् - विस्वरम्

अथ होवाच महाशालं जाबालम् । औपमन्यव ! कं त्वं वैश्वानरं वेत्थेति । आकाशमेव राजन्निति होवाच । एष वैश्वानरः । एतं हि वै त्वं बहुलं वैश्वानरं वेत्थ । तस्मात्त्वं बहुः प्रजया पशुभिरसि । यो वा एतं बहुलं वैश्वानरं वेद । अप पुर्नमृत्युं जयति सर्वमायुरेति । आत्मा त्वा एष वैश्वानरस्य आत्मा त्वा ऽहास्यद् यदि ह नागमिष्य इति । आत्मा ते विदितो ऽभविष्यद् यदि ह नागमिष्य इति वा ॥ ६ ॥

सायणः

‘औपमन्यव’ इति महाशालस्य सम्बोधनम् । आकाशात्मकं वैश्वानरं वेत्थ । ‘राजन्निति’- महाशालवचनम् । एष वै बहुलो वैश्वानर इति । बहुत्वमाकाशस्य सर्वगतत्वात् । बहुगुणोपासनाभ्यः ‘त्वं’ प्रजयापशुभिर्बहुर्भवसि । आत्मा त्वा एष इति । ‘एषः’ आकाशो वैश्वानरस्यात्मा मध्यशरीरं न कृत्स्नः । ‘त्वा एषः’ इत्यत्र तु वै इति निपातद्वयम् । आत्मा त्वा ऽहास्यद्यदीति युष्मदेकवचनादेशः । एवमुत्तरत्र ॥ ६ ॥

Eggeling
  1. He then said to Mahāśāla Jābāla, ‘O Aupamanyava, as whom knowest thou Vaiśvānara?’–As Ether only, O king,’ he replied.–‘Yea,’ he said, ’that, indeed, is the Vaiśvānara Plenteous; and because thou knowest Vaiśvānara Plenteous, therefore thou art plentiful in offspring and cattle; and, verily, he who knows that Vaiśvānara Plenteous, repels death and attains all life. But, in truth, this is only the trunk of Vaiśvānara, and thy trunk would have failed thee, hadst thou not come hither; or the body would be unknown to thee, hadst thou not come hither.’

०७

विश्वास-प्रस्तुतिः

(वा᳘ ऽथ) अ᳘थ होवाच बुडिलमा᳘श्वतराश्विम्॥
(म्वै᳘) व्वै᳘याघ्रपद्य[[!!]] कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘ति व्वायु᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै पृ᳘थग्वर्त्मा व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्वं पृ᳘थग्वर्त्मानं व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्वां पृ᳘थग्रथश्रेणयो᳘ ऽनुयान्ति यो वा᳘ ऽएतं पृ᳘थग्वर्त्मानं व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति प्राणस्त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्य प्राण᳘स्त्वा ऽहास्यद्यदि[[!!]] ह ना᳘गमिष्य इ᳘ति प्राणस्ते᳘ विदितो ऽभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा॥

मूलम् - श्रीधरादि

(वा᳘ ऽथ) अ᳘थ होवाच बुडिलमा᳘श्वतराश्विम्॥
(म्वै᳘) व्वै᳘याघ्रपद्य[[!!]] कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘ति व्वायु᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै पृ᳘थग्वर्त्मा व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्वं पृ᳘थग्वर्त्मानं व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्वां पृ᳘थग्रथश्रेणयो᳘ ऽनुयान्ति यो वा᳘ ऽएतं पृ᳘थग्वर्त्मानं व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति प्राणस्त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्य प्राण᳘स्त्वा ऽहास्यद्यदि[[!!]] ह ना᳘गमिष्य इ᳘ति प्राणस्ते᳘ विदितो ऽभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा॥

मूलम् - Weber

अ᳘थ होवाच बुडिलमा᳘श्वतराश्विम्॥
वै᳘याघ्र᳘पद्य कं त्वं᳘ वैश्वानरं᳘ वेत्थे᳘ति वायु᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै पृ᳘थग्वर्त्मा वैश्वानर᳘ एतᳫं हि वै त्वम् पृ᳘थग्वर्त्मानं वैश्वानरं वे᳘त्थ त᳘स्मात्त्वाम् पृ᳘थग्रथश्रेणयो᳘ऽनुयान्ति यो वा᳘ एतम् पृ᳘थग्वर्त्मानं वैश्वानरं वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति प्राणस्त्वा᳘ एष᳘ वैश्वानर᳘स्य प्राण᳘स्त्वाहास्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति प्राणस्ते᳘ऽविदितोऽभविष्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति वा॥

मूलम् - विस्वरम्

अथ होवाच बुडिलमाश्वतराश्विम् । वैयाघ्रपद्य ! कं त्वं वैश्वानरं वेत्थेति । वायुमेव राजन्निति होवाच ओमिति होवाच । एष वै पृथग्वर्त्मा वैश्वानरः एते हि वै त्वं पृथग्वर्त्मानं वैश्वानरं वेत्थ । तस्मात्त्वं पृथग्रथश्रेणयो ऽनुयान्ति । यो वा एतं पृथग्वर्त्मानं वैश्वानरं वेद । अप पुनर्मृत्युं जयति । सर्वमायुरेति । प्राणस्त्वा एष वैश्वानरस्य प्राणस्त्वा ऽहास्यद् यदि ह नागमिष्य इति । प्राणस्ते विदितो ऽभविष्यद् यदि ह नागमिष्य इति वा ॥ ७ ॥

सायणः

वैयाघ्रपद्येति बुडिलसंबुद्धिः । व्याघ्रपदो गोत्रमित्यर्थे- “गर्गादिम्यो यञ्"- (पा. सू. ४ । १ । १०५) इति । गर्गादित्वाद्यञ्। “नय्वाभ्या०"- (पा. सू. ७ । ३ । ३) इत्यैजागमः । भ संज्ञायाम् “पद्दन्नोमास्”- (पा. ६ । १ । ६३ ।) इति पादस्य पद्भावः । वायुरूपं वैश्वानरं वेद्मीति बुडिलस्योत्तरम् । एष वै पृथग्वर्त्मा वैश्वानर इति । नाना वर्त्म मार्गो यस्य वायोः आवहोद्वहादिभेदेन वर्त्तमानस्य सो ऽयं पृथग्वर्त्मा तदात्मनो वैश्वानरस्य ज्ञानात् पृथङ्नानाविधाः ‘रथश्रेणयः’ रथपङ्क्तयः ‘त्वाम्’ ‘अनुयान्ति’ अनुगच्छन्ति । प्राणस्त्वा एष इति । पृथग्वर्त्मा आत्मा इति ‘वैश्वानरस्य’ प्राणवायुरेव न समस्तो वैश्वानरः ‘प्राणस्त्वा ऽहास्यत्’ उदक्रमिष्यत् ॥ ७ ॥

Eggeling
  1. He then said to Budila Āśvatarāśvi, ‘O Vaiyāghrapadya, as whom knowest thou Vaiśvānara?’–‘As Air (wind) only, O king;’ he replied.–‘Yea,’ he

said, ’that indeed is the Vaiśvānara of divers courses; and because thou knowest that Vaiśvānara of divers courses, therefore divers rows of cars follow thee; and, verily, he who knows that Vaiśvānara of divers courses, repels death, and attains all life. But, in truth, this is only the breath of Vaiśvānara, and thy breath would have failed thee, hadst thou not come hither; or the breath would be unknown to thee, hadst thou not come hither.’

०८

विश्वास-प्रस्तुतिः

(वा᳘ ऽथ) अ᳘थ होवाचे᳘न्द्रद्युम्नम् भाल्लवेय᳘म्॥
(म्वै᳘) व्वै᳘याघ्रपद्य कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘त्यादित्य᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ सुत᳘तेजा व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्व᳘ᳫँ᳘ सुत᳘तेजसं व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त᳘वैष᳘ सुतो ऽद्य᳘मानः[[!!]] पच्य᳘मानो᳘ ऽक्षीयमाणो गृहे᳘षु तिष्ठति यो वा᳘ ऽएता᳘ᳫँ᳘ सुत᳘तेजसं व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति चक्षुस्त्वा᳘ ऽएत᳘द्वैश्वानर᳘स्य च᳘क्षुस्त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति च᳘क्षुस्ते᳘ विदितमभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा॥

मूलम् - श्रीधरादि

(वा᳘ ऽथ) अ᳘थ होवाचे᳘न्द्रद्युम्नम् भाल्लवेय᳘म्॥
(म्वै᳘) व्वै᳘याघ्रपद्य कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘त्यादित्य᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ सुत᳘तेजा व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्व᳘ᳫँ᳘ सुत᳘तेजसं व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त᳘वैष᳘ सुतो ऽद्य᳘मानः[[!!]] पच्य᳘मानो᳘ ऽक्षीयमाणो गृहे᳘षु तिष्ठति यो वा᳘ ऽएता᳘ᳫँ᳘ सुत᳘तेजसं व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति चक्षुस्त्वा᳘ ऽएत᳘द्वैश्वानर᳘स्य च᳘क्षुस्त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति च᳘क्षुस्ते᳘ विदितमभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा॥

मूलम् - Weber

अ᳘थ होवाचे᳘न्द्रद्युम्नम् भाल्लवेय᳘म्॥
वै᳘याघ्रपद्य कं त्वं᳘ वैश्वानरं᳘ वेत्थे᳘त्यादित्य᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वै᳘ सुत᳘तेजा वैश्वानर᳘ एतᳫं हि वै त्व᳘ᳫं᳘ सुत᳘तेजसं वैश्वानरं वे᳘त्थ त᳘स्मात्त᳘वैष᳘ सुॗतोऽद्य᳘मानः पच्य᳘मानो᳘ऽक्षीयमाणो गृहे᳘षु तिष्ठति यो वा᳘ एत᳘ᳫं᳘ सुत᳘तेजसं वैश्वानरं वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति चक्षुस्त्वा᳘ 10 एत᳘द्वैश्वानर᳘स्य च᳘क्षुस्त्वाहास्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति च᳘क्षुस्ते᳘ऽविदितमभविष्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति वा॥

मूलम् - विस्वरम्

अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् । वैयाघ्रपद्य ! कं त्वं वैश्वानरं वेत्थेति । आदित्यमेव राजन्निति होवाच । ओमिति होवाच । एष वै सुततेजा वैश्वानरः । एतं हि वै त्वं सुततेजसं वैश्वानरं वेत्थ । तस्मात्तवैष सुतो ऽद्यमानः पच्यमानो ऽक्षीयमाणो गृहेषु तिष्ठति । यो वा एतं सुततेजसं वैश्वानरं वेदाप पुनर्मृत्युं जयति । सर्वमायुरेति । चक्षुस्त्वा एतद्वैश्वानरस्य चक्षुस्त्वा ऽहास्यद् यदि नागमिष्य इति । चक्षुस्ते विदितमभविष्यद् यदि ह नागमिष्य इति वा ॥ ८ ॥

सायणः

‘वैयाघ्रपद्य’ इति, इन्द्रद्युम्नसम्बुद्धिः । आदित्यमेव वैश्वानरं वेद्मीति इन्द्रद्युम्नोत्तरम् । एष वै सुततेजा इति, सुतमभिषुतं सोमरूपं तेजो यस्य सो ऽयं तदात्मनो वैश्वानरस्य परिज्ञानात्तव गृहेषु सुतो ऽभिषुतः सोमरसः ‘अद्यमानः’ एतद्रूपलक्षणं पुरोडाशादि ‘पच्यमानः’ ‘अक्षीयमाणः’ सर्वदा विनाशरहितस्तिष्ठति । चक्षुस्त्वा एतत् इति । एष सुततेजोरूपादित्यात्मको वैश्वानरः अवयविनो वैश्वानरस्य परमेश्वरस्य चक्षुरेव न समस्तः । तस्मादेकदेशोपासकत्वाच्चक्षुस्त्यक्तमभविष्यद्यदि नागमिष्यश्चक्षुर्मात्रमेव विदितं ज्ञातम् । यदि ‘नागमिष्यः’ इति समानम् ॥ ८ ॥

Eggeling
  1. He then said to Indradyumna Bhāllaveya, ‘O Vaiyāghrapadya, as whom knowest thou Vaiśvānara?’–‘As Sun only, O king,’ he replied.–‘Yea,’ he said, ’that indeed is the Vaiśvānara of Soma’s splendour 11; and because thou knowest the Vaiśvānara of Soma’s splendour, therefore that Soma-juice never fails to be consumed and cooked 12 in thy house; and, verily, he who knows that Vaiśvānara of Soma’s splendour, repels death, and attains all life. But, indeed, this is only the eye of Vaiśvānara, and thine eye would have failed thee, hadst thou not come hither; or the eye would be unknown to thee, hadst thou not come hither.’

०९

विश्वास-प्रस्तुतिः

(वा᳘ ऽथ) अ᳘थ होवाच जनᳫँ᳭ शा᳘र्कराक्ष्यम्॥
(ᳫँ᳭) सा᳘यवस कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘ति दिव᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवा᳘चैष वा᳘ ऽअतिष्ठा᳘ व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्व᳘मतिष्ठां᳘ व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्व᳘ᳫँ᳘ समानान᳘तितिष्ठसि यो वा᳘ ऽएत᳘मतिष्ठां᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘[[!!]] जयति स᳘र्व्वमा᳘युरेति मूर्द्धा त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्य मूर्द्धा᳘ त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति मूर्द्धा ते᳘ विदितो ऽभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा॥

मूलम् - श्रीधरादि

(वा᳘ ऽथ) अ᳘थ होवाच जनᳫँ᳭ शा᳘र्कराक्ष्यम्॥
(ᳫँ᳭) सा᳘यवस कं त्वं᳘ व्वैश्वानरं᳘ व्वेत्थे᳘ति दिव᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवा᳘चैष वा᳘ ऽअतिष्ठा᳘ व्वैश्वानर᳘ ऽएतᳫँ᳭ हि वै त्व᳘मतिष्ठां᳘ व्वैश्वानरं व्वे᳘त्थ त᳘स्मात्त्व᳘ᳫँ᳘ समानान᳘तितिष्ठसि यो वा᳘ ऽएत᳘मतिष्ठां᳘ व्वैश्वानरं व्वेदा᳘प पुनर्मृत्युं᳘[[!!]] जयति स᳘र्व्वमा᳘युरेति मूर्द्धा त्वा᳘ ऽएष᳘ व्वैश्वानर᳘स्य मूर्द्धा᳘ त्वा ऽहास्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति मूर्द्धा ते᳘ विदितो ऽभविष्यद्य᳘दि ह ना᳘गमिष्य ऽइ᳘ति वा॥

मूलम् - Weber

अ᳘थ होवाच जनं शा᳘र्कराक्ष्यम्॥
सा᳘यवस कं त्वं᳘ वैश्वानरं᳘ वेत्थे᳘ति दिव᳘मेव᳘ राजन्नि᳘ति होवाचोमि᳘ति होवाचैष वा᳘ अतिष्ठा᳘ वैश्वानर᳘ एतᳫं हि वै त्व᳘मतिष्ठां᳘ वैश्वानरं वे᳘त्थ त᳘स्मात्त्व᳘ᳫं᳘ समानान᳘तितिष्ठसि यो वा᳘ एत᳘मतिष्ठां᳘ वैश्वानरं वेदा᳘प पु᳘नर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति मूर्धा त्वा᳘ एष᳘ वैश्वानर᳘स्य मूर्धा᳘ त्वाहास्यद्य᳘दि ह ना᳘गमिष्य इ᳘ति मूर्धा ते᳘ऽविदितोऽभविष्यद्य᳘दि 13 ह ना᳘गमिष्य इ᳘ति वा॥

मूलम् - विस्वरम्

अथ होवाच जनं शार्कराक्ष्यम् । सायवस ! कं त्वं वैश्वानरं वेत्थेति । दिवमेव राजन्निति होवाच । ओमिति होवाच । एष वा अतिष्ठा वैश्वानरः । एतं हि वै त्वमतिष्ठां वैश्वानरं वेत्थ । तस्मात्त्वं समानानतितिष्ठसि । यो वा एतमतिष्ठां वैश्वानरं वेदाप पुनर्मृत्युं जयति । सर्वमायुरेति । मूर्द्धा त्वा एष वैश्वानरस्य मूर्द्धा त्वा ऽहास्यद् यदि ह नागमिष्य इति । मूर्द्धा ते विदितो ऽभविष्यद् यदि ह नागमिष्य इति वा ॥ ९ ॥

सायणः

‘सायवस’ इति जनसंबुद्धिः । शर्कराक्ष्य इति ऋषिस्तस्य गोत्रम् । दिवमेव द्युलोकात्मकमेव वैश्वानरं वेद्मीति जनस्योत्तरम् । एष वा अतिष्ठा इति । अतीत्य सर्वमतिक्रम्य तिष्ठतीत्यतिष्ठाः, अतिष्ठागुणको वैश्वानर इत्यर्थः । यस्मात् ‘त्वमतिष्ठाः’- गुणपरिज्ञानात्तस्मात् ‘समानान्’ अज्ञान् ‘अतितिष्ठसि’ अतिक्रम्य वर्तसे । मूर्द्धा त्वा एष इति । एष अतिष्ठागुणको द्युलोकः तु वै वैश्वानरः, अवयविनो वैश्वानरस्य परमेश्वरस्य मूर्द्धैव न समस्तः, अतः समस्तमूर्द्धवैश्वानरस्यापरिज्ञानान्मूर्द्धविपरीतग्राहिणं मूर्द्धा ‘अहास्यत्’ त्यक्तो ऽभविष्यत् । यदि माम् ‘नागमिष्यः’ अथवा ते तव मूर्द्धैव विदितो ज्ञातो ऽभविष्यत् यदि मां नागतो ऽभविष्यः- साध्वकार्षीर्यन्मागतो ऽसीत्यभिप्रायः ॥ ९ ॥

Eggeling
  1. He then said to Jana Śarkarākshya, ‘O Sāyavasa, as whom knowest thou Vaiśvānara?’–‘As Heaven only, O king,’ he replied.–‘Yea,’ he said, ’that indeed is Vaiśvānara Pre-eminence; and because thou knowest the Vaiśvānara Pre-eminence, therefore thou art pre-eminent among thine equals; and, verily, he who knows that Vaiśvānara Preeminence

repels death, and attains all life. But, indeed, this is only the head of Vaiśvānara, and thy head would have failed thee, hadst thou not come hither; or the head would have been unknown to thee, hadst thou not come hither.’

१०

विश्वास-प्रस्तुतिः

ता᳘न्होवाच॥
(चै) एते वै᳘ यूयं पृ᳘थग्वैश्वानरा᳘न्विद्वा᳘ᳫँ᳘सः पृ᳘थग᳘न्नमघस्त प्रादेशमात्र᳘मिव ह वै᳘ देवाः सु᳘विदिता ऽअभिस᳘म्पन्नास्त᳘था तु᳘ व ऽएनान्वक्ष्या᳘मि य᳘था प्रादेशमात्र᳘मे᳘वाभिसम्पादयिष्यामी᳘ति॥

मूलम् - श्रीधरादि

ता᳘न्होवाच॥
(चै) एते वै᳘ यूयं पृ᳘थग्वैश्वानरा᳘न्विद्वा᳘ᳫँ᳘सः पृ᳘थग᳘न्नमघस्त प्रादेशमात्र᳘मिव ह वै᳘ देवाः सु᳘विदिता ऽअभिस᳘म्पन्नास्त᳘था तु᳘ व ऽएनान्वक्ष्या᳘मि य᳘था प्रादेशमात्र᳘मे᳘वाभिसम्पादयिष्यामी᳘ति॥

मूलम् - Weber

ता᳘न्होवाच॥
एते वै᳘ यूयम् पृ᳘थग्वैश्वानरा᳘न्विद्वा᳘ᳫं᳘सः पृ᳘थग᳘न्नमघस्त प्रादेशमात्र᳘मिव ह वै᳘ देवाः सु᳘विदिता अभिस᳘म्पन्नास्त᳘था तु᳘ व एनान्वक्ष्यामि य᳘था प्रादेशमात्र᳘मेॗवाभिसम्पादयिष्यामी᳘ति॥

मूलम् - विस्वरम्

तान्होवाच- एते वै यूयं पृथग्वैश्वानरान् विद्वांसः पृथगन्नमघस्त । प्रादेशमात्रमिव ह वै देवाः सुविदिताः अभिसम्पन्नाः । तथा तु व एनान्वक्ष्यामि- यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति ॥ १० ॥

सायणः

एवमरुणसत्ययज्ञादीनामृषीणां वैश्वानरस्य तदेकदेशमात्रपरिज्ञानं न युक्तम्; पादादिमूर्द्धान्तावयवसंपूर्णं वैश्वानरं पुरुषमुपदिष्टवानित्याह- तान्होवाच एते वै यूयम्, इत्यादिब्राह्मणशेषेण । तानुक्तवैश्वानरदर्शनवत उवाच । एते यूयं पृथक् पृथगेकदेशरूपान् वैश्वानरान् विद्वांसः पृथगन्नं भुक्तवन्तः स्थ, अत उक्तावयवसंपूर्णं कृत्स्नं वैश्वानरं जानीतेति तात्पर्यम् । यच्चैवं यथोक्तावयवैः पृथिवीपादादिभिः द्युमूर्द्धान्तावयवैर्विशिष्टमेकं वस्तु तत्प्रादेशमात्रं प्रादेशप्रमाणमिव देवाः सुविदिताः सम्यक् ज्ञानवन्तो ऽभिसम्पन्नाः प्राप्तफला बभूवुरित्यर्थः । यथा एतदेकं पादादिविशिष्टं वस्तु प्रादेशमात्रमेवाभिसम्पादयिष्यामि, तथा तुशब्द एवकारार्थे । तथैव तद्वदेव वः युष्मभ्यमेनान् वैश्वानरावयवान् ‘वक्ष्यामि’ । अत्र मूर्द्धादिचुबुकान्तप्रतिष्ठः (कं० १-११) इति प्रादेशैर्द्युमूर्द्धादिभिः पृथिवीपादान्तैरवयवैरध्यात्मं मीयत इति प्रादेशमात्रः परिकल्पनम् । आचार्यैस्तु (ब्र. सू. शा. भा. १ । २ । ७ । २४) इत्यत्र शाखांतरानुसारेण प्रादेशमात्रस्य बहुधा प्रवचनं कृतम् । प्रादेशैर्द्युमूर्द्धादिभिः पृथिवीपादान्तैरध्यात्मं मीयत इति प्रादेशमात्रः, मुखादिषु करणदेशेषु कर्तृत्वेन मीयत इति प्रदेशमात्रः, द्युलोकादिपृथिव्यन्तः, प्रदेशपरिमाणो वा प्रादेशमात्रः । प्रकर्षेण शास्त्रेणादिश्यन्त इति, प्रदेशाः द्युलोकादय एव, तावत्परिमाणो वा प्रादेशमात्रः, मूर्द्धादिचुबुकान्तप्रतिष्ठ इति वा प्रादेशमात्रः इति ॥ १० ॥

Eggeling
  1. He said to them, ‘Ye then, knowing different Vaiśvānaras, have been feeding on different kinds of food; but verily, the well-beknown gods have attained, as it were, the measure of a span 14; but I will so tell them unto you that I shall make them attain no more nor less than the measure of a span.’

११

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
मूर्द्धा᳘नमुपदिश᳘न्नेष वा᳘ ऽअतिष्ठा᳘ व्वैश्वानर ऽइ᳘ति च᳘क्षुषी ऽउपदिश᳘न्नुवाचैष वै᳘ सुत᳘तेजा व्वैश्वानर ऽइ᳘ति ना᳘सिके ऽउपदिश᳘न्नुवाचैष वै पृ᳘थग्वर्त्मा व्वैश्वानर ऽइ᳘ति मु᳘ख्यमाकाश᳘मुपदिश᳘न्नुवाचैष वै᳘ बहुलो᳘ व्वैश्वानर ऽइ᳘ति मुख्या ऽअप᳘ ऽउपदिश᳘न्नुवाचैष[[!!]] वै᳘ रयि᳘र्व्वैश्वानर ऽइ᳘ति च्छु᳘बुकमुपदिश᳘न्नुवाचैष वै᳘ प्रतिष्ठा᳘ व्वैश्वानर ऽइ᳘ति स᳘ ऽए᳘षो ऽग्नि᳘र्व्वैश्वानरो यत्पु᳘रुषः स यो᳘ हैत᳘मेव᳘मग्निं᳘ व्वैश्वानरं पु᳘रुषविधं पु᳘रुषे ऽन्तः प्र᳘तिष्ठितं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति न᳘ हास्य ब्रुवाणं᳘ चन᳘ व्वैश्वानरो᳘ हिनस्ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
मूर्द्धा᳘नमुपदिश᳘न्नेष वा᳘ ऽअतिष्ठा᳘ व्वैश्वानर ऽइ᳘ति च᳘क्षुषी ऽउपदिश᳘न्नुवाचैष वै᳘ सुत᳘तेजा व्वैश्वानर ऽइ᳘ति ना᳘सिके ऽउपदिश᳘न्नुवाचैष वै पृ᳘थग्वर्त्मा व्वैश्वानर ऽइ᳘ति मु᳘ख्यमाकाश᳘मुपदिश᳘न्नुवाचैष वै᳘ बहुलो᳘ व्वैश्वानर ऽइ᳘ति मुख्या ऽअप᳘ ऽउपदिश᳘न्नुवाचैष[[!!]] वै᳘ रयि᳘र्व्वैश्वानर ऽइ᳘ति च्छु᳘बुकमुपदिश᳘न्नुवाचैष वै᳘ प्रतिष्ठा᳘ व्वैश्वानर ऽइ᳘ति स᳘ ऽए᳘षो ऽग्नि᳘र्व्वैश्वानरो यत्पु᳘रुषः स यो᳘ हैत᳘मेव᳘मग्निं᳘ व्वैश्वानरं पु᳘रुषविधं पु᳘रुषे ऽन्तः प्र᳘तिष्ठितं व्वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति न᳘ हास्य ब्रुवाणं᳘ चन᳘ व्वैश्वानरो᳘ हिनस्ति॥

मूलम् - Weber

स᳘ होवाच॥
मूर्धा᳘नमुपदिश᳘न्नेष वा᳘ अतिष्ठा᳘ वैश्वानर इ᳘ति च᳘क्षुषी उपदिश᳘न्नुवाचैष वै᳘ सुत᳘तेजा वैश्वानर इ᳘ति ना᳘सिके उपदिश᳘न्नुवाचैष वै पृ᳘थग्वर्त्मा वैश्वानर इ᳘ति मु᳘ख्यमाकाश᳘मुपदिश᳘न्नुवाचैष वै᳘ बहुलो᳘ वैश्वानर इ᳘ति मु᳘ख्या अप᳘ उपदिश᳘न्नुवाचैष वै᳘ रयि᳘र्वैश्वानरो इ᳘ति छु᳘बुकमुपदिश᳘न्नुवाचैष वै᳘ प्रतिष्ठा᳘ वैश्वानर इ᳘ति स᳘ एॗषोऽग्नि᳘र्वैश्वानरो यत्पु᳘रुषः स यो᳘ हैत᳘मेव᳘मग्निं᳘ वैश्वानरम् पु᳘रुषविधम् पु᳘रुषेऽन्तः प्र᳘तिष्ठितं वेदा᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति न᳘ हास्य ब्रुवाणं᳘ चन᳘ वैश्वानरो᳘ हिनस्ति॥

मूलम् - विस्वरम्

स होवाच मूर्द्धानमुपदिशन्- एष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाच- एष वै सुततेजा वैश्वानर इति । नासिके उपदिशन्नुवाच- एष वै पृथग्वर्त्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवाच- एष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाच- एष वै रयिर्वैश्वानर इति । छुबुकमुपदिशन्नुवाच- एष वै प्रतिष्ठा वैश्वानर इति । स एषो ऽग्निर्वैश्वानरः- यत्पुरुषः । स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषे ऽन्तः प्रतिष्ठितं वेद । अप पुनर्मृत्युं जयति । सर्वमायुरेति । न ह अस्य ब्रुवाणं चन वैश्वानरो हिनस्ति ॥ ११ ॥

सायणः

अथ राजा पूर्वोक्तान् अतिष्ठा वैश्वानरादीन् वैश्वानरावयवान् मूर्द्धादिचुबुकान्तावयवेन प्रदर्शितवानिति श्रुतिराह- स होवाच मूर्द्धानमुपदिशन्निति । ‘मूर्द्धानमुपदिशन्’ राजा ‘एष अतिष्ठा वैश्वानरः’ इत्युक्तवान् । मूर्द्धा अवयवो ऽतिष्ठागुणः वैश्वानरात्मक इत्यर्थः । चक्षुर्द्वयं सुतं तेजो वैश्वानरः, नासिकारन्ध्रद्वयं पृथग्वर्त्म वैश्वानरः, मुख्यं मुखे भवमाकाशम् ‘उपदिशन्’ बहुलगुणो वैश्वानर इत्युक्तवान्, मुख्याः मुखे भवा अप उदकान्युपदिशन् रयिर्गुणो वैश्वानर इत्युक्तवान् । चुबुकमवयवमुपदिशन्नेषु प्रतिष्ठात्मको वैश्वानर इत्युक्तवान् । चुबुकमिति अधरं मुखफलकमित्युच्यते । ‘स एषो ऽग्निर्वैश्वानरो यत्पुरुषः’ मूर्द्धादिचुबुकान्ते प्रादेशमात्रस्थले पुरुषावयवानां शिरःप्रभृतीनां पादान्तानां परिकल्पनात् । एषो ऽतिष्ठादिगुणवैश्वानरसमष्टिरूपे एको वैश्वानरो ऽग्निरित्युच्यत इति । विश्वान्नरान्पुण्यपापरूपां गतिं नयतीति विश्वानरः सर्वात्मा एक एव ईश्वरो विश्वानर एव वैश्वानर इति । आचार्यैस्तु- वैश्वानरस्य एवमर्थ उक्तः । “विश्वश्चायं नरश्च 15, विश्वेषां 16 वा अयं नरः 17, विश्वे वा 18 नरा 19 अस्य, इति 20- विश्वानरः [^७_१८६] परमात्मा सर्वात्मत्वात् । विश्वानर एव वा वैश्वानरः । तद्धितो ऽअनन्यार्थः 21 । राक्षसवायसादिवत्” । (ब्र. सू. शां. भा. । १ । २ । ७ । २८) इति । यद्वा विश्वैर्वा नरैः प्रत्यगात्मा यो विभज्य नीयते इति स वैश्वानरः, इति यथोक्तं वैश्वानराग्निं विदुषः फलमाह- स यो हैतमेवमग्निमिति । ‘पुरुषविधं’ पुरुषावयवयुक्तं । ‘पुरुषे ऽन्तः प्रतिष्ठितं’ मूर्द्धादिचुबुकान्तप्रादेशमात्रमित्यर्थः । तादृशं वैश्वानरमग्निं यो वेद, सः ‘पुनर्मृत्युं जयति’ । सर्वमायुः अमृतत्वम् ‘एति’ । ‘अस्य’ वैश्वानराग्नेः । व्यत्ययेन कर्मणि षष्ठी, ‘ब्रुवाणम्’ उपदेष्टारमपि वैश्वानरो न हिनस्ति । वैश्वानरपदेन परमात्मा विभज्यत इति । “वैश्वानरः साधारणशब्दविशेषात्” (ब्र. सू. भा. १ । २ । ७ । २४) इत्यस्मिन्नधिकरणे आचार्यैः समर्थितम् । एतदर्थस्तत्त्वविद्भिः श्लोकाभ्यां सङ्गृहीतः- “वैश्वानरः को नु भूतदेवजीवेश्वरेषु कः । वैश्वानरात्मशब्दाभ्यामीशादन्येषु कश्चन ॥ द्युमूर्द्धत्वादिना ब्रह्मशब्दाच्चेश्वर इष्यते । वैश्वानरात्मशब्दौ तावीश्वरस्यापि वाचकौ ॥” (वै. न्या. १ । २ । ७) इति । वैश्वानरः- किमयं वैश्वानरः कुक्षिस्थो ऽग्निः, उत बाह्यो ऽग्निः आहोस्विदादित्यदेवता किं वा जीवात्मा, उत परमात्मेति । तत्र वैश्वानरशब्दवशादाद्यं पक्षत्रयं प्राप्तम् । “अयमग्निर्वैश्वानरो यो ऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते” (बृ. उ. ५ । ९ । १) इति श्रुतेर्वैश्वानराग्निशब्दो जाठराग्नौ प्रयुक्तः । “विश्वस्मा अग्निं भुवनाय देवा वैश्वानरम्” (ऋ. सं. १० । ८८ । १२) इति । बाह्ये ऽग्नौ प्रयुक्तः । “वैश्वानरस्य सुमतौ स्याम” (ऋ. सं. । १ । ९८ । १) इति देवतायां प्रयुक्तः । अतः पक्षत्रयप्राप्तिः । आत्म शब्दस्य जीवे रूढत्वात् जीवो वा वैश्वानरः स्यात् । न त्वीश्वरः तद्गमकाभावादिति प्राप्ते- ब्रूमः वैश्वानरो ब्रह्म भवितुमर्हतीति द्युमूर्द्धत्वादिश्रवणात् । तस्येतरस्यात्मनो वैश्वानरस्य मूर्द्धत्वादिना द्युलोकाद्युक्त्या जगतो वैश्वानरावयवत्वं श्रूयते- न चैतदीश्वरादन्यत्र संभवति । किंच “को न आत्मा, किं ब्रह्म” (छां. ५ । ११ । १) इति ब्रह्मशब्दस्त्वीश्वरे मुख्यः, वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते । विश्वश्चासौ नरश्च विश्वानरः सर्वात्मकः पुरुषः इत्यर्थः । विश्वानर एव वैश्वानरः । आत्मशब्दवत् जीवे ब्रह्मण्यपि वर्तते । तस्माद्वैश्वानरः परमेश्वरः । स समानार्थत्वादपीश्वर इति द्रष्टव्यम् ॥ ११ ॥

[^७_१८६] : “नरे संज्ञायाम्” (पा. सू. । ६ । ३ । १२९) इति पूर्वपदस्य दीर्घता ।

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे षष्ठे ऽध्याये प्रथमं ब्राह्मणम् ॥ (१०-६-१) ॥

Eggeling
  1. Pointing at the head he said, ‘This, indeed, is the Vaiśvānara Pre-eminence;’–pointing at the eyes he said, ‘This, indeed, is the Vaiśvānara of Soma’s splendour;’–pointing at the nostrils he said, ‘This, indeed, is the Vaiśvānara of divers courses;’–pointing at the space in the mouth he said, ‘This, indeed, is the Vaiśvānara Plenteous;’–pointing at the water in the mouth he said, ‘This, indeed, is the Vaiśvānara Wealth;’–pointing at the chin he said, ‘This, indeed, is the Vaiśvānara Foundation.’

This Agni Vaiśvānara is no other than the Purusha; and, verily, whosoever thus knows that Agni Vaiśvānara as Purusha-like, as established within the Purusha, repels death, and attains all life; and, verily, Vaiśvānara does no harm to him that speaks of him.


  1. 393:1 Chāndogyop. V, 11, where another version of this story occurs, has here the name of Aruṇa’s son, Uddālaka Āruṇi; and, instead of Mahāśāla Jābāla, it has Prācīnaśāla Aupamanya. ↩︎

  2. 393:2 Sāyaṇa takes this to mean, ‘he (Aruṇa) was unable to instruct them in regard to Vaiśvānara,’–soruṇas teshāṁ satyayajñādīnāṁ pañcānāṁ vaiśvānaravidyāṁ bodhayituṁ na samiyāya saṁgataḥ śakto nābhavat,–probably, however, ‘samiyāya’ is better taken impersonally (’there was no agreement between them’), as is done by the St. Petersb. Dict.; though Chānd. XI, 3 favours Sāyaṇa’s view. ↩︎

  3. 393:3 Sāyaṇa takes ‘samprati’ in its ordinary sense of ’now.’ The knowledge of Vaiśvānara implied here, according to Sāyaṇa, means the knowledge of the supreme deity (parameśvara). ↩︎

  4. 394:1 That is, in the way in which pupils approach their teacher. ↩︎

  5. 394:2 Literally, ‘Ye have entered (my tuition);’ upetā stha upāsīnā bhavatha. Sāy. ↩︎

  6. अविदित Sây against the accent. ↩︎

  7. 394:3 Or, perhaps, ‘what Vaiśvānara knowest thou?’ ↩︎

  8. 394:4 ‘Pratishṭḥā’ (rest, foundation) also commonly means ’the feet.’ ↩︎

  9. 394:5 It is not quite clear whether the words ‘or the feet, &c.’ really (as Sāyaṇa takes them) form part of the king’s speech, or whether they are merely meant as explanatory of the latter part of the king’s remarks. If Sāyaṇa be right, the words ’the feet would be unknown by thee,’ seem to admit of a double meaning, viz. ’thou wouldst have become footless,’ or ’not even Vaiśvānara’s feet would have been known by thee;’ though in the latter sense some particle such as ’eva’ might have been expected. Sāyaṇa, however, seems to take these words in yet another sense (if, indeed, he had not another reading before him),–vaiśvānarasyājñānāt pādau te tava viparītagrāhiṇo amlāsyatām amlānau gamanāsamarthāv abhavishyatāṁ yadi māṁ nāgamishyaḥ; itthaṁ doshaparyavasānayuktam ekadeśajñānam eva nāvaśesha ity āha, pādau to viditāv iti vaiśvānarasya pādamātraṁ tvayā viditaṁ na tu kr̥tsno vaiśvānaraḥ; ataḥ sādhv akārshīr yat tvam āgatosīty abhiprāyaḥ. ↩︎

  10. चक्षु᳘स्त्वा and चक्षुस्ते᳘ A. ↩︎

  11. 396:1 Or, perhaps better, ‘of Soma’s fire.’ The Chāndogya-upanishad has ‘Sutejas (of beautiful splendour, or light),’ instead of ‘sutatejas.’ ↩︎

  12. 396:2 According to Sāyaṇa, this refers to the cooking, or baking, of the cakes (puroḍāśa) connected with the Soma-sacrifice. ↩︎

  13. अविदित Sây against the accent. ↩︎

  14. 397:1 Sāyaṇa apparently takes this thus: but the gods, knowing well that (essential element) which is merely of the space of a span, have become successful;–yat tv evaṁ yathoktāvayavaiḥ pr̥thivīpādādibhir dyumūrdhāntair avayavair viśishṭam ekaṁ vastu tat prādeśamātraṁ prādeśapramāṇam iva devāḥ suviditaḥ samyag jñātavantobhisampannāḥ prāptaphalā babhūvur ity arthaḥ. Though this interpretation looks very plausible, the accent of ‘súvidita’ would scarcely admit of the word being taken as a bahuvrīhi compound. In the words which follow, Sāyaṇa takes ’them (enān)’ to refer to the bodily parts of Vaiśvānara, identified with the imperfect doctrines of the king’s disciples. It is, indeed, quite possible that ’the gods’ are here identified with the special Vaiśvānaras, the unity of whom, in the one Purusha, or Atman (self), the Brāhmaṇa endeavours to inculcate. ↩︎

  15. नरो जीवः । ↩︎

  16. विश्वेषां विकाराणां ↩︎

  17. नरः कर्ता । ↩︎

  18. विश्वे सर्वे ↩︎

  19. नरा जीवाः ↩︎

  20. अस्य आत्मत्वेन नियम्यत्वेन वा । ↩︎

  21. रक्ष एव राक्षसः इतिवत्स्वार्थे तद्धितः प्रत्ययः इति रत्नप्रभायाम् । ↩︎