०१

विश्वास-प्रस्तुतिः

कुश्रि᳘र्ह व्वाजश्रव᳘सो ऽग्निं᳘ चिक्ये॥
त᳘ᳫँ᳘ होवाच सुश्रु᳘वाः कौ᳘श्श्यो गौ᳘तम य᳘दग्निम᳘चैषीः प्रा᳘ञ्चमेनमचैषीः प्रत्य᳘ञ्चमेनमचैषी᳘र्न्यञ्चमेनमचैषीरुत्तान᳘मेनमचैषीः[[!!]]॥

मूलम् - श्रीधरादि

कुश्रि᳘र्ह व्वाजश्रव᳘सो ऽग्निं᳘ चिक्ये॥
त᳘ᳫँ᳘ होवाच सुश्रु᳘वाः कौ᳘श्श्यो गौ᳘तम य᳘दग्निम᳘चैषीः प्रा᳘ञ्चमेनमचैषीः प्रत्य᳘ञ्चमेनमचैषी᳘र्न्यञ्चमेनमचैषीरुत्तान᳘मेनमचैषीः[[!!]]॥

मूलम् - Weber

कुश्रि᳘र्ह वाजश्रवॗसोऽग्निं᳘ चिक्ये॥
त᳘ᳫं᳘ होवाच सुश्रु᳘वाः कौ᳘ष्यो 1 गौ᳘तम य᳘दग्निम᳘चैषीः प्रा᳘ञ्चमेनमचैषीः प्रत्य᳘ञ्चमेनमचैषीर्न्य᳘ञ्चमेनमचैषीरुत्तान᳘मेनमचैषीः॥

मूलम् - विस्वरम्

कुश्रिर्हि वाजश्रवसो ऽग्निं चिक्ये । तं होवाच सुश्रवाः कौश्यः । गौतम यदग्निमचैषीः- प्राञ्चमेनमचैषीः । प्रत्यञ्चमेनमचैषीः । न्यञ्चमेनमचैषीः । उत्तानमेनमचैषीः ॥ १ ॥

सायणः

उत्तरब्राह्मणे चित्याग्नेः सर्वदिग्गतमुखत्वपृथक्छिरसो निरूहणाभावः प्रतिपाद्यते । तत्रैकैकदिग्गतमुखत्वे दोषमुद्भावयितुं तान्पक्षान्पुरावृत्तेनानुवदति- कुश्रिर्ह वाजेति । वाजश्रवसो ऽपत्यं कुश्रिर्नाम ‘अग्निं चिक्ये’ चितवान् । तं कुश्रिं कौश्यः कुशगोत्रजः सुश्रवा नामोवाच पृष्टवान् । गौतमेति कुश्रेः संबुद्धिः । यद्यग्निं चितवानसि तदा किम् ‘एनम्’ अग्निं ‘प्राञ्चं’ पूर्वमुखम् अचैषीः, ‘प्रत्यञ्चं’ प्रत्यङ्मुखम् ‘न्यञ्चं’ अवाङ्मुखं ‘उत्तानम्’ ऊर्ध्वमुखमिति चत्वारः पक्षाः उद्दिष्टाः ॥ १ ॥

Eggeling
  1. Kuśri Vājaśravasa 2 once built a fire-altar. Suśravas Kaushya then said to him, ‘Gautama, when thou wert just now building up Agni, didst thou build him with his face forward, or backward, or downward, or upward?’

०२

विश्वास-प्रस्तुतिः

(र्य) यद्य᳘हैनं प्रा᳘ञ्चम᳘चैषीः॥ (र्य᳘) य᳘था प᳘राच ऽआ᳘सीनाय पृष्ठ᳘तो ऽन्ना᳘द्यमुपाह᳘रेत्तादृक्तन्न᳘ ते हविः प्र᳘तिग्रहीष्यति॥

मूलम् - श्रीधरादि

(र्य) यद्य᳘हैनं प्रा᳘ञ्चम᳘चैषीः॥ (र्य᳘) य᳘था प᳘राच ऽआ᳘सीनाय पृष्ठ᳘तो ऽन्ना᳘द्यमुपाह᳘रेत्तादृक्तन्न᳘ ते हविः प्र᳘तिग्रहीष्यति॥

मूलम् - Weber

यद्य᳘हैनम् प्रा᳘ञ्चम᳘चैषीः य᳘था प᳘राच आ᳘सीनाय पृष्ठॗतोऽन्ना᳘द्यमुपाह᳘रेत्तादृक्तन्न᳘ ते हविः प्र᳘तिग्रहीष्यति॥

मूलम् - विस्वरम्

यद्यहैनं प्राञ्चमचैषीः- यथा पराच आसीनाय पृष्ठतो ऽन्नाद्यमुपाहरेत्तादृक् तत् । न ते हविः प्रतिग्रहीष्यति ॥ २ ॥

सायणः

तेषु यथाक्रमं दोषान् स्वयमेव सुश्रवा आह- यद्यहैनं प्राञ्चमिति । यदि प्राङ्मुखो ऽग्निश्चितः । तर्हि प्राङ्मुखेनापि यजमानेन तत्र हविःप्रक्षेपः । यदि प्रत्यङ्मुखम् ‘अचैषीः’ तर्हि कस्माद्धेतोः ‘पुच्छं’ पश्चिमतः कृतवानसि, प्राङ्मुखस्य पक्षिणः पुच्छं पश्चिमतः तिष्ठति । प्रत्यङ्मुखस्य तु पुच्छं पूर्वतः । अत्र त्वया पक्षिरूपस्याग्नेः पुच्छस्य पश्चिमतः करणेन पश्चिममुखो ऽग्निश्चित इति न वक्तुं युज्यत इत्यर्थः । यदि न्यञ्चो ऽवाङ्मुखश्चितस्तर्हि तस्योपरि हविःप्रक्षेपो नाम नीचीनस्यावाङ्मुखस्य शयानस्य पृष्ठभागे ऽन्नाद्यनिधानसमान इत्यर्थः । यद्यग्निः उत्तानश्चितः तर्हि यथा ‘उत्तानं’ ‘वयः’ पक्षी स्वयमाकाशमुत्पतितुं न शक्नोति किल किमुत अन्यपुरुषं चञ्च्वा द्वाभ्यां पक्षाभ्यां वा गृहीत्वोत्पतितुं न शक्नुत इति । यथा यजमानेन त्वया स्वर्गप्रापणाद्धेतोः पक्षिरूपेण चितो ऽग्निः चितवन्तं त्वां स्वर्गं लोकं प्रापयितुं न शक्नोति- उत्तानचयनादित्यर्थः । ‘अभिवक्ष्यति’ इति ‘वह प्रापणे’- (धा. पा. भ्वा. उ. १०२९) । लृटि स्यप्रत्यये रूपम् । एवमेकैकदिगभिमुखत्वेन चयनदोषा उक्ताः ॥ २-५ ॥

Eggeling
  1. ‘If perchance thou hast built him looking forward, it would be just as if one were to offer food from behind to one sitting with averted face 3: he thereby will not receive thy offering.’

०३

विश्वास-प्रस्तुतिः

य᳘द्यु वा᳘ ऽएनं प्रत्य᳘ञ्चम᳘चैषीः॥
क᳘स्मादस्य त᳘र्हि पश्चात्पु᳘च्छम᳘कार्षीः॥

मूलम् - श्रीधरादि

य᳘द्यु वा᳘ ऽएनं प्रत्य᳘ञ्चम᳘चैषीः॥
क᳘स्मादस्य त᳘र्हि पश्चात्पु᳘च्छम᳘कार्षीः॥

मूलम् - Weber

य᳘द्यु वा᳘ एनम् प्रत्य᳘ञ्चम᳘चैषीः॥
क᳘स्मादस्य त᳘र्हि पश्चात्पु᳘छमकार्षीः 4

मूलम् - विस्वरम्

यद्यु वा एनं प्रत्यञ्चमचैषीः- कस्मादस्य तर्हि पश्चात्पुच्छमकार्षीः ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘And if thou hast built him looking backward, wherefore, then, hast thou made him a tail behind?’

०४

विश्वास-प्रस्तुतिः

(र्य᳘) य᳘द्यु वा᳘ ऽएनं᳘ न्यञ्चम᳘चैषीः[[!!]]॥
(र्य᳘) य᳘था नी᳘चः श᳘यानस्य पृ᳘ष्ठे ऽन्ना᳘द्यं प्रतिष्ठाप᳘येत्तादृक्त᳘न्नैव᳘ ते हविः प्र᳘तिग्रहीष्यति॥

मूलम् - श्रीधरादि

(र्य᳘) य᳘द्यु वा᳘ ऽएनं᳘ न्यञ्चम᳘चैषीः[[!!]]॥
(र्य᳘) य᳘था नी᳘चः श᳘यानस्य पृ᳘ष्ठे ऽन्ना᳘द्यं प्रतिष्ठाप᳘येत्तादृक्त᳘न्नैव᳘ ते हविः प्र᳘तिग्रहीष्यति॥

मूलम् - Weber

य᳘द्यु वा᳘ एनं न्य᳘ञ्चम᳘चैषीः॥
य᳘था नी᳘चः श᳘यानस्य पृॗष्ठेऽन्ना᳘द्यम् प्रतिष्ठाप᳘येत्तादृक्तॗन्नैव᳘ ते हविः प्र᳘तिग्रहीस्यति॥

मूलम् - विस्वरम्

यद्यु वा एनं न्यञ्चमचैषीः- यथा नीचः शयानस्य पृष्ठे ऽन्नाद्यं प्रतिष्ठापयेत्तादृक् तत् । नैव ते हविः प्रतिग्रहिष्यति ॥ ४ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘And if thou hast built him with his face downward, it would be just as if one were to put food on the back of one lying with his face downward: he surely will not receive thy offering.’

०५

विश्वास-प्रस्तुतिः

य᳘द्यु वा᳘ ऽएनमुत्तानम᳘चैषीः॥
(र्न) न वा᳘ ऽउत्तानं व्व᳘यः स्वर्गं᳘ लोक᳘मभि᳘वहति न᳘ त्वा स्वर्गं᳘ लोक᳘मभि᳘वक्ष्यत्यस्वर्ग्य᳘ ऽउ ते भविष्यती᳘ति॥

मूलम् - श्रीधरादि

य᳘द्यु वा᳘ ऽएनमुत्तानम᳘चैषीः॥
(र्न) न वा᳘ ऽउत्तानं व्व᳘यः स्वर्गं᳘ लोक᳘मभि᳘वहति न᳘ त्वा स्वर्गं᳘ लोक᳘मभि᳘वक्ष्यत्यस्वर्ग्य᳘ ऽउ ते भविष्यती᳘ति॥

मूलम् - Weber

य᳘द्यु वा᳘ एनमुत्तानम᳘चैषीः॥
न वा᳘ उत्तानं व᳘यः स्वर्गं᳘ लोक᳘मभि᳘वहति न᳘ त्वा स्वर्गं᳘ लोक᳘मभि᳘वक्ष्यत्यस्वर्ग्य᳘ उ ते भविष्यती᳘ति॥

मूलम् - विस्वरम्

यद्यु वा एनमुत्तानमचैषीः- न वा उत्तानं वयः स्वर्गं लोकमभिवहति । न त्वा स्वर्गं लोकमभिवक्ष्यति । अस्वर्ग्य उ ते भविष्यतीति ॥ ५ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘And if thou hast built him with his face upward–surely, a bird does not fly towards heaven with its face turned upward 5: he will not carry thee to heaven, he will not become conducive to heaven for thee.’

०६

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
प्रा᳘ञ्चमेनमचैषं प्र᳘त्य᳘ञ्चमेनमचैषं᳘ न्यञ्चमेनमचैषमुत्तान᳘मेनमचैषᳫँ᳭[[!!]] स᳘र्व्वा ऽअ᳘नुदि᳘श ऽएनमचैषमि᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
प्रा᳘ञ्चमेनमचैषं प्र᳘त्य᳘ञ्चमेनमचैषं᳘ न्यञ्चमेनमचैषमुत्तान᳘मेनमचैषᳫँ᳭[[!!]] स᳘र्व्वा ऽअ᳘नुदि᳘श ऽएनमचैषमि᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
प्रा᳘ञ्चमेनमचैषम् प्रत्य᳘ञ्चमेनमचैषं न्य᳘ञ्चमेनमचैषमुत्तान᳘मेनमचैषᳫं स᳘र्वा अ᳘नु दि᳘श एनमचैषमि᳘ति॥

मूलम् - विस्वरम्

स होवाच- प्राञ्चमेनमचैषम् । प्रत्यञ्चमेनमचैषम् । न्यञ्चमेनमचैषम् । उत्तानमेनमचैषम् । सर्वा अनु दिश एनमचैषमिति ॥ ६ ॥

सायणः

अथाग्निचित् कश्चित् उक्तदोषपरिजिहीर्षया सकलदिङ्मुखमग्निं चितवानित्याह- स होवाच प्राञ्चमेनमिति । प्रागादिचतुर्दिगभिमुखः इत्यवान्तरदिगभिमुखश्च चित इत्यर्थः ॥ ६ ॥

Eggeling
  1. He said, ‘I have built him with his face forward; I have built him with his face backward; I have built him with his face downward; I have built him with his face upward: I have built him in all directions.’

०७

विश्वास-प्रस्तुतिः

स यत्प्रा᳘ञ्चं पु᳘रुषमुपद᳘धाति॥
प्रा᳘च्यौ स्रु᳘चौ तत्प्रा᳘ङ् चीयते᳘ ऽथ य᳘त्प्रत्य᳘ञ्चं कूर्म᳘मुपद᳘धाति प्रत्य᳘ञ्चि पशुशीर्षा᳘णि त᳘त्प्रत्य᳘ङ् चीयते᳘ ऽथ य᳘न्न्यञ्चं[[!!]] कूर्म᳘मुपद᳘धाति᳘ न्यञ्चि[[!!]] पशुशीर्षा᳘णि नी᳘चीरि᳘ष्टकास्त᳘न्न्यङ्[[!!]] चीयते᳘ ऽथ य᳘दुत्तानं पु᳘रुषमुपद᳘धात्युत्ताने स्रु᳘चा ऽउत्तान᳘मुलू᳘खलमुत्ताना᳘मुखां त᳘दुत्तान᳘श्चीयते᳘ ऽथ यत्स᳘र्व्वा ऽअनु[[!!]] दि᳘शः परिस᳘र्प्पमि᳘ष्टका ऽउपद᳘धाति त᳘त्सर्व्व᳘तश्चीयते᳘॥ (अर्धप्रपाठकः कंडिका संख्या॥३८॥)

मूलम् - श्रीधरादि

स यत्प्रा᳘ञ्चं पु᳘रुषमुपद᳘धाति॥
प्रा᳘च्यौ स्रु᳘चौ तत्प्रा᳘ङ् चीयते᳘ ऽथ य᳘त्प्रत्य᳘ञ्चं कूर्म᳘मुपद᳘धाति प्रत्य᳘ञ्चि पशुशीर्षा᳘णि त᳘त्प्रत्य᳘ङ् चीयते᳘ ऽथ य᳘न्न्यञ्चं[[!!]] कूर्म᳘मुपद᳘धाति᳘ न्यञ्चि[[!!]] पशुशीर्षा᳘णि नी᳘चीरि᳘ष्टकास्त᳘न्न्यङ्[[!!]] चीयते᳘ ऽथ य᳘दुत्तानं पु᳘रुषमुपद᳘धात्युत्ताने स्रु᳘चा ऽउत्तान᳘मुलू᳘खलमुत्ताना᳘मुखां त᳘दुत्तान᳘श्चीयते᳘ ऽथ यत्स᳘र्व्वा ऽअनु[[!!]] दि᳘शः परिस᳘र्प्पमि᳘ष्टका ऽउपद᳘धाति त᳘त्सर्व्व᳘तश्चीयते᳘॥ (अर्धप्रपाठकः कंडिका संख्या॥३८॥)

मूलम् - Weber

स यत्प्रा᳘ञ्चम् पु᳘रुषमुपद᳘धाति॥
प्रा᳘च्यौ स्रु᳘चौ तत्प्रा᳘ङ् चीयते᳘ऽथ य᳘त्प्रत्य᳘ञ्चं कूर्म᳘मुपद᳘धाति प्रत्य᳘ञ्चि पशुशीर्षा᳘णि त᳘त्प्रत्य᳘ङ् चीयते᳘ऽथ यन्न्य᳘ञ्चं कूर्म᳘मुपद᳘धाति न्य᳘ञ्चि पशुशीर्षा᳘णि नी᳘चीरि᳘ष्टकास्तन्न्य᳘ङ् चीयते᳘ऽथ य᳘दुत्तानम् पु᳘रुषमुपद᳘धात्युत्ताने स्रु᳘चा उत्तान᳘मुलू᳘खलमुत्ताना᳘मुखां त᳘दुत्तान᳘श्चीयते᳘ऽथ यत्स᳘र्वा अ᳘नु दि᳘शः परिस᳘र्पमि᳘ष्टका उपद᳘धाति त᳘त्सर्व᳘तश्चीयते॥

मूलम् - विस्वरम्

स यत्प्राञ्चं पुरुषमुपदधाति- प्राच्यौ स्रुचौ तत्प्राङ् चीयते । अथ यत्प्रत्यञ्चं कूर्ममुपदधाति- प्रत्यञ्चि पशुशीर्षाणि तत्प्रत्यङ् चीयते । अय न्यन्न्यञ्चं कूर्ममुपदधाति- न्यञ्चि पशुशीर्षाणि, नीचीरिष्टकाः । तत् न्यङ् चीयते । अथ यदुत्तानं पुरुषमुपदधाति- उत्ताने स्रुचा उत्तानमुलूखलम्, उत्तानामुखां तदुत्तानश्चीयते । अथ यत्सर्वा दिशः परिसर्पमिष्टका उपदधाति । तत्सर्वतश्चीयते ॥ ७ ॥

सायणः

विपरीतानुष्ठाने ऽन्येन चोदिते स्वयमपि यथाविधि कृतमित्युक्तम् । तत् वचनमात्रेण कर्म साङ्गं न भवतीति मत्वा स्वानुष्ठानप्रकारेणाग्नेः सकलदिगभिमुखत्वं विशदयति- स य त्प्राञ्चं पुरुषमुपदधातीति । हिरण्मयपुरुषस्य स्रुचोश्च प्राचीमुखत्वेनोपधानादग्नेः प्राङ्मुखत्वेन चयनं जातम् । कूर्मस्य पशुशीर्षाणां प्रत्यक्त्वेनावाङ्मुखत्वेन चोपधानात्प्रत्यक्त्वमवाक्त्वं च, अग्नेः इष्टकानां नीचीनत्वेनोपधानं नाम ऋजुलेखादक्षिणापसव्या लिखितादिलेखानामुपरिभागे दर्शनं पशुशीर्षोपधाने पुरुषशीर्षस्य स्रुचोरुलूखलोखयोश्चोत्तानत्वोपधानादग्नेः ऊर्ध्वं चयनं सिद्धमित्यर्थः । अथ यत्सर्वा अनु दिशः- इत्यस्यायमर्थः- ‘परिसर्पम्’ परिसृप्य । णमुल् प्रत्ययः । अपस्याप्राणभृदश्विनीदिश्यावैश्वदेव्यादिषु सर्वत उपधानमिति अग्नेः सर्वतश्चयनं निष्पन्नमित्यर्थः ॥ ७ ॥

Eggeling
  1. When he lays down the (gold) man with his head forward (eastward), and the two spoons (with their bowls) forward 6, thereby he (Agni) is built looking forward; and when he lays down the

tortoise 7 with its head backward (westward), and the victims’ heads turned backward, thereby he is built looking backward; and when he, lays down the tortoise with its face downward, and the victims’ heads with their faces downward, and the bricks with their faces downward 8, thereby he is built looking downward; and when he lays down the (gold) man with his face upward, and the two spoons (with their open bowls) turned upward, and the mortar turned upward, and the fire-pan turned upward, thereby he is built looking upward; and when he lays down the bricks whilst moving round (the altar) in every direction, thereby he is built (looking) in all directions.

०८

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ ह कोषा᳘ धाव᳘यन्तः॥
(न्तो) नि᳘रूढशिरसमग्नि᳘मुपाधावया᳘ञ्चक्रुस्ते᳘षाᳫँ᳭ है᳘क ऽउवाच श्रीर्वै शि᳘रः श्रि᳘यमस्य नि᳘रौहीत्सर्व्वज्यानिं᳘ ज्यास्यत ऽइ᳘ति स᳘ ह त᳘थै᳘वास᳘॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ ह कोषा᳘ धाव᳘यन्तः॥
(न्तो) नि᳘रूढशिरसमग्नि᳘मुपाधावया᳘ञ्चक्रुस्ते᳘षाᳫँ᳭ है᳘क ऽउवाच श्रीर्वै शि᳘रः श्रि᳘यमस्य नि᳘रौहीत्सर्व्वज्यानिं᳘ ज्यास्यत ऽइ᳘ति स᳘ ह त᳘थै᳘वास᳘॥

मूलम् - Weber

अ᳘थ ह कोषा᳘ धाव᳘यन्तः॥
नि᳘रूढशिरसमग्नि᳘मुपाधावयां᳘ चक्रुस्ते᳘षाᳫं है᳘क उवाच श्रीर्वै शि᳘रः श्रि᳘यमस्य नि᳘रौहीत्सर्वज्यानिं᳘ ज्यास्यत इ᳘ति स᳘ ह त᳘थैॗवास॥

मूलम् - विस्वरम्

अथ ह कोषा धावयन्तो निरूढशिरसमग्निमुपाधावयाञ्चक्रुः । तेषां हैक उवाच- श्रीर्वै शिरः, श्रियमस्य निरौहीत् । सर्वज्यानिं ज्यास्यते- इति । स ह तथैवास ॥ ८ ॥

सायणः

अथ पक्षिरूपस्य चित्याग्नेरिष्टकोपधानक्रमेण कूर्मपशुशिरः परो ऽक्षम्- आहवनीयाग्निरेव प्रत्यक्षं शिरः- न तु पक्षपुच्छवत् पृथक् शिरसः करणमिति वक्तुं पृथक्करणपक्षं पुरावृत्तकथनेन निन्दति- अथ ह कोषा धावयन्तो निरूढशिरस इति । ‘कोषाः’ नाम- ऋषयः ‘धावयन्तः’ आर्त्विज्याय गच्छन्तः याजयन्तः ‘अग्निं’ ‘निरूढशिरसम्’ ‘उपाधावयाञ्चक्रुः’ । यस्य कस्य चन यजमानस्य गृहे शिरः पृथक् चितवन्तः । आपस्तम्बेनापि शिरसः पृथक्पृथक्त्वपक्षो निरूपितो विद्यते । “शिरसो निरूहणं न विद्यत इत्यपरम्” इति । ‘तेषाम्’ इत्यादिना तन्निराकरणं । तेषां तथा चितवतां कोषाणां याजयितॄणां मध्ये ‘एकः’ उक्तवान् । किमिति तदाह- शिरो नाम ‘श्रीः’ । शिरसः श्रीरूपत्वं सर्वदेवाश्रयणादिति षष्ठे काण्डादौ (श. प. ६ । १ । १ । ४-७) प्रतिपादितम् । अस्य यज्ञस्य श्रियं शिरः निरौहीत् पृथक्कृतमकार्षीत् । ऋत्विग्जन इत्यध्याहारः । अतो ऽग्नेः पृथक् शिरसो निरूहणेन यजमानात् श्रीरेवमेव पृथक् कृता । अतो ऽयं यष्टा ‘सर्वज्यानिं’ ‘ज्यास्यते’ सर्वथा श्रीक्षीणो भविष्यतीति- स ह तथैवास इति वाक्येन श्रुतिः स्वयमृत्विग्भिः कोषैस्तथा पृथक्करणेन यजमानो ऽपि तथा निःश्रीक आसेति तन्मतनिन्दयोक्तवती ॥ ८ ॥

Eggeling
  1. Now, the Koshas, whilst driving about, once drove up 9 to an Agni with his head pulled out 10. One of them said, ‘The head (śiras) means excellence (śrī): he has pulled out his excellence, he will be deprived of his all!’ and so indeed it happened to him.

०९

विश्वास-प्रस्तुतिः

(सा᳘ ऽथ) अ᳘थ है᳘क ऽउवाच॥
प्राणा वै शि᳘रः प्राणा᳘नस्य नि᳘रौहीत्क्षि᳘प्रे ऽमुं᳘ लोक᳘मेष्यती᳘ति स᳘ ऽउ ह त᳘थै᳘वास॥

मूलम् - श्रीधरादि

(सा᳘ ऽथ) अ᳘थ है᳘क ऽउवाच॥
प्राणा वै शि᳘रः प्राणा᳘नस्य नि᳘रौहीत्क्षि᳘प्रे ऽमुं᳘ लोक᳘मेष्यती᳘ति स᳘ ऽउ ह त᳘थै᳘वास॥

मूलम् - Weber

अ᳘थ है᳘क उवाच॥
प्राणा वै शि᳘रः प्राणा᳘नस्य नि᳘रौहीत्क्षिॗप्रेऽमुं᳘ लोक᳘मेष्यती᳘ति स᳘ उ ह त᳘थैॗवास॥

मूलम् - विस्वरम्

अथ हैक उवाच- प्राणा वै शिरः, प्राणानस्य निरौहीत् । क्षिप्रे ऽमुं लोकमेष्यतीति । स उ ह तथैवास ॥ ९ ॥

सायणः

अथ शिरसः प्राणरूपत्वमेव मतं तत्रैव दोषान्तरं समुच्चिनोति- अथ हैक उवाच प्राणा वै शिर इति । ‘शिरः’ नाम प्राणास्तदाधारत्वात् यतो ऽग्नेः पृथक्करणेन यजमानात् प्राणानां पृथक्करणम्, अतः स क्षिप्रेण वेगेनामुं परलोकमेष्यति न तु चिरंजीविष्यतीति ‘एक उवाच’ । स उ ह तथैवास इति । निन्दाप्रदर्शनाय वाक्योपन्यासः ॥ ९ ॥

Eggeling
  1. And another said, ‘The head means the vital airs: he has pulled out his vital airs, he will quickly go to yonder world!’ and so, indeed, it happened to him.

१०

विश्वास-प्रस्तुतिः

(सो) ऊर्ध्वो वा᳘ ऽएष᳘ ऽएत᳘च्चीयते॥
य᳘द्दर्भस्तम्बो᳘ लोगेष्टकाः᳘ पुष्करपर्ण᳘ᳫँ᳘ रुक्मपुरुषौ स्रु᳘चौ स्वयमातृण्णा᳘ दूर्व्वेष्टका द्वि᳘यथू रेतःसि᳘चौ व्विश्व᳘ज्योतिर्ऋत᳘व्ये ऽअ᳘षाढा कूर्मो᳘ ऽथ हास्यैत᳘देव᳘ प्रत्यक्षतमाᳫँ᳭शि᳘रो य᳘श्चिते ऽग्नि᳘र्निधीय᳘ते त᳘स्मान्न नि᳘रूहेत्॥

मूलम् - श्रीधरादि

(सो) ऊर्ध्वो वा᳘ ऽएष᳘ ऽएत᳘च्चीयते॥
य᳘द्दर्भस्तम्बो᳘ लोगेष्टकाः᳘ पुष्करपर्ण᳘ᳫँ᳘ रुक्मपुरुषौ स्रु᳘चौ स्वयमातृण्णा᳘ दूर्व्वेष्टका द्वि᳘यथू रेतःसि᳘चौ व्विश्व᳘ज्योतिर्ऋत᳘व्ये ऽअ᳘षाढा कूर्मो᳘ ऽथ हास्यैत᳘देव᳘ प्रत्यक्षतमाᳫँ᳭शि᳘रो य᳘श्चिते ऽग्नि᳘र्निधीय᳘ते त᳘स्मान्न नि᳘रूहेत्॥

मूलम् - Weber

ऊर्ध्वो वा᳘ एष᳘ एत᳘च्चीयते॥
य᳘द्दर्भस्तम्बो᳘ लोगेष्टकाः᳘ पुष्करपर्णं᳘ रुक्मपुरुषौ स्रु᳘चौ स्वयमातृणा᳘ दूर्वेष्टका द्वि᳘यजू रेतःसि᳘चौ विश्व᳘ज्योतिरृतॗव्ये अ᳘षाढा कूर्मो᳘ऽथ हास्यैत᳘देव᳘ प्रत्यक्षतमां शि᳘रो य᳘श्चितेऽग्नि᳘र्निधीय᳘ते त᳘स्मान्न नि᳘रूहेत्॥

मूलम् - विस्वरम्

ऊर्ध्वो वा एष एतच्चीयते । यत्- दर्भंस्तम्बः, लोगेष्टकाः, पुष्करपर्णम्, रुक्मपुरुषौ, स्रुचौ, स्वयमातृण्णा, दूर्वेष्टका, द्वियजू, रेतःसिचौ, विश्वज्योतिः, ऋतव्ये, अषाढा, कूर्मः । अथ हास्यैतदेव प्रत्यक्षतमां शिरो यश्चीते- अग्निर्निधीयते । तस्मान्न निरूहेत् ॥ १० ॥

सायणः

एवं शिरसः पृथक्करणपक्षो निन्दितः यद्येतर्हि पक्षिरूपो ऽग्निः शिरोरहितः स्यादितीमामाशंङ्कां परिहर्त्तुमिष्टकाभिरेव परो ऽक्षमपरो ऽक्षं च शिरः सम्पादयति- ऊर्द्ध्वो वा एष एतच्चीयत इति । ‘एषः’ अग्निः ‘ऊर्द्ध्वश्चीयते’ तदुत्तरोत्तरक्रमेणोर्ध्व उन्नतश्चितः । यथा तिष्ठतः पुरुषस्य पादबाह्वादयो ऽवयवा उत्तरोत्तरक्रमेणावस्थिताः संतो मूर्द्धांतं यंति एवं चास्य चित्याग्नेरवयवरूपेष्टकासंनिवेशं दर्शयति- यद्दर्भस्तम्बो लोगेष्टका इत्यादिना । दर्भस्तम्बादिदूर्वेष्टकापर्यन्तमुत्तरोत्तरं क्रमेणोपहितानां मध्ये पुष्करपर्णरुक्मौ पादरूपौ पुरुषो हिरण्मयो हृदयान्तवर्ती, ‘स्रुचौ’ बाहुद्वयस्थानीये, ‘स्वयमातृण्णा’ कण्ठात्मिका, ‘दूर्वेष्टका’ लोमरूपा, एवं ‘द्वियजूरेतःसिचौ विश्वज्योतिर्ऋतव्ये अषाढा’ इत्येता इष्टका यथायथमवयवरूपाः कल्पनीयाः ‘कूर्मः’ मूर्द्धस्थानीयः, एवमिष्टकोपधानक्रमेण पादादिमूर्द्धान्तपरिकल्पनया कूर्म एव परो ऽक्षं- शिर इत्युक्तम् । अथ प्रत्यक्षतमं शिरो दर्शयति- अथ हास्यैतदेव प्रत्यक्षतमां शिर इति । यद्यपि कूर्मः अप्रत्यक्षो मूर्द्धा, अथापि तस्योपरीष्टकोपधानादन्तर्हितो मूर्धेति ये मन्यन्ते तान् प्रति प्रत्यक्षतमशिरोवर्णनं चित्याग्नेरुपरि निहितो ऽग्निराहवनीय एव प्रत्यक्षतमां सर्वैरत्यन्तं दृष्टं शिर इत्यर्थः । यतः कूर्म आहवनीयो ऽग्निश्च चित्याग्नेः शिरः ‘तस्मान्न निरूहेत्’ पृथक् शिर इष्टकाभिर्न कुर्यादित्यर्थः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे पञ्चमे ऽध्याये पंचमं ब्राह्मणम् ॥ (१०-५-५) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे पञ्चमो ऽध्यायः समाप्तः ॥ (१०-५) ॥

Eggeling
  1. Upwards, indeed, he (Agni) is built up, to wit, (in the shape of) the grass-bunch, the clod-bricks, the lotus-leaf, the gold plate and man, the two spoons, the naturally-perforated one, the grass-brick, the Dviyajus, the two Retaḥsic, the Viśvajyotis, the two seasonal bricks, the Ashāḍḥā, and the tortoise; and that fire which is placed on the altar-pile, assuredly, is then most manifestly his (Agni’s) head: let him therefore not pull out (the head).

  1. कौश्यो Sây. ↩︎

  2. 390:2 That is, Kuśri Gautama, (son and) disciple of Vājaśravas. ↩︎

  3. 391:1 The oblations are offered by the Adhvaryu whilst standing south, or south-west, of the fire, with his face turned towards northeast,–hence Agni, looking eastwards, would not see the food offered him. ↩︎

  4. त्यु᳘छम᳘कार्षीः A. ↩︎

  5. 391:2 Yady agnir uttānaś citas tarhi yathā uttānaṁ vayaḥ pakshī svayam ākāśam utpatituṁ na śaknoti kim utānyaṁ purushaṁ dvābhyāṁ pakshābhyāṁ gr̥hītvotpatituṁ na śakta iti . . . tvāṁ citavantaṁ svargaṁ lokaṁ prāpayituṁ na śaknoty uttāna cayanād ity arthaḥ; abhivakshyatīti vahaḥ prāpaṇe lr̥ṭi syapratyaye rūpam. Sāy. ↩︎

  6. 391:3 See VII, 4, I, 15. 16. ↩︎

  7. 392:1 See VII, 5, 1, 1. ↩︎

  8. 392:2 Ishṭakānāṁ nīcītvenopadhānaṁ nāma rijulekhādakshiṇāpasavyatryālikhitādilekhānām uparibhāge darśanam. Sāy. The broad side of the bricks not marked with lines is thus looked upon as their face. ↩︎

  9. 392:3 That is to say, according to Sāyaṇa, whilst going about officiating at sacrifices, they built the altar in that way at some one’s house. ↩︎

  10. 392:4 That is, with a head built on to the altar on the front side of the body; see the diagram of the śyenaciti in Burnell’s Cat. of Vedic MSS. (1870), p. 29. ↩︎