०१
विश्वास-प्रस्तुतिः
अयं वाव᳘ लोक᳘ ऽए᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्त) तस्या᳘प ऽएव᳘ परिश्रि᳘तो मनु᳘ष्या य᳘जुष्मत्य ऽइ᳘ष्टकाः पश᳘वः सू᳘ददोहा ऽओ᳘षधयश्च व्व᳘नस्प᳘तयश्च पु᳘रीषमा᳘हुतयः समि᳘धो ऽग्नि᳘र्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वमग्नि᳘मे᳘वाभिस᳘म्पद्यते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिस᳘म्पद्यते॥
मूलम् - श्रीधरादि

मूलम् - Weber
अयं वाव᳘ लोक᳘ एॗषोऽग्नि᳘श्चितः᳟॥
तस्या᳘प एव᳘ परिश्रि᳘तो मनुॗष्या य᳘जुष्मत्य इ᳘ष्टकाः सू᳘ददोहा ओ᳘षधयश्च व᳘नस्प᳘तयश्च पु᳘रीषमा᳘हुतयः समि᳘धोऽग्नि᳘र्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वमग्नि᳘मेॗवाभिस᳘म्पद्यते तत्स᳘र्वोऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं वे᳘द लोकम्पृणा᳘मेनम् भूत᳘मेतत्स᳘र्वमभिस᳘म्पद्यते॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Verily, this (brick-)built Fire-altar (Agni) is this (terrestrial) world:–the waters (of the encircling ocean) are its (circle of) enclosing-stones; the men its Yajushmatīs (bricks with special formulas); the cattle its Sūdadohas 1; the plants and trees its earth-fillings (between the layers of bricks), its oblations and fire-logs 2; Agni (the terrestrial fire) its Lokampr̥ṇā (space-filling brick);–thus this comes to make up the whole Agni, and the whole Agni comes to be the space-filler 3; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler 4.
०२
विश्वास-प्रस्तुतिः
(ते ऽन्त᳘) अन्त᳘रिक्षᳫँ᳭ ह᳘ त्वे᳘वै᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्त᳘) त᳘स्य द्या᳘वापृथिव्यो᳘रेव᳘ सन्धिः᳘ परिश्रि᳘तः प᳘रेण हान्त᳘रिक्षं द्या᳘वापृथिवी सं᳘धत्तस्ताः᳘ परिश्रि᳘तो व्व᳘याᳫँ᳭सि य᳘जुष्मत्य ऽइ᳘ष्टका व्वर्षᳫँ᳭ सू᳘ददोहा म᳘रीचयः पु᳘रीषमा᳘हुतयः समि᳘धो व्वायु᳘र्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वं व्वायु᳘मे᳘वाभिस᳘म्पद्यते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिसं᳘पद्यते स यो[[!!]] हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिसं᳘पद्यते॥

अन्त᳘रिक्षᳫं हॗ त्वेॗवैॗषोऽग्नि᳘श्चितः᳟॥
त᳘स्य द्या᳘वापृथिव्यो᳘रेव᳘ संधिः᳘ परिश्रि᳘तः प᳘रेण हान्त᳘रिक्षं द्या᳘वापृथिवी सं᳘धत्तस्ताः᳘ परिश्रि᳘तो व᳘यांसि य᳘जुष्मत्य इ᳘ष्टका वर्षᳫं सू᳘ददोहा म᳘रीचयः पु᳘रीषमा᳘हुतयः समि᳘धो वायु᳘र्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वं वायु᳘मेॗवाभिस᳘म्पद्यते तत्स᳘र्वोऽग्नि᳘र्लो॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that Fire-altar also is the air:–the function of heaven and earth (the horizon) is its (circle of) enclosing-stones, for it is beyond the air that heaven and earth meet, and that (junction) is the (circle of) enclosing-stones; the birds are its Yajushmatī bricks, the rain its Sūdadohas, the rays
of light its earth-fillings, oblations and fire-logs; Vāyu (the wind) is its space-filler; thus this comes to make up the whole Agni, and the whole Agni comes to be the space-filler; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler.
०३
विश्वास-प्रस्तुतिः
द्यौ᳘र्ह᳘ त्वे᳘वै᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्त) तस्या᳘प ऽएव᳘ परिश्रि᳘तो य᳘था ह वा᳘ ऽइदं को᳘शः स᳘मुब्जित ऽएव᳘मिमे᳘ लोका᳘ ऽअप्स्व᳘न्तस्तद्या᳘ ऽइमाल्ँ᳘लोकान्प᳘रेणा᳘पस्ताः᳘ परिश्रि᳘तो देवा य᳘जुष्मत्य ऽइ᳘ष्टका य᳘दे᳘वैत᳘स्मिल्ँ लोके᳘ ऽन्नं तत्सू᳘ददोहा न᳘क्षत्राणि पु᳘रीषमा᳘हुतयः समि᳘ध ऽआदित्यो᳘ लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वमादित्य᳘मे᳘वाभिस᳘म्पद्यते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिसं᳘पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनंभूत᳘मेतत्स᳘र्व्वमभिसं᳘पद्यते॥

द्यौ᳘र्हॗ त्वेॗवैॗषोऽग्नि᳘श्चितः᳟॥
तस्या᳘प एव᳘ परिश्रि᳘तो य᳘था ह वा᳘ इदं को᳘शः स᳘मुब्जित एव᳘मिमे᳘ लोका᳘ अप्स्व᳘न्तस्तद्या᳘ इमां᳘लोकान्प᳘रेणा᳘पस्ताः परिश्रि᳘तो देवा य᳘जुष्मत्य इ᳘ष्टका य᳘देॗवैत᳘स्मिंलोके᳘ऽन्नं तत्सू᳘ददोहा न᳘क्षत्राणि पु᳘रीषमा᳘हुतयः समि᳘ध आदित्यो᳘ लोकम्पृणा तद्वा᳘ एतत्स᳘र्वमादित्य᳘मेॗवाभिस᳘म्पद्यते तत्स᳘र्वोऽग्नि᳘र्लो॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that Fire-altar also is the sky:–the (heavenly) waters are its enclosing-stones, for even as a case 5 here is closed up so are these worlds (enclosed) within the waters; and the waters beyond these worlds are the enclosing-stones;–the gods are the Yajushmatī bricks; what food there is in that world is its Sūdadohas; the Nakshatras (lunar mansions) are the earth-fillings, the oblations and the fire-logs; and Āditya (the sun) is the space-filler;–thus this comes to make up the whole Agni; and the whole Agni comes to be the space-filler; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler.
०४
विश्वास-प्रस्तुतिः
(त ऽ) आदित्यो᳘ ह᳘ त्वे᳘वै᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्त᳘) त᳘स्य दि᳘श ऽएव᳘ परिश्रि᳘तस्ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्यं दि᳘शः समन्तं प᳘रियन्ति रश्म᳘यो य᳘जुष्मत्य ऽइ᳘ष्टकास्ताः᳘ षष्टि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्य᳘स्य रश्म᳘यस्तद्य᳘त्परिश्रि᳘त्सु य᳘जुष्मतीः प्रत्यर्प्प᳘यति रश्मींस्त᳘द्दिक्षु प्र᳘त्यर्पयत्य᳘थ य᳘दन्तरा दि᳘शश्च रश्मीं᳘श्च तत्सू᳘ददोहा ऽअ᳘थ य᳘द्दिक्षु᳘ च रश्मि᳘षु चा᳘न्नं तत्पु᳘रीषं ता ऽआ᳘हुतयस्ताः᳘ समिधो᳘ ऽथ यद्दि᳘श ऽइ᳘ति च रश्म᳘य ऽइ᳘ति चाख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वं दि᳘श ऽइ᳘ति चैव᳘ रश्म᳘य ऽइ᳘ति चा᳘ख्यायते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिसं᳘पद्यते॥

आदित्यो᳘ हॗ त्वेॗवैॗषोऽग्नि᳘श्चितः᳟॥
त᳘स्य दि᳘श एव᳘ परिश्रि᳘तस्ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्यं दि᳘शः समन्तम् प᳘रियन्ति रश्म᳘यो य᳘जुष्मत्य इ᳘ष्टकास्ताः᳘ षष्टि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्य᳘स्य रश्म᳘यस्तद्य᳘त्परिश्रि᳘त्सु य᳘जुष्मतीः प्रत्यर्प᳘यति रश्मींस्त᳘द्दिक्षु प्र᳘त्यर्पयत्य᳘थ य᳘दन्तरा दि᳘शश्च रश्मीं᳘श्च तत्सू᳘ददोहा अ᳘थ य᳘द्दिक्षु᳘ च रश्मि᳘षु चा᳘न्नं तत्पु᳘रीषं ता आ᳘हुतयस्ताः᳘ समिधो᳘ऽथ यद्दि᳘श इ᳘ति च रश्म᳘य इ᳘ति चाख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वं दि᳘श इ᳘ति चैव᳘ रश्म᳘य इ᳘ति चा᳘ख्यायते तत्स᳘र्वोऽग्नि᳘र्लो॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that Fire-altar also is the sun:–the regions are its enclosing-stones, and there are three hundred and sixty of these 6, because three hundred and sixty regions encircle the sun on all sides;–the rays are its Yajushmatī bricks, for there are three hundred and sixty of these 7, and three hundred and sixty rays of the sun; and in that he establishes the Yajushmatīs within the enclosing-stones thereby he establishes the rays in the regions. And what is between the regions and the rays, is its Sūdadohas; and what food there is in the regions and rays that is the earth-fillings, the oblations and
the fire-logs; and that which is called both ‘regions’ and ‘rays’ is the space-filling (brick):–thus this comes to make up the whole Agni; and the whole Agni comes to be the space-filler; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler.
०५
विश्वास-प्रस्तुतिः
न᳘क्षत्राणि ह᳘ त्वे᳘वै᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्ता᳘) ता᳘नि वा᳘ ऽएता᳘नि सप्त᳘विᳫँ᳭शतिर्न᳘क्षत्राणि सप्त᳘विᳫँ᳭शतिः सप्तविᳫँ᳭शतिर्होपनक्षत्राण्ये᳘कैकं न᳘क्षत्रमनू᳘पतिष्ठन्ते ता᳘नि सप्त᳘ च शता᳘नि व्विᳫँ᳭शतिश्चा᳘धि ष᳘ट्त्रᳫँ᳭शत्त᳘तो या᳘नि सप्त᳘ च शता᳘नि व्विᳫँ᳭शतिश्चे᳘ष्टका ऽएव ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि परिश्रि᳘तः षष्टि᳘श्च त्री᳘णि च शता᳘नि य᳘जुष्मत्यो᳘ ऽथ यान्य᳘धि ष᳘ट्त्रिᳫँ᳭शत्स᳘ त्रयोदशो मा᳘सः स᳘ ऽआत्मा᳘ त्रिᳫँ᳭श᳘दात्मा᳘ प्रतिष्ठा द्वे᳘ प्राणा द्वे शि᳘र ऽएव᳘ षट्त्रि᳘ᳫँ᳘श्यौ तद्यत्ते द्वे भ᳘वतो᳘ द्व्यक्षरᳫँ᳭[[!!]] हि शिरो᳘ ऽथ य᳘दन्तरा[[!!]] न᳘क्षत्रे तत्सू᳘ददोहा ऽअ᳘थ यन्न᳘क्षत्रेष्व᳘न्नं तत्पु᳘रीषं ता ऽआ᳘हुतयस्ताः᳘ समिधो᳘ ऽथ यन्न᳘क्षत्राणी᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वं न᳘क्षत्राणी᳘त्येवाख्यायते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिस᳘म्पद्यते॥

न᳘क्षत्राणि हॗ त्वेॗवैॗषोऽग्नि᳘श्चि᳘तः॥
ता᳘नि वा᳘ एता᳘नि सप्त᳘विंशतिर्न᳘क्षत्राणि सप्त᳘विंशतिः सप्तविंशतिर्होपनक्षत्राण्ये᳘कैकं न᳘क्षत्रमनू᳘पतिष्ठन्ते ता᳘नि सप्त᳘ च शता᳘नि विंशतिश्चा᳘धि ष᳘ट्त्रिंशत्त᳘तो या᳘नि सप्त᳘ च शता᳘नि विंशतिश्चे᳘ष्टका एव ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि परिश्रि᳘तः षष्टि᳘श्च त्री᳘णि च शता᳘नि य᳘जुष्मत्यो᳘ऽथ यान्य᳘धि ष᳘ट्त्रिंशत्स᳘ त्रयोदशो मा᳘सः स᳘ आत्मा᳘ त्रिंश᳘दात्मा᳘ प्रतिष्ठा द्वे᳘ शि᳘र एव᳘ षट्त्रिंॗश्यौ तद्यत्ते द्वे भ᳘वतो द्व्य᳘क्षरᳫं हि शिरो᳘ऽथ य᳘दन्तरा᳘ न᳘क्षत्रे तत्सू᳘ददोहा अ᳘थ यन्न᳘क्षत्रेष्व᳘न्नं तत्पु᳘रीषं ता आ᳘हुतयस्ताः᳘ समिधो᳘ऽथ यन्न᳘क्षत्राणी᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वंन᳘क्षत्राणी᳘त्येवाख्यायते तत्स᳘र्वोऽग्नि᳘र्लो॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that Fire-altar also is the Nakshatras:–for there are twenty-seven of these Nakshatras, and twenty-seven secondary stars accompany each Nakshatra,–this makes seven hundred and twenty 8, and thirty-six in addition thereto. Now what seven hundred and twenty bricks 9 there are of these, they are the three hundred and sixty enclosing-stones and the three hundred and sixty Yajushmatī bricks; and what thirty-six there are in addition, they are the thirteenth (intercalary) month, the body (of the altar); the trunk 10 (consisting of) thirty, the feet of two, the (channels of the) vital airs of two 11, and the head itself being the (thirty-fifth and) thirty-sixth,–and as to there being two of these, it is because ‘śiras’ (head) consists of two syllables;–and what (space) there is between (each) two
Nakshatras that is the Sūdadohas; and what food there is in the Nakshatras that is the earth-fillings (between the layers of bricks), the oblations and the fire-logs; and what is called ’nakshatras’ that is the space-filling (brick):–thus this comes to make up the whole Agni, and the whole Agni comes to be the space-filler; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler.
०६
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृहत्य᳘ ऽएकविᳫँ᳭शो वै᳘ स्वर्ग्गो᳘ लोको᳘ बृहती᳘ स्वर्ग्गो᳘ लोकस्त᳘देष᳘ स्वर्ग्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृहत्य᳘ ऽएकविᳫँ᳭शो वै᳘ स्वर्ग्गो᳘ लोको᳘ बृहती᳘ स्वर्ग्गो᳘ लोकस्त᳘देष᳘ स्वर्ग्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
ए᳘कविंशतिर्बृहत्य᳘ एकविंशो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत एकविंशं᳘ च स्तो᳘मम् बृहतीं᳘ च छ᳘न्दः॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
०७
विश्वास-प्रस्तुतिः
(श्छ᳘) छ᳘न्दाᳫँ᳭सि ह᳘ त्वे᳘वै᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्ता᳘) ता᳘नि वा᳘ ऽएता᳘नि सप्त च्छ᳘न्दाᳫँ᳭सि चतुरुत्तरा᳘णि त्रिचा᳘नि ते᳘षाᳫँ᳭ सप्त᳘ च शता᳘नि व्विᳫँ᳭शति᳘श्चाक्ष᳘राण्य᳘धि ष᳘ट्त्रिᳫँ᳭शत्त᳘तो या᳘नि सप्त᳘ च शता᳘नि व्विᳫँ᳭शतिश्चे᳘ष्टका ऽएव ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि परिश्रि᳘तः षष्टि᳘श्च त्री᳘णि च शता᳘नि य᳘जुष्मत्यो᳘ ऽथ यान्य᳘धि ष᳘ट्त्रिᳫँ᳭शत्स᳘ त्रयोदशो मा᳘सः स᳘ ऽआत्मा᳘ त्रिᳫँ᳭श᳘दात्मा᳘ प्रतिष्ठा द्वे᳘ प्राणा द्वे शि᳘र ऽएव᳘ षट्त्रि᳘ᳫँ᳘श्यौ तद्यत्ते द्वे भ᳘वतो᳘ द्व्यक्षरᳫँ᳭[[!!]] हि शि᳘रः॥

छ᳘न्दांसि हॗ त्वेॗवैॗषोऽग्नि᳘श्चितः᳟॥
ता᳘नि वा᳘ एता᳘नि सप्त छ᳘न्दांसि चतुरुत्तरा᳘णि त्रिचा᳘नि ते᳘षाᳫं सप्त᳘ च शता᳘नि विंशति᳘श्चाक्ष᳘राण्य᳘धि ष᳘ट्त्रिंशत्त᳘तो या᳘नि सप्त᳘ च शता᳘नि विंशतिश्चे᳘ष्टका एव ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि परिश्रि᳘तः षष्टि᳘श्च त्री᳘णि च शता᳘नि य᳘जुष्मत्यो᳘ऽथ यान्य᳘धि ष᳘ट्त्रिंशत्स᳘ त्रयोदशो मा᳘सः स᳘ आत्मा त्रिंश᳘दात्मा᳘ प्रतिष्ठा द्वे᳘ प्राणा द्वे शि᳘र एव᳘ षट्त्रिं᳘श्यौ तद्यत्ते द्वे भ᳘वतो द्व्य᳘क्षरᳫं हि शि᳘रः॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that Fire-altar also is the Metres; for there are seven of these metres, increasing by four syllables 14; and the triplets of these make seven hundred and twenty syllables, and thirty-six in addition thereto. Now what seven hundred and twenty bricks there are of these, they are the three hundred and sixty enclosing-stones and the three hundred and sixty Yajushmatīs; and what thirty-six there are in addition, they are the thirteenth month, and the body (of this altar),–the trunk (consisting of) thirty, the feet of two,
the vital airs of two, and the head itself being the (thirty-fifth and) thirty-sixth; and as to there being two of these, it is because ‘śiras’ consists of two syllables.
०८
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्यै वा᳘ ऽएत᳘स्यै ष᳘ट्त्रिᳫँ᳭शदक्षरायै बृहत्यै[[!!]]॥
या᳘नि द᳘श प्रथमा᳘न्यक्ष᳘राणि सा द᳘शाक्षरै᳘कपदा᳘ ऽथ या᳘नि व्विᳫँ᳭शतिः सा᳘ व्विᳫँ᳭श᳘त्यक्षरा[[!!]] द्विपदा᳘ ऽथ या᳘नि त्रिᳫँ᳭शत्सा᳘ त्रिᳫँ᳭श᳘दक्षरा व्विराड᳘थ या᳘नि त्र᳘यस्त्रिᳫँ᳭शत्सा त्र᳘यस्त्रिᳫँ᳭शदक्षरा᳘ ऽथ या᳘नि च᳘तुस्त्रिᳫँ᳭शत्सा च᳘तुस्त्रिᳫँ᳭शदक्षरा स्वराड᳘थ यत्स᳘र्व्वैश्छ᳘न्दोभिरय᳘मग्नि᳘श्चितस्तद᳘तिच्छन्दास्ता᳘ ऽउ स᳘र्व्वा ऽइ᳘ष्टका ऽएवे᳘ष्टके᳘ति त्री᳘ण्यक्ष᳘राणि त्रि᳘पदा गायत्री ते᳘नैष᳘ गाय᳘त्रो ऽग्निर्मृदा᳘प ऽइ᳘ति त्री᳘ण्यक्ष᳘राणि त्रि᳘पदा गायत्री ते᳘नो ऽए᳘वैष᳘ गायत्रो᳘ ऽथ य᳘दन्तरा च्छ᳘न्दसी तत्सू᳘ददोहा ऽअ᳘थ यच्छ᳘न्दःस्व᳘न्नं तत्पु᳘रीषं ता ऽआ᳘हुतयस्ताः᳘ समिधो᳘ ऽथ यच्छ᳘न्दाᳫँ᳭सी᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वं छ᳘न्दाᳫँ᳭सी᳘त्येवा᳘ख्यायते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिसं᳘पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिसं᳘पद्यते॥

त᳘स्यै वा᳘ एत᳘स्यै ष᳘ट्त्रिंशदक्षरायै बृहत्यै᳟॥
या᳘नि द᳘श प्रथमा᳘न्यक्ष᳘राणि सा द᳘शाक्षरै᳘कपदा᳘थ या᳘नि विंशतिः सा᳘ विंशत्य᳘क्षरा द्विपदा᳘थ या᳘नि त्रिंशत्सा᳘ त्रिंश᳘दक्षरा विराड᳘थ यानि त्र᳘यस्त्रिंशत्सा त्र᳘यस्त्रिंशदक्षरा᳘थ या᳘नि च᳘तुस्त्रिंशत्सा च᳘तुस्त्रिंशदक्षरा स्वराड᳘थ यत्स᳘र्वैश्छ᳘न्दोभिरय᳘मग्नि᳘श्चितस्तद᳘तिछन्दास्ता᳘ उ स᳘र्वा इ᳘ष्टका एवे᳘ष्टके᳘ति त्री᳘ण्यक्ष᳘राणि त्रि᳘पदा गायत्री ते᳘नैष᳘ गायॗत्रोऽग्निर्मृदा᳘प इ᳘ति त्री᳘ण्यक्ष᳘राणि त्रि᳘पदा गायत्री ते᳘नो एॗवैष᳘ गायत्रो᳘ऽथ य᳘दन्तरा छ᳘न्दसी तत्सू᳘ददोहा अ᳘थ यच्छ᳘न्दःस्व᳘न्नं तत्पु᳘रीषं ता आ᳘हुतयस्ताः᳘ समिधो᳘ऽथ यच्छ᳘न्दांसी᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वं छ᳘न्दांसी᳘त्येवा᳘ख्यायते तत्स᳘र्वोऽग्नि᳘र्लो॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Now the first ten syllables of this Br̥hatī, consisting of thirty-six syllables, make an Ekapadā 15 of ten syllables; and the (first) twenty make a Dvipadā of twenty syllables; and the (first) thirty a Virāj 16 of thirty syllables; and the (first) thirty-three a (Virāj) of thirty-three syllables; and the (first) thirty-four a Svarāj 17 of thirty-four syllables; and in that this fire-altar is built with all metres thereby it is an Atichandas 18, and (so) indeed are all these bricks 19. And the three syllables ‘ishṭakā (brick)’ are a Gāyatrī tripadā, whence this Agni is Gāyatra; and the three syllables ‘mr̥d’ (clay) and ‘āpaḥ’ (water) 20 also are a Gāyatrī tripadā: thereby also he is Gāyatra. And what is between (each two) metres is the
Sūdadohas; and the food which is in the metres is the earth-fillings, the oblations, and the fire-logs; and what is called ‘metres,’ that is the space-filling (brick):–thus this comes to make up the whole Agni; and the whole Agni comes to be the space-filler; and, verily, whosoever knows this, comes to be that whole (Agni) who is the space-filler.
०९
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृहत्य᳘ ऽएकविᳫँ᳭शो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृहत्य᳘ ऽएकविᳫँ᳭शो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
ए᳘कविंशतिर्बृहत्य᳘ एकविंशो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत एकविंशं᳘ च स्तो᳘मम् बृहतीं᳘ च छ᳘न्दः॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Now, these (amount to) twenty-one Br̥hatīs; and–the heavenly world being the twenty-one-fold and the Br̥hatī–this (altar) thus comes to be equal to the heavenly world, and to the twenty-one-fold Stoma and the Br̥hatī metre.
१०
विश्वास-प्रस्तुतिः
संव्वत्सरो᳘ ह᳘ त्वे᳘वै᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्त᳘) त᳘स्य रा᳘त्रय ऽएव᳘ परिश्रि᳘तस्ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संव्वत्सर᳘स्य रा᳘त्रयो᳘ ऽहानि य᳘जुष्मत्य ऽइ᳘ष्टकास्ताः᳘ षष्टि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संव्वत्सरस्या᳘हान्य᳘थ या᳘ ऽअमूः ष᳘ट्त्रिᳫँ᳭शदि᳘ष्टका ऽअतिय᳘न्ति यः स᳘ त्रयोदशो मा᳘स ऽआ᳘त्मा ऽर्द्ध᳘मासा᳘श्च ते मा᳘साश्च च᳘तुर्व्विᳫँ᳭शतिरर्धमासा द्वा᳘दश मा᳘सा ऽअ᳘थ य᳘दन्त᳘रा ऽहोरात्रे तत्सू᳘ददोहा ऽअ᳘थ य᳘दहोरात्रेष्व᳘न्नं तत्पु᳘रीषं ता ऽआ᳘हुतयस्ताः᳘ समिधो᳘ ऽथ य᳘दहोरात्राणी᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वमहोरात्राणी᳘त्ये᳘वा᳘ख्यायते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिसं᳘पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिसं᳘पद्यते॥

संवत्सरो᳘ हॗ त्वेॗवैॗषोऽग्नि᳘श्चितः᳟॥
त᳘स्य रा᳘त्रय एव᳘ परिश्रि᳘तस्ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संवत्सर᳘स्य रा᳘त्रयो᳘ऽहानि य᳘जुष्मत्य इ᳘ष्टकास्ताः᳘ षष्टि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संवत्सरस्या᳘हान्य᳘थ या᳘ अमूः ष᳘ट्त्रिंशदि᳘ष्टका अतिय᳘न्ति यः स᳘ त्रयोदशो मा᳘स आॗत्मार्धमासा᳘श्च ते मा᳘साश्च च᳘तुर्विंशतिरर्धमासा द्वा᳘दश मा᳘सा अ᳘थ य᳘दन्तॗराहोरात्रे तत्सू᳘ददोहा अ᳘थ य᳘दहोरात्रेष्व᳘न्नं तत्पु᳘रीषं ता आ᳘हुतयस्ताः᳘ समिधो᳘ऽथ य᳘दहोरात्राणी᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वमहोरात्राणी᳘त्ये᳘वाख्यायते तत्स᳘र्वोऽग्नि᳘र्लो॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that Fire-altar also is the Year,–the nights are its enclosing-stones, and there are three hundred and sixty of these, because there are three hundred and sixty nights in the year; and the days are its Yajushmatī bricks, for there are three hundred and sixty of these, and three hundred and sixty days in the year; and those thirty-six bricks which are over 21 are the thirteenth month, the body (of the year and the altar), the half-months and months,–(there being) twenty-four half-months, and twelve months. And what there is between day and night that is the Sūdadohas; and what food there is in the days and nights is the earth-fillings, the oblations, and the fire-logs; and what is called ‘days and nights’ that constitutes the space-filling (brick):–thus this comes to make up the whole Agni, and the whole Agni comes to be the space-filler; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler.
११
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृह᳘त्य ऽएकविᳫँ᳭शो[[!!]] वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृह᳘त्य ऽएकविᳫँ᳭शो[[!!]] वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
ए᳘कविंशतिर्बृहत्य᳘ एकविंशो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यते एकविंशं᳘ च स्तो᳘मम् बृहतीं᳘ च छ᳘न्दः॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Now, these (amount to) twenty-one Br̥hatīs; and–the heavenly world being the twenty-one-fold and the Br̥hatī–this (altar) thus comes to be equal to the heavenly world, and to the twenty-one-fold Stoma and the Br̥hatī metre.
१२
विश्वास-प्रस्तुतिः
(ऽ) आत्मा᳘ ह᳘ त्वे᳘वै᳘षो ऽग्नि᳘श्चितः[[!!]]॥
(स्त) तस्या᳘स्थीन्येव᳘ परिश्रि᳘तस्ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्ठि᳘श्च ह वै त्री᳘णि च शता᳘नि पु᳘रुषस्या᳘स्थीनि मज्जा᳘नो य᳘जुष्मत्य ऽइ᳘ष्टकास्ताः᳘ षष्ठि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्ठि᳘श्च ह वै त्री᳘णि च शता᳘नि पु᳘रुषस्य मज्जानो᳘ ऽथ या᳘ ऽअमूः ष᳘ट्त्रिᳫँ᳭शदि᳘ष्टका ऽअतिय᳘न्ति यः स᳘ त्रयोदशो मा᳘स ऽआत्मा᳘ प्राणः स त᳘स्य त्रिᳫँ᳭श᳘दात्म᳘न्विधाः᳘ प्रतिष्ठा᳘यां द्वे᳘ प्राणे᳘षु द्वे᳘ शीर्षन्द्वे तद्यत्ते द्वे भ᳘वतो द्वि᳘कपालᳫँ᳭ हि शिरो᳘ ऽथ ये᳘नेमा᳘नि प᳘र्व्वाणि स᳘न्ततानि तत्सू᳘ददोहा ऽअ᳘थैत᳘त्त्रयं ये᳘नाय᳘मात्मा प्र᳘च्छन्नो लो᳘म त्व᳘ङ्माᳫँ᳭समि᳘ति तत्पुरीषं[[!!]] यत्पि᳘बति ता ऽआ᳘हुतयो य᳘दश्ना᳘ति ताः᳘ समिधो᳘ ऽथ य᳘दात्मे᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वमात्मे᳘त्येवा᳘ख्यायते तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेत᳘त्स᳘र्व्वमभिस᳘म्पद्यते॥

आत्मा᳘ हॗ त्वेॗवैॗषोऽग्नि᳘श्चितः᳟॥
तस्या᳘स्थीन्येव᳘ परिश्रि᳘तस्ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि पु᳘रुषस्या᳘स्थीनि मज्जा᳘नो य᳘जुष्मत्य इ᳘ष्टकास्ताः᳘ षष्टि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि पु᳘रुषस्य मज्जानो᳘ऽथ या᳘ अमूः ष᳘ट्त्रिंशदि᳘ष्टका अतिय᳘न्ति यः स᳘ त्रयोदशो मा᳘स आत्मा᳘ प्राणः स त᳘स्य त्रिंश᳘दात्म᳘न्विधाः᳘ प्रतिष्ठा᳘यां द्वे᳘ शीर्षन्द्वे तद्यत्ते द्वे भ᳘वतो द्वि᳘कपालᳫं हि शिरो᳘ऽथ ये᳘नेमा᳘नि प᳘र्वाणि सं᳘ततानि तत्सू᳘ददोहा अ᳘थैत᳘त्त्रयं ये᳘नाय᳘मात्मा प्र᳘छन्नो लो᳘म त्व᳘ङ्मांसमि᳘ति तत्पु᳘रीषं यत्पि᳘बति ता आ᳘हुतयो य᳘दश्ना᳘ति ताः᳘ समिधो᳘ऽथ य᳘दात्मे᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वमात्मे᳘त्येवा᳘ख्यायते तत्स᳘र्वोऽग्नि᳘र्लो॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that Fire-altar also-is the body,–the bones are its enclosing-stones, and there are three hundred and sixty of these, because there are three hundred and sixty bones in man; the marrow parts are the Yajushmatī bricks, for there are three hundred and sixty of these, and three hundred and sixty parts of marrow in man; and those thirty-six bricks which are over, are the thirteenth month, the trunk, the vital air (of the altar),–in his body there are thirty parts 22, in his feet two, in his vital airs two, and in his head two,–as to there being two of these, it is because the head consists of two skull-bones. And that whereby these joints are held together is the Sūdadohas; and those three whereby this body is covered–to wit, hair, skin, and flesh–are the earth-fillings; what he drinks is the oblations, and what he eats the fire-logs; and what is called the ‘body,’ that is the space-filling (brick):–thus this comes to make up the whole Agni, and the whole Agni comes to be the space-filler; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler.
१३
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृह᳘त्य ऽएकविᳫँ᳭शो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृह᳘त्य ऽएकविᳫँ᳭शो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
ए᳘कविंशतिर्बृह॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Now, these (amount to) twenty-one Br̥hatīs; and–the heavenly world being the twenty-one-fold and the Br̥hatī–this (altar) thus comes to be equal to the heavenly world, and to the twenty-one-fold Stoma and the Br̥hatī metre.
१४
विश्वास-प्रस्तुतिः
स᳘र्व्वाणि ह᳘ त्वेव᳘ भूता᳘नि॥
स᳘र्वे देवा᳘ ऽए᳘षो ऽग्नि᳘श्चित ऽआ᳘पो वै स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि ता᳘ है ता ऽआ᳘प ऽए᳘वै᳘षो ऽग्नि᳘श्चितस्त᳘स्य ना᳘व्या ऽएव᳘ परिश्रि᳘तस्ताः᳘ षष्ठि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्ठि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्यं ना᳘व्याः समन्तं प᳘रियन्ति ना᳘व्या ऽउ ऽएव य᳘जुष्मत्य ऽइ᳘ष्टकास्ताः᳘ षष्ठि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्ठि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्यं ना᳘व्या ऽअभि᳘क्षरन्त्य᳘थ य᳘दन्तरा ना᳘व्ये तत्सू᳘ददोहा ऽअ᳘थ या᳘ ऽअमूः ष᳘ट्त्रिᳫँ᳭शदि᳘ष्टका ऽअतिय᳘न्ति यः स᳘ त्रयोदशो मा᳘स ऽआ᳘त्मा ऽय᳘मेव स᳘ यो ऽय᳘ᳫँ᳘ हिरण्म᳘यः पुरुषः[[!!]]॥

स᳘र्वाणि हॗ त्वेव᳘ भूता᳘नि॥
स᳘र्वे देवा᳘ एॗषोऽग्नि᳘श्चित आ᳘पो वै स᳘र्वे देवाः स᳘र्वाणि भूता᳘नि ता᳘ हैता आ᳘प एॗवैॗषोऽग्नि᳘श्चितस्त᳘स्य ना᳘व्या एव᳘ परिश्रि᳘तस्ताः᳘ षष्टिश्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्यं ना᳘व्याः समन्तम् प᳘रियन्ति ना᳘व्या उ एव य᳘जुष्मत्य इ᳘ष्टकास्ताः᳘ षष्टि᳘श्चैव त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘न्यादित्यं ना᳘व्या अभि᳘क्षरन्त्य᳘थ य᳘दन्तरा ना᳘व्ये तत्सू᳘ददोहा अ᳘थ या᳘ अमूः ष᳘ट्त्रिंशदि᳘ष्टका अतिय᳘न्ति यः स᳘ त्रयोदशो मा᳘स आॗत्माय᳘मेव सॗ योऽय᳘ᳫं᳘ हिरण्म᳘यः पु᳘रुषः॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- But, indeed, that built Agni (the fire-altar) is all beings, all the gods; for all the gods, all beings are the waters 23, and that built fire-altar is the same as those waters 24;–the navigable streams (round the sun) are its enclosing-stones, and there are three hundred and sixty of these, because three hundred and sixty navigable streams encircle the sun on all sides; and the navigable streams, indeed, are also the Yajushmatī bricks, and there are three hundred and sixty of these, because three hundred and sixty navigable streams flow towards 25 the sun. And what is between (each) two navigable rivers is the Sūdadohas; and those thirty-six bricks which remain over are the same as that thirteenth month, and the body (of this altar, the waters 26,) is the same as this gold man.
१५
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्यैते᳘ प्रतिष्ठे᳘॥
रुक्म᳘श्च पुष्करपर्णं चा᳘पश्चादित्यमण्डलं᳘ च स्रु᳘चौ बाहू ता᳘विन्द्राग्नी द्वे᳘ स्वयमातृण्णे᳘ ऽइयं᳘ चान्त᳘रिक्षं च तिस्रो᳘ व्विश्व᳘ज्योतिष ऽएता᳘ देव᳘ता ऽअग्नि᳘र्व्वायु᳘रादित्य᳘ ऽएता᳘ ह्येव᳘ देव᳘ता व्वि᳘श्वं ज्यो᳘तिर्द्वा᳘दश ऽर्त᳘व्याः स᳘ संव्वत्सरः स᳘ ऽआत्मा प᳘ञ्च नाकस᳘दः प᳘ञ्च प᳘ञ्चचूडाः स᳘ यज्ञस्ते᳘ देवा ऽअ᳘थ य᳘द्विकर्णी᳘ च स्वयमातृण्णा चा᳘श्मा पृ᳘श्निर्य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते सा᳘ पञ्चत्रिᳫँ᳭शी᳘ लोकम्पृणा᳘यै य᳘जुः षट्त्रिᳫँ᳭शी᳘ सो ऽस्यैष स᳘र्व्वस्यान्त᳘मे᳘वात्मा स᳘ ऽएष स᳘र्व्वासामपां म᳘ध्ये स᳘ ऽएष स᳘र्व्वैः का᳘मैः स᳘म्पन्न ऽआ᳘पो वै स᳘र्व्वे का᳘माः स᳘ ऽए᳘षो ऽकामः᳘ सर्व्व᳘कामो न᳘ ह्येतं क᳘स्य चन का᳘मः॥

त᳘स्यैते᳘ प्रतिष्ठे᳟॥
रुक्म᳘श्च पुष्करपर्णं चा᳘पश्चादित्यमण्डलं᳘ च स्रु᳘चौ बाहू ता᳘विन्द्राग्नी द्वे᳘ स्वयमातृणे᳘ इयं᳘ चान्त᳘रिक्षं च तिस्रो᳘ विश्व᳘ज्योतिष एता᳘ देव᳘ता अग्नि᳘र्वायु᳘रादित्य᳘ एताॗ ह्येव᳘ देव᳘ता वि᳘श्वं ज्यो᳘तिर्द्वा᳘दशर्तॗव्याः स᳘ संवत्सरः स᳘ आत्मा प᳘ञ्च प᳘ञ्चचूडाः स᳘ यज्ञस्ते᳘ देवा अ᳘थ य᳘द्विकर्णी᳘ च स्वयमातृणा चा᳘श्मा पृ᳘श्निर्य᳘श्चिॗतेऽग्नि᳘र्निधीय᳘ते सा᳘ पञ्चत्रींशी᳘ लोकम्पृणा᳘यै य᳘जुः षट्त्रिंशीॗ सोऽस्यैष स᳘र्वस्यान्त᳘मेॗवात्मा स᳘ एष स᳘र्वासामपाम् म᳘ध्ये स᳘ एष स᳘र्वैः का᳘मैः स᳘म्पन्न आ᳘पो वै स᳘र्वे का᳘माः स᳘ एॗषोऽकामः᳘ सर्व᳘कामो नॗ ह्येतं क᳘स्य चन का᳘मः॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- His feet are that gold plate and lotus-leaf(that is) the waters and the sun’s orb 27–are his feet; his arms are the two spoons, and they are Indra and Agni; the two naturally-perforated (bricks) are this earth and the air; and the three Viśvajyotis (all-light) bricks are these deities–Agni, Vāyu, and
Āditya, for these deities, indeed, are all the light; and the twelve seasonal (bricks) are the year, the body (of the altar, and the gold man); and the five Nākasads and five Pañcacūḍās are the sacrifice, the gods; and the Vikarṇī the (third) Svayamātr̥ṇṇā and the variegated stone 28; and the fire which is deposited (on the altar 28) is the thirty-fifth; and the formula of the Lokampr̥ṇā (brick) 29 is the thirty-sixth;–that (gold man), indeed, the body (of the altar) is the end of everything here 30: he is in the midst of all the waters, endowed with all objects of desire–for all objects of desire are the waters 31; whilst possessed of all (objects of) desires he is without desire, for no desire of anything (troubles) him 32.
१६
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘देष श्लो᳘को भवति॥
व्विद्य᳘या तदा᳘रोहन्ति य᳘त्र का᳘माः प᳘रागताः। न त᳘त्र द᳘क्षिणा य᳘न्ति ना᳘विद्वाᳫँ᳭सस्तपस्वि᳘न ऽइ᳘ति न᳘ हैव तं᳘ लोकं द᳘क्षिणाभिर्न त᳘पसा᳘ ऽनेवंवि᳘दश्नुत ऽएवं वि᳘दाᳫँ᳭ हैव स᳘ लो᳘कः[[!!]]॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘देष श्लो᳘को भवति॥
व्विद्य᳘या तदा᳘रोहन्ति य᳘त्र का᳘माः प᳘रागताः। न त᳘त्र द᳘क्षिणा य᳘न्ति ना᳘विद्वाᳫँ᳭सस्तपस्वि᳘न ऽइ᳘ति न᳘ हैव तं᳘ लोकं द᳘क्षिणाभिर्न त᳘पसा᳘ ऽनेवंवि᳘दश्नुत ऽएवं वि᳘दाᳫँ᳭ हैव स᳘ लो᳘कः[[!!]]॥
मूलम् - Weber
त᳘देष श्लो᳘को भवति॥
विद्य᳘या तदा᳘रोहन्ति य᳘त्र का᳘माः प᳘रागताः न त᳘त्र द᳘क्षिणा य᳘न्ति ना᳘विद्वांसस्तपस्वि᳘न इ᳘ति न᳘ हैव तं᳘ लोकं द᳘क्षिणाभिर्न त᳘पसा᳘नेवंविदश्नुत 33 एवंवि᳘दाᳫं हैव स᳘ लोकः᳟॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Regarding this there is this verse–‘By knowledge 34 they ascend that (state) where desires have vanished 35: sacrificial gifts go not thither 36, nor the fervid practisers of rites without knowledge;’–for, indeed, he who does not know this does not attain to that world either by sacrificial gifts or by devout
practices, but only to those who know does that world belong.
१७
विश्वास-प्रस्तुतिः
(को ऽभ्रं) अभ्रं पु᳘रीषम्॥
(ञ्च) चन्द्र᳘मा ऽआ᳘हुतयो न᳘क्षत्राणि समि᳘धो य᳘च्चन्द्र᳘मा न᳘क्षत्रे व्व᳘सत्या᳘हुतिस्त᳘त्समि᳘धि व्वसत्येत᳘दु वा ऽआ᳘हुतेर᳘न्नमेषा᳘ प्रतिष्ठा त᳘स्मादा᳘हुतिर्न᳘ क्षीयत ऽएत᳘द्ध्यस्या ऽअ᳘न्नमेषा᳘[[!!]] प्रतिष्ठा᳘ ऽथ य᳘द्देवा ऽइ᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ ऽएतत्स᳘र्व्वं देवा ऽइ᳘त्येवा᳘ख्यायते॥

अभ्रम् पु᳘रीषम्॥
चन्द्र᳘मा आ᳘हुतयो न᳘क्षत्राणि समि᳘धो य᳘च्चन्द्र᳘मा न᳘क्षत्रे व᳘सत्या᳘हुतिस्त᳘त्समि᳘धि वसत्येत᳘दु वा आ᳘हुतेर᳘न्नमेषा᳘ प्रतिष्ठा त᳘स्मादा᳘हुतिर्न᳘ क्षीयत एतद्ध्य᳘स्या अ᳘न्नमेषा᳘ प्रतिष्ठा᳘थ य᳘द्देवा इ᳘त्याख्याय᳘ते त᳘ल्लोकम्पृणा तद्वा᳘ एतत्स᳘र्वं देवा इ᳘त्येवा᳘ख्यायते॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- The welkin is the earth-fillings (between the layers of brick); the moon the oblations; the Nakshatras (lunar mansions) the fire-logs,–because the moon resides in (or with) the Nakshatra, therefore the oblation resides in the fire-wood: that 37, indeed, is the food of the oblation, and its support; whence the oblation does not fail (na kshīyate), for that is its food and its support And what are called ’the gods’ they are the space-filling (brick); for by (naming) the gods everything here is named.
१८
विश्वास-प्रस्तुतिः
त᳘देत᳘दृ᳘चा᳘ ऽभ्युक्तम्॥
(म्वि᳘) व्वि᳘श्वे देवा ऽअ᳘नु तत्ते य᳘जुर्गुरि᳘ति स᳘र्व्वाणि ह्य᳘त्र भूता᳘नि स᳘र्व्वे देवा य᳘जुरेव भ᳘वन्ति तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिस᳘म्पद्यते॥
मूलम् - श्रीधरादि
त᳘देत᳘दृ᳘चा᳘ ऽभ्युक्तम्॥
(म्वि᳘) व्वि᳘श्वे देवा ऽअ᳘नु तत्ते य᳘जुर्गुरि᳘ति स᳘र्व्वाणि ह्य᳘त्र भूता᳘नि स᳘र्व्वे देवा य᳘जुरेव भ᳘वन्ति तत्स᳘र्व्वो ऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं व्वे᳘द लोकम्पृणा᳘मेनं भूत᳘मेतत्स᳘र्व्वमभिस᳘म्पद्यते॥
मूलम् - Weber
त᳘देत᳘दृॗचाॗभ्युक्तम्॥
वि᳘श्वे देवा अ᳘नु तत्ते य᳘जुर्गुरि᳘ति स᳘र्वाणि ह्य᳘त्र भूता᳘नि स᳘र्वे देवा य᳘जुरेव भ᳘वन्ति तत्स᳘र्वोऽग्नि᳘र्लोकम्पृणा᳘मभिस᳘म्पद्यते स यो᳘ हैत᳘देवं वे᳘द लोकम्पृणा᳘मेनम् भूत᳘मेतत्स᳘र्वमभिस᳘म्पद्यते॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
18 It is regarding this that it is said by the R̥c (X, 12, 3), ‘The All-gods have gone after this thy Yajus,’–for all beings, all the gods, indeed, become the Yajus here. Thus this whole Agni comes to be the space-filler; and, verily, whosoever knows this, thus comes to be that whole (Agni) who is the space-filler.
१९
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृहत्य᳘ ऽएकविᳫँ᳭शो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः[[!!]]॥
(ऽ) ए᳘कविᳫँ᳭शतिर्बृहत्य᳘ ऽएकविᳫँ᳭शो वै᳘ स्वर्गो᳘ लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत ऽएकविᳫँ᳭शं᳘ च स्तो᳘मं बृहतीं᳘ च च्छ᳘न्दः॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
ए᳘कविंशतिर्बृहत्य᳘ एकविंशो वै᳘ स्वर्गो लोको᳘ बृहती᳘ स्वर्गो᳘ लोकस्त᳘देष᳘ स्वर्गं᳘ लोक᳘मभिस᳘म्पद्यत एकविंशं᳘ च स्तो᳘मम् बृहतीं᳘ च छ᳘न्दः॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Now, these (amount to) twenty-one Br̥hatīs; and–the heavenly world being the twenty-one-fold and the Br̥hatī–this (altar) thus comes to be equal to the heavenly world, and to the twenty-one-fold Stoma and the Br̥hatī metre.
-
381:1 That is, either the food obtained by the milking of the drink of immortality (amr̥tadohānnam), or the verse R̥g-veda VIII, 69, 3 (tā asya sūdadohasaḥ, &c.) pronounced over the ‘settled’ brick, and supposed to supply vital air to the different parts of Agni-Prajāpati’s body (whence it is also repeated in the Br̥had Uktham between the different parts of the bird-like body; cf. p. 112, note 1). Sāy. ↩︎
-
381:2 Sāyaṇa seems to interpret this in two different ways,–oshadhivanaspataya eva purīshāhutisamittrayarūpā etasya purīshāhutisamittrayarūpatvam uttaratra spashṭīkarishyate; atha (vā) yad dikshu ca raśmishu cānnaṁ tat purīshaṁ tā ahutayas tāḥ samidhaḥ. ↩︎
-
381:3 See X, 5, 2, 8. Viz. ‘inasmuch as all become fit for their work by being provided with fire.’ Sāy. ↩︎
-
381:4 Or, the word-filler, the ruler of the world (lokādhishṭḥātr̥). Sāy. ↩︎
-
382:1 Or, as (the valves, or shells, of) a pod are closed up. ↩︎
-
382:2 See p. 354, note 2. ↩︎
-
382:3 See IX, 4, 3, 6. ↩︎
-
383:1 On this inaccurate calculation (the real product being 729), resorted to in order to get a total amount equal to the number of Yajushmatī bricks (756), see A. Weber, Nakshatra, II, p. 298. ↩︎
-
383:2 That is, Nakshatras considered as the bricks of which the fire-altar is constructed. The latter being identical with the year, the 720 bricks represent the days and nights of the year. ↩︎
-
383:3 Thus Sāyaṇa (madhyadeha),–the ātman (in that case, however, the whole body) is usually represented as consisting of twenty-five parts. Here the thirty parts would probably be the trunk, the head, the upper and fore-arms, the thighs and shanks, and the fingers and toes. ↩︎
-
383:4 Viz. inasmuch as eyes, ears, and nostrils are in pairs. Sāy. ↩︎
-
384:1 The Br̥hatī verse consisting of 36 syllables, this makes a total of 756 syllables, or the same amount as that of the days and nights of the year, plus the days (36) of the intercalary month. ↩︎
-
384:2 Viz. inasmuch as the sun is ’the twenty-first,’ cf. I, 3, 5, 11; VI, 2, 2, 3: svargas tv āditya iti surake(tu)rūpo vā lokaḥ svargaḥ ekaviṁśatisaṁkhyāpūrakaḥ. Sāy ↩︎
-
384:3 The seven metres, increasing by four syllables from 24 up to 48, consist together of 252 syllables, and hence the triplets of them amount to 756 = 720 + 36 syllables. ↩︎
-
385:1 The Ekapadā is a verse consisting of a single pāda, and the Dvipadā one of two pādas, whilst verses in the ordinary metres consist of three or four pādas. ↩︎
-
385:2 The Virāj is a metre consisting of 1 to 4 (usually 3) decasyllabic pādas; the one consisting of four such pādas being, however, commonly called Paṅkti. Besides this, the principal, Virāj, there is, however, another consisting of 3 pādas of 11 syllables each. ↩︎
-
385:3 This name, which is here applied to a verse of 34 syllables, was in VII, 4, 1, 9 used of a verse of 10 + 10 + 11 + 11 = 42 syllables (Vāj. S. XI, 29); cf. Weber, Ind. Stud. VIII, p. 63. ↩︎
-
385:4 That is, an over-metre, excessive metre, consisting of more than 48 syllables. The fire-altar, being built up with all the metres (viz. with the Chandasyā bricks, representing the metres, cf. VIII, 3, 3, 1 seqq.), would thus-far exceed the latter number. ↩︎
-
385:5 ? Thus Sāyaṇa: cityāgnir atichandā iti yat tena sarvā ishṭakā atichandomayya ity uktam. ↩︎
-
385:6 That is, the materials used for making bricks. ↩︎
-
386:1 Viz. those required to make up the 756 Yajushmatīs. ↩︎
-
387:1 See p. 383, note 3. ↩︎
-
388:1 Viz. inasmuch as they are the foundation and ultimate source of the universe; cf. VI, 8, 2, 2. 3; and everything is contained therein, X, 5, 4, 3. ↩︎
-
388:2 Viz. inasmuch as the built Agni is the same as the sun, and the sun is surrounded by water; cf. p. 368, note 1. ↩︎
-
388:3 It is not clear whether these rivers are meant to be different ones from those flowing round the sun, or whether they are the same as ‘washing against’ the sun. ↩︎
-
388:4 Athokteshu paryāyeshv agnyavayava-trayodaśamāsātmika ātmā agnyātmanā dhyeyānām apām ātmety arthaḥ. Sāy. ↩︎
-
388:5 That is, in regard to the sacrifice, the gold plate and lotus-leaf are his feet, and in regard to the deity, the waters and the sun’s disk. Sāy. They are, nevertheless, counted as four. ↩︎
-
389:1 For this stone, which was deposited near the Āgnīdhrīya shed, and afterwards placed in the Āgnīdhra hearth, see p. 243, note 2. ↩︎ ↩︎
-
389:2 See VIII, 7, 2, 6. ↩︎
-
389:3 See X, 5, 2, 6-8. ↩︎
-
389:4 Sa eva . . . shaṭtriṁśadishṭakāmayo hiraṇmayaḥ purusha ātmā sarvabhūtadevātmanām apām agnyātmanā dhyeyānām madhye vartate. Sāy. ↩︎
-
389:5 Sāyaṇa does not explain this last sentence. ↩︎
-
त᳘पसा᳘नेवंवि᳘द A. ↩︎
-
389:6 ‘Only by knowledge is such a body (self) to be obtained by all, not by hundreds of religious performances.’ Sāy. ↩︎
-
389:7 Yatra svarūpe kāmāḥ sarve parāgatā vivr̥ttāḥ (? nivr̥ttaḥ) svayam akāmam ity arthaḥ, tad ātmasvarūpaṁ vidyayā svarūpeṇa ārohanti āpnuvanti. Sāy. ↩︎
-
389:8 Sāyaṇa takes ‘dakshiṇā’ as instrumental, in accordance with the comment offered by the Brāhmaṇa, which, however, is probably not meant as a close grammatical explanation. ↩︎
-
390:1 Viz. the staying (of the moon) in, or with, the Nakshatras, whose name is then made use of for a fanciful etymology. ↩︎