०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिं वै᳘ प्रजाः᳘ सृज᳘मानम्॥
(म्पा) पाप्मा᳘ मृत्युरभिप᳘रिजघान[[!!]] स त᳘पो ऽतप्यत सह᳘स्रᳫँ᳭ संव्वत्सरा᳘न्पाप्मा᳘नं व्विजि᳘हासन्॥
मूलम् - श्रीधरादि
प्रजा᳘पतिं वै᳘ प्रजाः᳘ सृज᳘मानम्॥
(म्पा) पाप्मा᳘ मृत्युरभिप᳘रिजघान[[!!]] स त᳘पो ऽतप्यत सह᳘स्रᳫँ᳭ संव्वत्सरा᳘न्पाप्मा᳘नं व्विजि᳘हासन्॥
मूलम् - Weber
प्रजा᳘पतिं वै᳘ प्रजाः᳘ सृज᳘मानम्॥
पाप्मा᳘ मृत्यु᳘रभिप᳘रिजघान स त᳘पोऽतप्यत सह᳘स्रᳫं संवत्सरा᳘न्पाप्मा᳘नं विजि᳘हासन्॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- When Prajāpati was creating living beings, Death, that evil, overpowered him. He practised austerities for a thousand years, striving to leave evil behind him.
०२
विश्वास-प्रस्तुतिः
(संस्त᳘) त᳘स्य त᳘पस्तेपान᳘स्य॥
(स्यै) एभ्यो᳘ लोमगर्ते᳘भ्य ऽऊर्ध्वा᳘नि ज्यो᳘तीᳫँ᳭ष्यायंस्तद्या᳘नि ता᳘नि ज्यो᳘तीᳫँ᳭ष्येता᳘नि ता᳘नि न᳘क्षत्राणि या᳘वन्त्येता᳘नि न᳘क्षत्राणि ता᳘वन्तो लोमगर्ता या᳘वन्तो लोमगर्तास्ता᳘वन्तः सह᳘स्रसंव्वत्सर᳘स्य मुहूर्ताः[[!!]]॥
मूलम् - श्रीधरादि
(संस्त᳘) त᳘स्य त᳘पस्तेपान᳘स्य॥
(स्यै) एभ्यो᳘ लोमगर्ते᳘भ्य ऽऊर्ध्वा᳘नि ज्यो᳘तीᳫँ᳭ष्यायंस्तद्या᳘नि ता᳘नि ज्यो᳘तीᳫँ᳭ष्येता᳘नि ता᳘नि न᳘क्षत्राणि या᳘वन्त्येता᳘नि न᳘क्षत्राणि ता᳘वन्तो लोमगर्ता या᳘वन्तो लोमगर्तास्ता᳘वन्तः सह᳘स्रसंव्वत्सर᳘स्य मुहूर्ताः[[!!]]॥
मूलम् - Weber
त᳘स्य त᳘पस्तेपान᳘स्य॥
एभ्यो᳘ लोमगर्ते᳘भ्य ऊर्ध्वा᳘नि ज्यो᳘तींष्यायंस्तद्या᳘नि ता᳘नि ज्यो᳘तींष्येता᳘नि ता᳘नि न᳘क्षत्राणि या᳘वन्त्येता᳘नि न᳘क्षत्राणि ता᳘वन्तो लोमगर्ता या᳘वन्तो लोमगर्तास्ता᳘वन्तः सह᳘स्रसंवत्सरस्य 1 मुहूर्ताः᳟॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Whilst he was practising austerities, lights went upwards from those hair-pits 2 of his; and those lights are those stars: as many stars as there are, so many hair-pits there are; and as many hair-pits as there are, so many muhūrtas there are in a (sacrificial performance) of a thousand years.
०३
विश्वास-प्रस्तुतिः
स᳘ सहस्रतमे᳘ संव्वत्सरे[[!!]]॥
सर्व्व्वो᳘ ऽत्यपवत स᳘ यः सो ऽत्य᳘पवताय᳘मेव स᳘ व्वायुर्यो ऽयं[[!!]] प᳘वते᳘ ऽथ यं तं᳘ पाप्मा᳘नमत्य᳘पवतेदं तच्छ᳘रीरं क᳘ ऽउ त᳘स्मै मनु᳘ष्यो यः᳘ सह᳘स्रसंव्वत्सरम᳘वरुन्धीत[[!!]] व्विद्य᳘या ह वा᳘ ऽएवंवि᳘त्सह᳘स्रसंव्वत्सरम᳘वरुन्द्धे॥
मूलम् - श्रीधरादि
स᳘ सहस्रतमे᳘ संव्वत्सरे[[!!]]॥
सर्व्व्वो᳘ ऽत्यपवत स᳘ यः सो ऽत्य᳘पवताय᳘मेव स᳘ व्वायुर्यो ऽयं[[!!]] प᳘वते᳘ ऽथ यं तं᳘ पाप्मा᳘नमत्य᳘पवतेदं तच्छ᳘रीरं क᳘ ऽउ त᳘स्मै मनु᳘ष्यो यः᳘ सह᳘स्रसंव्वत्सरम᳘वरुन्धीत[[!!]] व्विद्य᳘या ह वा᳘ ऽएवंवि᳘त्सह᳘स्रसंव्वत्सरम᳘वरुन्द्धे॥
मूलम् - Weber
स᳘ सहस्रतमे᳘ संवत्सरे᳟॥
सर्वो᳘ऽत्यपवत सॗ यः सोऽत्य᳘पवताय᳘मेव स᳘ वायुॗर्योऽयम् प᳘वते᳘ऽथ यं त᳘म् पाप्मा᳘नमत्य᳘पवतेदं तछ᳘रीरं क᳘ उ त᳘स्मै मनुॗष्यो यः᳘ सह᳘स्रसंवत्सरमवरुन्धीत᳘ 3 विद्य᳘या ह वा᳘ एवंवि᳘त्सह᳘स्रसंवत्सरम᳘वरुन्द्धे॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- In the one-thousandth year, he cleansed himself all through; and he that cleansed all through is this wind which here cleanses by blowing; and that evil which he cleansed all through is this body.
But what is man that he could secure for himself a (life) of a thousand years 4? By knowledge, assuredly, he who knows secures for himself (the benefits of a performance) of a thousand years.
०४
विश्वास-प्रस्तुतिः
स᳘र्व्वा ऽए᳘वैता ऽइ᳘ष्टकाः साहस्रीरु᳘पासीत॥
रात्रिसहस्रे᳘ण रात्रिसहस्रेणै᳘कैकां परिश्रि᳘तᳫँ᳭ स᳘म्पन्नामु᳘पासीताहःसहस्रे᳘णाहःसहस्रेणै᳘कैकामहर्भा᳘जमर्धमाससहस्रे᳘णार्धमाससहस्रेणै᳘कैकामर्धमासभा᳘जं माससहस्रे᳘ण माससहस्रेणै᳘कैकां मासभा᳘जमृतुसहस्रे᳘ण ऽर्तुसहस्रेणै᳘कैकामृतुभा᳘जं मुहूर्तसहस्रे᳘ण मुहूर्तसहस्रेणै᳘कैकां मुहूर्तभा᳘जᳫँ᳭ संवत्सरसहस्रे᳘ण संवत्सरं ते य᳘ ऽएत᳘मेव᳘मग्नि᳘ᳫँ᳘ संव्वत्सरे᳘ण स᳘म्पन्नं व्विदुः᳘ सहस्रतमी᳘ᳫँ᳘ हास्य ते᳘ कलां᳘ व्विदुर᳘थ य᳘ ऽएनमेवं न᳘ व्विदुर्न᳘ हास्य ते᳘ सहस्रतमीं᳘ चन᳘ कलां᳘ विदुर᳘थ य᳘ ऽए᳘वैवं व्वे᳘द यो᳘ वैतत्क᳘र्म कुरुते स᳘ है᳘वैतᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्राजापत्य᳘मग्नि᳘माप्नो᳘ति यं᳘ प्रजा᳘पतिरा᳘प्नोत्त᳘स्मादेवंवित्त᳘प ऽएव᳘ तप्येत य᳘दु ह वा᳘ ऽएवंवित्त᳘प ऽएव तप्य᳘त ऽआ᳘ मैथुनात्स᳘र्व्वᳫँ᳭ हास्य त᳘त्स्वर्गं᳘ लोक᳘मभिस᳘म्भवति॥

स᳘र्वा एॗवैता इ᳘ष्टकाः साहस्रीरु᳘पासीत॥
रात्रिसहस्रे᳘ण रात्रिसहस्रेणै᳘कैकाम् परिश्रि᳘तᳫं स᳘म्पन्नामु᳘पासीताहःसहस्रे᳘णाहःसहस्रेणै᳘कैकामहर्भा᳘जमर्धमाससहस्रे᳘णार्धमाससहस्रेणै᳘कैकामर्धमासभा᳘जम् माससहस्रे᳘ण-माससहस्रेणै᳘कैकाम् मासभा᳘जमृतुसहस्रे᳘णर्तृसहस्रेणै᳘कैकामृतुभा᳘जम् मुहूर्तसहस्रे᳘ण-मुहूर्तसहस्रेणै᳘कैकाम् मुहूर्तभा᳘जᳫं संवत्सरसहस्रे᳘ण संवत्सरं ते य᳘ एत᳘मेव᳘मग्नि᳘ᳫं᳘ संवत्सरे᳘ण स᳘म्पन्नं विदुः᳘ सहस्रतमी᳘ᳫं᳘ हास्य ते᳘ कलां᳘ विदुर᳘थ य᳘ एनमेवं न᳘ विदुर्न᳘ हास्य ते᳘ सहस्रतमीं᳘ चन᳘ कलां᳘ विदुर᳘थ य᳘ एॗवैवं वे᳘द यो᳘ वैतत्क᳘र्म कुरुते स᳘ हैॗवैतᳫं स᳘र्वं कृत्स्न᳘म् प्राजापत्य᳘मग्नि᳘माप्नोति य᳘म् प्रजा᳘पतिरा᳘प्नोत्त᳘स्मादेवंवित्त᳘प एव᳘ तप्येत य᳘दु ह वा᳘ एवंवित्त᳘प तप्य᳘त आ᳘ मैथुनात्स᳘र्वᳫं हास्य त᳘त्स्वर्गं᳘ लोक᳘मभिस᳘म्भवति॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- Let him look upon all these bricks as a thousandfold: let him look upon each enclosing-stone as charged with a thousand nights, each day-holder 5 with a thousand days, each half-moon-holder with a thousand half-moons, each month-holder with a thousand months, each season-holder with a thousand seasons, each muhūrta-holder 6 with a thousand muhūrtas, and the year with a thousand years. They who thus know this Agni as being endowed with a thousand, know his one-thousandth digit; but they who do not thus know him, do not even know a one-thousandth digit of him. And he alone who so knows this, or who performs this sacred work, obtains this whole and complete Prajāpatean Agni whom Prajāpati obtained. Wherefore let him who knows this by all means practise austerities 7; for, indeed, when he who knows this practises austerities, even to (abstention from) sexual intercourse, every (part) of him will share in the world of heaven 8.
०५
विश्वास-प्रस्तुतिः
त᳘देत᳘दृ᳘चा᳘ ऽभ्युक्तम्॥
(न्न) न मृ᳘षा श्रान्तं यद᳘वन्ति देवा ऽइ᳘ति न᳘ है᳘वैवं᳘विदु᳘षः किं᳘चन मृ᳘षा श्रान्तं᳘ भवति त᳘थो हास्यैतत्स᳘र्व्वं देवा᳘ ऽअवन्ति॥
मूलम् - श्रीधरादि
त᳘देत᳘दृ᳘चा᳘ ऽभ्युक्तम्॥
(न्न) न मृ᳘षा श्रान्तं यद᳘वन्ति देवा ऽइ᳘ति न᳘ है᳘वैवं᳘विदु᳘षः किं᳘चन मृ᳘षा श्रान्तं᳘ भवति त᳘थो हास्यैतत्स᳘र्व्वं देवा᳘ ऽअवन्ति॥
मूलम् - Weber
त᳘देत᳘दृॗचाॗभ्युक्तम्॥
न मृ᳘षा श्रान्तं यद᳘वन्ति देवा इ᳘ति न᳘ हैॗवैवं᳘ विदु᳘षः किं᳘ चन मृ᳘षा श्रान्त᳘म् भवति त᳘थो हास्यैतत्स᳘र्वं देवा᳘ अवन्ति॥
मूलम् - विस्वरम्
सायणः
…
Eggeling
- It is regarding this that it is said in the R̥k (I, 179, 3), ‘Not in vain is the labour which the gods favour;’ for, in truth, for him who knows there is no labouring in vain, and so, indeed, the gods favour this every (action) of his 9.
-
सह᳘स्रसंवत्सर᳘स्य A ↩︎
-
361:3 That is, the pores from which the hairs spring. ↩︎
-
सह᳘स्रसंवत्सरम᳘वरुंधीत A. ↩︎
-
362:1 Tasmai sahasrasaṁvatsarajīvanāya ko vā manushyaḥ śaknuyāt; manushyāvadhiḥ śatam ato jīvato manushyeṇa sahasrasaṁvatsarāḥ prāptum aśakyāt. Sāy. ↩︎
-
362:2 That is, the majority of Yajushmatī bricks, viz. 360 of them, whilst the remaining ones are supposed to stand in lieu of half-moons, months, and seasons; see X, 4, 3, 19. ↩︎
-
362:3 Viz. the Lokampr̥ṇā bricks; see X, 4, 3, 20. ↩︎
-
362:4 Or, religious fervour (meditation). ↩︎
-
362:5 Or, as Sāyaṇa seems to interpret it, ’that austerity will gain for him all his (Agni’s thousandfold perfection) and the heavenly world (?),’–etat tapaḥ agnes tadavayavānāṁ ca sahasrātmakatvarūpaṁ karoti tasmāc ca svargalokaprāptir bhavatīty arthaḥ. ↩︎
-
363:1 Evaṁ vidvān yat kurute tat sarvaṁ yad yasmād devā avanti. Sāy. ↩︎