०१

विश्वास-प्रस्तुतिः

एष वै᳘ मृत्युर्य᳘त्संव्वत्सरः᳘॥
(ऽ) एष हि म᳘र्त्यानामहोरात्रा᳘भ्यामा᳘युः क्षिणोत्य᳘थ म्रियन्ते त᳘स्मादेष᳘ ऽएव᳘ मृत्युः स यो᳘ हैतं᳘ मृत्यु᳘ᳫँ᳘ संव्वत्सरं व्वे᳘द न᳘ हास्यैष᳘ पुरा᳘ जर᳘सो ऽहोरात्रा᳘भ्यामा᳘युः क्षिणो᳘ति स᳘र्व्वᳫँ᳭ हैवा᳘युरेति॥

मूलम् - श्रीधरादि

एष वै᳘ मृत्युर्य᳘त्संव्वत्सरः᳘॥
(ऽ) एष हि म᳘र्त्यानामहोरात्रा᳘भ्यामा᳘युः क्षिणोत्य᳘थ म्रियन्ते त᳘स्मादेष᳘ ऽएव᳘ मृत्युः स यो᳘ हैतं᳘ मृत्यु᳘ᳫँ᳘ संव्वत्सरं व्वे᳘द न᳘ हास्यैष᳘ पुरा᳘ जर᳘सो ऽहोरात्रा᳘भ्यामा᳘युः क्षिणो᳘ति स᳘र्व्वᳫँ᳭ हैवा᳘युरेति॥

मूलम् - Weber

एष वै᳘ मृत्युर्य᳘त्संवत्सरः᳟॥
एष हि म᳘र्त्यानामहोरात्रा᳘भ्यामा᳘युः क्षिणोत्य᳘थ म्रियन्ते त᳘स्मादेष᳘ एव᳘ मृत्युः स यो᳘ हैत᳘म् मृत्यु᳘ᳫं᳘ संवत्सरं वे᳘द न᳘ हास्यैष᳘ पुरा᳘ जर᳘सोऽहोरात्रा᳘भ्यामा᳘युः क्षिणो᳘ति स᳘र्वᳫं हैवा᳘युरेति॥

मूलम् - विस्वरम्

एष वै मृत्युर्यत्संवत्सरः । एष हि मर्त्यानामहोरात्राभ्यामायुः क्षिणोति । अथ म्रियन्ते । तस्मादेष एव मृत्युः । स यो हैतं मृत्युं संवत्सरं वेद- न हास्यैष पुरा जरसो ऽहोरात्राभ्यामायुः क्षिणोति । सर्वं हैवायुरेति ॥ १ ॥

सायणः

अथ संवत्सररूपप्रजापतेर्मृत्य्वन्तकरूपत्वं तद्रूपोपासनस्य फलम्, अग्निचयनस्यामृतत्वलक्षणं फलम्, परिश्रिद्यजुष्मतीलोकंपृणेष्टकानां संख्या तृतीयब्राह्मणे प्रदर्श्यते- एष वै मृत्युरिति । ‘मृत्युः’ आयुषः क्षपयिता । संवत्सरस्य मृत्युरूपत्वं व्यनक्ति- एष हि मर्त्यानामहोरात्राभ्यामिति । परिवर्त्तमानाभ्याम् ‘अहोरात्राभ्यामायुः क्षिणोति’ हिनस्ति, “क्षिणु हिंसायाम्”- (धा. पा. त. प. ४) इत्यस्य रूपम् । ‘अथ’ आयुःक्षयानन्तरं म्रियन्ते । संवत्सरमृत्युरूपोपासकस्य फलमाह- स यो हैतं मृत्युमिति । एवं संवत्सरो मृत्युरिति ‘यः’ उपास्ते अस्य ‘आयुः’ आयुष्यं ‘जरसः पुरा’ ‘एष’ संवत्सरो ‘न’ हिनस्ति मदीयं रूपमसौ जानातीत्यनुग्रहबुद्ध्येत्यर्थः । तस्मात् सर्वमायुरेति ॥ १ ॥

Eggeling
  1. The Year, doubtless, is the same as Death; for he 1 it is who, by means of day and night, destroys the life of mortal beings, and then they die: therefore the Year is the same as Death; and whosoever knows this Year (to be) Death, his life that (year) does not destroy, by day and night, before old age, and he attains his full (extent of) life.

०२

विश्वास-प्रस्तुतिः

(त्ये) एष᳘ ऽउ ऽएवा᳘न्तकः᳘॥
(ऽ) एष हि म᳘र्त्यानामहोरात्रा᳘भ्यामा᳘युषो᳘ ऽन्तं ग᳘च्छत्य᳘थ म्रियन्ते त᳘स्मादेष᳘ ऽएवा᳘न्तकः स यो᳘ हैतम᳘न्तकं मृत्यु᳘ᳫँ᳘ संव्वत्सरं व्वे᳘द न᳘ हास्यैष᳘ पुरा᳘ जर᳘सो ऽहोरात्रा᳘भ्यामा᳘युषो᳘ ऽन्तं ग᳘च्छति स᳘र्व्वᳫँ᳭ हैवा᳘युरेति॥

मूलम् - श्रीधरादि

(त्ये) एष᳘ ऽउ ऽएवा᳘न्तकः᳘॥
(ऽ) एष हि म᳘र्त्यानामहोरात्रा᳘भ्यामा᳘युषो᳘ ऽन्तं ग᳘च्छत्य᳘थ म्रियन्ते त᳘स्मादेष᳘ ऽएवा᳘न्तकः स यो᳘ हैतम᳘न्तकं मृत्यु᳘ᳫँ᳘ संव्वत्सरं व्वे᳘द न᳘ हास्यैष᳘ पुरा᳘ जर᳘सो ऽहोरात्रा᳘भ्यामा᳘युषो᳘ ऽन्तं ग᳘च्छति स᳘र्व्वᳫँ᳭ हैवा᳘युरेति॥

मूलम् - Weber

एष᳘ उ एवा᳘न्तकः॥
एष हि म᳘र्त्यानामहोरात्रा᳘भ्यामा᳘युषो᳘ऽन्तं ग᳘छत्य᳘थ म्रियन्ते त᳘स्मादेष᳘ एवा᳘न्तकः स यो हैतम᳘न्तकम् मृत्यु᳘ᳫं᳘ संवत्सरं वे᳘द न᳘ हास्यैष᳘ पुरा᳘ जर᳘सोऽहोरात्रा᳘भ्यामा᳘युषो᳘ऽन्तं ग᳘छति स᳘र्वᳫं हैवा᳘युरेति॥

मूलम् - विस्वरम्

एष उ एवान्तकः । एष हि मर्त्यानामहोरात्राभ्यामायुषो ऽन्तं गच्छति । अथ म्रियन्ते । तस्मादेष एवान्तकः । स यो हैतमन्तकं मृत्युं संवत्सरं वेद- न हास्यैष पुरा जरसो ऽहोरात्राभ्यामायुषो ऽन्तं गच्छति, सर्वं हैवायुरेति ॥ २ ॥

सायणः

संवत्सरस्यान्तकरूपत्वमाह- एष उ एवान्तक इति । अन्तं करोतीत्यन्तकः, करोतेः “अन्यत्रापि दृश्यते”- (पा. सू. ३ । २ । ४८ वा. ४) इति डः प्रत्ययः । अन्तकशब्दं निर्वक्ति- एष हि मर्त्यानामिति । आयुषो ऽन्तं गच्छति, अन्तर्भावितण्यर्थः । गमयति करोतीत्यर्थः । यद्वा स्वयं सर्वेषाम् ‘आयुषो ऽन्तं गच्छति’ । स यो हैतमन्तकं मृत्युं संवत्सरम् इत्यादिकं तद्रूपोपासनावाक्यं पूर्ववद्व्याख्येयम् ॥ २ ॥

Eggeling
  1. And he, indeed, is the Ender, for it is he who, by day and night, reaches the end of the life of mortals, and then they die: therefore he is the Ender, and whosoever knows this Year, Death, the Ender, the end of his life that (Year) does not reach, by day and night, before old age, and he attains his full (extent of) life.

०३

विश्वास-प्रस्तुतिः

ते᳘ देवाः᳘॥
(ऽ) एत᳘स्माद᳘न्तकान्मृत्योः᳘ संव्वत्सरा᳘त्प्रजा᳘पतेर्बिभया᳘ञ्चक्रुर्यद्वै᳘ नो ऽय᳘महोरात्रा᳘भ्यामा᳘युषो᳘ ऽन्तं न ग᳘च्छेदि᳘ति॥

मूलम् - श्रीधरादि

ते᳘ देवाः᳘॥
(ऽ) एत᳘स्माद᳘न्तकान्मृत्योः᳘ संव्वत्सरा᳘त्प्रजा᳘पतेर्बिभया᳘ञ्चक्रुर्यद्वै᳘ नो ऽय᳘महोरात्रा᳘भ्यामा᳘युषो᳘ ऽन्तं न ग᳘च्छेदि᳘ति॥

मूलम् - Weber

ते᳘ देवाः᳟॥
एत᳘स्माद᳘न्तकान्मृत्योः᳘ संवत्सरा᳘त्प्रजा᳘पतेर्बिभयां᳘ चक्रुर्यद्वै᳘ नोऽय᳘महोरात्रा᳘भ्यामा᳘युषो᳘ऽन्तं न ग᳘छेदि᳘ति॥

मूलम् - विस्वरम्

ते देवा एतस्मादन्तकान्मृत्योः संवत्सरात्प्रजापतेर्बिभयाञ्चक्रुः । यद्वै नो ऽयमहोरात्राभ्यामायुषो ऽन्तं न गच्छेदिति ॥ ३ ॥

सायणः

चयनस्यामृतत्वफलवत् यज्ञक्रतूनाममृतत्वं फलमित्याह- ते देवा एतस्मादन्तकादिति । ‘ते देवाः’ मृत्य्वन्तकसंवत्सररूपात्प्रजापतेर्भीताः सन्तः इदमूचुः- यथा ‘अयं’ ‘नः’ अस्माकम् ‘आयुषो ऽन्तं न गच्छेदिति’ ॥ ३ ॥

Eggeling
  1. The gods were afraid of this Prajāpati, the Year, Death, the Ender, lest he, by day and night, should reach the end of their life.

०४

विश्वास-प्रस्तुतिः

त᳘ ऽएता᳘न्यज्ञक्रतूं᳘स्तेनिरे॥
(रे ऽग्नि) अग्निहोत्रं᳘ दर्शपूर्णमासौ᳘ चातुर्मास्या᳘नि पशुबन्ध᳘ᳫँ᳘ सौम्य᳘मध्वरं त᳘ ऽएतै᳘र्यज्ञक्रतु᳘भिर्य᳘जमाना᳘ नामृतत्व᳘मानशिरे॥

मूलम् - श्रीधरादि

त᳘ ऽएता᳘न्यज्ञक्रतूं᳘स्तेनिरे॥
(रे ऽग्नि) अग्निहोत्रं᳘ दर्शपूर्णमासौ᳘ चातुर्मास्या᳘नि पशुबन्ध᳘ᳫँ᳘ सौम्य᳘मध्वरं त᳘ ऽएतै᳘र्यज्ञक्रतु᳘भिर्य᳘जमाना᳘ नामृतत्व᳘मानशिरे 2

मूलम् - Weber

त᳘ एता᳘न्यज्ञक्रतू᳘ᳫं᳘स्तेनिरे॥
अग्निहोत्रं᳘ दर्शपूर्णमासौ᳘ चातुर्मास्या᳘नि पशुबन्ध᳘ᳫं᳘ सौम्य᳘मध्वरं त᳘ ए᳘तैर्यज्ञक्रतु᳘भिर्य᳘जमानाॗ नामृतत्व᳘मानशिरे॥

मूलम् - विस्वरम्

त एतान्यज्ञक्रतूंस्तेनिरे । अग्निहोत्रम्, दर्शपूर्णमासौ, चातुर्मास्यानि, पशुबन्धम्, सौम्यमध्वरम् । त ऽएतैर्यज्ञक्रतुभिर्यजमाना नामृतत्वमानशिरे ॥ ४ ॥

सायणः

ततः ‘ते’ तद्भीतिपरिहाराय ‘यज्ञक्रतूंस्तेनिरे’ यज्ञा अग्निहोत्रादयः, यूपवन्तः क्रतवः तान् । ‘सौम्यमध्वरं’ सोमद्रव्यकं यज्ञम् । ‘एतैः’ ‘यजमानाः’ यजनं कुर्वाणाः ‘अमृतत्वं’ पुनरनुत्पत्तिलक्षणम् ‘आनशिरे’ “अश्नोतेश्च” (पा. सू. ७ । ४ । ७२) इति नुडागमः ॥ ४ ॥

Eggeling
  1. They performed these sacrificial rites–the Agnihotra, the New and Full-moon sacrifices, the Seasonal offerings, the animal sacrifice, and the Soma-sacrifice: by offering these sacrifices they did not attain immortality.

०५

विश्वास-प्रस्तुतिः

ते हा᳘प्यग्निं᳘ चिक्यिरे॥
ते᳘ ऽपरिमिता ऽएव᳘ परिश्रि᳘त ऽउ᳘पदधुर᳘परिमिता य᳘जुष्मतीर᳘परिमिता लोकम्पृणा य᳘थेदम᳘प्येतर्ह्ये᳘क ऽउपद᳘धती᳘ति देवा᳘ अकुर्व्वन्नि᳘ति ते᳘ ह᳘ नै᳘वामृतत्व᳘मानशिरे॥

मूलम् - श्रीधरादि

ते हा᳘प्यग्निं᳘ चिक्यिरे॥
ते᳘ ऽपरिमिता ऽएव᳘ परिश्रि᳘त ऽउ᳘पदधुर᳘परिमिता य᳘जुष्मतीर᳘परिमिता लोकम्पृणा य᳘थेदम᳘प्येतर्ह्ये᳘क ऽउपद᳘धती᳘ति देवा᳘ अकुर्व्वन्नि᳘ति ते᳘ ह᳘ नै᳘वामृतत्व᳘मानशिरे॥

मूलम् - Weber

ते हा᳘प्यग्निं᳘ चिक्यिरे॥
ते᳘ऽपरिमिता एव᳘ परिश्रि᳘त उ᳘पदधुर᳘परिमिता य᳘जुष्मतीर᳘परिमिता लोकम्पृणा य᳘थेदम᳘प्येतर्ह्ये᳘क उपद᳘धती᳘ति देवा᳘ अकुर्वन्नि᳘ति ते᳘ हॗ नैॗवामृतत्व᳘मानशिरे॥

मूलम् - विस्वरम्

ते हाप्यग्निं चिक्यिरे । ते ऽपरिमिता एव परिश्रित उपदधुः, अपरिमिता यजुष्मतीः, अपरिमिता लोकम्पृणाः- यथेदमप्येतर्ह्येक उपदधति- इति देवा अकुर्वन्निति । ते ह नैवामृतत्वमानशिरे ॥ ५ ॥

सायणः

अथ यथाविध्यनुष्ठितस्य चयनस्याप्येतदेवामृतत्वं फलमिति वक्तुं तद्विपरीतानुष्ठाने फलं न सेत्स्यतीति पुरावृत्तं प्रस्तौति- ते हाप्यग्निं चिक्यिर इति । ‘ते’ मृत्युभयं परिहरन्तो देवाः ‘अग्निमपि चिक्यिरे’ चितवन्तः । “चिञ् चयने”- (धा. पा. स्वा. उ. ५) “परोक्षे लिट्”- (पा. सू. ३ । २ । ११५) । “विभाषा चेः”- (पा. सू. ७ । ३ । ५८) इति कुत्वम् । “एरनेकाचः”- (पा. सू. ६ । ४ । ८२) इति यणादेशः । ‘ते’ चिन्वन्तो देवाः ‘अपरिमिताः’ असंख्याताः परिश्रितो यजुष्मतीः लोकंपृणाश्चोपदधुः । देवकृतं तादृशमनुष्ठानमिदानीन्तनानुष्ठानेन सममिति संवादेन दर्शयति-यथेदमप्येतर्ह्येक उपदधतीति देवा अकुर्वन्निति । प्रथम इतिशब्दो ऽनेकानुष्ठानप्रकारदर्शकः । द्वितीय इतिशब्दो हेत्वर्थः । इत्येवमपरिमितपरिश्रिदादिभिर्देवा अकुर्वन्नित्यतो हेतोः ‘एतर्हि’ अस्मिन्काले ‘एके’ आचार्यास्तथैवोपदधति । ‘ते’ एवमपरिमितपरिश्रिदादिभिर्देवा अनुष्ठितवन्तः ‘अमृतत्वं’ ‘न’ व्याप्तवन्तः ॥ ५ ॥

Eggeling
  1. They also built a fire-altar,–they laid down

unlimited enclosing-stones; unlimited Yajushmatī (bricks), unlimited Lokampr̥ṇā (bricks), even as some lay them down to this day, saying, ‘The gods did so.’ They did not attain immortality.

०६

विश्वास-प्रस्तुतिः

ते᳘ ऽर्चन्तः श्रा᳘म्यन्तश्चेरुः॥
(र) अमृतत्व᳘मवरु᳘रुत्समानास्ता᳘न्ह प्रजा᳘पतिरुवाच न वै᳘ मे स᳘र्व्वाणि रूपाण्यु᳘पधत्था᳘ति वैव᳘ रेच᳘यथ न᳘ वा᳘ ऽभ्यापयथ त᳘स्मा᳘न्नामृ᳘ता भवथे᳘ति॥

मूलम् - श्रीधरादि

ते᳘ ऽर्चन्तः श्रा᳘म्यन्तश्चेरुः॥
(र) अमृतत्व᳘मवरु᳘रुत्समानास्ता᳘न्ह प्रजा᳘पतिरुवाच न वै᳘ मे स᳘र्व्वाणि रूपाण्यु᳘पधत्था᳘ति वैव᳘ रेच᳘यथ न᳘ वा᳘ ऽभ्यापयथ त᳘स्मा᳘न्नामृ᳘ता भवथे᳘ति॥

मूलम् - Weber

ते᳘ऽर्चन्तः श्रा᳘म्यन्तश्चेरुः॥
अमृतत्व᳘मवरु᳘रुत्समानास्ता᳘न्ह प्रजा᳘पतिरुवाच न वै᳘ मे स᳘र्वाणि रूपाण्यु᳘पधत्था᳘ति 3 वैव᳘ रेच᳘यथ न᳘ वाॗभ्यापयथ त᳘स्माॗन्नामृ᳘ता भवथे᳘ति॥

मूलम् - विस्वरम्

ते ऽर्चन्तः श्राम्यन्तश्चेरुरमृतत्वमवरुरुत्समानाः । तान्ह प्रजापतिरुवाच- न वै मे सर्वाणि रूपाण्युपधत्थ । अति वैव रेचयथ । न वा ऽभ्यापयथ । तस्मान्नामृता भवति ॥ ६ ॥

सायणः

अथामृतत्वप्राप्त्यर्थं देवानां तपो दर्शयति- ते ऽर्चन्तः श्राम्यन्त इति । ‘अवरुरुत्समानाः’ अवरोद्धुकामाः । तान् ह प्रजापतिरुवाचेत्यादेरयमर्थः- अग्निरूपः प्रजापतिः स्वात्मन्युपधेयेष्टकासंख्यापरिज्ञानाभावेन फलाभावमनुवदन् तैः पृष्टः स्वात्मरूपत्वेनोपधेयानामिष्टकानां परिश्रितां च संख्यां विभज्योक्तवानिति । उपधत्थ, अतिरेचयथ, अभ्यापयथ, भवथ,- इति चत्वारो वर्तमानप्रयोगाः । अभ्यापनं नामाभ्याप्तिरन्यूनता ‘यथा ते सर्वाणि रूपाणि उपदधामेति’ देववाक्यम् । दधातेर्लोटि “आडुत्तमस्य पिच्च”- (पा. सू. ३ । ४ । ९२) इत्याडागमः ॥ ६ ॥ ७ ॥

Eggeling
  1. They went on praising and toiling, striving to win immortality. Prajāpati then spake unto them, ‘Ye do not lay down (put on me) all my forms; but ye either make (me) too large or leave (me) defective: therefore ye do not become immortal.’

०७

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(स्ते᳘) ते᳘भ्यो वै᳘ नस्त्व᳘मेव त᳘द्ब्रूहि य᳘था ते स᳘र्व्वाणि रूपा᳘ण्युपद᳘धामे᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(स्ते᳘) ते᳘भ्यो वै᳘ नस्त्व᳘मेव त᳘द्ब्रूहि य᳘था ते स᳘र्व्वाणि रूपा᳘ण्युपद᳘धामे᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
ते᳘भ्यो वै᳘ नस्त्व᳘मेव त᳘द्ब्रूहि य᳘था ते स᳘र्वाणि रूपा᳘ण्युपद᳘धामे᳘ति॥

मूलम् - विस्वरम्

ते होचुः- तेभ्यो वै नस्त्वमेव तद् ब्रूहि । यथा ते सर्वाणि रूपाण्युपदधामेति ॥ ७ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. They spake, ‘Tell thou us thyself, then, in what manner we may lay down all thy forms!’

०८

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
षष्टिं᳘ च त्री᳘णि च शता᳘नि परिश्रि᳘त ऽउ᳘पधत्त षष्टिं᳘ च त्री᳘णि च शता᳘नि य᳘जुष्मतीर᳘धि ष᳘ट्त्रिᳫँ᳭शतम᳘थ लोकम्पृणा द᳘श च सह᳘स्राण्यष्टौ᳘ च शतान्यु᳘पधत्ता᳘थ मे स᳘र्व्वाणि रूपाण्यु᳘पधास्यथा᳘थामृ᳘ता भविष्यथे᳘ति ते᳘ ह त᳘था देवा ऽउ᳘पदधुस्त᳘तो देवा᳘ ऽअमृ᳘ता ऽआसुः॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
षष्टिं᳘ च त्री᳘णि च शता᳘नि परिश्रि᳘त ऽउ᳘पधत्त षष्टिं᳘ च त्री᳘णि च शता᳘नि य᳘जुष्मतीर᳘धि ष᳘ट्त्रिᳫँ᳭शतम᳘थ लोकम्पृणा द᳘श च सह᳘स्राण्यष्टौ᳘ च शतान्यु᳘पधत्ता᳘थ मे स᳘र्व्वाणि रूपाण्यु᳘पधास्यथा᳘थामृ᳘ता भविष्यथे᳘ति ते᳘ ह त᳘था देवा ऽउ᳘पदधुस्त᳘तो देवा᳘ ऽअमृ᳘ता ऽआसुः॥

मूलम् - Weber

स᳘ होवाच॥
षष्टिं᳘ च त्री᳘णि च शता᳘नि परिश्रि᳘त उ᳘पधत्त षष्टिं᳘ च त्री᳘णि च शता᳘नि य᳘जुष्मतीर᳘धि ष᳘ट्त्रिंशतम᳘थ लोकम्पृणा द᳘श च सह᳘स्राण्यष्टौ᳘ च शतान्यु᳘पधत्ता᳘थ मे स᳘र्वाणि रूपाण्यु᳘पधास्यथा᳘थामृ᳘ता भविष्यथे᳘ति ते᳘ ह त᳘था देवा उ᳘पदधुस्त᳘तो देवा᳘ अमृ᳘ता आसुः॥

मूलम् - विस्वरम्

स होवाच- षष्टिं च त्रीणि च शतानि परिश्रित उपधत्त । षष्टिं च त्रीणि च शतानि यजुष्मतीः- अधि षट्त्रिंशतम् । अथ लोकंपृणा दश च सहस्राणि, अष्टौ च शतान्युपधत्त । अथ मे सर्वाणि रूपाण्युपधास्यथ, अथामृता भविष्यथेति । ते ह तथा देवा उपदधुः । ततो देवा अमृता आसुः ॥ ८ ॥

सायणः

स होवाचेत्यादि । ‘उपधत्त’ इति द्वयं लोटि मध्यमे रूपम् । उपधास्यथ, भविष्यथेति द्वयं भविष्यत्प्रयोगे । यजुष्मत्यः षष्ट्यधिकत्रिशतसङ्ख्याकाः ‘अधि षट्त्रिंशतम्’ इत्यस्यायमर्थः- ता यजुष्मत्यः पञ्चोनचतुःशतसम्मिता इत्युत्तरत्र वक्ष्यते । “ताः सर्वाः पञ्चभिर्न चत्वारि शतानि”- (श. प. १० । ४ । ३ । १९) इति । तत्र षष्ट्यधिकत्रिशतादधिकाः पञ्चत्रिंशत्संख्याकाः, पुरीषं षट्त्रिंशी सम्पत्तिः । “अथ याः । षट्त्रिंशत्पुरीषं तासां षट्त्रिंशी”- (श. प. १० । ४ । ३ । १९) इति च वक्ष्यते । ता एवात्र अधिषट्त्रिंशतमित्युक्ताः । एवं प्रजापतिना स्वात्मन्युपधेयेष्टकासंख्यायामुक्तायां देवा अपि तथैवाकार्षुः, फलं च लब्धवन्त इत्याह- ते ह तथा देवा उपदधुरिति । ‘अमृता आसुः’ सशरीराः सन्त एवामृतत्वं प्राप्ता इत्यर्थः ॥ ८ ॥

Eggeling
  1. He spake, ‘Lay ye down three hundred and sixty enclosing-stones, three hundred and sixty Yajushmatī (bricks), and thirty-six thereunto; and of Lokampr̥ṇā (bricks) lay ye down ten thousand and eight hundred; and ye will be laying down all my forms, and will become immortal.’ And the gods laid down accordingly, and thereafter became immortal.

०९

विश्वास-प्रस्तुतिः

स᳘ मृत्यु᳘र्देवा᳘नब्रवीत्॥
(दि) इत्थ᳘मेव स᳘र्व्वे मनु᳘ष्या ऽअमृ᳘ता भविष्यन्त्य᳘थ को म᳘ह्यं भागो᳘ भविष्यती᳘ति ते᳘ होचुर्नातो᳘ ऽपरः क᳘श्चन᳘ सह श᳘रीरेणामृ᳘तो ऽसद्य᳘दैव त्व᳘मेतं᳘ भागᳫँ᳭ ह᳘रासा ऽअ᳘थ व्यावृ᳘त्य श᳘रीरेणामृ᳘तो ऽस᳘द्यो ऽमृतो᳘ ऽसद्विद्य᳘या वा क᳘र्मणा वे᳘ति यद्वै तद᳘ब्रुवन्विद्य᳘या वा क᳘र्मणा वे᳘त्येषा᳘ हैव सा᳘ व्विद्या य᳘दग्नि᳘रेत᳘दु हैव तत्क᳘र्म य᳘दग्निः॥

मूलम् - श्रीधरादि

स᳘ मृत्यु᳘र्देवा᳘नब्रवीत्॥
(दि) इत्थ᳘मेव स᳘र्व्वे मनु᳘ष्या ऽअमृ᳘ता भविष्यन्त्य᳘थ को म᳘ह्यं भागो᳘ भविष्यती᳘ति ते᳘ होचुर्नातो᳘ ऽपरः क᳘श्चन᳘ सह श᳘रीरेणामृ᳘तो ऽसद्य᳘दैव त्व᳘मेतं᳘ भागᳫँ᳭ ह᳘रासा ऽअ᳘थ व्यावृ᳘त्य श᳘रीरेणामृ᳘तो ऽस᳘द्यो ऽमृतो᳘ ऽसद्विद्य᳘या वा क᳘र्मणा वे᳘ति यद्वै तद᳘ब्रुवन्विद्य᳘या वा क᳘र्मणा वे᳘त्येषा᳘ हैव सा᳘ व्विद्या य᳘दग्नि᳘रेत᳘दु हैव तत्क᳘र्म य᳘दग्निः॥

मूलम् - Weber

स᳘ मृत्यु᳘र्देवा᳘नब्रवीत्॥
इत्थ᳘मेव स᳘र्वे मनुॗष्या अमृ᳘ता भविष्यन्त्य᳘थ को म᳘ह्यम् भागो᳘ भविष्यती᳘ति ते᳘ होचुर्नातो᳘ऽपरः क᳘श्चन᳘ सह श᳘रीरेणामृ᳘तोऽसद्यॗदैव त्व᳘मेत᳘म् भागᳫं ह᳘रासा अ᳘थ व्यावृ᳘त्य श᳘रीरेणामृ᳘तोऽसॗद्योऽमृतो᳘ऽसद्विद्य᳘या वा क᳘र्मणा वे᳘ति यद्वै तद᳘ब्रुवन्विद्य᳘या वा क᳘र्मणा वे᳘त्येषा᳘ हैव सा᳘ विद्या य᳘दग्नि᳘रेत᳘दु हैव तत्क᳘र्म य᳘दग्निः॥

मूलम् - विस्वरम्

स मृत्युर्देवानब्रवीत्- इत्थमेव सर्वे मनुष्या अमृता भविष्यन्ति । अथ को मह्यं भागो भविष्यतीति । ते होचुः- नातो ऽपरः कश्चनःसह शरीरेणामृतो ऽसद् । यदैव त्वमेतं भागं हरासै । अथ व्यावृत्य शरीरेणामृतो ऽसद्, यो ऽमृतो ऽसद्- विद्यया वा कर्मणा वेति । यद्वै तदब्रुवन्- विद्यया वा कर्मणा वेति । एषा हैव सा विद्या- यदग्निः । एतदु हैव तत्कर्म- यदग्निः ॥ ९ ॥

सायणः

इदानींतनानामग्निचितां शरीरसाहित्येनामृतत्वाभावं प्रश्नप्रतिवचनाभ्यां दर्शयति- स मृत्युर्देवानब्रवीदिति । ‘इत्थमेव’ अनेन प्रकारेण स्वशरीरसाहित्येन ‘सर्वे मनुष्याः अमृताः भविष्यन्ति’ । ‘अथ’- शब्दश्चेदर्थे, एवं चेत् ‘मह्यं’ मृत्यवे ‘कः’ ‘भागः भविष्यति’ सर्वे ऽप्यमृताश्चेन्मृत्योर्भागो नास्ति, मृत्युर्नाम बाधकः, बाध्यानामभावे बाधकत्वमपि निवृत्तमित्यर्थः । अथ देववाक्यम्- ‘अतः’ एभ्यो ऽस्मत्तः ‘परः कश्चन’ अपि ‘शरीरेण’ ‘सह’ ‘नामृतो ऽसत्’ अमृतो न भवेत् । अस्तेः पञ्चमलकारस्य रूपम् असदिति । हे मृत्यो ! त्वम् यदा ‘एतं भागं’ शरीरलक्षणं ‘हरासै’ अपहरेः- “हृञ् हरणे-” (धा. पा. भ्वा, उ. ९२४) पञ्चमे लकारे “लेटो ऽडाटौ”- (पा. सू. ३ । ४ । ९४) इत्याडागमे “वैतो ऽन्यत्र”- (पा. सू. ३ । ४ । ९६) इत्यैकारः । अथ तदानीमेव शरीरेण व्यावृत्य शरीरं विहायेत्यर्थः । अमृतो ऽसत् भवेत् । किमेवं सर्वे ऽयमृताः ? नेत्याह- यो ऽमृतो ऽसद्विद्यया वा कर्मणा वेति । यो ‘विद्यया’ उपासनया ‘कर्मणा’ अनुष्ठानेन वा ऽमृतत्वं प्राप्नोति तस्य शरीरं त्वया भागत्वेन स्वीकर्तव्यमित्यर्थः । यदुक्तं देवैः- ‘विद्यया वा कर्मणा वेति’ तयोरर्थं श्रुतिः स्वयमाह- यद्वै तदब्रुवन्विद्यया वेति । अग्निविषयैव विद्या, अग्निचयनमेव कर्म नान्यविषयं ज्ञानं कर्म वेत्यर्थः ॥ ९ ॥

Eggeling
  1. Death spake unto the gods, ‘Surely, on this wise all men will become immortal, and what share will then be mine?’ They spake, ‘Henceforward no one shall be immortal with the body: only when thou shalt have taken that (body) as thy share, he who is to become immortal either through knowledge, or through holy work, shall become immortal after separating from the body.’ Now when they said, ’either through knowledge or through holy work,’ it is this fire-altar that is the knowledge, and this fire-altar that is the holy work.

१०

विश्वास-प्रस्तुतिः

(स्ते) ते य᳘ ऽएव᳘मेत᳘द्विदुः[[!!]]॥
(र्ये᳘) ये᳘ वैतत्क᳘र्म कुर्व्व᳘ते मृत्वा पुनः[[!!]] स᳘म्भवन्ति ते[[!!]] स᳘म्भवन्त[[!!]] ऽए᳘वामृतत्व᳘मभिस᳘म्भवन्त्य᳘थ य᳘ ऽएवं न᳘ व्विदुर्ये᳘ वैतत्क᳘र्म न᳘ कुर्व्व᳘ते मृत्वा पु᳘नः स᳘म्भवन्ति त᳘ ऽएत᳘स्यैवा᳘न्नं पुनः[[!!]] पुनर्भवन्ति॥

मूलम् - श्रीधरादि

(स्ते) ते य᳘ ऽएव᳘मेत᳘द्विदुः[[!!]]॥
(र्ये᳘) ये᳘ वैतत्क᳘र्म कुर्व्व᳘ते मृत्वा पुनः[[!!]] स᳘म्भवन्ति ते[[!!]] स᳘म्भवन्त[[!!]] ऽए᳘वामृतत्व᳘मभिस᳘म्भवन्त्य᳘थ य᳘ ऽएवं न᳘ व्विदुर्ये᳘ वैतत्क᳘र्म न᳘ कुर्व्व᳘ते मृत्वा पु᳘नः स᳘म्भवन्ति त᳘ ऽएत᳘स्यैवा᳘न्नं पुनः[[!!]] पुनर्भवन्ति॥

मूलम् - Weber

ते य᳘ एव᳘मेत᳘द्विदुः᳟॥
ये᳘ वैतत्क᳘र्म कुर्व᳘ते मृत्वा पु᳘नः स᳘म्भवन्ति ते᳘ सम्भ᳘वन्त एॗवामृतत्व᳘मभिस᳘म्भवन्त्य᳘थ 4 य᳘ एवं न᳘ विदुर्ये᳘ वैतत्क᳘र्म न᳘ कुर्व᳘ते मृत्वा पु᳘नः स᳘म्भवन्ति त᳘ एत᳘स्यैवा᳘न्नम् पु᳘नः-पुनर्भवन्ति॥

मूलम् - विस्वरम्

ते य एवमेतद्विदुः । ये वैतत्कर्म कुर्वते- मृत्वा पुनः सम्भवन्ति । ते सम्भवन्त एवामृतत्वमभिसम्भवन्ति । अथ य ऽएवं न विदुः । ये वैतत्कर्म न कुर्वते, मृत्वा पुनः सम्भवन्ति- त एतस्यैवान्नं पुनः पुनर्भवन्ति ॥ १० ॥

सायणः

कर्म कुर्वतां विदुषामविदुषां च शरीरपरित्यागोत्पत्ती समाने, कुतः कर्मविद्याभ्यां ज्ञाने विशेष इत्याशङ्क्योभयेषां फलव्यतिरेकं दर्शयति- ते य एवमेतद्विदुरिति । अग्निं विद्वांसो ऽनुतिष्ठन्तश्च ‘मृत्वा’ शरीरं विहाय ‘पुनः सम्भवन्ति’ उत्पद्यन्ते, उत्पद्यमाना अमृता एवोत्पद्यन्ते । ये तु विद्याकर्मविरहितास्ते मृत्वा पुनः पुनरुत्पद्यमाना मृत्योः ‘अन्नं’ भवन्ति । मृत्युना अद्यमाना भवन्तीति विद्याकर्मतदभावयोरमृतत्वतदभावाविति फलव्यतिरेको ऽस्तीत्यर्थः ॥ १० ॥

Eggeling
  1. And they who so know this, or they who do this holy work, come to life again when they have died, and, coming to life, they come to immortal life. But they who do not know this, or do not do this

holy work, come to life again when they die, and they become the food of him (Death) time after time.

११

विश्वास-प्रस्तुतिः

स य᳘दग्निं᳘ चिनुते᳘॥
(त᳘ ऽ) एत᳘मेव तद᳘न्तकं मृत्यु᳘ᳫँ᳘ संव्वत्सरं᳘ प्रजा᳘पतिमग्नि᳘माप्नोति यं᳘ देवा ऽआ᳘प्नुवन्नेतमु᳘पधत्ते य᳘थै᳘वैनमदो᳘ देवा᳘ ऽउपा᳘दधत॥

मूलम् - श्रीधरादि

स य᳘दग्निं᳘ चिनुते᳘॥
(त᳘ ऽ) एत᳘मेव तद᳘न्तकं मृत्यु᳘ᳫँ᳘ संव्वत्सरं᳘ प्रजा᳘पतिमग्नि᳘माप्नोति यं᳘ देवा ऽआ᳘प्नुवन्नेतमु᳘पधत्ते य᳘थै᳘वैनमदो᳘ देवा᳘ ऽउपा᳘दधत॥

मूलम् - Weber

स य᳘दग्निं᳘ चिनुते᳟॥
एत᳘मेव तद᳘न्तकम् मृत्यु᳘ᳫं᳘ संवत्सर᳘म् प्रजा᳘पतिमग्नि᳘माप्नोति यं᳘ देवा आ᳘प्नुवन्नेतमु᳘पधत्ते य᳘थैॗवैनमदो᳘ देवा᳘ उपा᳘दधत॥

मूलम् - विस्वरम्

स यदग्निं चिनुते- एतमेव तदन्तकं मृत्युं संवत्सरं प्रजापतिमग्निमाप्नोति- यं देवा आप्नुवन् । एतमुपधत्ते । यथैवैनमदो देवा उपादधत ॥ ११ ॥

सायणः

चयनस्या ऽमृतत्वं फलमित्युक्तम्, अमृतशब्दार्थमाह- स यदग्निं चिनुत इति । यदा ‘अग्निं’ चिन्वानस्तदा ‘यं देवाः’ फलत्वेनाप्नुवन् ‘एतमेव’ अन्तकं मृत्युं संवत्सरं प्रजापतिरूपमग्निं प्राप्नोति- अन्तकादिरूपाग्नित्वमेव देवैरमृतरूपफलत्वेन प्राप्तमेवेत्यर्थः । देवाः फलसाधनत्वेन यदकार्षुः, तदेवेदानीन्तनैरपि कृतमिति साधनैक्यं दर्शयति- एतमुपधत्ते यथैवैनमदो देवा इति । अदः- शब्दो विप्रकृष्टवचनः, पूर्वं यथा देवा एतमग्निमुपादधुः, एवमेतमग्निमिदानीमनुष्ठाता ऽप्युपधत्ते ॥ ११ ॥

Eggeling
  1. But when he builds the fire-altar, he thereby gains Agni, Prajāpati, the Year, Death, the Ender, whom the gods gained; it is him he lays downy even as the gods thus laid him down.

१२

विश्वास-प्रस्तुतिः

परिश्रि᳘द्भिरे᳘वास्य रा᳘त्रीराप्नोति॥
य᳘जुष्मतीभिर᳘हान्यर्धमासान्मा᳘सानृतूं᳘ल्लोकम्पृणा᳘भिर्मुहूर्तान्[[!!]]॥

मूलम् - श्रीधरादि

परिश्रि᳘द्भिरे᳘वास्य रा᳘त्रीराप्नोति॥
य᳘जुष्मतीभिर᳘हान्यर्धमासान्मा᳘सानृतूं᳘ल्लोकम्पृणा᳘भिर्मुहूर्तान्[[!!]]॥

मूलम् - Weber

परिश्रि᳘द्भिरेॗवास्य रा᳘त्रीराप्नोति॥
य᳘जुष्मतीभिर᳘हान्यर्धमासान्मा᳘सानृतूं᳘लोकमृणा᳘भिर्मुहूर्ता᳘न्॥

मूलम् - विस्वरम्

परिश्रिद्भिरेवास्य रात्रीराप्नोति । यजुष्मतीभिरहानि । अर्धमासान्, मासान्, ऋतून् । लोकंपृणाभिर्मुहूर्तान् ॥ १२ ॥

सायणः

चयनेन “संवत्सरं प्रजापतिमग्निमाप्नोति” इति समनन्तरातीतग्रन्थे (श. प. १० । ४ । ३ । ११) उदितम्, तदेव विशदयति- परिश्रिद्भिरेवास्य रात्रीराप्नोतीत्यादिना । परिश्रितां रात्रिरूपत्वं यजुष्मतीनामहोरूपत्वं च (श. प. १० । ४ । २ । २७) प्रागुक्तम् । यजुष्मतीभिरेवार्द्धमासमासर्तुप्राप्तिरुत्तरत्र वक्ष्यते- “ततो याश्चतुर्विंशतिरर्द्धमासलोकास्ता अर्द्धमासानामेव सा ऽऽप्तिः क्रियते ऽर्धमासानां प्रतिमा ऽथ या द्वादशमासलोकास्तामासानामेव सा ऽऽप्तिः क्रियते मासानां प्रतिमा ता उ द्वे द्वे सह ऽर्तुलोका ऋतूनामशून्यतायै”- (श. प. १० । ४ । ३ । १९) इति । लोकंपृणाभिरिष्टकाभिर्मुहूर्त्तानाप्नोति । तासां मुहूर्त्तरूपत्वमुक्तम् ॥ १२ ॥

Eggeling
  1. By the enclosing-stones he gains his nights; by the Yajushmatī (bricks) his days, half-moons, months, and seasons; and by the Lokampr̥ṇās the muhūrtas (hours).

१३

विश्वास-प्रस्तुतिः

(र्तांस्त) तद्याः᳘ परिश्रि᳘तः॥
(तो) रा᳘त्रिलोकास्ता रा᳘त्रीणामेव सा᳘ ऽऽप्तिः क्रिय᳘ते रा᳘त्रीणां प्रतिमा ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संव्वत्सर᳘स्य रा᳘त्रयस्ता᳘सामे᳘कविᳫँ᳭शतिं गा᳘र्हपत्ये परिश्र᳘यति द्वा᳘भ्यां᳘ नाशीतिं धि᳘ष्ण्येषु द्वे᳘ ऽएकषष्टे᳘ शते᳘ ऽआहवनीये[[!!]]॥

मूलम् - श्रीधरादि

(र्तांस्त) तद्याः᳘ परिश्रि᳘तः॥
(तो) रा᳘त्रिलोकास्ता रा᳘त्रीणामेव सा᳘ ऽऽप्तिः क्रिय᳘ते रा᳘त्रीणां प्रतिमा ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संव्वत्सर᳘स्य रा᳘त्रयस्ता᳘सामे᳘कविᳫँ᳭शतिं गा᳘र्हपत्ये परिश्र᳘यति द्वा᳘भ्यां᳘ नाशीतिं धि᳘ष्ण्येषु द्वे᳘ ऽएकषष्टे᳘ शते᳘ ऽआहवनीये[[!!]]॥

मूलम् - Weber

तद्याः᳘ परिष्रि᳘तः॥
रा᳘त्रिलोकास्ता रा᳘त्रीणामेव सा᳘प्तिः क्रिय᳘ते रा᳘त्रीणाम् प्रतिमा ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संवत्सर᳘स्य रा᳘त्रयस्ता᳘सामे᳘कविंशतिं गा᳘र्हपत्ये परिश्र᳘यति द्वा᳘भ्यांॗ नाशीतिं धि᳘ष्ण्येषु द्वे᳘ एकषष्टे शते᳘ आहवनी᳘ये॥

मूलम् - विस्वरम्

तद् याः परिश्रितः- रात्रिलोकास्ताः । रात्रीणामेव सा ऽऽप्तिः क्रियते, रात्रीणां प्रतिमा । ताः षष्टिश्च त्रीणि च शतानि भवन्ति । षष्टिश्च ह वै त्रीणि च शतानि सम्वत्सरस्य रात्रयः । तासामेकविंशतिं गार्हपत्ये परिश्रयति । द्वाभ्यां नाशीतिं धिष्ण्येषु । द्वे एकषष्टे शते आहवनीये ॥ १३ ॥

सायणः

परिश्रिदादिभिः रात्र्यहरादिप्राप्तिमेव क्रमेण विवृणोति- तद्याः परिश्रित इत्यादिना । तत्र परिश्रितां संख्याम्, स्थानविशेषेण तद्विभागं चाह- षष्टिश्च त्रीणि च शतानीति । गार्हपत्ये एकविंशतिं परिश्रितः उपदध्यात् । द्वाभ्यां नाशीतिं धिष्ण्येष्विति । धिष्ण्या अष्टौ-होतृप्रशास्तृब्राह्मणाच्छंस्यच्छावाकपोतृनेष्टॄणां षण्णां षट्, आग्नीध्रीयमार्जालीयौ द्वौ । अत्र परिश्रिदिष्टकाविभागं कात्यायनः सूत्रयामास- “धिष्ण्यांश्चिनोत्यष्टेष्टकांल्लोकंपृणाभिश्चतुःस्रक्तींस्तिरश्चो न्युप्य न्युप्य पृश्न्यश्मा चाग्नीध्रीये सकृन्मंत्रवचनम् । होत्रीये त्रिरेकविंशत्या ब्राह्मणाच्छंस्ये द्विरेकादशसु षण्मार्जालीये शेषा अष्टेष्टकाः । यावदिष्टकं परिश्रितः परिनिधाय” (का. श्रौ. सू. १८ । ९३-९९) इति । अत्र पृश्न्यश्मेति यजुष्मतीष्टका । त्रिर्द्विःपदे मन्त्रावृत्तिवाचके । अत्र होत्र्यब्राह्मणाच्छंस्मार्ज्जालीयानां त्रयाणां सम्भूय अष्टात्रिंशत्परिश्रितः । शिष्टानां पञ्चानां धिष्ण्यानामष्टाविति चत्वारिंशत् । उभयोर्द्वाभ्यामूना ऽशीतिर्भवन्ति । आहवनीये तु एकषष्ट्युत्तरद्विशतसंख्याकाः परिश्रितः । ‘एकषष्टे’ इति- “तदस्मिन्नधिकमिति दशान्ताड्डः”- (पा. सू. ५ । २ । ४५) इति षष्टिशब्दाड्डः प्रत्ययः ॥ १३ ॥

Eggeling
  1. Thus the enclosing-stones, supplying the place of nights, are made the (means of) gaining the nights, they are the counterpart of the nights: there are three hundred and sixty of them, for there are three hundred and sixty nights in the year. Of these, he lays twenty-one round the Gārhapatya, seventy-eight round the Dhishṇya hearths, and two hundred and sixty-one round the Āhavanīya.

१४

विश्वास-प्रस्तुतिः

(ये᳘ ऽथ) अ᳘थ य᳘जुष्मत्यः॥
(त्यो) दर्भस्तम्बो᳘ लोगेष्टकाः᳘ पुष्करपर्ण᳘ᳫँ᳘ रुक्मपुरुषौ स्रु᳘चौ स्वयमातृण्णा᳘ दूर्व्वेष्टका द्वि᳘यजू रेतःसि᳘चौ व्विश्व᳘ज्योतिर्ऋत᳘व्ये ऽअ᳘षाढा कूर्म᳘ ऽउलूखलमुसले᳘ ऽउखा प᳘ञ्च पशुशीर्षा᳘णि प᳘ञ्चदशाप᳘स्याः प᳘ञ्च च्छन्द᳘स्याः᳘ पञ्चाश᳘त्प्राणभृ᳘तस्ता द्वा᳘भ्यां न᳘ शतं᳘ प्रथमा चि᳘तिः॥ (अर्धप्रपाठकः॥कं० ४५)

मूलम् - श्रीधरादि

(ये᳘ ऽथ) अ᳘थ य᳘जुष्मत्यः॥
(त्यो) दर्भस्तम्बो᳘ लोगेष्टकाः᳘ पुष्करपर्ण᳘ᳫँ᳘ रुक्मपुरुषौ स्रु᳘चौ स्वयमातृण्णा᳘ दूर्व्वेष्टका द्वि᳘यजू रेतःसि᳘चौ व्विश्व᳘ज्योतिर्ऋत᳘व्ये ऽअ᳘षाढा कूर्म᳘ ऽउलूखलमुसले᳘ ऽउखा प᳘ञ्च पशुशीर्षा᳘णि प᳘ञ्चदशाप᳘स्याः प᳘ञ्च च्छन्द᳘स्याः᳘ पञ्चाश᳘त्प्राणभृ᳘तस्ता द्वा᳘भ्यां न᳘ शतं᳘ प्रथमा चि᳘तिः॥ (अर्धप्रपाठकः॥कं० ४५)

मूलम् - Weber

अ᳘थ य᳘जुष्मत्यः॥
दर्भस्तम्बो᳘ लोगेष्टकाः᳘ 5 पुष्करपर्णं᳘ रुक्मपुरुषौ स्रु᳘चौ स्वयमातृणा᳘ दूर्वेष्टका द्वि᳘यजू रेतःसि᳘चौ विश्व᳘ज्योतिरृतॗव्ये अ᳘षाढा कूर्म᳘ उलूखलमुसले᳘ उखा प᳘ञ्च पशुशीर्ष᳘णि प᳘ञ्चदशापॗस्याः प᳘ञ्च छन्दस्याःॗः॥

मूलम् - विस्वरम्

अथ यजुष्मत्यः- दर्भस्तम्बः, लोगेष्टकाः, पुष्करपर्णम्, रुक्मपुरुषौ, स्रुचौ स्वयमातृण्णा, दूर्वेष्टका, द्वियजुः, रेतःसिचौ, विश्वज्योतिः, ऋतव्ये, अषाढा, कूर्मः, उलूखलमुसले, उखा, पञ्च पशुशीर्षाणि, पञ्चदशापस्याः, पञ्च च्छन्दस्याः, पञ्चाशत्प्राणभृतः । ता द्वाभ्यां न शतं प्रथमा चितिः ॥ १४ ॥

सायणः

यजुष्मतीनां संख्याम्, चितिषु तद्विभागं च दर्शयति- अथ यजुष्मत्य इति । संख्यां तावत्- “ताः सर्वाः पञ्चभिर्न चत्वारि शतानि” (१९ कण्डिकायां) इति वक्ष्यते । अत्र पञ्चचितिभेदेन यजुष्मतीः परिगणयति- दर्भस्तम्ब इत्यादिना । “कुशस्तम्बमुपदधाति मध्ये तूष्णीं” (का. श्रौ. सू. १७ । ४६) इति तस्योपधानमुक्तम्, अस्य तूष्णीमुपधानात्कथं यजुष्मदिष्टकानाम्ना व्यपदेशः ? सत्यम्; अस्योपरि समन्त्रहोमकरणादस्य यजुष्मत्त्वम् उच्यते । तथा च तं प्रस्तुत्य कात्यायनः- “पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति” (का. श्रौ. सू. १७ । ४७) इति । लोगेष्टका नाम “मा मा हिंसीत्” (वा. सं. १२ । १०२) इति प्रत्यृचमुपहिताश्चतस्र इष्टकाः- (का. श्रौ. सू. १७ । ५५) । “अपां पृष्ठमसि” (वा. सं. १३-२) इति- मन्त्रेणोपहितं पुष्करपर्णम् (का. श्रौ. सू. १७ । ७३) । “ब्रह्म जज्ञानम्” इति रुक्मः (का. श्रौ. सू. १७ । ७४) । “हिरण्यगर्भः” (वा. सं. १३ । ४ ।) इति पुरुष उपहितः (का. श्रौ. सू. १७ । ७५) “अग्नेष्ट्वा” (वा. सं. १३ । १३ ।) इति मन्त्रेण घृतपूर्णा कार्ष्मर्यमयी स्रुक् (का. श्रौ. सू. १७ । ८४) । “इन्द्रस्य त्वा” (वा. सं. १३ । १४) इति दधिपूर्णौदुम्बरी स्रुक् (का. श्रौ. सू. १७ । ८५) । “ध्रुवा ऽसि” (वा. सं. १३ । १६) इति स्वयमातृण्णा (का. श्रौ. सू. १७ । ८७) “काण्डात्काण्डात्” (वा. सं. १३ । २०) इति दूर्वेष्टका (का. श्रौ. सू. १७ । ९०) । “यास्ते अग्ने सूर्ये” (वा. सं. १३ । २२) इति मन्त्रेणोपहिता द्वियजुर्नामेष्टका (का. श्रौ. सू. १७ । ९२) । “विराट् स्वराट्” (वा. सं. १३ । २४) इति ‘रेतःसिचौ’ (का. श्रौ. सू. १७ । ९४) । “प्रजापतिष्ट्वा सादयतु” (वा. सं. १३ । २४) इति ‘विश्वज्योतिः’ (का. श्रौ. सू. १७ । ९५) । “मधुश्च माधवश्च” (वा. सं. १३ । २५) इति द्वे ऋतव्यसंज्ञके (का. श्रौ. सू. १७ । ९६) । “अषाढा ऽसि” (वा. सं. १३ । २६) इति ‘अषाढा’ (का. श्रौ. सू. १७ । ९७) । “मधु वाता ऋतायते” (वा. सं. १३ । २७-२९) इति मन्त्रैरुपहितः ‘कूर्मः’ (का. श्रौ. सू. १७ । ९९) । “विष्णोः कर्माणि” (वा. सं. १३ । ३३) इति ‘उलूखलमुसले’ (का. श्रौ. सू. १७ । १०२) । “ध्रुवासि” (वा. सं. १३ । ३४) इति मन्त्रेण उखा (का. श्रौ. सू. १७ । १०३) । “आदित्यं गर्भम्” (वा. सं. १३ । ४१) इति प्रतिमन्त्रमुपहितानि ‘पञ्च पशुशीर्षाणि’ (का. श्रौ. सू. १७ । ११६) । “अर्पा त्वेमन्” (वा. सं. १३ । ५३) इति प्रतिमन्त्रमुपहिताः पञ्चदशापस्याः’- (का. श्रौ. सू. १७ । १२४) । गायत्रेणेति प्रतिमन्त्रमुपहिताः ‘पञ्च च्छन्दस्याः’ । “अयं पुरो भुवः” (वा. सं. १३ । ५४) इति प्रतिमन्त्रमुपहिताः ‘पञ्चाशत् प्राणभृतः’ (का. श्रौ. सू. १७ । १२५) । एवं प्रथमचिता उक्ता यजुष्मतीरिष्टकाः सम्भूय गणयति- द्वाभ्यां न शतं प्रथमा चितिरिति । द्वाभ्यामूनं शतमित्यर्थः ॥ १४ ॥

Eggeling
  1. Then the Yajushmatī (bricks with special formulas):–the grass-bunch, the (four) clod-bricks, the lotus-leaf, the gold plate and man, the two spoons, the naturally-perforated (brick), the dūrvā-brick, the (one) dviyajus, two retaḥsic, a viśvajyotis, two seasonal ones, an ashāḍḥā, the tortoise, the mortar and pestle, the fire-pan, the five victims’ heads, fifteen apasyās, five chandasyās, fifty prāṇabhr̥ts–these ninety-eight are (in) the first layer.

१५

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ द्विती᳘या॥
प᳘ञ्चाश्वि᳘न्यो द्वे᳘ ऽऋत᳘व्ये प᳘ञ्च व्वैश्वदे᳘व्यः[[!!]] प᳘ञ्च प्राणभृ᳘तः प᳘ञ्चाप᳘स्या ऽए᳘कया न᳘ व्विᳫँ᳭शति᳘र्व्वय᳘स्यास्ता ऽए᳘कचत्वारिᳫँ᳭शद्द्विती᳘या चि᳘तिः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ द्विती᳘या॥
प᳘ञ्चाश्वि᳘न्यो द्वे᳘ ऽऋत᳘व्ये प᳘ञ्च व्वैश्वदे᳘व्यः[[!!]] प᳘ञ्च प्राणभृ᳘तः प᳘ञ्चाप᳘स्या ऽए᳘कया न᳘ व्विᳫँ᳭शति᳘र्व्वय᳘स्यास्ता ऽए᳘कचत्वारिᳫँ᳭शद्द्विती᳘या चि᳘तिः॥

मूलम् - Weber

अ᳘थ द्विती᳘या॥
प᳘ञ्चाश्विॗन्यो द्वे᳘ ऋतॗव्ये प᳘ञ्च वैश्वदेव्यः᳘ प᳘ञ्च प्राणभृ᳘तः प᳘ञ्चापॗस्या ए᳘कया न᳘ विंशति᳘र्वयॗस्यास्ता ए᳘कचत्वारिंशद्द्विती᳘या 6 चि᳘तिः॥

मूलम् - विस्वरम्

अथ द्वितीया- पञ्चाश्विन्यः, द्वे ऋतव्ये, पञ्च वैश्वदेव्यः, पञ्च प्राणभृतः, पञ्चापस्याः । एकया न विंशतिर्वयस्याः । ता एकचत्वारिंशत् द्वितीया चितिः ॥ १५ ॥

सायणः

द्वितीयायां चितौ दर्श्यन्ते इति प्रतिजानीते- अथ द्वितीयेति । “ध्रुवक्षितिर्ध्रुवयोनिः”- (वा. सं. १४ । १) इति प्रतिमन्त्रमुपहिताः ‘पञ्चाश्विन्यः’ (का. श्रौ. सू. १७ । १८०) । “शुक्रश्च शुचिश्च”- (वा. सं. १४ । ६) इति ‘द्वे ऋतव्ये’ (का. श्रौ. सू. १७ । १८१) । “सजूर्ऋतुभिः”- (वा. सं. १४ । ७) इति प्रतिमन्त्रं ‘पञ्च वैश्वदेव्यः’ (का. श्रौ. सू. १७ । १८३) । “प्राणं मे”- (वा. सं. १४ । ८) इति पञ्चभिर्मन्त्रैरुपहिताः ‘पञ्च प्राणभृतः’ (का. श्रौ. सू. १७ । १८५) । “अपः पिन्व” (वा. सं. १४ । ८) इति प्रतिमन्त्रं ‘पञ्चापस्याः’ (का. श्रौ. सू. १७ । १८६) । “मूर्द्धा वयः”- (वा. सं. १४ । ९) इति प्रतिमन्त्रमुपहिताः एकोनविंशतिर्वयस्याः (का. श्रौ. सू. १७ । १८७) । एवं द्वितीयायां चितौ एकचत्वारिंशद्यजुष्मत्यः ॥ १५ ॥

Eggeling
  1. Then the second (layer):–five aśvinīs, two seasonal ones, five vaiśvadevīs, five prāṇabhr̥ts, five apasyās, nineteen vayasyās–these forty-one are (in) the second layer.

१६

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ तृती᳘या॥
स्वयमातृण्णा प᳘ञ्च दि᳘श्या व्विश्व᳘ज्योतिश्च᳘तस्र ऽऋत᳘व्या द᳘श प्राणभृ᳘तः ष᳘ट्त्रिᳫँ᳭शच्छन्द᳘स्याश्च᳘तुर्दश व्वा᳘लखिल्यास्ता ऽए᳘कसप्ततिस्तृती᳘या चि᳘तिः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ तृती᳘या॥
स्वयमातृण्णा प᳘ञ्च दि᳘श्या व्विश्व᳘ज्योतिश्च᳘तस्र ऽऋत᳘व्या द᳘श प्राणभृ᳘तः ष᳘ट्त्रिᳫँ᳭शच्छन्द᳘स्याश्च᳘तुर्दश व्वा᳘लखिल्यास्ता ऽए᳘कसप्ततिस्तृती᳘या चि᳘तिः॥

मूलम् - Weber

अ᳘थ तृती᳘या॥
स्वयमातृणा प᳘ञ्च दि᳘श्या विश्व᳘ज्योतिश्च᳘तस्र ऋतॗव्या द᳘श प्राणभृ᳘तः ष᳘ट्त्रिंशच्छन्दॗस्याश्च᳘तुर्दश वा᳘लखिल्यास्ता ए᳘कसप्ततिस्तृती᳘या 7 चि᳘तिः॥

मूलम् - विस्वरम्

अथ तृतीया- स्वयमातृण्णा, पञ्च दिश्याः, विश्वज्योतिः, चतस्र ऋतव्याः, दश प्राणभृतः, षट्त्रिंशच्छन्दस्याः, चतुर्दश वालखिल्याः । ता एकसप्ततिः तृतीया चितिः ॥ १६ ॥

सायणः

तृतीयायां “इन्द्राग्नी अव्यथमानाम्”- (वा. सं. १४ । ११) इति मन्त्रेणोपहिता ‘स्वयमातृण्णेष्टका’ (का. श्रौ. सू. १७ । १९१) । “राज्ञ्यसि”- (वा. सं. १४ । १३) इति प्रतिमन्त्रम् । ‘पञ्च दिश्याः’ (का. श्रौ. सू. १७ । १९२) । “विश्वकर्मा त्वा सादयतु”- (वा. सं. १४ । १४) इति मन्त्रेण ‘विश्वज्योतिः’ (का. श्रौ. सू. १८ । १९३) । “नभश्च नभस्यश्च”- (वा. सं. १४ । १५) इति “इषश्चोर्जश्च”- (वा. सं. १४ । १६) इति च ‘चतस्र ऋतव्याः’ (का. श्रौ. सू. १७ । १९४-१९६) । “आयुर्मे पाहि” (वा. सं. १४ । १७) इति प्रतिमन्त्रम् “दश प्राणभृतः’- (का. श्रौ. सू. १७ । १९७) । “मा च्छन्दः प्रमा च्छन्दः” (वा. सं. १४ । १८) इति प्रतिमन्त्रम् ‘षट्त्रिंशच्छन्दस्याः’ (का. श्रौ. सू. १७ । १९८) । “मूर्द्धा ऽसि राट्”- (वा. सं. १४ । २१) इति प्रतिमन्त्रम् ‘चतुर्दश वालखिल्याः’- (का. श्रौ. सू. १७ । १९९-२०३) । एवं तृतीयस्यां चितौ एकसप्ततिर्यजुष्मत्यः ॥ १६ ॥

Eggeling
  1. Then the third (layer):–the naturally-perforated one, five regional ones, a viśvajyotis, four seasonal ones, ten prāṇabhr̥ts, thirty-six chandasyās,

fourteen vālakhilyas–these seventy-one are (in) the third layer.

१७

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ चतु᳘र्थी॥
(र्थ्य) अष्टा᳘दश प्रथमा ऽअ᳘थ द्वा᳘दशा᳘ ऽथ सप्त᳘दश ताः᳘ सप्त᳘चत्वारिᳫँ᳭श᳘च्चतुर्थी चि᳘तिः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ चतु᳘र्थी॥
(र्थ्य) अष्टा᳘दश प्रथमा ऽअ᳘थ द्वा᳘दशा᳘ ऽथ सप्त᳘दश ताः᳘ सप्त᳘चत्वारिᳫँ᳭श᳘च्चतुर्थी चि᳘तिः॥

मूलम् - Weber

अ᳘थ चतुॗर्थी॥
अष्टा᳘दश प्रथमा अ᳘थ द्वा᳘दशा᳘थ सप्त᳘दश ताः᳘ सप्त᳘चत्वारिंशच्चतुर्थी 8 चि᳘तिः॥

मूलम् - विस्वरम्

अथ चतुर्थी- अष्टादश प्रथमाः, अथ द्वादश, अथ सप्तदश । ताः सप्तचत्वारिंशत् चतुर्थी चितिः ॥ १७ ॥

सायणः

चतुर्थ्याम्- “आशुस्त्रिवृत्”- (वा. सं. १४ । २३) इति प्रतिमन्त्रमुपहिता अष्टादश स्तोमाख्या इष्टकाः प्रथमा इत्युच्यन्ते । “अग्नेर्भागः”- (वा. सं० १४ । २४) इति प्रतिमन्त्रम् ‘दश स्पृतः’ (का. श्रौ.सू. १७ । २११-२२०) । “सहश्च सहस्यश्च”- (वा. सं. १४ । २७) इति द्वे ऋतव्ये (का. श्रौ. सू. १७ । २२१) । मिलित्वा ‘अथ द्वादश’ इत्युक्तम् । “एकया ऽस्तुवत”- (वा. स. १४ । २८) इति प्रतिमन्त्रं सप्तदश सृष्टयः- (का. श्रौ. सू. १७ । २२२) । एवं चतुर्थ्यां सप्तचत्वारिंशद्यजुष्मत्यः ॥ १७ ॥

Eggeling
  1. Then the fourth (layer):–first eighteen, then twelve, then seventeen–these forty-seven are (in) the fourth layer.

१८

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ पञ्चमी॥
प᳘ञ्चासपत्ना᳘श्चत्वारिᳫँ᳭श᳘द्विरा᳘ज ऽए᳘कया न᳘ त्रिᳫँ᳭शत्स्तो᳘मभागाः प᳘ञ्च नाकस᳘दः प᳘ञ्च प᳘ञ्चचूडा ऽए᳘कत्रिᳫँ᳭शच्छन्द᳘स्या ऽअष्टौ गा᳘र्हपत्या चि᳘तिरष्टौ᳘ पुनश्चिति᳘र्ऋत᳘व्ये व्विश्व᳘ज्योतिर्व्विकर्णी᳘ च स्वयमातृण्णा चा᳘श्मा पृ᳘श्निर्य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते ता᳘ ऽअष्टात्रिᳫँ᳭श᳘ᳫँ᳘ शतं᳘ पञ्चमी चि᳘तिः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ पञ्चमी॥
प᳘ञ्चासपत्ना᳘श्चत्वारिᳫँ᳭श᳘द्विरा᳘ज ऽए᳘कया न᳘ त्रिᳫँ᳭शत्स्तो᳘मभागाः प᳘ञ्च नाकस᳘दः प᳘ञ्च प᳘ञ्चचूडा ऽए᳘कत्रिᳫँ᳭शच्छन्द᳘स्या ऽअष्टौ गा᳘र्हपत्या चि᳘तिरष्टौ᳘ पुनश्चिति᳘र्ऋत᳘व्ये व्विश्व᳘ज्योतिर्व्विकर्णी᳘ च स्वयमातृण्णा चा᳘श्मा पृ᳘श्निर्य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते ता᳘ ऽअष्टात्रिᳫँ᳭श᳘ᳫँ᳘ शतं᳘ पञ्चमी चि᳘तिः॥

मूलम् - Weber

अ᳘थ पञ्चमी॥
प᳘ञ्चासपत्ना᳘श्चत्वारिंश᳘द्विरा᳘ज ए᳘कया न᳘ त्रिंशत्स्तो᳘मभागाः प᳘ञ्च नाकस᳘दः प᳘ञ्च प᳘ञ्चचूडा ए᳘कत्रिंशच्छन्दॗस्या अष्टौ गा᳘र्हपत्यो चि᳘तिरष्टौ᳘ पुनश्चिति᳘रृतॗव्ये विश्व᳘ज्योतिर्विकर्णी᳘ च स्वयमातृणा चा᳘श्मा पृ᳘श्निर्य᳘श्चिॗतेऽग्नि᳘र्निधीय᳘ते ता᳘ अष्टात्रिंशं᳘ शत᳘म् पञ्चमी चि᳘तिः॥

मूलम् - विस्वरम्

अथ पञ्चमी- पञ्चासपत्नाः, चत्वारिंशद्विराजः, एकया न त्रिंशत्स्तोमभागाः, पञ्च नाकसदः, पञ्च पञ्चचूडाः, एकत्रिंशच्छन्दस्याः, अष्टौ गार्हपत्या चितिः, अष्टौ पुनश्चितिः, ऋतव्ये, विश्वज्योतिः, विकर्णी च, स्वयमातृण्णा च, अश्मा पृश्निः, यश्चिते ऽग्निर्निधीयते । ता अष्टात्रिंशं शतं पञ्चमी चितिः ॥ १८ ॥

सायणः

पञ्चम्याम्- “अग्ने जातान्”- (वा. सं. १५ । १) इति प्रतिमन्त्रं ‘पञ्चासपत्नाः’- (का. श्रौ. सू. १७ । २२६) । “एवश्छन्दः”- (वा. सं. १५ । ४) इति प्रतिमन्त्रं ‘चत्वारिंशद्विराजः’- (का. श्रौ. सू. १७ । २२८) । “रश्मिना सत्याय सत्यं जिन्व”- (वा. सं. १५ । ६) इति प्रतिमन्त्रमुपहिताः ‘एकोनत्रिंशत्स्तोमभागाः’- (का. श्रौ. सू. १७ । २३२) । “राज्ञ्यसि प्राची दिक्”- (वा. सं. १५ । १०) इति प्रतिमन्त्रं ‘पञ्च नाकसदः’- (का. श्रौ. सू. १७ । २३६) । “अयं पुरः” (वा. सं. १५ । १५) इति प्रतिमन्त्रं ‘पञ्च पञ्चचूडाः’- (का. श्रौ. सू. १७ । २३७)। “अग्निर्मूर्द्धा दिवः ककुत्”- (वा. सं. १५ । २०) इति प्रत्यृचमेकत्रिंशच्छन्दस्याः- (का. श्रौ. सू. १७ । २४०) । “अयं सो ऽअग्निः”- (वा. सं. १२ । ४७) इत्यादिरुपधेया अष्टौ गार्हपत्यादिभिः “येन ऋषयस्तपसासत्रम्”- (वा. सं. १५ । ४९) इत्यादिभिरुपहिता अष्टौ पुनश्चितिः- (का. श्रौ. सू. १७ । २५४) । “तपश्च तपस्यश्च”- (वा. सं. १५ । ५७) इति द्वे ऋतव्ये- (का. श्रौ. सू. १७ । २५८) । “परमेष्ठी त्वा सादयतु"- (वा. सं. १५ । ५८) इति विश्वज्योतिः- (श्रौ. सू. १७ । २५९) । “प्रोथदश्वः”- (वा. सं. १५ । ६२) इति विकर्णी- (का. श्रौ. सू. १७ । २६१) । “आयोष्ट्वा सदने”- (वा. सं. १५ । ६३) इति मन्त्रेणोपहिता ‘स्वयमातृण्णा’- (का. श्रौ. सू. १७ । २६१) । “विमान एष दिवः”- (वा. सं. १७ । ५४) इति द्वाभ्यामाग्नीध्रीये उपहितः “पृश्न्यश्मा” सूत्रं तु “पृश्न्यश्मा चाग्नीध्रीये” (का. श्रौ. सू. १८ । ९४) इत्युदाहृतम् । चित्याग्नेरुपरि अग्निं निदधाति । “सुपर्णो ऽसि” (वा. सं. १७ । ७२) इति “वषट्कारेण” (का. श्रौ. सू. १८ । ४७) इति सूत्रात् । वषट्कारान्तमन्त्रेण निहितो ऽग्निराहवनीय इष्टकेत्यर्थः । एवं पञ्चम्यां चितौ असपत्नाद्या आहवनीयान्ताः आग्नीध्र्योपहितपृश्न्यश्मना सह अष्टात्रिंशदधिकं शतं यजुष्मत्य इष्टकाः ॥ १८ ॥

Eggeling
  1. Then the fifth (layer):–five asapatnās, forty virājs, twenty-nine stomabhāgās, five nākasads, five pañcacūḍās, thirty-one chandasyās, eight (of) the Gārhapatya hearth, eight (of) the Punaściti, two seasonal ones, a viśvajyotis, a vikarṇī, a naturally-perforated one, the variegated stone, the fire which is placed on the altar–these one hundred and thirty-eight are (in) the fifth layer.

१९

विश्वास-प्रस्तुतिः

(स्ता) ताः स᳘र्व्वाः पञ्च᳘भिर्न᳘ चत्वा᳘रि शता᳘नि॥
त᳘तो याः᳘ षष्टि᳘श्च त्री᳘णि च शतान्य᳘हर्लोकास्ता ऽअ᳘ह्नामेव सा᳘ ऽऽप्तिः क्रियते᳘ ऽह्नां प्रतिमा ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संव्वत्सरस्या᳘हान्य᳘थ याः ष᳘ट्त्रिᳫँ᳭शत्पु᳘रीषं ता᳘साᳫँ᳭ षट्त्रिᳫँ᳭शी त᳘तो याश्च᳘तुर्व्विᳫँ᳭शतिरर्धमास᳘लोकास्ता᳘ ऽअर्धमासा᳘नामेव सा᳘ ऽऽप्तिः क्रिय᳘ते ऽर्धमासा᳘नां प्रतिमा᳘ ऽथ या द्वा᳘दशमा᳘सलोकास्ता मा᳘सानामेव सा᳘ ऽऽप्तिः क्रिय᳘ते मा᳘सानां प्रतिमा ता᳘ ऽउ द्व᳘ द्वे स᳘ह ऽर्तु᳘लोका᳘[[!!]] ऽऋतूना᳘मशून्य᳘तायै॥

मूलम् - श्रीधरादि

(स्ता) ताः स᳘र्व्वाः पञ्च᳘भिर्न᳘ चत्वा᳘रि शता᳘नि॥
त᳘तो याः᳘ षष्टि᳘श्च त्री᳘णि च शतान्य᳘हर्लोकास्ता ऽअ᳘ह्नामेव सा᳘ ऽऽप्तिः क्रियते᳘ ऽह्नां प्रतिमा ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संव्वत्सरस्या᳘हान्य᳘थ याः ष᳘ट्त्रिᳫँ᳭शत्पु᳘रीषं ता᳘साᳫँ᳭ षट्त्रिᳫँ᳭शी त᳘तो याश्च᳘तुर्व्विᳫँ᳭शतिरर्धमास᳘लोकास्ता᳘ ऽअर्धमासा᳘नामेव सा᳘ ऽऽप्तिः क्रिय᳘ते ऽर्धमासा᳘नां प्रतिमा᳘ ऽथ या द्वा᳘दशमा᳘सलोकास्ता मा᳘सानामेव सा᳘ ऽऽप्तिः क्रिय᳘ते मा᳘सानां प्रतिमा 9 ता᳘ ऽउ द्व᳘ द्वे स᳘ह ऽर्तु᳘लोका᳘[[!!]] ऽऋतूना᳘मशून्य᳘तायै॥

मूलम् - Weber

ताः स᳘र्वाः पञ्च᳘भिर्न᳘ चत्वा᳘रि शता᳘नि॥
त᳘यो याः᳘ षष्टि᳘श्च त्री᳘णि च शतान्य᳘हर्लोकास्ता अ᳘ह्नामेव सा᳘प्तिः क्रियते᳘ऽह्नाम् प्रतिमा ताः᳘ षष्टि᳘श्च त्री᳘णि च शता᳘नि भवन्ति षष्टि᳘श्च ह वै त्री᳘णि च शता᳘नि संवत्सरस्या᳘हान्य᳘थ याः ष᳘ट्त्रिंशत्पु᳘रीषं ता᳘सां षट्त्रिंशी त᳘तो याश्च᳘तुर्विंशतिरर्धमास᳘लोकास्ता᳘ अर्धमासा᳘नामेव सा᳘प्तिः क्रिय᳘तेऽर्धमासा᳘नाम् प्रतिमा᳘थ या द्वा᳘दश मा᳘सलोकास्ता मा᳘सानामेव सा᳘प्तिः क्रिय᳘ते मा᳘सानाम् प्रतिमा ता᳘ उ द्व᳘-द्वे सह᳘र्तु᳘लोका ऋतूना᳘मशून्य᳘तायै॥

मूलम् - विस्वरम्

ताः सर्वाः पञ्चभिर्न चत्वारि शतानि । ततो याः षष्ठिश्च त्रीणि च शतानि- अहर्लोकास्ताः । अह्नामेव सा ऽऽप्तिः क्रियते, अह्नां प्रतिमा । ताः षष्ठिश्च त्रीणि च शतानि भवन्ति । षष्ठिश्च ह वै त्रीणि च शतानि सम्वत्सरस्याहानि । अथ याः षट्त्रिंशत्पुरीषम्- तासां षट्त्रिंशी । ततो याश्चतुर्विंशतिः- अर्धमासलोकास्ताः । अर्धमासानामेव सा ऽऽप्तिः क्रियते । अर्धमासानां प्रतिमा । अथ या द्वादशमासलोकास्ताः । मासानामेव सा ऽऽप्तिः क्रियते, मासानां प्रतिमा । ता उ द्वे द्वे ह ऋतुलोकाः ऋतूनामशून्यतायै ॥ १९ ॥

सायणः

पञ्चचितिगता यजुष्मतीः सर्वाः सम्भूय गणयति- ताः सर्वाः पञ्चभिर्न चत्वारि शतानीति । पञ्चोनचतुःशतसंख्याकाः सर्वा यजुष्मत्य इत्यर्थः । एतासामेवाहरर्द्धमासर्तुरूपतां विभज्य दर्शयति- ततो याः षष्ठिश्च त्रीणि च शतान्यहर्लोकास्ता इति । तत्र ‘याः’ षष्ठ्यधिकत्रिशतसंख्याकाः यजुष्मत्य इष्टकाः ता ‘अहर्लोकाः’ अहर्लोकप्राप्तिहेतुभूता इत्यर्थः । ता अह्नां प्रतिमाः प्रतिकृतय इति । संवत्सरस्यापि तावन्त्येवा हानि एवं षष्ठ्यधिकशतत्रये गते पञ्चत्रिंशदवशिष्टाः । अथ तासां पुरीषमन्तिमं संयोज्य षटत्रिंशत्संम्पन्ना इत्याह- अथ याः षट्त्रिंशत्पुरीषं तासां षट्त्रिंशीति । “इन्द्रं विश्वा अवीवृधन्”- (वा. सं. १२ । ५६) इति मन्त्रेण पुरीषमुपधीयते, अतस्तस्यापि यजुष्मत्त्वाद्यजुष्मतीष्विष्टकासु मध्ये परिगणनमित्यभिप्रायः । ताः षट्त्रिंशतमिष्टकाः विभज्य अर्द्धमासमासाद्यात्मिका इत्याह- ततो याश्चतुर्विंशतिर्यजुष्मत्यः ता अर्द्धमासप्रतिमाः-संख्यासाम्यात् अर्द्धमासात्मना सम्पन्नाः । संवत्सरस्यापि तावन्त एवार्द्धमासाः । अथ या द्वादश विद्यन्ते ता मासप्रतिमाः संख्यासाम्यात् । एवं षट्त्रिंशदिष्टका अर्द्धमासमासात्मना सम्पन्नाः । अथ कथं यजुष्मतीभिरहान्यर्द्धमासान्मासानृतूनिति । यजुष्मतीभिर्ऋतुप्राप्तिरुक्ता तत्राह- ता उ द्वे द्वे सह ऋतुलोकाः इति । ‘ताः’ द्वादश लोकाः ‘द्वे द्वे’ सह सम्भूय ऋतुलोकाः संवत्सरे ऽपि वर्तन्त इति साम्यात् । किमर्थमेवं सम्पादनमिति तद्दर्शयति-ऋतूनामशून्यताया इति । ऋतूनामिष्टकारूपत्वाभावे तेषां संवत्सरावयवानामप्राप्तिर्भवतीति तात्पर्यम् ॥ १९ ॥

Eggeling
  1. All these make three hundred and ninety-five. Of these, three hundred and sixty, supplying the place of days, are made the (means of) gaining the days, they are the counterpart of the days: There are three hundred and sixty of them, for there are three hundred and sixty days in the year. And for the thirty-six (additional days) which there are 10 the filling of earth (counts as) the thirty-sixth; and twenty-four thereof, supplying the place of half-moons, are made the (means of) gaining the half-moons, they are the counterpart of the half-moons. And the (remaining) twelve, supplying the place of months, are made the (means of) gaining the months, they are the counterpart of the months. And, lest the seasons should be wanting, these (twelve bricks), by two and two (taken) together, supply the place of seasons.

२०

विश्वास-प्रस्तुतिः

(या ऽअ᳘) अ᳘थ या᳘ लोकम्पृणाः᳘॥
(०) मुहुर्त᳘लोकास्ता᳘ मुहूर्ता᳘नामेव सा᳘ ऽऽप्तिः क्रिय᳘ते मुहूर्ता᳘नां प्रतिमा ता द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘नि भवन्त्येता᳘वन्तो हि᳘ संव्वत्सर᳘स्य मुहूर्तास्ता᳘सामे᳘कविᳫँ᳭शतिं गा᳘र्हपत्य ऽउपद᳘धाति द्वा᳘भ्यां᳘ नाशीतिं धि᳘ष्ण्येष्वाहवनी᳘य ऽइ᳘तरा ऽएता᳘वन्ति वै᳘ संव्वत्सर᳘स्य रूपा᳘णि ता᳘न्यस्या᳘त्राप्तान्युपहितानि भवन्ति॥

मूलम् - श्रीधरादि

(या ऽअ᳘) अ᳘थ या᳘ लोकम्पृणाः᳘॥
(०) मुहुर्त᳘लोकास्ता᳘ मुहूर्ता᳘नामेव सा᳘ ऽऽप्तिः क्रिय᳘ते मुहूर्ता᳘नां प्रतिमा ता द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘नि भवन्त्येता᳘वन्तो हि᳘ संव्वत्सर᳘स्य मुहूर्तास्ता᳘सामे᳘कविᳫँ᳭शतिं गा᳘र्हपत्य ऽउपद᳘धाति द्वा᳘भ्यां᳘ नाशीतिं धि᳘ष्ण्येष्वाहवनी᳘य ऽइ᳘तरा ऽएता᳘वन्ति वै᳘ संव्वत्सर᳘स्य रूपा᳘णि ता᳘न्यस्या᳘त्राप्तान्युपहितानि भवन्ति॥

मूलम् - Weber

अ᳘थ या᳘ लोकम्पृणाः᳟॥
मुहुर्त᳘लोकास्ता᳘ मुहूर्ता᳘नामेव सा᳘प्तिः क्रिय᳘ते मुहूर्ता᳘नाम् प्रतिमा ता द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘नि भवन्त्येता᳘वन्तो हि᳘ संवत्सर᳘स्य मुहूर्तास्ता᳘सामे᳘कविह्+शतिं गा᳘र्हपत्य उपद᳘धाति द्वा᳘भ्यांॗ नाशीतिं धि᳘ष्ण्येष्वाहवनी᳘य इ᳘तरा एता᳘वन्ति वै᳘ संवत्सर᳘स्य रूपा᳘णि ता᳘न्यस्या᳘त्राप्तान्युपहितानि भवन्ति॥

मूलम् - विस्वरम्

अथ या लोकम्पृणा- मुहूर्तलोकास्ताः । मुहूर्तानामेव सा ऽऽप्तिः क्रियते, मुहूर्तानां प्रतिमा । ता दश च सहस्राणि, अष्टौ च शतानि भवन्ति । एतावन्तो हि संवत्सरस्य मुहूर्ताः । तासामेकविंशतिं गार्हपत्य उपदधाति । द्वाभ्यां नाशीतिं धिष्ण्येषु । आहवनीय इतराः । एतावन्ति वै संवत्सरस्य रूपाणि- तान्यस्यात्राप्तान्युपहितानि ॥ २० ॥

सायणः

लोकंपृणाभिर्मुहूर्त्तप्राप्तिं संख्यासाम्यादुपपादयति- अथ या लोकम्पृणा मुहूर्तलोकास्ता इति । तासामुपधानप्रदेशसंख्याविशेषं दर्शयति- एकविंशतिं गार्हपत्य उपदधातीति । लोकंपृणानामष्टशताधिकदशसाहस्रसम्मितानां मध्ये गार्हपत्ये एकविंशतिं लोकंपृणा उपदध्यात् । तत्र परिश्रितो ऽपि तावत्य इत्युक्तम् । द्वाभ्यां नाशीतिं धिष्ण्येष्विति । अस्मिन्नर्थे सूत्रम्- “परिश्रिदुपधानविभागसमये पूर्वमुदाहृतम्” । “धिष्ण्यांश्चिनोत्यष्टेष्टकांल्लोकंपृणाभिश्चतुःस्रक्तीन्” (का. श्रौ. सू. १८ । ९३) इत्यादिकम् । अत्र गार्हपत्यधिष्ण्यानामेकोनशतं लोकंपृणा गताः । शिष्टाः सर्वा आहवनीये उपधेयाः एवं परिश्रिद्यजुष्मतीलोकंपृणाभिः संवत्सरस्य सकलानि रूपाणि, अहोरात्रार्द्धमासमासर्तुमुहूर्त्तात्मकान्युपहितवान् भवतीति चयनस्य संवत्सरात्मकाग्निप्राप्तिः फलमित्युक्तं युक्तमित्यर्थः ॥ २० ॥

Eggeling
  1. And as to the Lokampr̥ṇā (space-filling bricks), supplying the place of muhūrtas (hours), they are made the (means) of gaining the muhūrtas, they are the counterpart of the muhūrtas: there are ten thousand and eight hundred of them, for so many muhūrtas there are in the year. Of these, he lays down twenty-one in the Gārhapatya (altar), seventy-eight in the Dhishṇya-hearths, and the others in the Āhavanīya. So many, indeed, are the (different) forms of the year: it is these that are here secured for him (Prajāpati, the Year), and are put on him.

२१

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
(क ऽ) आहवनी᳘य ऽए᳘वैता᳘ᳫँ᳘ सम्प᳘दमापिपयिषन्त्यन्ये वा᳘ ऽए᳘ते ऽग्न᳘यश्चिताः कि᳘मन्यत्रो᳘पहिता ऽइह स᳘म्पश्येमे᳘ति न त᳘था कुर्य्याद्द᳘श वा᳘ ऽएता᳘नग्नीं᳘श्चिनु᳘ते ऽष्टौ धि᳘ष्ण्यानाहवनी᳘यं च गा᳘र्हपत्यं च त᳘स्मादाहुर्व्विरा᳘डग्निरि᳘ति द᳘शाक्षरा हि᳘ व्विराट् ता᳘न्नु स᳘र्व्वाने᳘कमिवैवा᳘चक्षते ऽग्निरि᳘त्येत᳘स्य᳘ ह्ये᳘वैता᳘नि स᳘र्व्वाणि रूपा᳘णि य᳘था संव्वत्सर᳘स्याहोरात्रा᳘ण्यर्धमासा मा᳘सा ऽऋत᳘व ऽएव᳘मस्यैता᳘नि स᳘र्व्वाणि रूपा᳘णि॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
(क ऽ) आहवनी᳘य ऽए᳘वैता᳘ᳫँ᳘ सम्प᳘दमापिपयिषन्त्यन्ये वा᳘ ऽए᳘ते ऽग्न᳘यश्चिताः कि᳘मन्यत्रो᳘पहिता ऽइह स᳘म्पश्येमे᳘ति न त᳘था कुर्य्याद्द᳘श वा᳘ ऽएता᳘नग्नीं᳘श्चिनु᳘ते ऽष्टौ धि᳘ष्ण्यानाहवनी᳘यं च गा᳘र्हपत्यं च त᳘स्मादाहुर्व्विरा᳘डग्निरि᳘ति द᳘शाक्षरा हि᳘ व्विराट् ता᳘न्नु स᳘र्व्वाने᳘कमिवैवा᳘चक्षते ऽग्निरि᳘त्येत᳘स्य᳘ ह्ये᳘वैता᳘नि स᳘र्व्वाणि रूपा᳘णि य᳘था संव्वत्सर᳘स्याहोरात्रा᳘ण्यर्धमासा मा᳘सा ऽऋत᳘व ऽएव᳘मस्यैता᳘नि स᳘र्व्वाणि रूपा᳘णि॥

मूलम् - Weber

तद्धै᳘के॥
आहवनी᳘य एॗवैता᳘ᳫं᳘ सम्प᳘दमापिपयिषन्त्यन्ये वा᳘ एॗतेऽग्न᳘यश्चिताः कि᳘मन्यत्रो᳘पहिता इह स᳘म्पश्येमे᳘ति न त᳘था कुर्याद्द᳘श वा᳘ एता᳘नग्नीं᳘श्चिनुॗतेऽष्टौ धि᳘ष्ण्यानाहवनी᳘यं च गा᳘र्हपत्यं च त᳘स्मादाहुर्विरा᳘डग्निरि᳘ति द᳘शाक्षरा हि᳘ विराट् तान्नु स᳘र्वाने᳘कमिवैवा᳘चक्षतेऽग्निरि᳘त्येत᳘स्यॗ ह्येॗवैता᳘नि स᳘र्वाणि रूपा᳘णि य᳘था संवत्सर᳘स्याहोरात्रा᳘ण्यर्धमासा मा᳘सा ऋत᳘व एव᳘मस्यैता᳘नि स᳘र्वाणि रूपा᳘णि॥

मूलम् - विस्वरम्

तद्धैक आहवनीय एवैतां सम्पदमापिपयिषन्ति । अन्ये वा एते, अग्नयश्चिताः किमन्यत्रोपहिता इह सम्पश्येमेति । न तथा कुर्यात् । दश वा एतानग्नींश्चिनुते, अष्टौ धिष्ण्यान्, आहवनीयं च गार्हपत्यं च । तस्मादाहुर्विराडग्निरिति । दशाक्षरा हि विराट् । तान्नु सर्वानेकमिवैवाचक्षते । अग्निरित्येतस्य ह्येवैतानि सर्वाणि रूपाणि । यथा संवत्सरस्याहोरात्राणि, अर्धमासाः, मासाः, ऋतवः, एवमस्यैतानि सर्वाणि रूपाणि ॥ २१ ॥

सायणः

अत्र केचनाहवनीय एव सकला अपि लोकम्पृणा उपधेया इत्याहुः, तेषां मतमनूद्य दूषयति- तद्धैक आहवनीय एवैतां सम्पदमिति । लोकम्पृणानां मुहूर्त्तरूपाणां सम्पत्तिमाहवनीयाग्नावेवाप्तुमिच्छन्ति । तत्रैषोपपत्तिः- ‘अन्ये वा ऽएते ग्नयः’ गार्हपत्यधिष्ण्योपलक्षणाः चिताः लोकम्पृणेष्टकाभिः । अतः अन्यत्रोपहिता इष्टका इहाहवनीयचित्या ऽग्नौ किं सम्पश्येम सम्भूय जानीमह इति केषांचिन्मतम् । तस्योत्तरम्- चित्ये यजमानो दशाग्नीन्, गार्हपत्याहवनीयौ, अष्टौ धिष्ण्यान्, चिनुते । अग्निगतदशसंख्याया एव विराडात्मकत्वेनैव वैदिकप्रसिद्धिं दर्शयति- तस्मादाहुर्विराडग्निरिति । दशाक्षरा हि विराट्, अतो ऽग्निर्विराट्रूप इति वदन्ति । यद्येवम् अग्निं चिनुत इत्येकवचनान्ताग्निशब्दव्यवहारः कथमित्याशङ्क्य तदुपपादयति- तान्नु सर्वानेकमिवैवाचक्षते ऽग्निरिति । एतस्यैकस्यैवाग्नेरितराणि गार्हपत्यादिलक्षणानि रूपाणि यथैकस्य संवत्सरस्य अहोरात्रार्द्धमासमासर्तवो रूपाणि एवमित्यर्थः ॥ २१ ॥

Eggeling
  1. Now, some wish to get this total amount 11 in the Āhavanīya itself, arguing, ‘Those are different brick-built fire-altars: why should we here (in the Āhavanīya altar) take into account those laid down there (in the Gārhapatya and Dhishṇyas)?’ But let him not do so. There are, indeed, ten of these fire-altars he builds–eight Dhishṇyas, the Āhavanīya and the Gārhapatya–whence they say, ‘Agni is Virāj (wide shining or ruling),’ for the Virāj (metre) consists of ten syllables: but, surely, all these (altars and hearths) are looked upon as only one, as Agni; for it is merely forms of him that they all are,–even as the days and nights, the half-moons, the months, and the seasons (are forms) of the year, so are they all forms of him (Agni).

२२

विश्वास-प्रस्तुतिः

ते ये᳘ ह त᳘था कुर्व्व᳘न्ति॥
(न्त्ये) एता᳘नि हास्य ते᳘ रूपा᳘णि बहिर्धा᳘ कुर्व्वन्त्य᳘थो पापवस्यसं᳘ कुर्व्वन्ति क्षत्त्रा᳘य व्वि᳘शं प्रतिप्रति᳘नीं प्रत्युद्यामि᳘नीमाग्नीध्री᳘ये वा ऽअ᳘श्मानं पृ᳘श्निमु᳘पदधात्य᳘थ तᳫँ᳭ स᳘म्पश्यति कि᳘मु तᳫँ᳭ सम्प᳘श्यन्नि᳘तरा न स᳘म्पश्येद्ये᳘नैव नि᳘र्ऋतिं पाप्मा᳘नमपहते स᳘ ऽएकादशः[[!!]]॥

मूलम् - श्रीधरादि

ते ये᳘ ह त᳘था कुर्व्व᳘न्ति॥
(न्त्ये) एता᳘नि हास्य ते᳘ रूपा᳘णि बहिर्धा᳘ कुर्व्वन्त्य᳘थो पापवस्यसं᳘ कुर्व्वन्ति क्षत्त्रा᳘य व्वि᳘शं प्रतिप्रति᳘नीं प्रत्युद्यामि᳘नीमाग्नीध्री᳘ये वा ऽअ᳘श्मानं पृ᳘श्निमु᳘पदधात्य᳘थ तᳫँ᳭ स᳘म्पश्यति कि᳘मु तᳫँ᳭ सम्प᳘श्यन्नि᳘तरा न स᳘म्पश्येद्ये᳘नैव नि᳘र्ऋतिं पाप्मा᳘नमपहते स᳘ ऽएकादशः[[!!]]॥

मूलम् - Weber

ते ये᳘ ह त᳘था कुर्व᳘न्ति॥
एता᳘नि हास्य ते᳘ रूपा᳘णि बहिर्धा᳘ कुर्वन्त्य᳘थो पापवस्यसं᳘ कुर्वन्ति क्षत्रा᳘य वि᳘शम् प्रतिप्रति᳘नीम् प्रत्युद्यामि᳘नीमाग्नीध्री᳘ये वा अ᳘श्मानम् पृ᳘श्निमु᳘पदधात्य᳘थ तᳫं स᳘म्पश्यति कि᳘मु त᳘ᳫं᳘ सम्प᳘श्यन्नि᳘तरा न स᳘म्पश्येद्ये᳘नैव नि᳘रृतिम् पाप्मा᳘नमपहते स᳘ एकादशः᳟॥

मूलम् - विस्वरम्

ते ये ह तथा कुर्वन्ति- एतानि हास्य ते रूपाणि बहिर्धा कुर्वन्ति । अथो पापवस्यसं कुर्वन्ति । क्षत्त्राय विशं प्रतिप्रतिनीं प्रत्युद्यामिनीम् । आग्नीध्रीये वा अश्मानं पृश्निमुपदधाति । अथ तं सम्पश्यति । किमु तं सम्पश्यन्नितरा न सम्पश्येत् । येनैव निर्ऋतिं पाप्मानमपहते- स एकादशः ॥ २२ ॥

सायणः

केषांचिन्मते दोषमाह- ते ये ह तथा कुर्वन्तीति । ये तथा आहवनीय एव संख्यासम्पत्तिं कुर्वन्ति- ते ‘एतानि’ गार्हपत्यधिष्ण्यलक्षणानि रूपाणि संवत्सरात्मकादग्नेर्बहिर्द्धा कुर्वन्ति । किञ्च पापयुक्तं कर्मैव तत् । यतः ‘क्षत्त्राय’ प्रजाभूतां वैश्यजातिं ‘प्रतिप्रतिनीं’ प्रतिकोटिभूतां ‘प्रत्युद्यामिनीं’ स्पर्द्धिनीं च कुर्वन्ति । अतो मुख्यस्याहवनीयाग्नेः सकाशादेतेषां गार्हपत्यादीनां बहिर्द्धाकरणात्तस्य तैः सह प्रातिकूल्यमेव कृतवन्तो भवन्ति । यद्येवमन्यत्र चित्यानामिष्टकानां सम्भूय परिगणनम्, तर्हि निर्ऋतिदेवत्यानां तिसृणामिष्टकानामप्यत्रैव सन्दर्शनं कर्तव्यमित्यनिष्टमापादयितुं भूमिकामारचयति- आग्नीध्रीये वा अश्मानं पृश्निमुपदधातीति । पृश्न्यश्मा तु यजुष्मतीमध्ये परिगणितः । तस्याग्नीध्रीये ऽग्नावुपधानसूत्रं तूदाहृतम् । “पृश्न्यश्मा चाग्नीध्रीये”- (का. श्रौ. सू. १८ । ९४) इति । ‘अथ तं’ तं अश्मानं सम्पश्यति- यजुष्मतीषु मध्ये सम्भूय जानाति । तद्वदितरधिष्ण्यगता अपि लोकम्पृणाः कथं न संपश्येत् । अन्यत्र स्थितानामपि पृश्न्यश्मवत् सम्पश्यत्यन्तर्भावो न विरुध्यत इत्यर्थः । एवमन्तर्नैर्ऋतीनां प्रसक्तिः सम्पद्यते- येनैव निर्ऋतिमिति । येनाग्निना ‘निर्ऋतिं पाप्मानमहते’ अपहन्ति । स एकादशो ऽग्निः । पूर्वं दशाग्नय उक्ताः तेषामयमेकादशसंख्यापूरक इत्यर्थः ॥ २२ ॥

Eggeling
  1. And, assuredly, they who do this put those forms of his 12 outside of him, and produce confusion between the better and the worse; they make the peasantry equal and refractory to the nobility. Surely, on the Āgnīdhrīya he places the variegated

stone 13, and that he takes into account: why, then, taking that into account, should he not take others into account? That (altar) by which they ward off Nirr̥ti 14, evil, is the eleventh.

२३

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
कथ᳘मु ता ऽअ᳘त्र न स᳘म्पश्यती᳘ति न᳘ ह्येना ऽअभिजुहोत्या᳘हुत्या वा ऽइ᳘ष्टका स᳘र्व्वा कृत्स्ना भ᳘वती᳘ति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
कथ᳘मु ता ऽअ᳘त्र न स᳘म्पश्यती᳘ति न᳘ ह्येना ऽअभिजुहोत्या᳘हुत्या वा ऽइ᳘ष्टका स᳘र्व्वा कृत्स्ना भ᳘वती᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मु ता अ᳘त्र न स᳘म्पश्यती᳘ति नॗ ह्येना अभिजुहोत्या᳘हुत्या वा इ᳘ष्टका स᳘र्वा कृत्स्ना भ᳘वती᳘ति॥

मूलम् - विस्वरम्

तदाहुः- कथमु ता अत्र न सम्पश्यतीति । न ह्येना अभिजुहोति । आहुत्या वा इष्टका सर्वा कृत्स्ना भवतीति ॥ २३ ॥

सायणः

इत्थं पीठिकां कृत्वा चोदयन्ति- तदाहुः कथमु ता इति । नैर्ऋत्य इष्टकाः उपधेया इति प्राग्विहितम् । “अथातो नैर्ऋतीर्हरन्ति”- (श. प. ७ । २ । १ । १) इति । कात्यायनेनापि “नैर्ऋतीः कृष्णास्तुषपक्वास्तिस्रः” इति- प्रक्रम्य- “दक्षिणामुखो ऽनुपस्पृशन् ‘असुन्वन्तं’ (वा. सं. १२ । ६२) इति प्रत्यृचं पराचीः”- (का. श्रौ. सू. १७ । २३-२४) इति । तासां कथमत्र न परिगणनमिति चोदनार्थः । तद्दूषयति- न ह्येना जुहोतीत्यादिना । आहुतिभिरिष्टका सम्पाद्यते । नात्राहुतिरस्तीति इष्टकात्वमेव नास्ति कुतस्तासामिष्टकामध्ये परिगणनमित्युत्तरस्यार्थः । “होमेन हीष्टका भवति” इति षष्टकाण्डादौ प्रतिपादितम् । “यां यामाहुतिमजुहवुः सासैनं पक्वेष्टकाभूत्वा ऽप्यपद्यत । तद्यदिष्टात्समभवंस्तस्मादिष्टकाः”- (श. प. ६ । १ । २ । २२ ।) इति ॥ २३ ॥

Eggeling
  1. As to this they say, ‘Why, then, do they not take into account here those (of Nirr̥ti’s altar)?’ Because he makes no offering on them, for it is by offering that a brick becomes whole and complete.

२४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कथ᳘मस्यैता ऽअ᳘नतिरिक्ता ऽउ᳘पहिता भवन्ती᳘ति व्वी᳘र्य्यं[[!!]] वा᳘ ऽअस्यैता ऽअ᳘नतरिक्तं वै पु᳘रुषं व्वी᳘र्य्यᳫँ᳭ स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं प्रजा᳘पतिᳫँ᳭ स᳘ᳫँ᳘स्करोति य᳘ ऽएवं᳘विद्वा᳘नेतत्क᳘र्म कुरुते यो᳘ वैत᳘देवं व्वे᳘द॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कथ᳘मस्यैता ऽअ᳘नतिरिक्ता ऽउ᳘पहिता भवन्ती᳘ति व्वी᳘र्य्यं[[!!]] वा᳘ ऽअस्यैता ऽअ᳘नतरिक्तं वै पु᳘रुषं व्वी᳘र्य्यᳫँ᳭ स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं प्रजा᳘पतिᳫँ᳭ स᳘ᳫँ᳘स्करोति य᳘ ऽएवं᳘विद्वा᳘नेतत्क᳘र्म कुरुते यो᳘ वैत᳘देवं व्वे᳘द॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मस्यैता अ᳘नतिरिक्ता उ᳘पहिता भवन्ती᳘ति वीर्यं᳘ वा᳘ अस्यैता अ᳘नतिरिक्तं वै पु᳘रुषं 15 वीर्य᳘ᳫं᳘ स᳘ ह वा᳘ एतᳫं स᳘र्वं कृत्स्नम् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करोति य᳘ एवं᳘ विद्वा᳘नेतत्क᳘र्म कुरुते यो᳘ वैत᳘देवं वे᳘द॥

मूलम् - विस्वरम्

तदाहुः- कथमस्यैता अनतिरिक्ता उपहिता भवन्तीति । वीर्यं वा अस्यैताः । अनतिरिक्तं वै पुरुषं वीर्यम् । स ह वा एतं सर्वं कृत्स्नं प्रजापति संस्करोति । य एवं विद्वानेतत्कर्म कुरुते । यो वैतदेवं वेद ॥ २४ ॥

सायणः

अथासां नैर्ऋतीनां तिसृणामिष्टकानां सप्तत्यधिकशतोत्तरैकादशसहस्रसम्मितेष्टकाभ्यो नातिरेकेनोपधानं प्रश्नोत्तराभ्यामाह- तदाहुः कथमस्यैता इति । ‘अस्य’ चित्याग्नेः ‘अनतिरिक्ताः’ ‘उपहिताः’ अतिरेकाभावेनोपहिताः कथं भवन्तीति प्रश्नार्थः । वीर्यं वा अस्यैता इति । अस्याग्नेरेतास्तिस्र इष्टकाः ‘वीर्यं’ वीर्यरूपा इत्यर्थः । वीर्यत्वे ऽपि कथमनतिरेकस्तदाह- अनतिरिक्तं वै पुरुषमिति । पुरुषस्य वीर्यम् अनतिरिक्तम् अनधिकं, तस्मादेतासामनतिरेकेणोपधानमेवेत्यर्थः । अथ विदित्वा ऽनुष्ठातुः केवलवेदितुश्च फलमाह- स ह वा एतं सर्वं कृत्स्नं प्रजापतिमिति । यः पुरुषः एवं परिश्रिद्यजुष्मतीलोकम्पृणानामुक्तविधां सम्पत्तिं ज्ञात्वा चयनकर्म करोति, यश्च या ऋचो वेद, स प्रजापतिं चित्याग्निरूपं सर्वं कृत्स्नं संस्करोति नाधिकं न्यूनं किं तु संपूर्णमेव संस्कृतवान् भवतीत्यर्थः ॥ २४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे चतुर्थे ऽध्याये तृतीयं ब्राह्मणम् ॥ (१०-४-३) ॥

Eggeling
  1. As to this they say, ‘How are these (bricks) of his laid down so as not to be excessive?’ Well, these (bricks) are his (Agni’s) vital power, and man’s vital power is not excessive. Thus whosoever, knowing this, performs this holy work, or he who but knows this, makes up this Prajāpati whole and complete.

  1. 356:1 Father Time, Prajāpati. ↩︎

  2. अत्र “यजमाना अमृतत्वम्” इति भाष्यानुसारी पाठः साधुः । ↩︎

  3. रूपाण्यु᳘पधत्ता᳘ति A. B. 2. Sây. ↩︎

  4. ते स᳘म्भवन्त ए॒वामृ A. ↩︎

  5. लोकेष्टकाः Sây. ↩︎

  6. ए᳘कचत्वारिᳫश᳘द्द्विती᳘या A. ↩︎

  7. ए᳘कसप्तति᳘स्तृती᳘या A. ↩︎

  8. सप्त᳘चत्वारिᳫश᳘च्चतुर्थी A. ↩︎

  9. अत्र कण्डिकायां सर्वत्र ‘प्रतिमा’ इति पाठो भाष्यानुसारी साधीयान्प्रतिभाति । एवमुत्तरत्रापि । ↩︎

  10. 359:1 Namely, in an intercalary month. The layers of loose soil have to be counted in for the reason that only 35 yajushmatīs remain after taking away the 360. ↩︎

  11. 360:1 Viz. of 10,800 Lokampr̥ṇās. ↩︎

  12. 360:2 Viz. the Gārhapatya and Dhishṇya hearths. ↩︎

  13. 361:1 See IX, 2, 3, 14-17; 4, 3, 6. ↩︎

  14. 361:2 See VII, 2, 1, 1 seq. ↩︎

  15. पुरुषे Sây. (? पुरुष इति). - ibid. Sâyaṇa closes here the fourth adhyâya. ↩︎