०१

विश्वास-प्रस्तुतिः

संव्वत्सरो वै᳘ प्रजा᳘पतिरग्निः[[!!]]॥
सो᳘मो रा᳘जा चन्द्र᳘माः स᳘ ह स्वय᳘मे᳘वात्मा᳘नं प्रो᳘चे यज्ञ᳘वचसे राजस्तम्बायना᳘य या᳘वन्ति वाव᳘ मे ज्यो᳘तींᳫँ᳭षि ता᳘वत्यो म ऽइ᳘ष्टका ऽइ᳘ति॥

मूलम् - श्रीधरादि

संव्वत्सरो वै᳘ प्रजा᳘पतिरग्निः[[!!]]॥
सो᳘मो रा᳘जा चन्द्र᳘माः स᳘ ह स्वय᳘मे᳘वात्मा᳘नं प्रो᳘चे यज्ञ᳘वचसे राजस्तम्बायना᳘य या᳘वन्ति वाव᳘ मे ज्यो᳘तींᳫँ᳭षि ता᳘वत्यो म ऽइ᳘ष्टका ऽइ᳘ति॥

मूलम् - Weber

संवत्सरो वै᳘ प्रजा᳘पतिरग्निः᳟॥
सो᳘मो रा᳘जा चन्द्र᳘माः स᳘ ह स्वय᳘मेॗवात्मा᳘नम् प्रो᳘चे यज्ञ᳘वचसे राजस्तम्बायना᳘य या᳘वन्ति वाव᳘ मे ज्यो᳘तींषि ता᳘वत्यो म इ᳘ष्टका इ᳘ति॥

मूलम् - विस्वरम्

संवत्सरो वै प्रजापतिः अग्निः । सोमो राजा चन्द्रमाः । स ह स्वयमेवात्मानं प्रोचे- यज्ञवचसे राजस्तंबायनाय । यावन्ति वाव मे ज्योतींषि- तावत्यो म इष्टका इति ॥ १ ॥

सायणः

अथास्मिन् द्वितीये ब्राह्मणे प्रजापतिरूपचित्याग्नेः कालमन्त्रात्मकत्वं, चयनफलं च; मृत्युरूपत्वं मृत्युरूपोपासनाफलमुपधेयानामिष्टकानां सङ्ख्या, तद्विभागश्च, अग्नेरिष्टकानां च संवत्सरतदवयवाहोरात्रमुहूर्त्तात्मकत्वं मन्त्ररूपत्वं च स्पष्टमाम्नायते । तत्र प्रथमं संवत्सररूपप्रजापतेरग्नीषोमात्मकत्वमाह- संवत्सरो वै प्रजापतिरग्निः सोमो राजा चन्द्रमा इति । संवत्सरात्मकप्रजापतिरेवाग्निरित्युच्यते । सोमो राजैव चन्द्रमा इत्युच्यते । तच्चन्द्रमसो वचनमुत्तरत्र “यः स उदक्रामदेष स चन्द्रमाः”- (श. प. १० । ४ । २ । २७) इति प्रजापतेश्चन्द्रत्वोक्तावुपयुज्यते । सः प्रजापतिः स्वयमेव राजस्तम्बपुत्राय यज्ञवचसे यज्ञऋषये आत्मानं स्वस्वरूपं प्रोचे; किमिति ? तदाह- मे मम यावन्ति ज्योतींषि सन्ति तावत्यो मे इष्टकाः कार्याः इति प्रोवाच इति सम्बन्धः ॥ १ ॥

Eggeling
  1. Verily, Prajāpati, the year, is Agni, and King Soma, the moon. He himself, indeed, proclaimed (taught) his own self to Yajñavacas Rājastambāyana, saying, ‘As many lights as there are of mine, so many are my bricks.’

०२

विश्वास-प्रस्तुतिः

त᳘स्य वा᳘ ऽएत᳘स्य संव्वत्सर᳘स्य प्रजा᳘पतेः॥
सप्त᳘ च शता᳘नि व्विᳫँ᳭शति᳘श्चाहोरात्रा᳘णि ज्यो᳘तीᳫँ᳭षि ता ऽइ᳘ष्टकाः षष्टि᳘श्च त्री᳘णि च शता᳘णि परिश्रि᳘तः षष्टि᳘श्च त्री᳘णि च शता᳘नि य᳘जुष्मत्यः᳘[[!!]] सो ऽय᳘ᳫँ᳘ संव्वत्सरः᳘ प्रजा᳘पतिः स᳘र्व्वाणि भूता᳘नि ससृजे य᳘च्च प्राणि य᳘च्चाप्राण᳘मुभ᳘यान्देवमनुष्यान्त्स स᳘र्व्वाणि भूता᳘नि सृष्ट्वा᳘ रिरिचान᳘ ऽइव मेने स᳘ मृत्यो᳘र्बिभयां᳘ चकार॥

मूलम् - श्रीधरादि

त᳘स्य वा᳘ ऽएत᳘स्य संव्वत्सर᳘स्य प्रजा᳘पतेः॥
सप्त᳘ च शता᳘नि व्विᳫँ᳭शति᳘श्चाहोरात्रा᳘णि ज्यो᳘तीᳫँ᳭षि ता ऽइ᳘ष्टकाः षष्टि᳘श्च त्री᳘णि च शता᳘णि परिश्रि᳘तः षष्टि᳘श्च त्री᳘णि च शता᳘नि य᳘जुष्मत्यः᳘[[!!]] सो ऽय᳘ᳫँ᳘ संव्वत्सरः᳘ प्रजा᳘पतिः स᳘र्व्वाणि भूता᳘नि ससृजे य᳘च्च प्राणि य᳘च्चाप्राण᳘मुभ᳘यान्देवमनुष्यान्त्स स᳘र्व्वाणि भूता᳘नि सृष्ट्वा᳘ रिरिचान᳘ ऽइव मेने स᳘ मृत्यो᳘र्बिभयां᳘ चकार॥

मूलम् - Weber

त᳘स्य वा᳘ एत᳘स्य संवत्सर᳘स्य प्रजा᳘पतेः॥
सप्त᳘ च शता᳘नि विंशति᳘श्चाहोरात्रा᳘णि ज्यो᳘तींषि ता इ᳘ष्टकाः षष्टि᳘श्च त्री᳘णि च शता᳘णि परिश्रि᳘तः षष्टि᳘श्च त्री᳘णि च शता᳘नि य᳘जुष्मॗत्यः सोऽय᳘ᳫं᳘ संवत्सरः᳘ प्रजा᳘पतिः स᳘र्वाणि भूता᳘नि ससृजे य᳘च्च प्राणि य᳘च्चाप्राण᳘मुभ᳘यान्देवमनुष्यान्त्स स᳘र्वाणि भूता᳘नि सृष्ट्वा᳘ रिरिचान᳘-इव मेने स᳘ मृत्यो᳘र्बिभयां᳘ चकार॥

मूलम् - विस्वरम्

तस्य वा एतस्य संवत्सरस्य प्रजापतेः सप्त च शतानि विंशतिश्चाहोरात्राणि ज्योतींषि- ता इष्टकाः । षष्टिश्च त्रीणि च शतानि परिश्रितः । षष्टिश्च त्रीणि च शतानि यजुष्मत्यः । सो ऽयं संवत्सरः प्रजापतिः सर्वाणि भूतानि ससृजे- यच्च प्राणि, यच्चाप्राणम् । उभयान्देवमनुष्यान् । स सर्वाणि भूतानि सृष्ट्वा रिरिचानः- इव मेने । स मृत्योर्बिभयां चकार ॥ २ ॥

सायणः

यदुक्तं प्रजापतिना यावन्ति ज्योतींषीति- तत्र ज्योतिःशब्दार्थं तत्सङ्ख्यां च श्रुतिः स्वयं लोकोपकाराय दर्शयति- तस्य वा एतस्येति । संवत्सररूपस्य प्रजापतेः विंशत्युत्तराणि सप्तशतसङ्ख्याकान्यहोरात्रलक्षणानि ज्योतींषि विद्यन्ते ता अत्रेष्टकाः संपन्नाः । संवत्सरे षष्ट्युत्तरत्रिशतसंख्यान्यहानि तावत्यो रात्रयः, इत्युक्तसंख्या सिद्धेत्यर्थः । उक्तामहोरात्रसंख्यामिष्टकासु दर्शयति- षष्टिश्च त्रीणीति । परिश्रितो नाम परित उपधेयाः शर्कराः । एवं च मन्त्रैरुपहिता इष्टकाः षष्ट्यधिकत्रिशतसंख्याका भवन्तीति, तावतीनां यजुर्मन्त्रोपहितानामिष्टकानां तावत्यः परिश्रितः- इत्यहोरात्रसंख्या परिश्रिद्यजुष्मतीनामस्तीति अग्नेः संवत्सरात्मकप्रजापतित्वम् । परिश्रिद्यजुष्मतीनामेषा भवत्येव संख्येत्युत्तरत्र वक्ष्यते । अथ संवत्सराग्नेः पक्षगततिथ्यर्द्धमासमुहूर्तान् दर्शयितुं प्रस्तौति- सो ऽयं संवत्सरः प्रजापतिः सर्वाणि भूतानीति । सो ऽयमग्निसंवत्सरात्मकः प्रजापतिः सकलं ‘प्राणि’ चेष्टमानं जङ्गमम् ‘अप्राणम्’ अचेष्टमानं स्थावरम् उभयान् द्विप्रकारान् देवमनुष्यान् सृष्ट्वा रिरिचान इव मेने । यथा लोके कश्चन धनाढ्यो धनं विद्यां वा दत्त्वा रिक्तः शून्यः मम किञ्चिदपि नावशिष्टमिति मन्यते; एवमयं रिक्तः सन् मृत्योः सकाशाद् भीतः ॥ २ ॥

Eggeling
  1. Now in this Prajāpati, the year, there are seven hundred and twenty days and nights, his lights, (being) those bricks; three hundred and sixty

enclosing-stones 1, and three hundred and sixty bricks with (special) formulas. This Prajāpati, the year, has created all existing things, both what breathes and the breathless, both gods and men. Having created all existing things, he felt like one emptied out, and was afraid of death.

०३

विश्वास-प्रस्तुतिः

स᳘ हेक्षां᳘ चक्रे॥
कथं᳘ न्वह᳘मिमा᳘नि[[!!]] स᳘र्व्वाणि भूता᳘नि पु᳘नरात्मन्ना᳘वपेय पु᳘नरात्म᳘न्दधीय कथं᳘ न्वह᳘मे᳘वैषाᳫँ᳭[[!!]] स᳘र्व्वेषां भूता᳘नां पु᳘नरात्मा᳘ स्यामि᳘ति॥

मूलम् - श्रीधरादि

स᳘ हेक्षां᳘ चक्रे॥
कथं᳘ न्वह᳘मिमा᳘नि[[!!]] स᳘र्व्वाणि भूता᳘नि पु᳘नरात्मन्ना᳘वपेय पु᳘नरात्म᳘न्दधीय कथं᳘ न्वह᳘मे᳘वैषाᳫँ᳭[[!!]] स᳘र्व्वेषां भूता᳘नां पु᳘नरात्मा᳘ स्यामि᳘ति॥

मूलम् - Weber

स᳘ हेक्षां᳘ चक्रे॥
कथं न्व᳘ह᳘मिना᳘नि स᳘र्वाणि भूता᳘नि पु᳘नरात्मन्ना᳘वपेय पु᳘नरात्म᳘न्दधीय कथं न्व᳘ह᳘मेॗवैषाᳫं स᳘र्वेषाम् भूता᳘नाम् पु᳘नरात्मा᳘ स्यामि᳘ति॥

मूलम् - विस्वरम्

स हेक्षां चक्रे । कथं न्वहमिमानि सर्वाणि भूतानि पुनरात्मन्नावपेय । पुनरात्मन्दधीय । कथं न्वहमेवैषां सर्वेषां भूतानां पुनरात्मा स्यामिति ॥ ३ ॥

सायणः

स हेति । ‘सः’ ‘ईक्षांचक्रे’ पर्यालोचितवान् । कथमिमानि सृष्टानि भूतानि आत्मनि ‘पुनरावपेय’ प्रक्षिपेयम्, प्रक्षिप्य कथमात्मनि ‘दधीय’ धारयेयम्, कथं चाहं सर्वभूतानामात्मा भवेयमिति विचार्य पूर्वमेकः सन् प्रजापतिः स्वात्मानं द्वेधा ‘व्यौहत्’ व्यभजत् विभक्तयोर्द्वयोरात्मनोः पूर्वोक्ता अहोरात्रसंख्याकाः परिश्रित इष्टकाश्च विभज्य दर्शयति- षष्टिश्च त्रीणि च शतान्यन्यतरस्येष्टका अभवन्निति । पूर्वं परिश्रितो यजुष्मत्यश्चोभय्यो विंशत्यधिकसप्तशतसंख्याका इत्युक्तम् । तासां समविभाग एकैकस्य षष्ट्यधिकत्रिशतसङ्ख्याका यजुष्मत्य इष्टकाः परिश्रितश्च सम्भूय भवन्तीत्यर्थः । परिश्रितामपि “तया देवतया ऽङ्गिरस्वद्”- (वा. सं. १२ । ५३) इति मन्त्रेणोपधानादिष्टकाशब्दव्यवहार्यत्वमिति मन्तव्यम् । एवमुत्तरत्र त्रिचतुरप्रभृत्यात्मविभागेषु तत्तदात्मसंख्याय विंशत्यधिकसप्तशतसंख्या एव परिश्रिद्यजुष्मतीर्विभज्य दर्शयिष्यतीति न तत्र वक्तव्यमस्ति । त्रिप्रभृत्यात्मान्तरकल्पने कारणमाह- स न व्याप्नोदिति । एतावता द्वेधा ऽऽत्मव्यूहेन सर्वभूतानि स्वात्मनि प्रक्षेप्तुं धारयितुं स्वयं च तेषामात्मा भवितुं समर्थो नाभवदित्यर्थः ॥ ३ ॥ ४ ॥

Eggeling
  1. He bethought himself, ‘How can I get these beings back into my body? how can I put them back into my body? how can I be again the body of all these beings?’

०४

विश्वास-प्रस्तुतिः

स᳘ द्वे᳘धा ऽऽत्मा᳘नं᳘ व्यौहत्॥
(त्ष) षष्टि᳘श्च त्री᳘णि च शता᳘न्यन्यतरस्ये᳘ष्टका ऽअभवन्नेव᳘मन्यतर᳘स्य स न᳘ व्व्याप्नोत्॥

मूलम् - श्रीधरादि

स᳘ द्वे᳘धा ऽऽत्मा᳘नं᳘ व्यौहत्॥
(त्ष) षष्टि᳘श्च त्री᳘णि च शता᳘न्यन्यतरस्ये᳘ष्टका ऽअभवन्नेव᳘मन्यतर᳘स्य स न᳘ व्व्याप्नोत्॥

मूलम् - Weber

स᳘ द्वेॗधात्माॗनं व्यौहत्॥
षष्टि᳘श्च त्री᳘णि च शता᳘न्यन्यतरस्ये᳘ष्टका अभवन्नेव᳘मन्यतर᳘स्य स नॗ व्याप्नोत्॥

मूलम् - विस्वरम्

स द्वेधा ऽऽत्मानं व्यौहत्- षष्टिश्च त्रीणि च शतान्यन्यतरस्येष्टका अभवन् । एवमन्यतरस्य । स न व्याप्नोत् ॥ ४ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. He divided his body into two; there were three hundred and sixty bricks in the one, and as many in the other: he did trot succeed 2.

०५

विश्वास-प्रस्तुतिः

(त्त्री᳘) त्री᳘नात्म᳘नो ऽकुरुत॥
तिस्र᳘स्ति᳘स्रो ऽशीत᳘य ऽए᳘कैकस्ये᳘ष्टका ऽअभवन्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - श्रीधरादि

(त्त्री᳘) त्री᳘नात्म᳘नो ऽकुरुत॥
तिस्र᳘स्ति᳘स्रो ऽशीत᳘य ऽए᳘कैकस्ये᳘ष्टका ऽअभवन्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - Weber

त्री᳘नात्म᳘नोऽकुरुत॥
तिस्र᳘स्तिॗस्रोऽशीत᳘य ए᳘कैकस्ये᳘ष्टका अभवन्त्सॗ नैवॗ व्याप्नोत्॥

मूलम् - विस्वरम्

त्रीनात्मनो ऽकुरुत । तिस्रस्तिस्रो ऽशीतय एकैकस्येष्टका अभवन् । स नैव व्याप्नोत् ॥ ५ ॥

सायणः

त्रिधा ऽऽत्मविभागे एकैकस्य भागस्य अशीतित्रयसंख्याका इष्टकाः; तेषामशीतित्रयाणां त्रयं मिलित्वा गणने सति विंशत्यधिकसप्तशतसंख्या सम्पद्यत इत्यर्थः ॥ ५ ॥

Eggeling
  1. He made himself three bodies,–in each of them there were three eighties of bricks I he did not succeed.

०६

विश्वास-प्रस्तुतिः

(च्च) चतु᳘र ऽआत्म᳘नोऽऽकुरुत॥
(ता) अशीति᳘शतेष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - श्रीधरादि

(च्च) चतु᳘र ऽआत्म᳘नोऽऽकुरुत॥
(ता) अशीति᳘शतेष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - Weber

चतु᳘र आत्म᳘नोऽकुरुत॥
अशीति᳘शतेष्टकान्त्सॗ नैवॗ व्याप्नोत्॥

मूलम् - विस्वरम्

चतुर आत्मनो ऽकुरुत- अशीतिशतेष्टकान् । स नैव व्याप्नोत् ॥ ६ ॥

सायणः

चतुर्द्धा ऽऽत्मविभागे एकैकस्य अशीत्यधिकशतसंख्याका इष्टका भवन्ति ॥ ६ ॥

Eggeling
  1. He made himself four bodies of a hundred and eighty bricks each: he did not succeed.

०७

विश्वास-प्रस्तुतिः

(त्प᳘) प᳘ञ्चात्म᳘नो ऽकुरुत॥
चतुश्चत्वारिᳫँ᳭श᳘ᳫँ᳘ शतमे᳘कैकस्ये᳘ष्टका ऽअभवन्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - श्रीधरादि

(त्प᳘) प᳘ञ्चात्म᳘नो ऽकुरुत॥
चतुश्चत्वारिᳫँ᳭श᳘ᳫँ᳘ शतमे᳘कैकस्ये᳘ष्टका ऽअभवन्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - Weber

प᳘ञ्चात्म᳘नोऽकुरुत॥
चतुश्चत्वारिंशं᳘ शतमे᳘कैकस्ये᳘ष्टका अभवन्त्सॗ नैवॗ व्याप्नोत्॥

मूलम् - विस्वरम्

पञ्चात्मनो ऽकुरुत । चतुश्चत्वारिंशं शतमेकैकस्येष्टका अभवन् । स नैव व्याप्नोत् ॥ ७ ॥

सायणः

पञ्चधा विभागे एकैकस्यात्मनश्चतुश्चत्वारिंशदधिकशतसंख्याका भवन्ति । “तदस्मिन्नधिकमिति दशान्ताड्डः”- (पा. सू. ५ । २ । ४५) “शदन्तविंशतेश्च”- (पा. सू. ५ । २ । ६६) इति चतुश्चत्वारिंशत्पदस्य डप्रत्ययः ॥ ७ ॥

Eggeling
  1. He made himself five bodies,–in each of them there were a hundred and forty-four bricks: he did not succeed.

०८

विश्वास-प्रस्तुतिः

(त्ष᳘) ष᳘डात्म᳘नो ऽकुरुत॥
व्विᳫँ᳭शति᳘शतेष्टकान्त्स᳘ नैव᳘ व्व्याप्नोन्न᳘ सप्तधा व्व्यभवत्[[!!]]॥

मूलम् - श्रीधरादि

(त्ष᳘) ष᳘डात्म᳘नो ऽकुरुत॥
व्विᳫँ᳭शति᳘शतेष्टकान्त्स᳘ नैव᳘ व्व्याप्नोन्न᳘ सप्तधा व्व्यभवत्[[!!]]॥

मूलम् - Weber

ष᳘डात्म᳘नोऽकुरुत॥
विंशति᳘शतेष्टकान्त्सॗ नैवॗ व्याप्नोन्न᳘ सप्तधा व्य᳘भवत्॥

मूलम् - विस्वरम्

षडात्मनो ऽकुरुत- विंशतिशतेष्टकान् । स नैव व्याप्नोत् । न सप्तधा व्यभवत् ॥ ८ ॥

सायणः

षोढाविभागे विंशत्यधिकशतसंख्याका भवन्ति । न सप्तधा व्यभवदित्यस्यायमर्थः- सप्तधा ऽऽत्मविभागे विंशत्यधिकसप्तशतसंख्यानां संवत्सरावयवभूताहोरात्ररूपाणां परिश्रिदिष्टकानां समविभागो न भवति, किन्तु न्यूनो ऽधिको वा भवतीति मत्वा सप्तधा विभागं न कृतवान् । एवमुत्तरत्र विभागाभाववचनस्यायमेवार्थ उन्नेयः ॥ ८ ॥

Eggeling
  1. He made himself six bodies of a hundred and twenty bricks each: he did not succeed. He did not develop himself sevenfold 3.

०९

विश्वास-प्रस्तुतिः

(द) अष्टा᳘वात्म᳘नो ऽकुरुत॥
नव᳘तीष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - श्रीधरादि

(द) अष्टा᳘वात्म᳘नो ऽकुरुत॥
नव᳘तीष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - Weber

अष्टा᳘वात्म᳘नोऽकुरुत॥
नवॗतीष्टकान्त्सॗ नैवॗ व्याप्नोत्॥

मूलम् - विस्वरम्

अष्टावात्मनो ऽकुरुत- नवतीष्टकान् । स नैव व्याप्नोत् ॥ ९ ॥

सायणः

अष्टावात्मनो ऽकुरुतेत्यादि त्रयोविंशतिधेत्येवमन्तं निगदव्याख्यातम् ॥ ९-१६ ॥

Eggeling
  1. He made himself eight bodies of ninety bricks each: he did not succeed.

१०

विश्वास-प्रस्तुतिः

(न्न᳘) न᳘वात्म᳘नो ऽकुरुत॥
(ता) अशी᳘तीष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - श्रीधरादि

(न्न᳘) न᳘वात्म᳘नो ऽकुरुत॥
(ता) अशी᳘तीष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - Weber

न᳘वात्म᳘नोऽकुरुत॥
अशीॗतीष्टकान्त्सॗ नैवॗ व्याप्नोत्॥

मूलम् - विस्वरम्

नवात्मनो ऽकुरुत- अशीतीष्टकान् । स नैव व्याप्नोत् ॥ १० ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He made himself nine bodies of eighty bricks each: he did not succeed.

११

विश्वास-प्रस्तुतिः

(द्द᳘) द᳘शात्म᳘नो ऽकुरुत॥
द्वा᳘सप्ततीष्टकान्त्स᳘ नैव᳘ व्व्याप्नो᳘न्नैकादशधा᳘ व्व्यभवत्[[!!]]॥

मूलम् - श्रीधरादि

(द्द᳘) द᳘शात्म᳘नो ऽकुरुत॥
द्वा᳘सप्ततीष्टकान्त्स᳘ नैव᳘ व्व्याप्नो᳘न्नैकादशधा᳘ व्व्यभवत्[[!!]]॥

मूलम् - Weber

द᳘शात्म᳘नोऽकुरुत॥
द्वा᳘सप्ततीष्टकान्सॗ नैवॗ व्याप्नोॗन्नैकादशधा व्य᳘भवत्॥

मूलम् - विस्वरम्

दशात्मनो ऽकुरुत- द्वासप्ततीष्टकान् । स नैव व्याप्नोत् । नैकादशधा व्यभवत् ॥ ११ ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He made himself ten bodies of seventy-two bricks each: he did not succeed. He did not develop elevenfold.

१२

विश्वास-प्रस्तुतिः

(द्द्वा᳘) द्वा᳘दशात्मनो ऽकुरुत॥
ष᳘ष्टीष्टकान्त्स᳘ नैव व्व्याप्नोन्न᳘ त्रयोदशधा᳘ व्व्यभवन्न᳘[[!!]] चतुर्दशधा[[!!]]॥

मूलम् - श्रीधरादि

(द्द्वा᳘) द्वा᳘दशात्मनो ऽकुरुत॥
ष᳘ष्टीष्टकान्त्स᳘ नैव व्व्याप्नोन्न᳘ त्रयोदशधा᳘ व्व्यभवन्न᳘[[!!]] चतुर्दशधा[[!!]]॥

मूलम् - Weber

द्वा᳘दशात्मनोऽकुरुत॥
षॗष्टीष्टकान्त्सॗ नैव व्याप्नोन्न᳘ त्रयोदशधा व्य᳘भवन्न᳘ चतुर्दशधा᳟॥

मूलम् - विस्वरम्

द्वादशात्मनो ऽकुरुत- षष्टीष्टकान् । स नैव व्याप्नोत् । न त्रयोदशधा व्यभवत् । न चतुर्दशधा ॥ १२ ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He made himself twelve bodies of sixty bricks each: he did not succeed. He did not develop either thirteenfold or fourteenfold.

१३

विश्वास-प्रस्तुतिः

प᳘ञ्चदशात्म᳘नो ऽकुरुत॥
(ता) अष्टा᳘चत्वारिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - श्रीधरादि

प᳘ञ्चदशात्म᳘नो ऽकुरुत॥
(ता) अष्टा᳘चत्वारिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नोत्॥

मूलम् - Weber

प᳘ञ्चदशात्म᳘नोऽकुरुत॥
अष्टा᳘चत्वारिंशदिष्टकान्त्सॗ 4 नैवॗ व्याप्नोत्॥

मूलम् - विस्वरम्

पञ्चदशात्मनो ऽकुरुत– अष्टाचत्वारिंशदिष्टकान् । स नैव व्याप्नोत् ॥ १३ ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He made himself fifteen bodies of forty-eight bricks each: he did not succeed.

१४

विश्वास-प्रस्तुतिः

(त्षो᳘) षो᳘डशात्म᳘नो ऽकुरुत॥
प᳘ञ्चचत्वारिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नोन्न᳘ सप्तदशधा᳘ व्व्यभवत्[[!!]]॥

मूलम् - श्रीधरादि

(त्षो᳘) षो᳘डशात्म᳘नो ऽकुरुत॥
प᳘ञ्चचत्वारिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नोन्न᳘ सप्तदशधा᳘ व्व्यभवत्[[!!]]॥

मूलम् - Weber

षो᳘डशात्म᳘नोऽकुरुत॥
प᳘ञ्चचत्वारिंशदिष्टकान्त्सॗ 5 नैवॗ व्याप्नोन्न᳘ सप्तदशधा व्य᳘भवत्॥

मूलम् - विस्वरम्

षोडशात्मनो ऽकुरुत- पञ्चचत्वारिंशदिष्टकान् । स नैव व्याप्नोत् । न सप्तदशधा व्यभवत् ॥ १४ ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He made himself sixteen bodies of forty-five bricks each: he did not succeed. He did not develop seventeenfold.

१५

विश्वास-प्रस्तुतिः

(द) अष्टा᳘दशात्म᳘नो ऽकुरुत॥
चत्वारिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नो᳘न्नैकान्नव्विᳫँ᳭शतिधा व्व्यभवत्[[!!]]॥

मूलम् - श्रीधरादि

(द) अष्टा᳘दशात्म᳘नो ऽकुरुत॥
चत्वारिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नो᳘न्नैकान्नव्विᳫँ᳭शतिधा व्व्यभवत्[[!!]]॥

मूलम् - Weber

अष्टा᳘दशात्म᳘नोऽकुरुत॥
चत्वारिंश᳘दिष्टकान्त्सॗ नैवॗ व्याश्नोॗन्नैकां न विंशतिधा 6 व्य᳘भवत्॥

मूलम् - विस्वरम्

अष्टादशात्मनो ऽकुरुत- चत्वारिंशदिष्टकान् । स नैव व्याप्नोत् । नैकान्निविंशतिधा व्यभवत् ॥ १५ ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He made himself eighteen bodies of forty bricks each: he did not succeed. He did not develop nineteenfold.

१६

विश्वास-प्रस्तुतिः

(द्वि) व्विᳫँ᳭शति᳘मात्म᳘नो ऽकुरुत॥
ष᳘ट्त्रिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नो᳘न्नैकव्विᳫँ᳭शतिधा᳘ व्व्यभवन्न᳘[[!!]] द्वाविᳫँ᳭शतिधा न᳘ त्रयोविᳫँ᳭शतिधा[[!!]]॥

मूलम् - श्रीधरादि

(द्वि) व्विᳫँ᳭शति᳘मात्म᳘नो ऽकुरुत॥
ष᳘ट्त्रिᳫँ᳭श᳘दिष्टकान्त्स᳘ नैव᳘ व्व्याप्नो᳘न्नैकव्विᳫँ᳭शतिधा᳘ व्व्यभवन्न᳘[[!!]] द्वाविᳫँ᳭शतिधा न᳘ त्रयोविᳫँ᳭शतिधा[[!!]]॥

मूलम् - Weber

विंशति᳘मात्म᳘नोऽकुरुत॥
ष᳘ट्त्रिंशदिष्टकान्त्सॗ नैवॗ व्याप्नोॗन्नैकविंशतिधा व्य᳘भवन्न᳘ द्वाविंशतिधा न᳘ त्रयोविंशतिधा᳟॥

मूलम् - विस्वरम्

विंशतिमात्मनो ऽकुरुत- षट्त्रिंशदिष्टकान् । स नैव व्याप्नोत् । नैकविंशतिधा व्यभवत् । न द्वाविंशतिधा । न त्रयोविंशतिधा ॥ १६ ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He made himself twenty bodies of thirty-six bricks each: he did not succeed. He did not develop either twenty-one-fold, or twenty-two-fold, or twenty-three-fold.

१७

विश्वास-प्रस्तुतिः

च᳘तुर्व्विᳫँ᳭शति᳘मात्म᳘नो ऽकुरुत॥
त्रिᳫँ᳭श᳘दिष्टकान्त्सो᳘ ऽत्रातिष्ठत पञ्चदशे᳘ व्व्यूहे तद्य᳘त्पञ्चदशे᳘ व्व्यूहे᳘ ऽतिष्ठत त᳘स्मात्प᳘ञ्चदशापूर्य्य᳘माणस्य रूपा᳘णि प᳘ञ्चदशापक्षीय᳘माणस्य॥

मूलम् - श्रीधरादि

च᳘तुर्व्विᳫँ᳭शति᳘मात्म᳘नो ऽकुरुत॥
त्रिᳫँ᳭श᳘दिष्टकान्त्सो᳘ ऽत्रातिष्ठत पञ्चदशे᳘ व्व्यूहे तद्य᳘त्पञ्चदशे᳘ व्व्यूहे᳘ ऽतिष्ठत त᳘स्मात्प᳘ञ्चदशापूर्य्य᳘माणस्य रूपा᳘णि प᳘ञ्चदशापक्षीय᳘माणस्य॥

मूलम् - Weber

च᳘तुर्विंशतिमात्म᳘नोऽकुरुत॥
त्रिंश᳘दिष्टकान्त्सो᳘ऽत्रातिष्ठत पञ्चदशे᳘ व्यूहे तद्य᳘त्पञ्चदशे᳘ व्यूहे᳘ऽतिष्ठत त᳘स्मात्प᳘ञ्चदशापूर्य᳘माणस्य रूपा᳘णि प᳘ञ्चदशापक्षीय᳘माणस्य॥

मूलम् - विस्वरम्

चतुर्विंशतिमात्मनो ऽकुरुत- त्रिंशदिष्टकान् । सो ऽत्रातिष्ठत- पञ्चदशे व्यूहे । तद् यत्पञ्चदशे व्यूहे ऽतिष्ठत- तस्मात्पञ्चदशापूर्यमाणस्य रूपाणि । पञ्चदशापक्षीयमाणस्य ॥ १७ ॥

सायणः

चतुर्विंशतिधा ऽऽत्मविभागे एकैकस्यात्मनस्त्रिंशत्संख्याका इष्टका भवन्ति, मिलित्वा चतुर्विंशतेस्त्रिंशता गुणने विंशत्यधिकसप्तशतसंख्या जायते । इत उत्तरमात्मविभागो नास्तीत्याह- सो ऽत्रातिष्ठत पञ्चदशे व्यूह इति । स प्रजापतिरत्र चतुर्विंशतिधा ऽऽत्मविभागे ‘अतिष्ठत’ स्थितः । अत्र चतुर्विंशतेर्मध्ये आत्मविभागस्थानानां परिगणने द्वित्रिचतुरादयः चतुर्दश व्यूहाः, पूर्वस्त्वेक इति पञ्चदश व्यूहाः । न सप्तधा व्यभवन्नैकादशधेत्यादय आत्मविभागप्रदेशा न भवन्तीति न तेषां व्यूहसंज्ञा ऽस्ति, व्यूहपञ्चदशकं पक्षावयवपञ्चदशतिध्यात्मना स्तौति- तद्यत्पञ्चदशे व्यूहे ऽतिष्ठतेति । आपूर्यमाणस्य चन्द्रकलाभिः पूरयितव्यस्य शुक्लपक्षस्य, अपक्षीयमाणस्य कृष्णपक्षस्य च पञ्चदश रूपाणि तिथय इत्यर्थः ॥ १७ ॥

Eggeling
  1. He made himself twenty-four bodies of thirty bricks each. There he stopped, at the fifteenth; and because he stopped at the fifteenth arrangement 7 there are fifteen forms of the waxing, and fifteen of the waning (moon).

१८

विश्वास-प्रस्तुतिः

(स्या᳘) अ᳘थ यच्च᳘तुर्व्विᳫँ᳭शतिमात्म᳘नो ऽकुरुत॥
त᳘स्माच्च᳘तुर्विᳫँ᳭शत्यर्धमासः संव्वत्सरः स᳘ ऽएतैश्च᳘तुर्व्विᳫँ᳭शत्या त्रिᳫँ᳭श᳘दिष्टकैरात्म᳘भिर्न व्व्यभवत्स[[!!]] प᳘ञ्चदशा᳘ह्नो रूपा᳘ण्यपश्यदात्म᳘नस्त᳘न्वो मुहूर्ताल्ँ᳘लोकम्पृणाः प᳘ञ्चदशैव रा᳘त्रेस्तद्य᳘न्मुहुस्त्रा᳘यन्ते त᳘स्मान्मुहुर्ता ऽअ᳘थ य᳘त्क्षुद्राः स᳘न्त ऽइमाल्ँ᳘लोका᳘नापूर᳘यन्ति त᳘स्माल्लोकम्पृणाः᳘॥

मूलम् - श्रीधरादि

(स्या᳘) अ᳘थ यच्च᳘तुर्व्विᳫँ᳭शतिमात्म᳘नो ऽकुरुत॥
त᳘स्माच्च᳘तुर्विᳫँ᳭शत्यर्धमासः संव्वत्सरः स᳘ ऽएतैश्च᳘तुर्व्विᳫँ᳭शत्या त्रिᳫँ᳭श᳘दिष्टकैरात्म᳘भिर्न व्व्यभवत्स[[!!]] प᳘ञ्चदशा᳘ह्नो रूपा᳘ण्यपश्यदात्म᳘नस्त᳘न्वो मुहूर्ताल्ँ᳘लोकम्पृणाः प᳘ञ्चदशैव रा᳘त्रेस्तद्य᳘न्मुहुस्त्रा᳘यन्ते त᳘स्मान्मुहुर्ता ऽअ᳘थ य᳘त्क्षुद्राः स᳘न्त ऽइमाल्ँ᳘लोका᳘नापूर᳘यन्ति त᳘स्माल्लोकम्पृणाः᳘॥

मूलम् - Weber

अ᳘थ यच्च᳘तुर्विंशतिमात्म᳘नोऽकुरुत॥
त᳘स्माच्च᳘तुर्विंशत्यर्धमासः संवत्सरः स᳘ एतैश्च᳘तुर्विंशत्या त्रिंश᳘दिष्टकैरात्म᳘भिर्न व्य᳘भवत्स प᳘ञ्चदशा᳘ह्नो रूपा᳘ण्यपश्यदात्म᳘नस्तॗन्वो मुहूर्ता᳘लोकम्पृणाः प᳘ञ्चदशैव रा᳘त्रेस्तद्य᳘न्मुहु त्रा᳘यन्ते 8 त᳘स्मान्मुहुर्ता अ᳘थ य᳘त्क्षुद्राः स᳘न्त इमां᳘लोका᳘नापूर᳘यन्ति त᳘स्माल्लोकम्पृणाः᳟॥

मूलम् - विस्वरम्

अथ यच्चतुर्विंशतिमात्मनो ऽकुरुत- तस्माच्चतुर्विंशत्यर्धमासः संवत्सरः । स एतैश्चतुर्विंशत्या त्रिंशदिष्टकैरात्मभिर्न व्यभवत् । स पञ्चदशाह्नो रूपाण्यपश्यदात्मनस्तन्वो मुहूर्तान्- लोकम्पृणाः । पञ्चदशैव रात्रेः । तद् यन्मुहुः त्रायन्ते- तस्मान्मुहूर्ताः । अथ यत्क्षुद्राः सन्त इमाल्ँ लोकानापूरयन्ति- तस्माल्लोकम्पृणाः ॥ १८ ॥

सायणः

चतुर्विंशतिधा विभागानर्द्धमासात्मना स्तौति- अथ यच्चतुर्विंशतिमिति । एवं संवत्सररूपा ऽग्नेः पक्षगततिथ्यर्द्धमासा उक्ताः, मुहूर्त्तानपि दर्शयति- स एतैश्चतुर्विंशत्येत्यादिना । एतैः चतुर्विंशतिधा विभागैर्न व्यभवत्प्रजापतिः । ‘सः’ पञ्चदशसंख्याकान्यह्नो रूपाण्यपश्यत्, तथा रात्रे रूपाणि च । अहोरात्ररूपाणीति यदुक्तं तस्यार्थो मुहूर्त्ताः । लोकंपृणेष्टकानां मुहूर्त्तरूपत्वं वक्तुं लोकंपृणा इत्यन्तेनोक्तिः । अहोरात्रसम्बन्धिनो मुहूर्त्ताः लोकंपृणेष्टका इत्यर्थः । एकस्याहोरात्रस्य षष्टिर्घटिकाः, ते द्वे द्वे एकैको मुहूर्त्त इति त्रिंशन्मुहूर्त्ताः । तत्राह्नः पञ्चदश रात्रेश्च तावन्त इत्यर्थः । मुहूर्त्तशब्दं निर्वक्ति- तद्यन्मुहुस्त्रायन्त इति । लोकंपृणेष्टकानां मुहूर्त्तरूपत्वं वक्तुं लोकंपृणाशब्दं मुहूर्त्तपरत्वेन निर्वक्ति- अथ यत्क्षुद्रा इति । क्षुद्रा अल्पपरिमाणाः सन्तः सर्वलोकान् पूरयन्तीति लोकंपृणाः ॥ १८ ॥

Eggeling
  1. And because he made himself twenty-four bodies, therefore the year consists of twenty-four half-months. With these twenty-four bodies of thirty bricks each he had not developed (sufficiently). He saw the fifteen parts of the day, the muhūrtas 9,

as forms for his body, as space-fillers (Lokampr̥ṇās 10), as well as fifteen of the night; and inasmuch as they straightway (muhu) save (trai), they are (called) ‘muhūrtāḥ’; and inasmuch as, whilst being small, they fill (pūr) these worlds (or spaces, ’loka’) they are (called) ’lokampr̥ṇāḥ.’

१९

विश्वास-प्रस्तुतिः

(ऽ) एष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं पचति॥
(त्य) अहोरात्रै᳘रर्धमासैर्मा᳘सैर्ऋतु᳘भिः संव्वत्सरे᳘ण त᳘दमु᳘ना पक्व᳘मयं᳘ पचति पक्व᳘स्य पक्ते᳘ति ह स्माह भा᳘रद्वाजो ऽग्नि᳘ममु᳘ना हि᳘ पक्व᳘मयं प᳘चती᳘ति॥

मूलम् - श्रीधरादि

(ऽ) एष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं पचति॥
(त्य) अहोरात्रै᳘रर्धमासैर्मा᳘सैर्ऋतु᳘भिः संव्वत्सरे᳘ण त᳘दमु᳘ना पक्व᳘मयं᳘ पचति पक्व᳘स्य पक्ते᳘ति ह स्माह भा᳘रद्वाजो ऽग्नि᳘ममु᳘ना हि᳘ पक्व᳘मयं प᳘चती᳘ति॥

मूलम् - Weber

एष वा᳘ इदᳫं स᳘र्वम् पचति॥
अहोरात्रै᳘रर्धमासैर्मा᳘सैरृतु᳘भिः संवत्सरे᳘ण त᳘दमु᳘ना पक्व᳘मय᳘म् पचति पक्व᳘स्य पक्ते᳘ति ह स्माह भा᳘रद्वाजोऽग्नि᳘ममु᳘ना हि᳘ पक्व᳘मयम् प᳘चती᳘ति॥

मूलम् - विस्वरम्

एष वा इदं सर्वं पचति- अहोरात्रैः, अर्धमासैः, मासैः, ऋतुभिः, संवत्सरेण । तदमुना पक्वमयं पचति । पक्वस्य पक्तेति ह स्माह भारद्वाजो ऽग्निम् । अमुना हि पक्वमयं पचतीति ॥ १९ ॥

सायणः

एष वा इदं सर्वं पचतीत्यादि । न हि कालानवच्छिन्नं वस्त्वस्ति । सूर्य एव अहोरात्रादिसंवत्सरान्तकालेन प्रथमं सर्वं वस्तु पचति, पश्चादयमग्निरमुना सूर्येण पक्वं पचति । उक्तार्थे भारद्वाजसंवादः- पक्वस्य पक्तेति हि भारद्वाजेनाग्निर्व्यवहृतः, अतो ऽग्निसूर्ययोः प्रजापत्यात्मनोरभेदादहोरात्रमासादिभिः जगत्परिपाकनिमित्तत्वात् सूर्यगत्यधीनाः संवत्सरावयवा अहोरात्रसम्बन्धिनो मुहूर्त्ता एव चित्याग्न्यवयवभूतलोकंपृणेष्टका इति तात्पर्यार्थः ॥ १९ ॥

Eggeling
  1. That one (the sun) bakes everything here, by means of the days and nights, the half-moons, the months, the seasons, and the year; and this (Agni, the fire) bakes what is baked by that one: ‘A baker of the baked (he is),’ said Bhāradvāja of Agni; ‘for he bakes what has been baked by that (sun).’

२०

विश्वास-प्रस्तुतिः

ता᳘नि संव्वत्सरे[[!!]]॥
द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘नि स᳘मपद्यन्त सो᳘ ऽत्रातिष्ठत दश᳘सु च सह᳘स्रेष्वष्टासु᳘ च शतेषु[[!!]]॥

मूलम् - श्रीधरादि

ता᳘नि संव्वत्सरे[[!!]]॥
द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘नि स᳘मपद्यन्त सो᳘ ऽत्रातिष्ठत दश᳘सु च सह᳘स्रेष्वष्टासु᳘ च शतेषु[[!!]]॥

मूलम् - Weber

ता᳘नि संवत्सरे᳟॥
द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘नि स᳘मपद्यन्त सो᳘ऽत्रातिष्ठत दश᳘सु च सह᳘स्रेष्वष्टासु᳘ च शते᳘षु॥

मूलम् - विस्वरम्

तानि सम्वत्सरे दश च सहस्राणि, अष्टौ च शतानि समपद्यन्त । सो ऽत्रातिष्ठत- दशसु च सहस्रेषु, अष्टासु च शतेषु ॥ २० ॥

सायणः

यदुक्तं पञ्चदशाह्नो रूपाणि मुहूर्त्ताः, पञ्चदश रात्रेरित्यनेन एकैकस्याहोरात्रस्य त्रिंशन्मुहूर्त्ता भवन्तीति, ते मुहूर्ताः संवत्सरे सम्भूयैतावन्तः स्युरिति परिगणयति- तानि संवत्सरे दशेति । प्रतिमासं नवशतसङ्ख्याका मुहूर्ताः, मिलित्वा अष्टशताधिकदशसहस्रसम्मिताः संवत्सरे भवन्तीत्यर्थः । सो ऽत्रातिष्ठतेति । उक्तसंख्येषु संवत्सरसम्बन्धिषु मुहूर्तेषु प्रतिष्ठितो ऽभवत् ॥ २० ॥

Eggeling
  1. In the year these (muhūrtas) amounted to ten thousand and eight hundred: he stopped at the ten thousand and eight hundred.

२१

विश्वास-प्रस्तुतिः

(ष्व᳘) अ᳘थ स᳘र्व्वाणि भूता᳘नि प᳘र्यैक्षत्॥
(त्स᳘) स᳘ त्रय्या᳘मेव᳘ व्विद्या᳘याᳫँ᳭ स᳘र्व्वाणि भूता᳘न्यपश्यद᳘त्र हि स᳘र्व्वेषां छ᳘न्दसामात्मा सर्व्वेषाᳫँ᳭ स्तो᳘मानाᳫँ᳭ स᳘र्व्वेषां प्राणा᳘नाᳫँ᳭ स᳘र्व्वेषां देवा᳘नामेतद्वा᳘ ऽअ᳘स्त्येत᳘द्ध्यमृ᳘तं[[!!]] य᳘द्ध्यमृ᳘तं[[!!]] तद्ध्य᳘स्त्येत᳘दु तद्यन्म᳘र्त्यम्॥

मूलम् - श्रीधरादि

(ष्व᳘) अ᳘थ स᳘र्व्वाणि भूता᳘नि प᳘र्यैक्षत्॥
(त्स᳘) स᳘ त्रय्या᳘मेव᳘ व्विद्या᳘याᳫँ᳭ स᳘र्व्वाणि भूता᳘न्यपश्यद᳘त्र हि स᳘र्व्वेषां छ᳘न्दसामात्मा सर्व्वेषाᳫँ᳭ स्तो᳘मानाᳫँ᳭ स᳘र्व्वेषां प्राणा᳘नाᳫँ᳭ स᳘र्व्वेषां देवा᳘नामेतद्वा᳘ ऽअ᳘स्त्येत᳘द्ध्यमृ᳘तं[[!!]] य᳘द्ध्यमृ᳘तं[[!!]] तद्ध्य᳘स्त्येत᳘दु तद्यन्म᳘र्त्यम्॥

मूलम् - Weber

अ᳘थ स᳘र्वाणि भूता᳘नि प᳘र्यैक्षत्॥
स᳘ त्रय्या᳘मेव᳘ विद्या᳘याᳫं स᳘र्वाणि भूता᳘न्यपश्यद᳘त्र हि स᳘र्वेषां छ᳘न्दसामात्मा स᳘र्वेषाᳫं स्तो᳘मानाᳫं स᳘र्वेषाम् प्राणा᳘नाᳫं स᳘र्वेषां देवा᳘नामेतद्वा᳘ अस्त्येतद्ध्य᳘मृ᳘तं यद्ध्य᳘मृ᳘तं तद्ध्य᳘स्त्येत᳘दु 11 तद्यन्म᳘र्त्यम्॥

मूलम् - विस्वरम्

अथ सर्वाणि भूतानि पर्यैक्षत् । स त्रय्यामेव विद्यायां सर्वाणि भूतान्यपश्यत् । अत्र हि सर्वेषां छन्दसामात्मा । सर्वेषां स्तोमानाम् । सर्वेषां प्राणानाम् । सर्वेषां देवानाम् । एतद्वा अस्त्येतद्ध्यमृतम् । यद्ध्यमृतं तद्ध्यस्ति । एतदु तद् यन्मर्त्यम् ॥ २१ ॥

सायणः

यत्पूर्वं प्रजापतिना- “कथं न्वहमिमानि भूतानि पुनरात्मन्नावपेय, पुनरात्मन् दधीय, कथं न्वहमेवैषाँ सर्व्वेषां भूतानामात्मा स्यामिति” (श. प. १० । ४ । २ । ३) इतीक्षितं तदभिधानव्याजेन त्रय्याः सर्वभूतात्मकता प्रतिपाद्यते- अथ सर्वाणि भूतानि पर्यैक्षदित्यादिना । ‘पर्यैक्षत्’ अन्वियेष व्याप्तुमिति शेषः । त्रयी विद्या वेदत्रयम् तत्र सर्वभूतानि दृष्टवान् । त्रय्याः सर्वाश्रयत्वमाह- अत्र हि सर्वेषां छन्दसामिति । गायत्र्यादिसकलच्छन्दसां स्वरूपमस्ति, स्तोमास्त्रिवृदादयः, मन्त्राणां सकलदेवप्रतिपादकत्वाद्देवस्वरूपमप्यस्ति, किं बहुना मर्त्यामृतभेदेन यद् द्विविधं तत्सर्वं त्रय्येवेत्याह- एतद्वा अस्तीत्यादिना । एतत्त्रयीरूपं वस्तु ‘अस्ति’ सर्वदा विद्यते । एतदेव खल्वमृतं नाशरहितम् । त्रय्यास्तावदमृतत्वं नित्यत्वात् स्वतः सिद्धम् । यस्मादमृतं तस्मादस्ति, यतः सदा विद्यते तस्मादमृतानां देवानामाश्रयं तेनामृतात्मकत्वं, यच्च ‘मर्त्यं’ मरणधर्मकं मनुष्यादि तदप्येतत्त्रयीरूपमेव अतो मर्त्यामृतात्मकं सर्वं जगदत्रान्तर्भूतमित्यर्थः ॥ २१ ॥

Eggeling
  1. He then looked round over all existing things, and beheld all existing things in the threefold lore (the Veda), for therein is the body of all metres, of all stomas, of all vital airs, and of all the gods: this, indeed, exists, for it is immortal, and what is immortal exists; and this (contains also) that which is mortal.

२२

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स᳘ ऽऐक्षत प्रजा᳘पतिः॥
(स्त्र) त्रय्यां वाव᳘ व्विद्या᳘याᳫँ᳭ स᳘र्व्वाणि भूता᳘नि ह᳘न्त त्रयो᳘मेव᳘ व्विद्या᳘मात्मा᳘नमभिसᳫँ᳭स्कर᳘वा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स᳘ ऽऐक्षत प्रजा᳘पतिः॥
(स्त्र) त्रय्यां वाव᳘ व्विद्या᳘याᳫँ᳭ स᳘र्व्वाणि भूता᳘नि ह᳘न्त त्रयो᳘मेव᳘ व्विद्या᳘मात्मा᳘नमभिसᳫँ᳭स्कर᳘वा ऽइ᳘ति॥

मूलम् - Weber

स᳘ ऐक्षत प्रजा᳘पतिः॥
त्रय्यां वाव᳘ विद्या᳘याᳫं स᳘र्वाणि भूता᳘नि ह᳘न्त त्रयो᳘मेव विद्या᳘मात्मा᳘नमभिसंस्कर᳘वा इ᳘ति॥

मूलम् - विस्वरम्

स ऐक्षत प्रजापतिः । त्रय्यां वाव विद्यायां सर्वाणि भूतानि । हन्त त्रयीमेव विद्यामात्मानमभिसंस्करवा इति ॥ २२ ॥

सायणः

यस्मात् ‘त्रय्यां’ सर्वभूतानि विद्यन्ते अतः ‘हन्तेति’ हर्षे ‘त्रयीमेव विद्यामात्मानमभि’ लक्ष्य ‘संस्करवै’ वेदत्रयात्मकं स्वशरीरं संस्कृतं करवाणीति विचार्य स प्रजापतिर्द्वादश- बृहतीसहस्रसम्मिताः ‘ऋचो’ ‘व्यौहत्’ विभक्तवान् । ऋचां न्यूनाधिकसङ्ख्यासंशयं व्युदस्यति- एतावत्यो ह ऽर्चो याः प्रजापतिसृष्टा इति । ‘तास्त्रिंशत्तमे व्यूहे’ इत्यादेः, ‘अष्टाशतं शतानि पङ्क्तयो ऽभवन्’ इत्येवमन्तस्यायमर्थः- ता द्वादशसहस्रसङ्ख्याका बृहत्य ऋचो द्वित्रिचतुरादिक्रमेण पूर्ववद्विभज्यावसाने त्रिंशद्भागाः कृताः । तत्र एकैकस्य भागस्य चतुःशतं बृहत्यः, एष त्रिंशत्तमः त्रिंशत्सङ्ख्यापूरको व्यूहो विभागस्थानमित्यर्थः । बृहती षट्त्रिंशदक्षरा, पङ्क्तिस्तु चत्वारिंशदक्षरा, अतो दश बृहत्यो नव पङ्क्तयः सम्पद्यन्ते । एवं शतं बृहत्यो नवतिः पङ्क्तयः । तथा चैकैकभागगतबृहतीचतुःशतस्य षष्ट्यधिकत्रिशतसङ्ख्याकाः पङ्क्तयः सम्पद्यन्ते । एवं सर्वासां त्रिंशत्सङ्ख्याकात्मगतद्वादशसहस्रसम्मितानां बृहतीच्छन्दस्कानामृचां पङ्क्तित्वसम्पादने सहस्रं बृहत्यो नवशतपङ्क्तय इति रीत्या द्वादशानां बृहतीसहस्राणां द्वादशशतानि न्यूनानि । एवं च अष्टाशतं शतानि पङ्क्तयो भवन्ति । अष्टोत्तरशतसङ्ख्यायाः नियतानि शतं शतानि तावत्यः पङ्क्तयो जाताः; अष्टाशतानि दशसहस्राणि अष्टशताधिकानीत्यर्थः। तत्र ऋचां त्रिंशत्तमे भागे तत्रापि पङ्क्तिष्ववस्थानं च प्रशंसति- ता यत्त्रिंशत्तमे व्यूह इति । यतस्त्रिंशद्भागाः, अतो ‘मासस्य’ त्रिंशद्रात्रयः, यतः पङ्क्तिष्वतिष्ठन्त अतः ‘पाङ्क्तः प्रजापतिः’ पाङ्क्तत्वं नाम पञ्चसङ्ख्यावत्त्वम्- पञ्चपदा पङ्क्तिरिति संख्यासाम्यात् प्रजापतेर्लोमत्वङ्मांसास्थिमज्जात्मानः पञ्च चितय इति षष्ठे प्रतिपादितम् (श. प. का. ६) ॥ २२ ॥ २३ ॥

Eggeling
  1. Prajāpati bethought himself, ‘Truly, all existing things are in the threefold lore: well, then, I will construct for myself a body so as to contain the whole threefold lore.’

२३

विश्वास-प्रस्तुतिः

स ऽऋ᳘चो᳘ व्व्यौहत्॥
(द्द्वा᳘) द्वा᳘दश बृहतीसहस्रा᳘ण्येता᳘वत्यो ह᳘ ऽर्चो याः᳘ प्रजा᳘पतिसृष्टास्ता᳘स्त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ पङ्क्ति᳘ष्वतिष्ठन्त ता य᳘त्त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ ऽतिष्ठन्त त᳘स्मात्त्रिᳫँ᳭शन्मा᳘सस्य रा᳘त्रयो᳘ ऽथ य᳘त्पङ्क्ति᳘षु त᳘स्मात्पा᳘ङ्क्तः प्रजा᳘पतिस्ता᳘ ऽअष्टा᳘शतᳫँ᳭ शता᳘नि पङ्क्त᳘यो ऽभवन्॥

मूलम् - श्रीधरादि

स ऽऋ᳘चो᳘ व्व्यौहत्॥
(द्द्वा᳘) द्वा᳘दश बृहतीसहस्रा᳘ण्येता᳘वत्यो ह᳘ ऽर्चो याः᳘ प्रजा᳘पतिसृष्टास्ता᳘स्त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ पङ्क्ति᳘ष्वतिष्ठन्त ता य᳘त्त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ ऽतिष्ठन्त त᳘स्मात्त्रिᳫँ᳭शन्मा᳘सस्य रा᳘त्रयो᳘ ऽथ य᳘त्पङ्क्ति᳘षु त᳘स्मात्पा᳘ङ्क्तः प्रजा᳘पतिस्ता᳘ ऽअष्टा᳘शतᳫँ᳭ शता᳘नि पङ्क्त᳘यो ऽभवन्॥

मूलम् - Weber

स ऋ᳘चोॗ व्यौहत्॥
द्वा᳘दश बृहतीसहस्रा᳘ण्येता᳘वत्यो ह᳘र्चो याः᳘ प्रजा᳘पतिसृष्टास्ता᳘स्त्रिंशत्तमे᳘ व्यूहे᳘ पङ्क्ति᳘ष्वतिष्ठन्त ता य᳘त्त्रिंशत्तमे᳘ व्यूहे᳘ऽतिष्ठन्त त᳘स्मात्त्रिंशन्मा᳘सस्य रा᳘त्रयो᳘ऽथ य᳘त्पङ्क्ति᳘षु त᳘स्मात्पा᳘ङ्क्तः प्रजा᳘पतिस्ता᳘ अष्टा᳘शतं शता᳘नि पङ्क्त᳘योऽभवन्॥

मूलम् - विस्वरम्

स ऋचो व्यौहत्- द्वादश बृहतीसहस्राणि । एतावत्यो हर्चो याः प्रजापतिसृष्टाः । तास्त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठन्त । ता यत्त्रिंशत्तमे व्यूहे ऽतिष्ठन्त । तस्मात्त्रिंशन्मासस्य रात्रयः । अथ यत्पङ्क्तिषु- तस्मात्पाङ्क्तः प्रजापतिः । ता अष्टाशतं शतानि पङ्क्तयो ऽभवन् ॥ २३ ॥

सायणः

[व्याख्यानं द्वाविंशतितमे]

Eggeling
  1. He arranged the R̥k-verses into twelve thousand of Br̥hatīs 12, for of that extent are the

verses created by Prajāpati. At-the thirtieth arrangement they came to an end in the Paṅktis; and because it was at the thirtieth arrangement that they came to an end, there are thirty nights in the month; and because it was in the Paṅktis, therefore Prajāpati is ‘pāṅkta’ (fivefold) 13. There are one hundred-and-eight hundred 14 Paṅktis.

२४

विश्वास-प्रस्तुतिः

(न्न) अथे᳘तरौ व्वे᳘दौ᳘ व्व्यौहत्॥
(द्द्वा᳘) द्वा᳘दशैव᳘ बृहतीसहस्रा᳘ण्यष्टौ य᳘जुषां चत्वा᳘रि सा᳘म्नामेता᳘वद्धैत᳘योर्व्वे᳘दयोर्य᳘त्प्रजा᳘पतिसृष्टं तौ᳘ त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ पङ्क्ति᳘ष्वतिष्ठेतां तौ य᳘त्त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ ऽतिष्ठेतां त᳘स्मात्त्रिᳫँ᳭शन्मा᳘सस्य रा᳘त्रयो᳘ ऽथ य᳘त्पङ्क्ति᳘षु त᳘स्मात्पा᳘ङ्क्तः प्रजा᳘पतिस्ता᳘ ऽअष्टा᳘शतमेव᳘ शता᳘नि पङ्क्त᳘यो ऽभवन्॥

मूलम् - श्रीधरादि

(न्न) अथे᳘तरौ व्वे᳘दौ᳘ व्व्यौहत्॥
(द्द्वा᳘) द्वा᳘दशैव᳘ बृहतीसहस्रा᳘ण्यष्टौ य᳘जुषां चत्वा᳘रि सा᳘म्नामेता᳘वद्धैत᳘योर्व्वे᳘दयोर्य᳘त्प्रजा᳘पतिसृष्टं तौ᳘ त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ पङ्क्ति᳘ष्वतिष्ठेतां तौ य᳘त्त्रिᳫँ᳭शत्तमे᳘ व्व्यूहे᳘ ऽतिष्ठेतां त᳘स्मात्त्रिᳫँ᳭शन्मा᳘सस्य रा᳘त्रयो᳘ ऽथ य᳘त्पङ्क्ति᳘षु त᳘स्मात्पा᳘ङ्क्तः प्रजा᳘पतिस्ता᳘ ऽअष्टा᳘शतमेव᳘ शता᳘नि पङ्क्त᳘यो ऽभवन्॥

मूलम् - Weber

अथे᳘तरौ वे᳘दौॗ व्यौहत्॥
द्वा᳘दशैव᳘ बृहतीसहस्रा᳘ण्यष्टौ य᳘जुषां चत्वा᳘रि सा᳘म्नामेता᳘वद्धैत᳘योर्वे᳘दयोर्य᳘त्प्रजा᳘पतिसृष्टं तौ᳘ त्रिंशत्तमे᳘ व्यूहे᳘ पङ्क्ति᳘ष्वतिष्ठेतां तौ य᳘त्त्रिंशत्तमे᳘ व्यूहे᳘ऽतिष्ठेतां त᳘स्मात्त्रिंशन्मा᳘सस्य रा᳘त्रयो᳘ऽथ य᳘त्पङ्क्ति᳘षु त᳘स्मात्पा᳘ङ्क्तः प्रजा᳘पतिस्ता᳘ अष्टा᳘शतमेव᳘ शता᳘नि पङ्क्त᳘योऽभवन्॥

मूलम् - विस्वरम्

अथेतरौ वेदौ व्यौहत्- द्वादशैव बृहतीसहस्राणि । अष्टौ यजुषाम् । चत्वारि साम्नाम् । एतावद्धैतयोर्वेदयोर्यत्प्रजापतिसृष्टम् । तौ त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठेताम् । तौ यत्त्रिंशत्तमे व्यूहे ऽतिष्ठेताम्- तस्मात्त्रिंशन्मासस्य रात्रयः । अथ यत्पङ्क्तिषु- तस्मात्पाङ्क्तः प्रजापतिः । ता अष्टाशतमेव शतानि पङ्क्तयो ऽभवन् ॥ २४ ॥

सायणः

यथा ऋग्वेदस्य त्रिंशता विभागैर्विभक्तानां द्वादशसहस्रबृहतीनां पङ्क्तित्वसम्पादनेन अष्टशताधिकदशसहस्रसम्मिताः पङ्क्तयो जाताः एवं यजुःसामवेदयोरपि विभागं पङ्क्तित्वसम्पादनं च प्रदर्शयति- अथेतरौ वेदौ व्यौहदिति । अनयोरपि वेदयोर्द्वादशबृहतीसहस्राणामृचां तत्र यजुषामष्टौ सहस्राणि, साम्नां चत्वारि मिलित्वोक्तैव संख्या । एतावत्य एव हि पूर्वं वेदद्वये प्रजापतिना सृष्टा ऋच इति । न ततो न्यूना वा अधिका वेत्यर्थः । तौ त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठेतामित्यादिकं पूर्ववद् व्याख्येयम् । एवं त्रय्याः अष्टशताधिकदशसहस्रपङ्क्तिरूपत्वसम्पादनाय संवत्सरस्य प्रजापतेर्मुहूर्त्तसंख्यासाम्येन त्रयीशरीरकत्वमुक्तम् ॥ २४ ॥

Eggeling
  1. He then arranged the two other Vedas into twelve thousand Br̥hatīs,–eight (thousand) of the Yajus (formulas), and four of the Sāman (hymns)–for of that extent is what was created by Prajāpati in these two Vedas. At the thirtieth arrangement these two came to an end in the Paṅktis; and because it was at the thirtieth arrangement that they came to an end, there are thirty nights in the month; and because it was in the Paṅktis, therefore Prajāpati is ‘pāṅkta.’ There were one hundred-and-eight hundred 14 Paṅktis.

२५

विश्वास-प्रस्तुतिः

(वंस्ते) ते स᳘र्व्वे त्र᳘यो व्वे᳘दाः॥
(०) द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘न्यशीतोना᳘मभवन्त्स᳘ मुहूर्ते᳘न मुहूर्तेनाशीतिमाप्नोन्मुहूर्ते᳘न[[!!]] मुहूर्तेनाशीतिः स᳘मपद्यत॥

मूलम् - श्रीधरादि

(वंस्ते) ते स᳘र्व्वे त्र᳘यो व्वे᳘दाः॥
(०) द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘न्यशीतोना᳘मभवन्त्स᳘ मुहूर्ते᳘न मुहूर्तेनाशीतिमाप्नोन्मुहूर्ते᳘न[[!!]] 15 मुहूर्तेनाशीतिः स᳘मपद्यत॥

मूलम् - Weber

ते स᳘र्वे त्र᳘यो वे᳘दाः॥
द᳘श च सह᳘स्राण्यष्टौ᳘ च शता᳘न्यशीतोना᳘मभवन्त्स᳘ मुहूर्ते᳘न-मुहूर्तेनाशीति᳘माप्नोन्मुहूर्ते᳘न-मुहूर्तेनाशीतिः स᳘मपद्यत॥

मूलम् - विस्वरम्

ते सर्वे त्रयो वेदाः दश च सहस्राण्यष्टौ च शतान्यशीतीनामभवन् । स मुहूर्तेन- मुहूर्तेनाशीतिमाप्नोत् । मुहूर्तेन मुहूर्तेनाशीतिः समपद्यत ॥ २५ ॥

सायणः

अथात्र वेदत्रयगताः सकलाः पङ्क्तीः सम्भूय अशीत्यात्मना सम्पादयति- ते सर्वे त्रयो वेदा इति । वेदत्रये तावत् चतुर्विंशतिबृहतीसहस्राणि, षट्शताधिकैकविंशतिसहस्रसम्मिताः पङ्क्तयः सम्पन्नाः । पङ्क्तिश्चत्वारिंशदक्षरा, पङ्क्तिद्वयं अशीतिरेका भवति, अशीत्यक्षराणि भवन्तीत्यर्थः । एवं च वेदत्रयगताः सर्वाः पङ्क्तयो द्वयोर्द्वयोरेकैका ऽशीतिर्भवतीति न्यायेन अष्टशताधिकदशसहस्रसंख्या इति प्रागुक्तम् । अत उभयोः संख्यासाम्यान्मुहूर्त्तानामशीत्यात्मना सम्पत्तिः ॥ २५ ॥

Eggeling
  1. All the three Vedas amounted to ten thousand eight hundred eighties (of syllables) 16; muhūrta by muhūrta he gained a fourscore (of syllables), and muhūrta by muhūrta a fourscore was completed 17.

२६

विश्वास-प्रस्तुतिः

स᳘ ऽएषु᳘ त्रिषु᳘ लोके᳘षूखा᳘याम्॥
यो᳘नौ रे᳘तोभूत᳘मात्मा᳘नमसिञ्चच्छन्दोम᳘यᳫँ᳭ स्तोमम᳘यं प्राणम᳘यं देवताम᳘यं त᳘स्यार्धमासे᳘ प्रथम᳘ ऽआत्मा स᳘मस्क्रियत द᳘वीयसि प᳘रो द᳘वीयसि प᳘रः संव्वत्सर᳘ ऽएव स᳘र्व्वः कृत्स्नः स᳘मस्क्रियत॥

मूलम् - श्रीधरादि

स᳘ ऽएषु᳘ त्रिषु᳘ लोके᳘षूखा᳘याम्॥
यो᳘नौ रे᳘तोभूत᳘मात्मा᳘नमसिञ्चच्छन्दोम᳘यᳫँ᳭ स्तोमम᳘यं प्राणम᳘यं देवताम᳘यं त᳘स्यार्धमासे᳘ प्रथम᳘ ऽआत्मा स᳘मस्क्रियत द᳘वीयसि प᳘रो द᳘वीयसि प᳘रः संव्वत्सर᳘ ऽएव स᳘र्व्वः कृत्स्नः स᳘मस्क्रियत॥

मूलम् - Weber

स᳘ एस्-उ᳘ त्रिषु᳘ लोके᳘षूखा᳘याम्॥
यो᳘नौ रे᳘तो भूत᳘मात्मा᳘नमसिञ्चच्छन्दोम᳘यᳫं स्तोमम᳘यम् प्राणम᳘यं देवताम᳘यं त᳘स्यार्धमासे᳘ प्रथम᳘ आत्मा स᳘मस्क्रियत द᳘वीयसि प᳘रो द᳘वीयसि प᳘रः संवत्सर᳘ एव स᳘र्वः कृत्स्नः स᳘मस्क्रियत॥

मूलम् - विस्वरम्

स एषु त्रिषु लोकेषूखायां योनौ रेतोभूतमात्मानमसिञ्चत्- छन्दोमयम्, स्तोममयम्, प्राणमयम्, देवतामयम् । तस्यार्धमासे प्रथम आत्मा समस्क्रियत । दवीयसि परः । दवीयसि परः । सम्वत्सर एव सर्वः कृत्स्नः समस्क्रियत ॥ २६ ॥

सायणः

उक्तरीत्या प्रजापतेः संवत्सरात्मकत्वं स्पष्टमुक्तमिति दर्शयति- स एषु त्रिषु लोकेष्विति । ‘स’ प्रजापतिः लोकत्रयरूपायामुखायां योनावात्मानं रेतोरूपेण सिक्तवान् । आत्मानं विशिनष्टि- छन्दोमयमिति । त्रयीविद्यायां हि छन्दस्तोमप्राणदेवताः सन्तीति प्रागुक्तम्, तन्मयमात्मानं सिक्तवान् । तत्र तस्य प्रजापतेः प्रथम आत्मा ऽर्द्धमासे संस्कृतश्चतुर्विंशतिधा विभक्ता तावत्संख्या अर्द्धमासा इति तत्रैव संस्कृत इत्युच्यते । परो ऽन्य आत्मा दवीयसि दूरतरे मासतिथ्यात्मके वेदत्रयस्य त्रिंशद्धा विभागे चतुर्विंशतेर्दूरतर इत्यर्थः । पुनर्दवीयसि पर इति वचनं मुहूर्त्तात्मके सर्वत्राप्येतेषां बहुसंख्यासंख्येयत्वादत्यन्तदूरतरत्वम् । एवं संवत्सर एव अर्द्धमासतिथिमुहूर्त्तात्मके सर्वत्रात्मा कृत्स्नः संस्कृतः ॥ २६ ॥

Eggeling
  1. Into these three worlds, (in the form of) the

fire-pan 18, he (Prajāpati) poured, as seed into the womb, his own self made up of the metres, stomas, vital airs, and deities. In the course of a half-moon the first body was made up, in a further (half-moon) the next (body), in a further one the next,–in a year he is made up whole and complete.

२७

विश्वास-प्रस्तुतिः

तद्य᳘त्परिश्रि᳘तमुपा᳘धत्त॥
तद्रा᳘त्रिमु᳘पाधत्त तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीतीर᳘थ यद्य᳘जुष्मतीमुपा᳘धत्त तद᳘हरु᳘पाधत्त तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीती᳘रेव᳘मेतां᳘ त्रयीं᳘ विद्या᳘मात्मन्ना᳘वपतात्म᳘न्नकुरुत सो᳘ ऽत्रैव स᳘र्व्वेषां भूता᳘नामा᳘त्मा ऽभ᳘वच्छन्दोम᳘य स्तोमम᳘यः प्राणम᳘यो देवताम᳘यः स᳘ ऽएतन्म᳘य ऽएव᳘ भू᳘त्वोर्ध्व ऽउ᳘दक्रामत्स यः स᳘ ऽउद᳘क्रामदेष स᳘ चन्द्र᳘माः॥

मूलम् - श्रीधरादि

तद्य᳘त्परिश्रि᳘तमुपा᳘धत्त॥
तद्रा᳘त्रिमु᳘पाधत्त तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीतीर᳘थ यद्य᳘जुष्मतीमुपा᳘धत्त तद᳘हरु᳘पाधत्त तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीती᳘रेव᳘मेतां᳘ त्रयीं᳘ विद्या᳘मात्मन्ना᳘वपतात्म᳘न्नकुरुत सो᳘ ऽत्रैव स᳘र्व्वेषां भूता᳘नामा᳘त्मा ऽभ᳘वच्छन्दोम᳘य स्तोमम᳘यः प्राणम᳘यो देवताम᳘यः स᳘ ऽएतन्म᳘य ऽएव᳘ भू᳘त्वोर्ध्व ऽउ᳘दक्रामत्स यः स᳘ ऽउद᳘क्रामदेष स᳘ चन्द्र᳘माः॥

मूलम् - Weber

तद्य᳘त्परिश्रि᳘तमुपा᳘धत्त॥
तद्रा᳘त्रिमु᳘पाधत्त तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीतीर᳘थ यद्य᳘जुष्मतीमुपा᳘धत्त तद᳘हरु᳘पाधत्त तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीती᳘रेव᳘मेतां᳘ त्रयीं᳘ विद्या᳘मात्मन्ना᳘वपतात्म᳘न्नकुरुत सो᳘ऽत्रैव स᳘र्वेषाम् भूता᳘नामाॗत्माभवच्छन्दोम᳘य स्तोमम᳘यः प्राणम᳘यो देवताम᳘यः स᳘ एतन्म᳘य एव᳘ भूॗत्वोर्ध्व उ᳘दक्रामत्स यः स᳘ उद᳘क्रामदेष स᳘ चन्द्र᳘माः॥

मूलम् - विस्वरम्

तद् यत्परिश्रितमुपाधत्त- तद्रात्रिमुपाधत्त । तदनु पञ्चदश मुहूर्तान् । मुहूर्ताननु पञ्चदशाशीतीः । अथ यद्यजुष्मतीमुपाधत्त- तदहरुपाधत्त । तदनु पञ्चदश मुहूर्तान् । मुहूर्ताननु पञ्चदशाशीतीः । एवमेतां त्रयीं विद्यामात्मन्नावपत । आत्मन्नकुरुत । सो ऽत्रैव सर्वेषां भूतानामात्मा ऽभवत्- छन्दोमयः, स्तोममयः, प्राणमयः, देवतामयः । स एतन्मय एव भृत्वोर्ध्व उदक्रामत् । स यः स उदक्रामद्- एष स चन्द्रमाः ॥ २७ ॥

सायणः

यदुक्तं प्रजापतेः संवत्सरस्याहोरात्रमुहूर्त्तात्मकत्वं वेदत्रयरूपत्वं च तत्सर्वं चित्याग्नौ विभज्य प्रजापतिकर्तृकोपधानवचनव्याजेन दर्शयति-तद्यत्परिश्रितमुपाधत्तेत्यादिना । ‘तत्’ तदा ‘परिश्रितं’ शर्करामुपाधत्त प्रजापतिरिति यत् तेन रात्रिमेवोपहितवान्भवति । तदनु पञ्चदश मुहर्त्तानुपाधत्त, मुहूर्त्ता लोकंपृणेष्टका इति उक्तम् । अतः पञ्चदशलोकंपृणेष्टकोपधानेन रात्रौ पञ्चदश मुहर्त्तानेवोपहितवान्भवति । मुहूर्त्तानामशीत्यात्मकत्वात्तावतीरप्यशीतीरुपहितवान् । अयमर्थः- प्रथमपरिश्रिदुपधानेन रात्रिं, पञ्चदशलोकंपृणोपधानेन चाग्नौ संवत्सररूपे रात्रिगतमुहूर्त्तान्, वेदत्रयरूपे तु पञ्चदशपङ्क्त्यशीतीरुपहितवान् । एवम् अथ यद्यजुष्मतीमुपाधत्तेति योज्यम्, यजुष्मती नाम मन्त्रेणोपहितेष्टका तदुपधानेन अहः, तामनु पञ्चदशलोकंपृणोपधानेन अहर्गतपञ्चदशमुहूर्त्तान् । वेदत्रयपक्षे पञ्चदशाशीतीरुपहितवानिति । एतदुक्तं भवति- एकस्याः परिश्रितो यजुष्मत्याश्चोपधानेन रात्रिमहश्च त्रिंशल्लोकंपृणोपधानेन तद्गतान् त्रिंशन्मुहूर्तास्त्रिंशतमशीतीश्चोपहितवानिति । एवं षष्ट्युत्तरत्रिशतसङ्ख्याकानां परिश्रितां यजुष्मतीनां चोपधानेन संवत्सरगतानहोरात्रान् लोकंपृणोपधानेन सर्वान् मुहूर्त्तान् सकलाशीतीश्च चित्याग्नावुपहितवानिति । “हन्त त्रयीमेव विद्यामात्मानमभि संस्करवे” इति प्रजापतिना प्रतिज्ञातं निगमयति- एवमेतां त्रयीं विद्यामात्मन्नावपतात्मन्नकुरुतेति । यतस्त्रयी विद्या सर्वच्छन्दस्तोमादिसर्वभूताधारः, अतस्त्रयीविद्यायाः आत्मन्यावापधारणाभ्यां सर्वभूतानां प्रजापतिरात्मा, सर्वच्छन्दस्स्तोमप्राणदेवतामयो ऽभवदित्यर्थः । एवमग्निं चितवतः प्रजापतित्वं निदर्शयति- स एतन्मय एव भूत्वेति । ‘एतन्मयः’ इत्येतच्छब्दः प्रकृतं सर्वं परामृशति, ‘ऊर्ध्वः’ ‘उदक्रामत्’ स ‘एषः’ ‘चन्द्रमाः’ जातः ॥ २७ ॥

Eggeling
  1. Whenever he laid down an enclosing-stone 19, he laid down a night, and along with that fifteen muhūrtas, and along with the muhūrtas fifteen eighties (of syllables of the sacred texts) 20. And whenever he laid down a brick with a formula (yajushmatī), he laid down a day 21, and along with that fifteen muhūrtas, and along with the muhūrtas fifteen eighties (of syllables). In this manner he put this threefold lore into his own self, and made it his own; and in this very (performance) he became the body of all existing things, (a body) composed of the metres, stomas, vital airs, and deities; and having become composed of all that, he ascended upwards; and he who thus ascended is that moon yonder.

२८

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्यैषा᳘ प्रतिष्ठा[[!!]]॥
य᳘ ऽएष त᳘पत्येत᳘स्मादेवा᳘ध्यचीयतैत᳘स्मिन्न᳘ध्यचीयतात्म᳘न ऽए᳘वैनं तन्नि᳘रमिमीतात्म᳘नः प्रा᳘जनयत्॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्यैषा᳘ प्रतिष्ठा[[!!]]॥
य᳘ ऽएष त᳘पत्येत᳘स्मादेवा᳘ध्यचीयतैत᳘स्मिन्न᳘ध्यचीयतात्म᳘न ऽए᳘वैनं तन्नि᳘रमिमीतात्म᳘नः प्रा᳘जनयत्॥

मूलम् - Weber

त᳘स्यैषा᳘ प्रतिष्ठा᳟॥
य᳘ एष त᳘पत्येत᳘स्मादेवा᳘ध्यचीयतैत᳘स्मिन्न᳘ध्यचीयतात्म᳘न एॗवैनं तन्नि᳘रमिमीतात्म᳘नः 22 प्रा᳘जनयत्॥

मूलम् - विस्वरम्

तस्यैषा प्रतिष्ठा य एष तपति, एतस्मादेवाध्यचीयत । एतस्मिन्नध्यचीयत । आत्मन एवैनं तन्निरमिमीत । आत्मनः प्राजनयत् ॥ २८ ॥

सायणः

‘तस्य’ चन्द्रमोरूपस्य प्रजापतेः आदित्यात्मिका ‘एषा’ प्रतिष्ठा आश्रयो जातः, चन्द्रः सन्नादित्यात्मभावेन स्थित इत्यर्थः । एतस्मादेवाध्यचीयत- इत्यादेरयमर्थः- रुक्मपुरुषात्मकादेतस्मात्सूर्यादुपर्यध्यचीयत अतः ‘एतस्मिन्’ एवाधारे सर्वो ऽग्निश्चितः । एतस्यैव विवरणम्- आत्मन एवैनमिति । अत आधारभूतस्य सूर्यस्य प्रतिष्ठारूपतेति ॥ २८ ॥

Eggeling
  1. He who shines yonder (the sun) is his foundation,

(for) over him he was built up 23, on him he was built up: from out of his own self he thus fashioned him, from out of his own self he generated him.

२९

विश्वास-प्रस्तुतिः

(त्स) स य᳘दग्निं᳘ चेष्य᳘माणो दी᳘क्षते॥
य᳘थैव त᳘त्प्रजा᳘पतिरेषु᳘ त्रिषु᳘ लोके᳘षूखा᳘यां यो᳘नौ रे᳘तोभूत᳘मात्मा᳘नम᳘सिञ्चदेव᳘मे᳘वैष᳘ ऽएत᳘दात्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति च्छन्दोम᳘यᳫँ᳭ स्तोमम᳘यं प्राणम᳘यं देवताम᳘यं त᳘स्यार्धमासे᳘ प्रथम᳘ ऽआत्मा स᳘ᳫँ᳘स्क्रियते द᳘वीयसि प᳘रो द᳘वीयसि प᳘रः संव्वत्सर᳘ ऽएव स᳘र्व्वः कृत्स्नः स᳘ᳫँ᳘स्क्रियते॥

मूलम् - श्रीधरादि

(त्स) स य᳘दग्निं᳘ चेष्य᳘माणो दी᳘क्षते॥
य᳘थैव त᳘त्प्रजा᳘पतिरेषु᳘ त्रिषु᳘ लोके᳘षूखा᳘यां यो᳘नौ रे᳘तोभूत᳘मात्मा᳘नम᳘सिञ्चदेव᳘मे᳘वैष᳘ ऽएत᳘दात्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति च्छन्दोम᳘यᳫँ᳭ स्तोमम᳘यं प्राणम᳘यं देवताम᳘यं त᳘स्यार्धमासे᳘ प्रथम᳘ ऽआत्मा स᳘ᳫँ᳘स्क्रियते द᳘वीयसि प᳘रो द᳘वीयसि प᳘रः संव्वत्सर᳘ ऽएव स᳘र्व्वः कृत्स्नः स᳘ᳫँ᳘स्क्रियते॥

मूलम् - Weber

स य᳘दग्निं᳘ चेष्य᳘माणो दी᳘क्षते॥
य᳘थैव त᳘त्प्रजा᳘पतिरेषु᳘ त्रिषु᳘ लोके᳘षूखा᳘यां यो᳘नौ रे᳘तो भूत᳘मात्मा᳘नम᳘सिञ्चदेव᳘मेॗवैष᳘ एत᳘दात्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तो भूत᳘ᳫं᳘ सिञ्चति छन्दोम᳘यᳫं स्तोमम᳘यम् प्राणम᳘यं देवताम᳘यं त᳘स्यार्धमासे प्रथम᳘ आत्मा स᳘ᳫं᳘स्क्रियते द᳘वीयसि प᳘रो द᳘वीयसि प᳘रः संवत्सर᳘ एव स᳘र्वः कृत्स्नः स᳘ᳫं᳘स्क्रियते॥

मूलम् - विस्वरम्

स यदग्निं चेष्यमाणो दीक्षते- यथैव तत्प्रजापतिरेषु त्रिषु लोकेषूखायां योनौ रेतोभूतमात्मानमसिञ्चत्- एवमेवैष एतदात्मानमुखायां योनौ रेतोभूतं सिञ्चति- छन्दोमयम्, स्तोममयम्, प्राणमयम्, देवतामयम् । तस्यार्द्धमासे प्रथम आत्मा संस्क्रियते, दवीयसि परः, दवीयसि परः । संवत्सर एव सर्वः कृत्स्नः संस्क्रियते ॥ २९ ॥

सायणः

यत्प्रजापतेरुखायां सिक्ते स्वात्मनि संवत्सरमन्त्ररूपे परिश्रिद्यजुष्मतीष्टकोपधानेनादित्ये प्रतिष्ठितत्वम्, तत्सर्वमिदानीन्तने यजमाने योजयितुं प्रस्तौति- स यदग्निं चेष्यमाणो दीक्षत इति । ‘सः’ अनुष्ठाता ‘यत्’ यदा ‘अग्निम्’ इष्टकाभिः ‘चेष्यमाणः’ हेतौ शानच् प्रत्ययः । चयनाद्धेतोः ‘दीक्षते’ तदा प्रजापतिवत् स्वर्वमनुष्ठातव्यम् । फलं च तस्य तद्भवतीत्याह-यथैव तत्प्रजापतिरित्यादिना- आत्मन एवैनं निर्मिमीत आत्मनः प्रजनयति इत्यन्तेन । पूर्ववद्व्याख्येयम् । अयमत्र विशेषः- प्रजापतिवृत्तान्तस्य भूतत्वादाख्यातानां भूतकाले ऽर्थे अनद्यतने लङ् । अत्र तु वर्त्तमानप्रयोग इति । उक्तमर्थजातं विदुषः फलमाह- स यदैवंविदस्माल्लोकात्प्रैतीति । वेदित्रनुष्ठात्रोरयं विशेषः- एकदा ज्ञात्वा ऽनुष्ठाने फलम् । ज्ञानमात्रे तु यावज्जीवम् । एवं कर्मणो भावनायां फलमिति । अत एव ज्ञानपूर्वककर्मानुष्ठानं केवलं च ज्ञानमित्युभयं दर्शितम्- य एवं विद्वानेतत्कर्म कुरुते यो वैतदेवं वेदेति ॥ २९-३१ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे चतुर्थे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (१०-४-२) ॥

Eggeling
  1. Now when he (the Sacrificer), being about to build an altar, undergoes the initiation-rite,–even as Prajāpati poured his own self, as seed, into the fire-pan as the womb,–so does he pour into the fire-pan, as seed into the womb, his own self composed of the metres, stomas, vital airs, and deities. In the course of a half-moon, his first body is made up, in a further (half-moon) the next (body), in a further one the next,–in a year he is made up whole and complete.

३०

विश्वास-प्रस्तुतिः

तद्य᳘त्परिश्रि᳘तमुपधत्ते[[!!]]॥
तद्रा᳘त्रिमु᳘पधत्ते तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीतीर᳘थ यद्य᳘जुष्मतीमुपधत्ते तद᳘हरु᳘पधत्ते तद᳘नु प᳘ञ्चदश मूहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीती᳘रेव᳘मेतां᳘ त्रयीं᳘ व्विद्या᳘मात्मन्ना᳘वपत ऽआत्म᳘न्कुरुते सो᳘ ऽत्रैव स᳘र्व्वेषां भूता᳘नामात्मा᳘ भवति च्छन्दोम᳘य स्तो᳘मम᳘यः प्राणम᳘यो देवताम᳘यः स᳘ ऽएतन्म᳘य ऽएव᳘ भू᳘त्वोर्ध्व ऽउ᳘त्क्रामति॥

मूलम् - श्रीधरादि

तद्य᳘त्परिश्रि᳘तमुपधत्ते[[!!]]॥
तद्रा᳘त्रिमु᳘पधत्ते तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीतीर᳘थ यद्य᳘जुष्मतीमुपधत्ते तद᳘हरु᳘पधत्ते तद᳘नु प᳘ञ्चदश मूहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीती᳘रेव᳘मेतां᳘ त्रयीं᳘ व्विद्या᳘मात्मन्ना᳘वपत ऽआत्म᳘न्कुरुते सो᳘ ऽत्रैव स᳘र्व्वेषां भूता᳘नामात्मा᳘ भवति च्छन्दोम᳘य स्तो᳘मम᳘यः प्राणम᳘यो देवताम᳘यः स᳘ ऽएतन्म᳘य ऽएव᳘ भू᳘त्वोर्ध्व ऽउ᳘त्क्रामति॥

मूलम् - Weber

तद्य᳘त्परिश्रि᳘तमुपधत्ते᳟॥
तद्रा᳘त्रिमु᳘पधत्ते तद᳘नु प᳘ञ्चदश मुहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीतीर᳘थ यद्य᳘जुष्मतीमुपधत्ते तद᳘हरु᳘पधत्ते तद᳘नु प᳘ञ्चदश मूहूर्ता᳘न्मुहूर्तान᳘नु प᳘ञ्चदशाशीती᳘रेव᳘मेतां᳘ त्रयीं᳘ विद्या᳘मात्मन्ना᳘वपत आत्म᳘न्कुरुते सो᳘ऽत्रैव स᳘र्वेषाम् भूता᳘नामात्मा᳘ भवति छन्दोम᳘य स्तोमम᳘यः प्राणम᳘यो देवताम᳘यः स᳘ एतन्म᳘य एव᳘ भूॗत्वोर्ध्व उ᳘त्क्रामति॥

मूलम् - विस्वरम्

तद् यत्परिश्रितमुपधत्ते- तद्रात्रिमुपधत्ते । तदनु पञ्चदश मुहूर्तान् । मुहूर्ताननु पञ्चदशाशीतीः । अथ यद्यजुष्मतीमुपधत्ते- तदहरुपधत्ते । तदनु पञ्चदश मुहूर्तान् । मुहूर्ताननु पञ्चदशाशीतीः । एवमेतां त्रयीं विद्यामात्मन्नावपते, आत्मन् कुरुते । सो ऽत्रैव सर्वेषां भूतानामात्मा भवति- छन्दोमयः, स्तोममयः, प्राणमयः, देवतामयः । स एतन्मय एव भूत्वोर्ध्व उत्क्रामति ॥ ३० ॥

सायणः

[व्याख्यानं एकोनत्रिंशत्तमे]

Eggeling
  1. And whenever he lays down an enclosing-stone, he lays down a night, and along with that fifteen muhūrtas, and along with the muhūrtas fifteen eighties (of syllables). And whenever he lays down a Yajushmatī (brick), he lays down a day, and along with that fifteen muhūrtas, and along with the muhūrtas fifteen eighties (of syllables of the sacred texts). In this manner he puts this threefold lore into his own self, and makes it his own; and in this very (performance) he becomes the body of all existing things, (a body) composed of the metres, stomas, vital airs, and deities; and having become composed of all that, he ascends upwards.

३१

विश्वास-प्रस्तुतिः

त᳘स्यैषा᳘ प्रतिष्ठा[[!!]]॥
य᳘ ऽएष त᳘पत्येत᳘स्माद्वेवा᳘धिचीयत ऽएत᳘स्मिन्न᳘धिचीयत ऽआत्म᳘न ऽए᳘वैनं तन्नि᳘र्मिमीत ऽआत्म᳘नः प्र᳘जनयति स᳘ य᳘दैवंवि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैत᳘मे᳘वात्मा᳘नमभिस᳘म्भवति च्छन्दोम᳘यᳫँ᳭ स्तोमम᳘यं प्राणम᳘यं देवताम᳘यᳫँ᳭ स᳘ ऽएतन्म᳘य ऽएव᳘ भू᳘त्वोर्ध्व ऽउ᳘त्क्रामति य᳘ ऽएवं᳘ विद्वा᳘नेतत्क᳘र्म कुरुते यो᳘ वैत᳘देवं व्वे᳘द॥

मूलम् - श्रीधरादि

त᳘स्यैषा᳘ प्रतिष्ठा[[!!]]॥
य᳘ ऽएष त᳘पत्येत᳘स्माद्वेवा᳘धिचीयत ऽएत᳘स्मिन्न᳘धिचीयत ऽआत्म᳘न ऽए᳘वैनं तन्नि᳘र्मिमीत ऽआत्म᳘नः प्र᳘जनयति स᳘ य᳘दैवंवि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैत᳘मे᳘वात्मा᳘नमभिस᳘म्भवति च्छन्दोम᳘यᳫँ᳭ स्तोमम᳘यं प्राणम᳘यं देवताम᳘यᳫँ᳭ स᳘ ऽएतन्म᳘य ऽएव᳘ भू᳘त्वोर्ध्व ऽउ᳘त्क्रामति य᳘ ऽएवं᳘ विद्वा᳘नेतत्क᳘र्म कुरुते यो᳘ वैत᳘देवं व्वे᳘द॥

मूलम् - Weber

त᳘स्यैषा᳘ प्रतिष्ठा᳟॥
य᳘ एष त᳘पत्येत᳘स्माद्वेवा᳘धिचीयत एत᳘स्मिन्न᳘धिचीयत आत्म᳘न एॗवैनं तन्नि᳘र्मिमीत आत्म᳘नः प्र᳘जनयति स᳘ यॗदैवंवि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैत᳘मेॗवात्मा᳘नमभिस᳘म्भवति छन्दोम᳘यम् प्राणम᳘यं देवताम᳘यᳫं स᳘ एतन्म᳘य एव᳘ भूॗत्वोर्ध्व उ᳘त्क्रामति य᳘ एवं᳘ विद्वा᳘नेतत्क᳘र्म कुरुते यो᳘ वैत᳘देवं वे᳘द॥

मूलम् - विस्वरम्

तस्यैषा प्रतिष्ठा- य एष तपति- एतस्माद्वेवाधिचीयते । एतस्मिन्नधिचीयते, आत्मन एवैनं तन्निर्मिमीते, आत्मनः प्रजनयति । स यदैवंविदस्माल्लोकात्प्रैति- अथैतमेवात्मानमभिसम्भवति- छन्दोमयम्, स्तोममयम्, प्राणमयम्, देवतामयम् । स एतन्मय एव भूत्वोर्ध्व उत्क्रामति- य एवं विद्वानेतत्कर्म कुरुते, यो वैतदेवं वेद ॥ ३१ ॥

सायणः

[व्याख्यानं एकोनत्रिंशत्तमे]

Eggeling
  1. And he who shines yonder is his foundation, for over him he is built up, on him he is built up: from out of his own self he thus fashions him, from out of his own self he generates him. And when

he who knows this departs from this world, then he passes into that body composed of the metres, stomas, vital airs, and deities; and verily having become composed of all that, he who, knowing this performs this sacrificial work, or he who even knows it, ascends upwards.


  1. 350:1 See X, 4, 2, 27 with note. ↩︎

  2. 350:2 Na vyāpnot, intrans., ‘he did not attain (his object),’ cf. vyāpti, in the sense of ‘success’;–(svayaṁ teshām ātmā bhavitum) asamarthobhavat. Sāyaṇa. ↩︎

  3. 350:3 Or, did not divide sevenfold, na saptadhā vyabhavat,–saptadhāvibhāgaṁ na kr̥tavān. Sāyaṇa. ↩︎

  4. अष्टाचत्वारिᳫश᳘दिष्ट A. ↩︎

  5. पञ्चचत्वरिᳫश᳘दिष्ट A. ↩︎

  6. कान्नविᳫशतिधा᳘ A. B2 ↩︎

  7. 351:1 Literally, shifting (about of the bricks of the altar), development. ↩︎

  8. न्मुहु त्रा᳘यन्ते A. मुहूर्त्तायन्ते B. 2. मुहुस्त्त्रायते Sây. ↩︎

  9. 351:2 The day and night consists of thirty muhūrtas, a muhūrta being thus equal to about forty-eight minutes or four-fifths of an hour. ↩︎

  10. 352:1 The Lokampr̥ṇā bricks contained in the whole fire-altar amount to as many as there are muhūrtas in the year, viz. 10,800; see X, 4, 3, 20. ↩︎

  11. मेतद्वा᳘ऽअ᳘स्त्येतद्व्यमृ᳘तं य᳘द्व्यमृ᳘तं त᳘द्व्यस्त्येत᳘दु A. ↩︎

  12. 352:2 The Br̥hatī verse, consisting of 36 syllables, this calculation makes the hymns of the R̥g-veda to consist of 36 × 12,000= 432,000 syllables. ↩︎

  13. 353:1 The Paṅkti consists of five pādas (feet) of eight syllables each. ↩︎

  14. 353:2 That is to say, 10,800 Paṅktis, which, as the Paṅkti verse has 40 syllables, again amount to 432,000 syllables. ↩︎ ↩︎

  15. ‘नैवाशीतिम्’ इत्येवमत्र क्व. पु. पाठो दृश्यते । ↩︎

  16. 353:3 The three Vedas, according to the calculations in paragraphs 23 and 24, contain 2 × 432,000 = 864,000 syllables, which is equal to 80 × 10,800. On the predilection to calculate by four-scores, see p. 112, note 1. ↩︎

  17. 353:4 That is, within the year, for the year has 360 × 30 = 10,800 muhūrtas, which is just the amount of eighties of which the three Vedas were said to consist. I do not see how any division of the ‘muhūrta’ itself into eighty parts (as supposed by Professor Weber, Ind. Streifen, I, p. 92, note 1) can be implied here. ↩︎

  18. 354:1 On the construction of the Ukhā, as representing the universe, see VI, 5, 2 seq. ↩︎

  19. 354:2 The number of ‘pariśrits’ by which the great altar is enclosed is only 261; but to these are usually added those of the other brick-built hearths, viz. the Gārhapatya (21) and the eight Dhishṇyas (78),–the whole amounting to 360 enclosing-stones, or one for each day (or night) in the year. ↩︎

  20. 354:3 According to paragraph 25, a fourscore of syllables was completed in each muhūrta; and day and night consist of fifteen muhūrtas each. ↩︎

  21. 354:4 See IX, 4, 3, 6, where the number of Yajushmatī bricks is said to be equal to that of the pariśrits, or enclosing-stones–with, however, 35 (36) added for the intercalary month, hence altogether 395 (396); cf. X, 4, 3, 14-19. ↩︎

  22. ए᳘वैनं तंनिर᳘मि A. ↩︎

  23. 355:1 Viz. inasmuch as the round gold plate, representing the sun, was laid down in the centre of the altar-site, before the first layer was built. Sāyaṇa. ↩︎