०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिं व्वि᳘स्रस्तम्॥
य᳘त्र देवाः᳘ सम᳘स्कुर्व्वंस्त᳘मुखा᳘यां यो᳘नौ रे᳘तोभूत᳘मसिञ्चन्यो᳘निर्व्वा᳘ ऽउखा त᳘स्मा ऽएत᳘त्संव्वत्सरे᳘ ऽन्नᳫँ᳭ स᳘मस्कुर्व्व᳘न्यो ऽय᳘मग्नि᳘श्चितस्त᳘दात्म᳘ना प᳘र्य्यदधुस्त᳘दात्म᳘ना प᳘रिहितमा᳘त्मै᳘वाभवत्त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति॥
मूलम् - श्रीधरादि
प्रजा᳘पतिं व्वि᳘स्रस्तम्॥
य᳘त्र देवाः᳘ सम᳘स्कुर्व्वंस्त᳘मुखा᳘यां यो᳘नौ रे᳘तोभूत᳘मसिञ्चन्यो᳘निर्व्वा᳘ ऽउखा त᳘स्मा ऽएत᳘त्संव्वत्सरे᳘ ऽन्नᳫँ᳭ स᳘मस्कुर्व्व᳘न्यो ऽय᳘मग्नि᳘श्चितस्त᳘दात्म᳘ना प᳘र्य्यदधुस्त᳘दात्म᳘ना प᳘रिहितमा᳘त्मै᳘वाभवत्त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति॥
मूलम् - Weber
प्रजा᳘पतिं वि᳘स्रस्तम्॥
य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘मुखा᳘यां यो᳘नौ रे᳘तो भूत᳘मसिञ्चन्यो᳘निर्वा᳘ उखा त᳘स्मा एत᳘त्संवत्सरे᳘ऽन्नᳫं स᳘मस्कुर्वॗन्योऽय᳘मग्नि᳘श्चितस्त᳘दात्म᳘ना प᳘र्यदधुस्त᳘दात्म᳘ना प᳘रिहितमाॗत्मैॗवाभवत्त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमाॗत्मैव᳘ भवति॥
मूलम् - विस्वरम्
प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वन् । तमुखायां योनौ रेतोभूतमसिञ्चन् । योनिर्वा उखा । तस्मा एतत्सम्वत्सरे ऽन्नं समस्कुर्वन् । यो ऽयमग्निश्चितः । तदात्मना पर्यदधुः । तदात्मना परिहितमात्मैवाभवत् । तस्मादन्नमात्मना परिहितमात्मैव भवति ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
चतुर्थे ऽध्याये आहवनीयाग्निरूपप्रजापतेरुखाप्रक्षेपतश्चित्याग्नेरन्नत्वेन परिकल्पितयोर्भोक्तृभोग्ययोरग्निचित्ययोर्द्वन्द्वस्यार्क्यमहाव्रतोक्थनामभिर्यजुःसामर्क्पदत्रयपरिभाषासिद्धैर्व्यवहार्यत्वेन स्तुतिः । अथ रुक्मपुरुषयोरिष्टकापुरीषचित्योश्चित्याहवनीययोश्चेन्द्राग्न्यात्मना स्तुतिः । पश्चात् प्रजापतिरूपाहवनीयस्य तत्र हूयमानमहाव्रतीयग्रहरसस्य यद्द्वंद्वं सम्पद्यते- तस्यार्क्यमहाव्रतोक्थनामभिर्व्यपदेश्यत्वम् । कलाभिः सप्तदशात्मकस्य चित्याग्निरूपस्य प्रजापतेः सप्तदशात्मकः सोमयागो ऽन्नम् । तयोरधिदैवमादित्यचन्द्रात्मना ऽध्यात्मं प्राणात्मना च स्तुतिः त्रिष्वपि स्थानेषु अर्क्यादिनामत्रयप्रतिपाद्यत्वमिति प्रतिपाद्यसंग्रहः । अथादौ प्रजापतेर्भोक्तृत्वमाहवनीयरूपत्वेनाह- प्रजापतिं विस्रस्तमिति । ‘यत्र’ यदा ‘विस्रस्तम्’ विश्लिष्टावयवं ‘प्रजापतिम्’ संस्कृतवन्तः- तदा ‘तम्’ ‘उखायां योनौ रेतोभूतं’ सिक्तवन्तः । अग्नेः पत्नीयजमानाभ्यां रेतोरूपेण सेकः, तस्य संवत्सरान्ते समुत्पत्तिश्च षष्ठकाण्डादौ प्रतिपादिता । तथा हि “तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च पतिः संवत्सरायादीक्षन्त, भूतानां पतिर्गृहपतिरासीत् । उषाः पत्नी” (श. प. । ६ । १ । ३ । ७) इत्युपक्रम्य “संवत्सर उषसि रेतो ऽसिञ्चन्त्स सम्वत्सरे कुमारो ऽजायत” (श. प. ६ । १ । ३ । ८ ।) इति । तस्य प्रजापतेर्देवैः संस्कारः तस्य चाग्निरिति नामव्यपदेशस्तत्रैव प्रतिपादितः । तदेतत्सर्वमभिप्रेत्योक्तम् । तस्मै उख्याग्निरूपप्रजापतये ‘संवत्सरे’ अतीते सति ‘एतद्’ वक्ष्यमाणं चित्याग्निरूपम् ‘अन्नम्’ संस्कृतवन्तः । “तस्मादेनं संवत्सरभृतमेव चिन्वीत” (श. प. १० । २ । ६ । ९) इति वचनादुख्यो ऽग्निः संवत्सरं धारयितव्यः, पश्चादिष्टकाचयनमित्यर्थः । यद्वा ‘संवत्सरे’ संवत्सरसाध्यगवामयनादौ गवामयनोपान्त्यदिवसे महाव्रताख्यमन्नमिति योज्यम् । अन्नेन संस्कारप्रकारमाह- तदात्मनेति । ‘तत्’ चित्याग्निरूपमन्नम् ‘आत्मना’ प्रजापतिशरीरेण पर्यदधुराच्छादितवंतः । यस्माच्छरीरेणान्नं परिहितं तस्माच्चित्याग्निरूपमन्नं प्रजापतिशरीरात्मकमेवासीत् । शरीरात्मकत्वं लोकप्रसिद्ध्योपपादयति- तस्मादन्नमात्मना परिहितमिति ॥ १ ॥
Eggeling
- When the gods restored the relaxed Prajāpati, they poured him, as seed, into the fire-pan (ukhā) as the womb, for the fire-pan is a womb In the course of a year they prepared for him this food, to wit, the fire-altar built here, and enclosed it in a body; and, being enclosed in a body, it became the body itself; whence food, when enclosed in a body, becomes the body itself.
०२
विश्वास-प्रस्तुतिः
त᳘थै᳘वैतद्य᳘जमानः॥
(ऽ) आत्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति यो᳘निर्व्वा᳘ ऽउखा त᳘स्मा ऽएत᳘त्संव्वत्सरे᳘ ऽन्नᳫँ᳭ स᳘ᳫँ᳘स्करोति᳘ यो ऽय᳘मग्नि᳘श्चितस्त᳘दात्म᳘ना प᳘रिदधाति त᳘दात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति॥
मूलम् - श्रीधरादि
त᳘थै᳘वैतद्य᳘जमानः॥
(ऽ) आत्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति यो᳘निर्व्वा᳘ ऽउखा त᳘स्मा ऽएत᳘त्संव्वत्सरे᳘ ऽन्नᳫँ᳭ स᳘ᳫँ᳘स्करोति᳘ यो ऽय᳘मग्नि᳘श्चितस्त᳘दात्म᳘ना प᳘रिदधाति त᳘दात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति॥
मूलम् - Weber
त᳘थैॗवैतद्य᳘जमानः॥
आत्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तो भूत᳘ᳫं᳘ सिञ्चति यो᳘निर्वा᳘ उखा त᳘स्मा एत᳘त्संवत्सरे᳘ऽन्नᳫं स᳘ᳫं᳘स्करोतिॗ योऽय᳘मग्नि᳘श्चितस्त᳘दात्म᳘ना प᳘रिदधाति त᳘दात्म᳘ना प᳘रिहितमाॗत्मैव᳘ भवति त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमाॗत्मैव᳘ भवति॥
मूलम् - विस्वरम्
तथैवैतद्यजमान आत्मानमुखायां योनौ रेतोभूतं सिञ्चति । योनिर्वा उखा-तस्मा एतत्संवत्सरे ऽन्नं संस्करोति । यो ऽयमग्निश्चितः । तदात्मना परिदधाति । तदात्मना परिहितमात्मैव भवति । तस्मादन्नमात्मना परिहितमात्मैव भवति ॥ २ ॥
सायणः
यथा पूर्वं देवैर्विस्रस्तस्य प्रजापतेरुखायां रेतोरूपेण सेकस्तस्मै समुत्पन्नाय प्रजापतये चित्याग्नेरन्नत्वेन संस्कारः । तस्य चान्नस्य शरीरेण परिहितत्वादात्मत्वम् । तत्सर्वमधुनातनानुष्ठातरि योजयति- तथैवैतद्यजमान इति । ‘आत्मानम्’ स्वरूपम् ‘उखायाम्’ रेतोरूपं सिक्तवान् ॥ २ ॥
Eggeling
- In like manner does the Sacrificer now pour his own self (or body), as seed, into the fire-pan as the womb, for the fire-pan is a womb. In the course of a year he prepares for it (his self) this food, to wit, the fire-altar here built, and encloses it in a body, and, being enclosed in a body, it becomes the body itself; whence food, when enclosed in a body, becomes the body itself.
०३
विश्वास-प्रस्तुतिः
तं नि᳘दधाति॥
व्वौ᳘षडि᳘ति व्वौगि᳘ति वा᳘ ऽएष᳘ षडि᳘तीदᳫँ᳭ ष᳘ट्चितिकम᳘न्नं कृ᳘त्वा ऽस्मा ऽअ᳘पिदधात्यात्म᳘संमितं य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - श्रीधरादि
तं नि᳘दधाति॥
व्वौ᳘षडि᳘ति व्वौगि᳘ति वा᳘ ऽएष᳘ षडि᳘तीदᳫँ᳭ ष᳘ट्चितिकम᳘न्नं कृ᳘त्वा ऽस्मा ऽअ᳘पिदधात्यात्म᳘संमितं य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - Weber
तं नि᳘दधाति॥
वौ᳘षडि᳘ति वौगि᳘ति वा᳘ एष᳘ षडि᳘तीदं ष᳘ट्चितिकम᳘न्नं कृत्वास्मा अ᳘पिदधात्यात्म᳘सम्मितं य᳘दु वा᳘ आत्म᳘सम्मितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - विस्वरम्
तं निदधाति । वौषट्- इति । वौग्-इति वा एषः । षडिति । इदं पदचितिकमन्नं कृत्वा ऽस्मा अपिदधात्यात्मसम्मितम् । यदु वा आत्मसंमितमन्नं तदवति । तन्न हिनस्ति । यद्भूयः । हिनस्ति तत् । यत्कनीयः । न तदवति ॥ ३ ॥
सायणः
चित्याग्नेरुपरि उख्याग्निनिधानमन्त्रे “वौषट्” इति श्रूयते- तस्याक्षरद्वयस्य यथाक्रमम् अग्निचित्याग्निपरतां दर्शयति- तं निदधातीति । चित्याग्नेरुपरि स्थापयति । तत्र ‘वौगिति’ पूर्वाक्षरेण ‘एषः’ अग्निरुच्यते । वक्तेर्वौगिति पदनिष्पत्तिरूह्या । षडित्यक्षरेण षट्चितिको ऽग्निः । तथा सति ‘वौषट्’ इत्यस्यायमर्थः सम्पद्यते ‘अस्मै’ अहवनीयाग्नये ‘षट्चितिकमग्निमन्नं’ ‘कृत्वा,’ ‘आत्मसम्मितम्’ ‘अपिदधाति’ कृतवान् भवति । अन्नस्य शरीरसम्मितत्वमन्वयव्यतिरेकाभ्यां दर्शयति- यदु वा आत्मेति । ‘यत्’ शरीरस्याधिकम् ‘अन्नम्’ ‘तद्धिनस्ति’ शरीरम्- अजीर्णत्वात् । अल्पं ‘तत्’ शरीरं ‘न अवति’ न पोषयति, अतः शरीरपर्याप्तमेवान्नं कार्यमित्यर्थः ॥ ३ ॥
Eggeling
- He places him (the Ukhya Agni, on the fire-altar) with ‘Vaushaṭ 1!’ for ‘vauk’ is he (Agni),
and ‘shaṭ (six)’ is this six-layered food: having prepared it, he offers it to him as proportionate to this body, for food which is proportionate to the body satisfies, and does not injure it; but when there is too much, it does injure it, and when there is too little, it does not satisfy it.
०४
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ ऽए᳘वार्कः[[!!]]॥
(र्को) य᳘मेतम᳘त्राग्नि᳘माह᳘रन्ति त᳘स्यैतद᳘न्नं᳘[[!!]] क्यं᳘ यो ऽय᳘मग्नि᳘श्चितस्त᳘द᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘᳘ᳫँ᳘ सामत᳘ ऽएष᳘ ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते᳘॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ ऽए᳘वार्कः[[!!]]॥
(र्को) य᳘मेतम᳘त्राग्नि᳘माह᳘रन्ति त᳘स्यैतद᳘न्नं᳘[[!!]] क्यं᳘ यो ऽय᳘मग्नि᳘श्चितस्त᳘द᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘᳘ᳫँ᳘ सामत᳘ ऽएष᳘ ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते᳘॥
मूलम् - Weber
स᳘ एष᳘ एॗवार्कः᳟॥
य᳘मेतम᳘त्राग्नि᳘माह᳘रन्ति त᳘स्यैतॗद᳘न्नंक्यं᳘ योऽय᳘मग्नि᳘श्चितस्त᳘दर्क्यं᳘ यजुष्ट᳘ एष᳘ एव᳘ महांस्त᳘स्यैतद᳘न्नं व्रतं त᳘न्महाव्रत᳘ᳫं᳘ सामत᳘ एष᳘ उ एवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫं स᳘त्रेधा᳘ख्यायते॥
मूलम् - विस्वरम्
स एष एवार्कः- यमेतमत्राग्निमाहरन्ति । तस्यैतदन्नं क्यम् । यो ऽयमग्निश्चितः । तदर्क्यम्- यजुष्टः । एष एव महान् । तस्यैतदन्नं व्रतम् । तन्महाव्रतम्- सामतः । एष उ एवोक् । तस्यैतदन्नं थम् । तदुक्थम्- ऋक्तः । तदेतदेकं सत्- त्रेधा ऽऽख्यायते ॥ ४ ॥
सायणः
अग्निचित्याग्निद्वन्द्वस्य यजुःसामर्ग्वेदत्रयपरिभाषासिद्धार्क्यमहाव्रतोक्थनामभिर्व्यपदेश्यत्वं तत्तन्नामा ऽवयवनिर्वचनेन दर्शयति- स एष एवार्क इत्यादिना । यो ऽग्निराहवनीयो ऽत्र षट्चितिके ऽग्नावाह्नियते निधीयते ‘स एषो ऽर्कः’ आदित्यः । यस्योपरि निहितः स हि तस्यान्नं क्यं कः प्रजापतिः ‘तस्मै’ हितम् ‘अन्नम्’ चित्याग्निरूपं ‘क्यम्’ भवतीति कृत्वोक्तम् । अतः अर्कः क्यम् इति पदद्वयं यजुष्टो यजुर्वेदे ऽर्क्यम् इति श्लिष्टोच्चारणेन व्यवहृतमित्यर्थः । “तदर्क्यं भवति”- इति तैत्तिरीयके ऽग्निप्रकरणे समाम्नायते । एषो ऽग्निः ‘महान्’ महच्छब्दवाच्यः, तस्य चित्यो ऽग्निर्व्रतसंज्ञकमन्नं तदुभयं ‘सामतः’ सामवेदे ‘महाव्रतम्’ इति व्यवहृतम् । यस्मात् ‘एषः’ अग्निः उगिति पदेनोच्यते । तस्य चित्याग्निः ‘थम्’ अन्नमुच्यत इत्यर्थः । तदुभयम् ‘ऋक्तः ऋग्वेदे’ ‘उक्थम्’ इति नाम्ना व्यवहृतम् । बृहतीसहस्रस्योक्थमिति संज्ञा । अतः ‘तदेतदेकम्’ अग्निचित्याग्निद्वन्द्वं ‘सत्त्रेधा’ वेदत्रये अर्क्य-महाव्रत-उक्थ-नामभिराख्यायते ॥ ४ ॥
Eggeling
- Now that Arka 2 (flame) is this very fire which they bring here; and the Kya 2 is this his food, to wit, the fire-altar built here: that (combined) makes the Arkya 3 in respect of the Yajus. And the Great one (mahān) is this (Agni), and this vrata 4 (rite) is his food: that makes the Mahāvrata (sāman) in respect of the Sāman. And ‘uk’ is this (Agni), and ’tha’ his food,–that (combined) makes the Uktha (śastra, recitation) 5 in respect of the R̥k. Thus, whilst being only one, this is accounted threefold.
०५
विश्वास-प्रस्तुतिः
(ते᳘ ऽथे) अ᳘थेन्द्राग्नी वा᳘ ऽअसृज्येताम्॥
(म्ब्र᳘) ब्र᳘ह्म च क्षत्त्रं᳘ चाग्नि᳘रेव ब्रह्मे᳘न्द्रः क्षत्त्रं तौ᳘ सृष्टौ ना᳘नै᳘वास्तां ता᳘वब्रूतां न वा᳘ ऽइत्थᳫँ᳭ स᳘न्तौ शक्ष्यावः प्रजाः प्र᳘जनयितुमे᳘कᳫँ᳭ रूप᳘मुभा᳘वसावे᳘ति तावे᳘कᳫँ᳭ रूप᳘मुभा᳘वभवताम्॥
मूलम् - श्रीधरादि
(ते᳘ ऽथे) अ᳘थेन्द्राग्नी वा᳘ ऽअसृज्येताम्॥
(म्ब्र᳘) ब्र᳘ह्म च क्षत्त्रं᳘ चाग्नि᳘रेव ब्रह्मे᳘न्द्रः क्षत्त्रं तौ᳘ सृष्टौ ना᳘नै᳘वास्तां ता᳘वब्रूतां न वा᳘ ऽइत्थᳫँ᳭ स᳘न्तौ शक्ष्यावः प्रजाः प्र᳘जनयितुमे᳘कᳫँ᳭ रूप᳘मुभा᳘वसावे᳘ति तावे᳘कᳫँ᳭ रूप᳘मुभा᳘वभवताम्॥
मूलम् - Weber
अ᳘थेन्द्राग्नी वा᳘ असृज्येताम्॥
ब्र᳘ह्म च क्षत्रं᳘ चाग्नि᳘रेव ब्रह्मे᳘न्द्रः क्षत्रं तौ᳘ सृष्टौ ना᳘नैॗवास्तां ता᳘वब्रूतां न वा᳘ इत्थᳫं स᳘न्तौ शक्ष्यावः प्रजाः प्र᳘जनयितुमे᳘कं रूप᳘मुभा᳘वसावे᳘ति तावे᳘कं रूप᳘मुभा᳘वभवताम्॥
मूलम् - विस्वरम्
अथेन्द्राग्नी वा असृज्येताम् । ब्रह्म च क्षत्रं च । अग्निरेव ब्रह्म । इन्द्रः क्षत्रम् । तो सृष्टौ नानैवास्ताम् । तावब्रूताम् । न वा इत्थं सन्तौ शक्ष्यावः प्रजाः प्रजनयितुम् । एकं रूपमुभावसावेति । तावेकं रूपमुभावभवताम् ॥ ५ ॥
सायणः
एतदग्निद्वयं चेन्द्राग्न्यात्मना स्तोतुमादाविन्द्राग्निसृष्टिमाह- अथेन्द्राग्नी वा असृज्येतामिति । पूर्वं ब्रह्मक्षत्ररूपौ ‘इन्द्राग्नी’ प्रजापतिना ‘सृष्टौ’ ‘नानैव’ भेदेन ‘आस्ताम्’ । पृथगवस्थितौ ‘तौ’ परस्परम् ‘अब्रूताम्’ ‘न वा इत्थं’ भेदेन ‘सन्तौ’ ‘प्रजा’ उत्पादयितुं ‘न शक्ष्यावः’- न समर्थौ भविष्यावः । तस्मादुभावावामेकं समानं रूपमसाव भवावेति तथैवाभूताम् ॥ ५ ॥
Eggeling
- Now Indra and Agni were created as the Brahman (priesthood) and the Kshatra (nobility): the Brahman was Agni and the Kshatra Indra. When created, the two were separate. They spake, ‘Whilst being thus, we shall be unable to produce creatures (people): let us both become one form!’ The two became one form.
०६
विश्वास-प्रस्तुतिः
(न्तौ) तौ यौ ता᳘विन्द्राग्नी᳘॥
(ऽ) एतौ तौ᳘ रुक्म᳘श्च पु᳘रुषश्च रुक्म᳘ ऽएवे᳘न्द्रः पु᳘रुषो ऽग्निस्तौ᳘ हिरण्म᳘यौ भवतो ज्यो᳘तिर्व्वै हि᳘रण्यं ज्यो᳘तिरिन्द्राग्नी᳘ ऽअमृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तमिन्द्राग्नी[[!!]]॥
मूलम् - श्रीधरादि
(न्तौ) तौ यौ ता᳘विन्द्राग्नी᳘॥
(ऽ) एतौ तौ᳘ रुक्म᳘श्च पु᳘रुषश्च रुक्म᳘ ऽएवे᳘न्द्रः पु᳘रुषो ऽग्निस्तौ᳘ हिरण्म᳘यौ भवतो ज्यो᳘तिर्व्वै हि᳘रण्यं ज्यो᳘तिरिन्द्राग्नी᳘ ऽअमृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तमिन्द्राग्नी[[!!]]॥
मूलम् - Weber
तौ यौ ता᳘विन्द्राग्नी᳟॥
एतौ तौ᳘ रुक्म᳘श्च पु᳘रुषश्च रुक्म᳘ एवे᳘न्द्रः पु᳘रुषोऽग्निस्तौ᳘ हिरण्म᳘यौ भवतो ज्यो᳘तिर्वै हि᳘रण्यं ज्यो᳘तिरिन्द्राग्नि᳘! अमृ᳘तᳫं हि᳘रण्वममृ᳘तमिन्द्राग्नी᳟॥
मूलम् - विस्वरम्
तौ यौ ताविन्द्राग्नी- एतौ तौ रुक्मश्च पुरुषश्च । रुक्म एवेन्द्रः । पुरुषो ऽग्निः । तौ हिरण्मयौ भवतः । ज्योतिर्वै हिरण्यम्, ज्योतिरिन्द्राग्नी । अमृतं हिरण्यम्, अमृतमिन्द्राग्नी ॥ ६ ॥
सायणः
तत्र प्रथमेष्टकाचितावुपधेयौ रुक्मपुरुषाविन्द्राग्न्यात्मना स्तौति- तौ यौ ताविन्द्राग्नी इति । तयोरेकरूपापन्नयोः स्वरूपमाह- रुक्मश्च पुरुषश्चेति । ‘रुक्मो’ नामैकविंशतिनिर्बाधं 6 हिरण्मयं फलकम्, पुरुषश्च हिरण्मयः । हिरण्यस्य ‘ज्योतिरमृत’ पदाभ्यां स्तुतिः ॥ ६ ॥
Eggeling
- Now those two, Indra and Agni, are the same as these two, to wit, the gold plate and the (gold) man 7: Indra is the gold plate, and Agni the man.
They are made of gold: gold means light, and Indra and Agni are the light; gold means immortal life, and Indra and Agni mean immortal life.
०७
विश्वास-प्रस्तुतिः
ता᳘वेता᳘विन्द्राग्नी᳘ ऽएव᳘ चिन्वन्ति॥
यद्धि किं᳘ चैष्टक᳘मग्नि᳘रेव तत्त᳘स्मात्त᳘दग्नि᳘ना पचन्ति यद्धि किं᳘ चाग्नि᳘ना प᳘चन्त्यग्नि᳘रेव तद᳘थ यत्पु᳘रीषᳫँ᳭[[!!]] स ऽइ᳘न्द्रस्त᳘स्मात्त᳘दग्नि᳘ना न᳘ पचन्ति ने᳘दग्नि᳘रेवा᳘सन्ने᳘न्द्र ऽइ᳘ति त᳘स्मादेता᳘विन्द्राग्नी᳘ ऽएव᳘ चितौ[[!!]]॥
मूलम् - श्रीधरादि
ता᳘वेता᳘विन्द्राग्नी᳘ ऽएव᳘ चिन्वन्ति॥
यद्धि किं᳘ चैष्टक᳘मग्नि᳘रेव तत्त᳘स्मात्त᳘दग्नि᳘ना पचन्ति यद्धि किं᳘ चाग्नि᳘ना प᳘चन्त्यग्नि᳘रेव तद᳘थ यत्पु᳘रीषᳫँ᳭[[!!]] स ऽइ᳘न्द्रस्त᳘स्मात्त᳘दग्नि᳘ना न᳘ पचन्ति ने᳘दग्नि᳘रेवा᳘सन्ने᳘न्द्र ऽइ᳘ति त᳘स्मादेता᳘विन्द्राग्नी᳘ ऽएव᳘ चितौ[[!!]]॥
मूलम् - Weber
ता᳘वेता᳘विन्द्राग्नी᳘ एव᳘ चिन्वन्ति॥
यद्धि किं᳘ चैष्टक᳘मग्नि᳘रेव तत्त᳘स्मात्त᳘दग्नि᳘ना पचन्ति यद्धि किं᳘ चाग्नि᳘ना प᳘चन्त्यग्नि᳘रेव तद᳘थ य᳘त्पु᳘रीषᳫं स इ᳘न्द्रस्त᳘स्मात्त᳘दग्नि᳘ना न᳘ पचन्ति ने᳘दग्नि᳘रेवा᳘सन्ने᳘न्द्र इ᳘ति त᳘स्मादेता᳘विन्द्राग्नी᳘ एव᳘ चितौ᳟॥
मूलम् - विस्वरम्
तावेताविन्द्राग्नी एव चिन्वन्ति । यद्धि किं चैष्टकम्- अग्निरेव तत् । तस्मात्तदग्निना पचन्ति- यद्धि किं चाग्निना पचन्ति । अग्निरेव तत् । अथ यत्पुरीषम्- स इन्द्रः । तस्मात्तदग्निना न पचन्ति । नेदग्निरेवासन्नेन्द्र इति । तस्मादेताविन्द्राग्नी एव चितौ ॥ ७ ॥
सायणः
इष्टकापुरीषचितिद्वयमिन्द्राग्न्यात्मना स्तौति- तावेताविन्द्राग्नी एव चिन्वन्तीति । तत्र ‘ऐष्टकम्’ इष्टकासमूहः तत् ‘अग्निः,’ ‘पुरीषं’ स ‘इन्द्र,’ अत एव इष्टकानामग्न्यात्मकत्वाद् अग्निना ताः पक्वाः कर्त्तव्याः । पुरीषस्येन्द्रात्मकत्वात्, तस्याग्निना न पाकः कर्त्तव्यः । इष्टकानां पाके पुरीषस्यापाके कारणमाह- नेदग्निरेवासन्नेन्द्र इति । यदि उभयोः पाकस्तदा तर्हि इन्द्राग्न्योरेकैकं कृतं भवति । न तूभयोः । अतस्तत्रोभयरूपत्वाय इष्टकानां पाकः पुरीषस्य तदभाव इत्यर्थः ॥ ७ ॥
Eggeling
- It is these two, Indra and Agni, that they build up. Whatever is of brick that is Agni: whence they bake that (part) by fire, and all that is baked by fire is Agni. And what filling of earth there is (in the altar) that. is Indra: whence they do not bake that (part) by fire, lest it should be Agni, and not Indra. Thus it is these two, Indra and Agni, that are built up.
०८
विश्वास-प्रस्तुतिः
(ताव᳘) अ᳘थ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते॥
तदे᳘कᳫँ᳭ रूप᳘मुभौ᳘ भवतस्त᳘स्मात्ता᳘वेते᳘नैव᳘ रूपे᳘णेमाः᳘ प्रजाः प्र᳘जनयतः᳘[[!!]] सैषै᳘कैवे᳘ष्टका ऽग्नि᳘रेव ता᳘मेष स᳘र्व्वो ऽग्नि᳘रभिस᳘म्पद्यते᳘ सै᳘वेष्टकासम्पत्त᳘देतदे᳘कमे᳘वाक्ष᳘रं व्वौगि᳘ति त᳘देष स᳘र्व्वो ऽग्नि᳘रभिस᳘म्पद्यते᳘ सै᳘वाक्षरसम्पत्[[!!]]॥
मूलम् - श्रीधरादि
(ताव᳘) अ᳘थ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते॥
तदे᳘कᳫँ᳭ रूप᳘मुभौ᳘ भवतस्त᳘स्मात्ता᳘वेते᳘नैव᳘ रूपे᳘णेमाः᳘ प्रजाः प्र᳘जनयतः᳘[[!!]] सैषै᳘कैवे᳘ष्टका ऽग्नि᳘रेव ता᳘मेष स᳘र्व्वो ऽग्नि᳘रभिस᳘म्पद्यते᳘ सै᳘वेष्टकासम्पत्त᳘देतदे᳘कमे᳘वाक्ष᳘रं व्वौगि᳘ति त᳘देष स᳘र्व्वो ऽग्नि᳘रभिस᳘म्पद्यते᳘ सै᳘वाक्षरसम्पत्[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘श्चिॗतेऽग्नि᳘र्निधीय᳘ते॥
तदे᳘कं रूप᳘मुभौ᳘ भवतस्त᳘स्मात्ता᳘वेते᳘नैव᳘ रूपे᳘णेमाः᳘ प्रजाः प्र᳘जनयॗतः सैषै᳘कैवे᳘ष्टकाग्नि᳘रेव ता᳘मेष स᳘र्वोऽग्नि᳘रभिस᳘म्पद्यतेॗ सैवेष्टकासम्पत्त᳘देतदे᳘कमेॗवाक्ष᳘रं वौगि᳘ति त᳘देष स᳘र्वोऽग्नि᳘रभिस᳘म्पद्यतेॗ सैॗवाक्षरसम्प᳘त्॥
मूलम् - विस्वरम्
अथ यश्चिते ऽग्निर्निधीयते- तदेकं रूपमुभौ भवतः । तस्मात्तावेतेनैव रूपेणेमाः प्रजाः प्रजनयतः । सैषैकैवेष्टका ऽग्निरेव । तामेष सर्वो ऽग्निरभिसम्पद्यते । सैवेष्टकासम्पत् । तदेतदेकमेवाक्षरं वौगिति । तदेष सर्वो ऽग्निरभिसम्पद्यते- सैवाक्षरसम्पत् ॥ ८ ॥
सायणः
एवं विभिन्नयो रुक्मपुरुषयोरिष्टकापुरीषचित्योरिन्द्राग्नित्वमुक्तम् । तयोरिदानीमैक्यमाह- अथ यश्चिते ऽग्निर्निधीयत इति । ‘उभौ’ इन्द्राग्नी ‘एकम्’ ‘रूपम्’ आहवनीयात्मकमभवताम् । कथमेकरूपत्वमिति ? तदिष्टकासम्पत्त्या अक्षरसम्पत्त्या चोपपादयति- सैषैकैवेष्टका ऽग्निरेवेति । यदग्निद्वन्द्वमुक्तं सा ‘एकेष्टका’ अग्निरूपा ‘एष सर्वो ऽग्निः’ तामिष्टकामभिलक्ष्य ‘सम्पद्यते’- इष्टकारूपेणैकेन सम्पन्न इति एक इति गण्यते ‘सा’ इयमिष्टकासम्पत् । एकमेवाक्षरं वौगिति- इत्यस्यार्थः- आहवनीयनिधानमन्त्रगतवौषडवयववौगित्यात्मकैकाक्षरेण सर्वो ऽग्निः सम्पद्यत इत्यक्षरैकत्वादेकत्वम् । सैवेयमक्षरसम्पत् ॥ ८ ॥
Eggeling
- And the two become that one form, to wit, the fire which is placed on the built (altar), and hence those two, by means of that form, produce creatures. Now Agni, indeed, is this single brick 8, and into this the whole Agni passes: this, indeed, is the perfection of bricks,–it is that one syllable (akshara) ‘vauk,’ it is this into which the whole Agni passes, and which is the perfection of syllables.
०९
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘द्धैतत्प᳘श्यन्नृ᳘षिरभ्य᳘नूवाद॥
भूतं᳘ भविष्यत्प्र᳘स्तौमि महद्ब्रह्मै᳘कमक्ष᳘रं बहु ब्रह्मै᳘कमक्ष᳘रमि᳘त्येत᳘द्ध्ये᳘वाक्ष᳘रᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘न्यभिस᳘म्पद्यन्ते त᳘देतद्ब्र᳘ह्म च क्षत्त्रं᳘ चाग्नि᳘रेव ब्रह्मे᳘न्द्रः क्षत्त्र᳘मिन्द्राग्नी वै व्वि᳘श्वे देवा व्वि᳘डु व्वि᳘श्वे देवास्त᳘देतद्ब्र᳘ह्म क्षत्त्रं व्विट्[[!!]]॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘द्धैतत्प᳘श्यन्नृ᳘षिरभ्य᳘नूवाद॥
भूतं᳘ भविष्यत्प्र᳘स्तौमि महद्ब्रह्मै᳘कमक्ष᳘रं बहु ब्रह्मै᳘कमक्ष᳘रमि᳘त्येत᳘द्ध्ये᳘वाक्ष᳘रᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘न्यभिस᳘म्पद्यन्ते त᳘देतद्ब्र᳘ह्म च क्षत्त्रं᳘ चाग्नि᳘रेव ब्रह्मे᳘न्द्रः क्षत्त्र᳘मिन्द्राग्नी वै व्वि᳘श्वे देवा व्वि᳘डु व्वि᳘श्वे देवास्त᳘देतद्ब्र᳘ह्म क्षत्त्रं व्विट्[[!!]]॥
मूलम् - Weber
त᳘द्धैतत्प᳘श्यन्नृ᳘षिरभ्य᳘नूवाद॥
भूत᳘म् भविष्यत्प्र᳘स्तौमि महद्ब्रह्मै᳘कमक्ष᳘रम् बहु ब्रह्मै᳘कमक्ष᳘रमि᳘त्येतॗद्ध्येॗवाक्ष᳘रᳫं स᳘र्वे देवाः स᳘र्वाणि भूता᳘न्यभिस᳘म्पद्यन्ते त᳘देतद्ब्र᳘ह्म च क्षत्रं᳘ चाग्नि᳘रेव ब्रह्मे᳘न्द्रः क्षत्र᳘मिन्द्राग्नी वै वि᳘श्वे देवा वि᳘डु वि᳘श्वे देवास्त᳘देतद्ब्र᳘ह्म क्षत्रं वि᳘ट्॥
मूलम् - विस्वरम्
तद्धैतत्पश्यन्नृषिरभ्यनूवाद । “भूतं भविष्यत्प्रस्तौमि महद्ब्रह्मैकमक्षरम्- बहु ब्रह्मैकमक्षरम्” इति । एतद्ध्येवाक्षरं सर्वे देवाः,, सर्वाणि भूतान्यभिसम्पद्यन्ते । तदेतद्ब्रह्म च क्षत्रं च । अग्निरेव ब्रह्म, इन्द्रः क्षत्रम् । इन्द्राग्नी वै विश्वे देवाः । विडु विश्वे देवाः । तदेतद्ब्रह्म, क्षत्त्रं विट् ॥ ९ ॥
सायणः
अक्षरस्यैकत्वं मन्त्रसंवादेन द्रढयति- तद्धैतत्पश्यन्नृषिरभ्यनूवादेति । एतमर्थं पश्यन्नृषिर्मन्त्र उक्तवान् । ‘भूतं भविष्यत्’ मिलितं भूतभविष्यत्कालवर्त्ति महत् महत्त्वातीतस्य विश्रान्तिभूमिः “ज्यायानेभ्यो लोकेभ्यः”- इति श्रुतेः । अथ वा ब्रह्म कीदृशं ? सकलजगदात्मना महत् अतिप्रभूतम् एकम् अद्वितीयम्, एकत्वसङ्ख्यां द्वित्वादिसङ्ख्यानिरासार्था । न तु तत्रैकत्वसङ्ख्याविधानार्था । अन्यथा- “अस्थूलमनण्वह्नस्वं ब्रह्म”- (बृ. उ. १४ । ६ । ८ । ९) इति निर्गुणश्रुतिव्याकोपः स्यात्, इति ब्रह्मविदां मतम् । ‘अक्षरम्’- अविनश्वरं सर्वगतं वा ब्रह्म सच्चिदानन्दैकरसं ‘प्रस्तौमि’ । बहु ब्रह्मैकमक्षरमित्येतदुक्तस्य विवरणम् । एतद्ध्येवाक्षरम् इति । अयमर्थः- ‘सर्वे देवाः’ ‘सर्वाणि भूतानि’ चैतद्ब्रह्मलक्षणमेकमक्षरमभिसम्पद्यन्ते । सर्वेषां कारणरूपाक्षरात्मनैकत्वं सम्पन्नमित्यर्थः । उक्तमग्नेरिन्द्राग्न्यात्मकत्वमुपजीव्य वर्णत्रयात्मना स्तौति- तदेतद् ब्रह्म च क्षत्रं चेति । इन्द्राग्न्योरवयवशो ब्रह्मक्षत्ररूपत्वात्तदुभयरूपस्याग्नेस्तत्तादात्म्यं तयोर्विश्वदेवात्मकत्वाच्च ‘विड्’ रूपता । इन्द्राग्न्योर्विश्वदेवात्मकत्वमेवम्- इन्द्रः सर्वदेवानां परमः, अग्निरवमः । तयोराद्यन्तवर्तिनोर्ग्रहणेन सर्वे देवाः संगृहीता इति, तयोस्तदात्मकत्वं विश्वदेवानां विट्त्वम्- इन्द्रप्रजात्वात् । अतस्तदेकमग्न्यात्मकमक्षरं ब्रह्मक्षत्रवैश्यरूपमित्यर्थः ॥ ९ ॥
Eggeling
- It is this that the R̥shi saw when he said, ‘I praise what hath been and what will be, the Great Brahman, the one Akshara,–the manifold Brahman, the one Akshara; for, indeed, all the gods, all beings pass into that Akshara (imperishable
element 9): it is both the Brahman and the Kshatra; and the Brahman is Agni, and the Kshatra Indra; and the Viśve Devāḥ (all the gods) are Indra and Agni. But the Viśve Devāḥ (the All-gods) are also the peasantry: hence it is Priesthood, Nobility, and Peasantry.
१०
विश्वास-प्रस्तुतिः
(डे) एत᳘द्ध स्म वै त᳘द्विद्वाञ्छ्या᳘पर्णः सायकायन᳘ ऽआह॥
यद्वै᳘ म ऽइदं क᳘र्म समा᳘प्स्यत म᳘मैव᳘ प्रजा स᳘ल्वानाᳫँ᳭ राजानो᳘ ऽभविष्यन्म᳘म ब्राह्मणा म᳘म व्वै᳘श्या यत्तु᳘ म ऽएता᳘वत्क᳘र्मणः समा᳘पि ते᳘न म ऽउभय᳘था स᳘ल्वान्प्रजा᳘ ऽतिरेक्ष्यत ऽइ᳘ति स᳘ ऽएष᳘ ऽएव श्री᳘रेष य᳘श ऽए᳘षो ऽन्नादः᳘॥
मूलम् - श्रीधरादि
(डे) एत᳘द्ध स्म वै त᳘द्विद्वाञ्छ्या᳘पर्णः सायकायन᳘ ऽआह॥
यद्वै᳘ म ऽइदं क᳘र्म समा᳘प्स्यत म᳘मैव᳘ प्रजा स᳘ल्वानाᳫँ᳭ राजानो᳘ ऽभविष्यन्म᳘म ब्राह्मणा म᳘म व्वै᳘श्या यत्तु᳘ म ऽएता᳘वत्क᳘र्मणः समा᳘पि ते᳘न म ऽउभय᳘था स᳘ल्वान्प्रजा᳘ ऽतिरेक्ष्यत ऽइ᳘ति स᳘ ऽएष᳘ ऽएव श्री᳘रेष य᳘श ऽए᳘षो ऽन्नादः᳘॥
मूलम् - Weber
एत᳘द्ध स्म वै त᳘द्विद्वाञ्छ्या᳘पर्णः सायकायन᳘ आह॥
यद्वै᳘ म इदं क᳘र्म समा᳘प्स्यत म᳘मैव᳘ प्रजा स᳘ल्वानां राजानो᳘ऽभविष्यन्म᳘म ब्राह्मणा म᳘म वै᳘श्या यत्तु᳘ म एता᳘वत्क᳘र्मणः समा᳘पि ते᳘न म उभय᳘था स᳘ल्वान्प्रजा᳘तिरेक्ष्यत इ᳘ति स᳘ एष᳘ एव श्री᳘रेष य᳘श एॗषोऽन्नादः᳟॥
मूलम् - विस्वरम्
एतद्ध स्म वै तद्विद्वाञ्छ्यापर्णः सायकायन आह- यद्वै म इदं कर्म समाप्स्यत ममैव प्रजा सल्वानां राजानो ऽभविष्यन्, मम ब्राह्मणाः, मम वैश्याः । यत्तु म एतावत्कर्मणः समापि- तेन म उभयथा सल्वान्प्रजा ऽतिरेक्ष्यत इति । स एष एव श्रीः, एष यशः, एषो ऽन्नादः ॥ १० ॥
सायणः
उक्तं वर्णत्रयात्मकत्वमुपजीव्य कर्मणः श्रीयशो ऽन्नादत्वलक्षणं फलं पुरावृत्तकथनेन दर्शयति- एतद्ध स्म वै तद्विद्वाञ्छ्यापर्ण इति । ‘एतद्’ अग्न्यात्मकमक्षरं वर्णत्रयात्मकं जानानः सायकपुत्रः, नडादित्वात् फक् (पा. सू. ४ । १ । ९९) ‘श्यापर्णः’ उक्तवान् । ‘यदिदम्’ एतादृशं कर्म समाप्स्यत समापितमभविष्यत् तर्हि मम स्वीयैव प्रजा ‘सल्वानाम्’ देशनामैतत् राजानो ऽभविष्यन् क्रियातिपत्तौ लृङः प्रयोगः । मम प्रजा सल्वानां ब्राह्मणा वैश्याश्चाभविष्यन्निति । अयमर्थः एवंरूपकर्मणः समापने मदीया प्रजैव सल्वदेशानां राजानः क्षत्रिया ब्राह्मणा वैश्याश्च भविष्यन्तीति । फलान्तरमाह-यत्त्वित्यादिना । यदि मदीयम् ‘एतावत्’ कर्म समाप्यते तर्हि ‘मे’ मदीया प्रजा उभयथा ‘सल्वान्’ देशान् ‘अतिरेक्ष्यते’ अतिरिक्ता अधिका भविष्यतीति ‘श्यापर्ण आह’- इति सम्बन्धः । यदुभयथा- इति तस्यार्थं श्रुतिः स्वयमाह- स एष एव श्रीरिति । ‘एषः’ अग्निः ‘श्रीः’ श्रीरूपः तद्धेतुः ‘यशः’ अन्नादरूपस्तद्धेतुरित्यर्थः । अतः प्रजा श्रीरूपत्वेन यशो ऽन्नादरूपत्वेन चोभयथा अतिरिक्ता भविष्यतीत्यर्थः ॥ १० ॥
Eggeling
- And, indeed, Śyāparṇa Sāyakāyana, knowing this, once said, ‘If this my sacrificial performance were complete, my own race would become the kings (nobles), Brāhmaṇas, and peasants of the Salvas; but even by that much of my work which has been completed 10 my race will surpass the Salvas in both ways;’–for this (Agni, the fire-altar), indeed, is (social) eminence and fame, and an eater of food 11.
११
विश्वास-प्रस्तुतिः
(ऽ) एत᳘द्ध वै त᳘च्छा᳘ण्डिल्यः॥
(ल्यो) व्वा᳘मकक्षायणाय प्रो᳘च्योवाच श्री᳘मान्यशस्व्यन्नादो᳘[[!!]] भविष्यसी᳘ति श्री᳘मान्ह वै᳘ यशस्व्यन्नादो᳘[[!!]] भवति य᳘ ऽएवं᳘ व्वे᳘द॥
मूलम् - श्रीधरादि
(ऽ) एत᳘द्ध वै त᳘च्छा᳘ण्डिल्यः॥
(ल्यो) व्वा᳘मकक्षायणाय प्रो᳘च्योवाच श्री᳘मान्यशस्व्यन्नादो᳘[[!!]] भविष्यसी᳘ति श्री᳘मान्ह वै᳘ यशस्व्यन्नादो᳘[[!!]] भवति य᳘ ऽएवं᳘ व्वे᳘द॥
मूलम् - Weber
एत᳘द्ध वै तछा᳘ण्डिल्यः॥
वा᳘मकक्षायणाय प्रो᳘च्योवाच श्री᳘मान्यशस्व्य᳘न्नादो᳘ भविष्यसी᳘ति श्री᳘मान्ह वै᳘ यशस्व्य᳘न्नादो᳘ भवति य᳘ एवं᳘ वे᳘द॥
मूलम् - विस्वरम्
एसद्ध वै तच्छाण्डिल्यो वामकक्षायणाय प्रोच्योवाच- श्रीमान्यशस्व्यन्नादो भविष्यसीति । श्रीमान्ह वै यशस्व्यन्नादो भवति य एवं वेद ॥ ११ ॥
सायणः
उक्तं श्रीयशःप्रभृतिकं फलं संवादेन द्रढयति- एतद्ध वै तच्छाण्डिल्य इति । शाण्डिल्यो नामर्षिः वामकक्षपुत्राय एतत्फलं ‘प्रोच्य’ स्वयं सम्यक् पर्यालोच्य ‘उवाच’ किमिति ? हे वामकक्षपुत्र ! त्वमग्न्यैकरूप्यभावनया ‘श्रीमान्’ ‘भविष्यसि’ इति प्रतिवाक्यमन्वयः । वेदितुः फलमाह- श्रीमान् ह वा इति ॥ ११ ॥
Eggeling
- And regarding this, Sāṇḍilya, having instructed Vāmakakshāyaṇa 12, said, ‘Thou wilt become eminent, famous, and an eater of food (rich);’ and, indeed, he who knows this becomes eminent, famous, and an eater of food.
१२
विश्वास-प्रस्तुतिः
स᳘ ए᳘षो ऽग्निः᳘ प्रजा᳘पतिरेव[[!!]]॥
त᳘ देवा᳘ ऽएत᳘मग्निं᳘ प्रजा᳘पतिᳫँ᳭ सᳫँ᳭स्कृत्या᳘थास्मा ऽएत᳘त्संव्वत्सरे᳘ ऽन्नᳫँ᳭ स᳘मस्कुर्व्वन्य᳘ ऽएष᳘ महाव्व्रती᳘यो ग्र᳘हः॥
मूलम् - श्रीधरादि
स᳘ ए᳘षो ऽग्निः᳘ प्रजा᳘पतिरेव[[!!]]॥
त᳘ देवा᳘ ऽएत᳘मग्निं᳘ प्रजा᳘पतिᳫँ᳭ सᳫँ᳭स्कृत्या᳘थास्मा ऽएत᳘त्संव्वत्सरे᳘ ऽन्नᳫँ᳭ स᳘मस्कुर्व्वन्य᳘ ऽएष᳘ महाव्व्रती᳘यो ग्र᳘हः॥
मूलम् - Weber
स᳘ एॗषोऽग्निः᳘ प्रजा᳘पतिरेव᳟॥
त᳘ देवा᳘ एत᳘मग्नि᳘म् प्रजा᳘पतिᳫं संस्कृत्या᳘थास्मा एत᳘त्संवत्सरे᳘ऽन्नᳫं स᳘मस्कुर्वन्य᳘ एष᳘ महाव्रती᳘यो ग्र᳘हः॥
मूलम् - विस्वरम्
स एषो ऽग्निः प्रजापतिरेव । ते देवा एतमग्निं प्रजापतिं संस्कृत्याथास्मा एतत्सम्वत्सरे ऽन्नं समस्कुर्वन्- य एष महाव्रतीयो ग्रहः ॥ १२ ॥
सायणः
अथ प्रजापतिरूपाहवनीयाग्नेस्तत्र हूयमानमहाव्रतीयग्रहरसस्य च यद्द्वन्द्वं तस्य पूर्ववदर्क्यमहाव्रतोक्थनामत्रयेणाभिधेयत्वं वक्तुं ग्रहग्रहणं स्तुतशस्त्रपठनं तस्य रसस्य वषट्कारान्ते होमं च क्रमेण दर्शयति- स एषो ऽग्निः प्रजापतिरेवेत्यादिना । पूर्वं ‘देवाः’ अग्निरूपप्रजापतिं ‘संस्कृत्य’ तस्मै संवत्सरान्ते संवत्सरसाध्यगवामयनादौ एतद्वक्ष्यमाणमन्नं संस्कृतवन्तः । अन्नमिति यदुक्तं तदाह- य एष महाव्रतीयो ग्रह इति । महाव्रतप्रतिपत्तिनिर्वर्त्यो यो ग्रहः स एवान्नशब्देनोच्यते । कात्यायनो ऽपि महाव्रतैकनियतं ग्रहणं सूत्रितवान् । तथा हि- “महाव्रतमग्निष्टोमः प्राजापत्य उपालभ्यो ग्रहं गृह्णाति वि न इन्द्र वाचस्पतिं विश्वकर्मन्निति वा” (का. श्रौ. सू. १३ । २९ । ३० । ३१) इति ॥ १२ ॥
Eggeling
- And this Agni is no other than Prajāpati.
The gods, having restored this Agni-Prajāpati, in the course of a year prepared this food for him, to wit, this Mahāvratīya cup of Soma.
१३
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘मध्वर्युर्ग्र᳘हेण गृह्णाति॥
य᳘द्गृह्णा᳘ति त᳘स्माद्ग्र᳘हस्त᳘स्मिन्नुद्गाता᳘ महाव्व्रते᳘न र᳘सं दधाति स᳘र्व्वाणि हैता᳘नि सा᳘मानि य᳘न्महाव्व्रतं त᳘दस्मिन्त्स᳘र्व्वैः सा᳘मभी र᳘सं दधाति त᳘स्मिन्हो᳘ता मह᳘तोक्थे᳘न र᳘सं दधाति स᳘र्व्वा हैता ऽऋ᳘चो य᳘न्मह᳘दुक्थं त᳘दस्मिन्त्स᳘र्व्वाभिर्ऋग्भी र᳘सं दधाति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘मध्वर्युर्ग्र᳘हेण गृह्णाति॥
य᳘द्गृह्णा᳘ति त᳘स्माद्ग्र᳘हस्त᳘स्मिन्नुद्गाता᳘ महाव्व्रते᳘न र᳘सं दधाति स᳘र्व्वाणि हैता᳘नि सा᳘मानि य᳘न्महाव्व्रतं त᳘दस्मिन्त्स᳘र्व्वैः सा᳘मभी र᳘सं दधाति त᳘स्मिन्हो᳘ता मह᳘तोक्थे᳘न र᳘सं दधाति स᳘र्व्वा हैता ऽऋ᳘चो य᳘न्मह᳘दुक्थं त᳘दस्मिन्त्स᳘र्व्वाभिर्ऋग्भी र᳘सं दधाति॥
मूलम् - Weber
त᳘मध्वर्युर्ग्र᳘हेण गृह्णाति॥
य᳘द्गृह्णा᳘ति त᳘स्माद्ग्र᳘हस्त᳘स्मिन्नुद्गाता᳘ महाव्रते᳘न र᳘सं दधाति स᳘र्वाणि हैता᳘नि सा᳘मानि य᳘न्महाव्रतं त᳘दस्मिन्त्स᳘र्वैः सा᳘मभी र᳘सं दधाति त᳘स्मिन्हो᳘ता महॗतोक्थे᳘न र᳘सं दधाति स᳘र्वा हैता ऋ᳘चो य᳘न्मह᳘दुक्थं त᳘दस्मिन्त्स᳘र्वाभिरृग्भी र᳘सं दधाति॥
मूलम् - विस्वरम्
तमध्वर्युर्ग्रहेण गृह्णाति- यद् गृह्णाति तस्माद्ग्रहः । तस्मिन्नुद्गाता महाव्रतेन रसं दधाति । सर्वाणि हैतानि सामानि- यन्महाव्रतम् । तदस्मिन्त्सर्वैः सामभी रसं दधाति । तस्मिन् होता महतोक्थेन रसं दधाति । सर्वा हैता ऋचो- यन्महदुक्थम् । तदस्मिन्त्सर्वाभिर्ऋभी रसं दधाति ॥ १३ ॥
सायणः
अथ तस्य ग्रहस्य ग्रहणं विधत्ते- तमध्वर्युर्ग्रहेण गृह्णातीति । एतदादिकम् “अथास्मिन् एतं वषट्कृते जुहोति” इत्येतदन्तं एतत्काण्डस्य प्रथमाध्याये (श. प. १० । १ । १ । ५-६) व्याख्यातम् । वौषडिति अक्षरद्वयस्य अग्निरसार्थपरतां दर्शयति- वौगिति वा एष इति । ‘वौगिति’ अक्षरेण एषो ऽग्निराहवनीय उच्यते । ‘षट्’ इत्यक्षरेण इदं महाव्रतग्रहरसं षड्भिर्मधुरादिभेदेन षट्प्रकारमन्नं ‘कृत्वा’ अस्मै प्रजापतिरूपाग्नये संमितमपिदधाति स्थापयति । अन्नस्य शरीरसम्मितत्वमन्वयव्यतिरेकाभ्यामाह- यदु वा आत्मेति ॥ १३ ॥ १४॥
Eggeling
- The Adhvaryu draws it by means of a cup, and inasmuch as he draws (grah) it it is (called) a draught (graha, cup of Soma). The Udgātr̥ (chanter), by the Mahāvrata (sāman), puts flavour (vital sap) into it; and the Mahāvrata (sāman) being (composed of) all those (five) sāmans, he thus puts flavour into it by means of all sāmans (hymn-tunes). The Hotr̥ puts flavour into it by means of the Great Recitation; and the Great Recitation being (composed of) all those R̥k-verses: he thus puts flavour into it by all the R̥k-verses.
१४
विश्वास-प्रस्तुतिः
ते᳘ यदा᳘ स्तुव᳘ते य᳘दा ऽनुश᳘ᳫँ᳘सति॥
(त्य᳘) अ᳘थास्मिन्नेतं व्व᳘षट्कृते जुहोति व्वौगि᳘ति वा᳘ ऽएष षडि᳘तीदᳫँ᳭ ष᳘ड्विधम᳘न्नं कृ᳘त्वा ऽस्मा ऽअ᳘पिदधात्यात्म᳘संमितं य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - श्रीधरादि
ते᳘ यदा᳘ स्तुव᳘ते य᳘दा ऽनुश᳘ᳫँ᳘सति॥
(त्य᳘) अ᳘थास्मिन्नेतं व्व᳘षट्कृते जुहोति व्वौगि᳘ति वा᳘ ऽएष षडि᳘तीदᳫँ᳭ ष᳘ड्विधम᳘न्नं कृ᳘त्वा ऽस्मा ऽअ᳘पिदधात्यात्म᳘संमितं य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - Weber
ते᳘ यदा᳘ स्तुव᳘ते यॗदानुश᳘ᳫं᳘सति॥
अ᳘थास्मिन्नेतं व᳘षट्कृते जुहोति वौगि᳘ति वा᳘ एष षडि᳘तीदं ष᳘ड्विधम᳘न्नं कृॗत्वास्मा अ᳘पिदधात्यात्म᳘सम्मितं य᳘दु वा᳘ आत्म᳘सम्मितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - विस्वरम्
ते यदा स्तुवते । यदा ऽनुशंसति । अथास्मिन्नेतं वषट्कृते जुहोति । वौगिति वा एषः । षडितीदं षड्विधमन्नं कृत्वा ऽस्मा अपिदधात्यात्मसंमितम् । यदु वा आत्मसंमितमन्नं तदवति । तन्न हिनस्ति । यद्भूयः । हिनस्ति तत् । यत्कनीयो न तदवति ॥ १४ ॥
सायणः
[व्याख्यानं त्रयोदशे]
Eggeling
- And when they chant the hymn, and he (the Hotr̥) afterwards recites (the śastra) 13, he (the Adhvaryu) offers that (cup of Soma) to him (Agni-Prajāpati) as the Vashaṭ-call is uttered. Now ‘vauk’ is this (Agni), and ‘shaṭ’ this sixfold food 14: having prepared it, he offers it to him as proportionate to his body; for food which is proportionate to the body satisfies, and does not injure it; but when there is too much, it does injure it, and when there is too little, it does not satisfy it.
१५
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ ऽए᳘वार्कः᳘॥
(र्को᳘) यो ऽय᳘मग्नि᳘श्चितस्त᳘स्यैतद᳘न्नं क्यमेष᳘[[!!]] महाव्व्रती᳘यो ग्र᳘हस्तद᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘ᳫँ᳘ सामत᳘ ऽएष᳘ ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ ऽए᳘वार्कः᳘॥
(र्को᳘) यो ऽय᳘मग्नि᳘श्चितस्त᳘स्यैतद᳘न्नं क्यमेष᳘[[!!]] महाव्व्रती᳘यो ग्र᳘हस्तद᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘ᳫँ᳘ सामत᳘ ऽएष᳘ ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते॥
मूलम् - Weber
स᳘ एष᳘ एॗवार्कः᳟᳟॥
योऽय᳘मग्नि᳘श्चितस्त᳘स्यैतद᳘न्नं क्य᳘मेष᳘ महाव्रती᳘यो ग्र᳘हस्त᳘दर्क्यं᳘ यजुष्ट᳘ एष᳘ एव᳘ महांस्त᳘स्यैतद᳘न्नं व्रतं त᳘न्महाव्रत᳘ᳫं᳘ सामत᳘ एष᳘ उ एवोक्तद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫं स᳘त्त्रेधा᳘ख्यायते॥
मूलम् - विस्वरम्
स एष एवार्कः- यो ऽयमग्निश्चितः । तस्यैतदन्नं क्यम् । एष महाव्रतीयो ग्रहः । तदर्क्यम्- यजुष्टः । एष एव महान् । तस्यैतदन्नं व्रतम् । तन्महाव्रतम्- सामतः । एष उ एवोक्- तस्यैतदन्नं थम् । तदुक्थम्- ऋक्तः । तत् एतदेकं सत् त्रेधा ऽऽख्यायते ॥ १५ ॥
सायणः
स एष एवार्कः इत्यादेरयमर्थः । ‘यः’ अग्निश्चितः ‘सः’ अर्करूपः । पूर्वम् आहवनीयाग्नेरर्कत्वमुक्तम् “स एष एवार्को यमेतमत्राग्निमाहरन्ति” (श. प. १० । ४ । १ । ४) इति । अत्र तु विशिष्टस्याहवनीयस्यार्कत्वमिति विशेषः । तस्य महाव्रतीयग्रहरूपमन्नं क्यमिति पदेनोच्यते । अर्कक्ययोः श्लिष्टोच्चारणादर्क्यं यजुर्वेदतः सिद्धमित्यर्थः । शिष्टम् एष एव महान् इत्यादि पूर्ववद् (चतुर्थकण्डिकावत्) व्याख्येयम् ॥
तदिदमग्निरसद्वयम् एकं सत् त्रेधा अर्क्यादिनामत्रयेणाम्नायते- स एष संवत्सरः प्रजापतिरग्निरित्यादिना अधियज्ञं प्रजापतिसौम्याध्वरयोर्द्वन्द्वस्य, अधिदैवम् आदित्यचन्द्रद्वयस्य, अध्यात्मम् प्राणान्नद्वयस्य च अग्न्यादिनामत्रयभाक्त्वं प्रदर्श्यते । ‘स एषः’ प्रजापतिरूपो ऽग्निः ‘संवत्सरः’ सप्तदशावयव इत्यर्थः । अग्नेस्तावदवयवत्वमाह- तस्यार्द्धमिति । आदौ “युञ्जानः प्रथमं मनः” (वा. सं. ११ । १-८ ।) इत्यादिभिर्यजुरष्टमाभिर्ऋग्भिः क्रियमाणानि ‘सावित्राण्यष्टौ’ तदेकमग्नेरर्द्धम् । ‘वैश्वकर्मणानि’ षोडशगृहीतस्यार्द्धेन “य इमा विश्वा भुवनानि” (वा. सं. १७-। १७-२४) इत्यष्टभिर्ऋग्भिरेकाहुतिः । अवशिष्टेनार्द्धेन “चक्षुषः पिता मनसा” (वा. सं. १७ । २५-३२ ।) इत्यष्टभिरपरा । अतो ऽष्टशो गृहीतत्वादष्टावेव वैश्वकर्मणानि । तदपरमद्धर्म्, एवं षोडश सम्पद्यन्ते । तयोः सावित्रवैश्वकर्मणहोमयोर्मध्ये उखासम्भरणादि ‘यत्’ ‘कर्म क्रियते’ ‘सः’ एव ‘सप्तदशः’ अग्निः ‘प्रजापतिः’ । तद्धोमद्वयं कलाष्टकद्वयात्मना स्तौति- अष्टावेवास्य कला इति । ‘अस्य’ इति अग्निरूपप्रजापतेरित्यर्थः । यो वै कलेत्यस्यायमर्थः- ‘मनुष्याणां’ या ‘कला’ इति व्यवहृता सैव ‘देवानाम्’ मते अक्षरमित्युच्यते । षोडशकलः पुरुष इति मनुष्यसंकेते देवैः षोडशाक्षरः पुरुष इति व्यवह्रियते ॥ १५ ॥ १६ ॥
Eggeling
- Now that Arka (flame) is this very fire-altar
built here; and the Kya is this his food, to wit, the Mahāvratīya-graha: that (combined) makes the Arkya in respect of the Yajus. And the Great one (mahān) is this (Agni), and this rite (vrata) is his food: that makes the Mahāvrata in respect of the Sāman. And ‘uk’ is this (Agni), and ’tha’ his food: that makes the (Mahad) Uktha in respect of the R̥k. Thus, whilst being only one, this is accounted threefold.
१६
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ संव्वत्सरः᳘ प्राजा᳘पतिरग्निः[[!!]]॥
(स्त᳘) त᳘स्यार्ध᳘मेव᳘ सावित्रा᳘ण्यर्धं᳘ व्वैश्वकर्मणा᳘न्यष्टा᳘वे᳘वास्य कलाः᳘ सावित्रा᳘ण्यष्टौ᳘ व्वैश्वकर्मणान्य᳘थ य᳘देतद᳘न्तरेण क᳘र्म क्रिय᳘ते स᳘ ऽएव᳘ सप्तदशः᳘ प्रजा᳘पतिर्यो[[!!]] वै᳘ कला᳘ मनुष्याणामक्ष᳘रं[[!!]] त᳘द्देवा᳘नाम्॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ संव्वत्सरः᳘ प्राजा᳘पतिरग्निः[[!!]]॥
(स्त᳘) त᳘स्यार्ध᳘मेव᳘ सावित्रा᳘ण्यर्धं᳘ व्वैश्वकर्मणा᳘न्यष्टा᳘वे᳘वास्य कलाः᳘ सावित्रा᳘ण्यष्टौ᳘ व्वैश्वकर्मणान्य᳘थ य᳘देतद᳘न्तरेण क᳘र्म क्रिय᳘ते स᳘ ऽएव᳘ सप्तदशः᳘ प्रजा᳘पतिर्यो[[!!]] वै᳘ कला᳘ मनुष्याणामक्ष᳘रं[[!!]] त᳘द्देवा᳘नाम्॥
मूलम् - Weber
स᳘ एष᳘ संवत्सरः᳘ प्राजा᳘पतिरग्निः᳟॥
त᳘स्यार्ध᳘मेव᳘ सावित्रा᳘ण्यर्धं᳘ वैश्वकर्मणा᳘न्यष्टा᳘वेॗवास्य कलाः᳘ सावित्रा᳘ण्यष्टौ᳘ वैश्वकर्मणान्य᳘थ य᳘देतद᳘न्तरेण क᳘र्म क्रिय᳘ते स᳘ एव᳘ सप्तदशः᳘ प्रजा᳘पतिॗर्यो वै᳘ 15 कला᳘ मनुॗष्याणामक्ष᳘रं त᳘द्देवा᳘नाम्॥
मूलम् - विस्वरम्
स एष संवत्सरः प्रजापतिरग्निः । तस्यार्धमेव सावित्राणि- अर्धं वैश्वकर्मणानि । अष्टावेवास्य कलाः सावित्राणि- अष्टौ वैश्वकर्मणानि । अथ यदेतदन्तरेण कर्म क्रियते- स एव सप्तदशः प्रजापतिः । या- उ वै कला मनुष्याणाम्- अक्षरं तद्देवानाम् ॥ १६ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- And this Agni is Prajāpati, the year 16: the Sāvitra (oblations) are one half thereof, and the Vaiśva-karmaṇa (oblations) 17 the (other) half; the Sāvitra are eight digits (kalā 18) thereof, and the Vaiśvakarmaṇa (the other) eight; and that which is performed between them is the seventeenfold Prajāpati. Now what a digit is to men that a syllable (akshara) is to the gods.
१७
विश्वास-प्रस्तुतिः
(न्त) तद्वै लोमे᳘ति द्वे᳘ ऽअक्ष᳘रे॥
त्वगि᳘ति द्वे ऽअ᳘सृगि᳘ति द्वे मे᳘द ऽइ᳘ति द्वे᳘ माᳫँ᳭समि᳘ति द्वे᳘ स्नावे᳘ति द्वे᳘ ऽअस्थी᳘ति द्वे᳘ मज्जे᳘ति द्वे ताः षो᳘डश कला ऽअ᳘थ य᳘ ऽएतद᳘न्तरेण प्राणः᳘ संच᳘रति स᳘ ऽएव᳘ सप्तदशः᳘ प्रजा᳘पतिः॥
मूलम् - श्रीधरादि
(न्त) तद्वै लोमे᳘ति द्वे᳘ ऽअक्ष᳘रे॥
त्वगि᳘ति द्वे ऽअ᳘सृगि᳘ति द्वे मे᳘द ऽइ᳘ति द्वे᳘ माᳫँ᳭समि᳘ति द्वे᳘ स्नावे᳘ति द्वे᳘ ऽअस्थी᳘ति द्वे᳘ मज्जे᳘ति द्वे ताः षो᳘डश कला ऽअ᳘थ य᳘ ऽएतद᳘न्तरेण प्राणः᳘ संच᳘रति स᳘ ऽएव᳘ सप्तदशः᳘ प्रजा᳘पतिः॥
मूलम् - Weber
तद्वै लोमे᳘ति द्वे᳘ अक्ष᳘रे॥
त्वगि᳘ति द्वे अ᳘सृगि᳘ति द्वे मे᳘द इ᳘ति द्वे᳘ मांसमि᳘ति द्वे᳘ स्नावे᳘ति द्वे अस्थी᳘ति द्वे᳘ मज्जे᳘ति द्वे ताः षो᳘डश कला अ᳘थ य᳘ एतद᳘न्तरेण प्राणः᳘ संच᳘रति स᳘ एव᳘ सप्तदशः᳘ प्रजा᳘पतिः॥
मूलम् - विस्वरम्
तद्वै लोम- इति द्वे अक्षरे । त्वग्- इति द्वे । असृग्- इति द्वे । मेदः- इति द्वे । मांसम्- इति द्वे । स्नाव- इति द्वे । अस्थि- इति द्वे । मज्जा- इति द्वे । ताः षोडश कलाः । अथ य एतदन्तरेण प्राणः सञ्चरति । स एव सप्तदशः प्रजापतिः ॥ १७ ॥
सायणः
तान्येवाक्षराणि शरीरे दर्शयति- तद्वै लोमेति द्वे अक्षरे इत्यादि । कलानामधेयानि लोमत्वगसृङ्मेदोमांसस्नावास्थिमज्जगतानि षोडशाक्षराणि शरीरे विद्यन्ते । तदंतरेण यत्कर्म श्वासप्रश्वासादिका क्रिया क्रियते स एव सप्तदशः प्रजापतिरग्निरित्यर्थः ॥ १७ ॥
Eggeling
१८
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्मा ऽएत᳘स्मै प्राणा᳘य॥
(यै) एताः षो᳘डश कला ऽअ᳘न्नमभि᳘हरन्ति ता᳘ यदा᳘ ऽनभिहर्तुं ध्रियन्ते᳘ ऽथैता᳘ ऽएव᳘ जग्ध्वो᳘त्क्रामति त᳘स्मादु हैतद᳘शिशिषतस्तृप्त᳘मिव भवति प्राणै᳘रद्य᳘मानस्य त᳘स्मादु हैत᳘दुपतापी᳘ कृश᳘ ऽइव भवति प्राणैर्हि᳘ जग्धो भ᳘वति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्मा ऽएत᳘स्मै प्राणा᳘य॥
(यै) एताः षो᳘डश कला ऽअ᳘न्नमभि᳘हरन्ति ता᳘ यदा᳘ ऽनभिहर्तुं 21 ध्रियन्ते᳘ ऽथैता᳘ ऽएव᳘ जग्ध्वो᳘त्क्रामति त᳘स्मादु हैतद᳘शिशिषतस्तृप्त᳘मिव भवति प्राणै᳘रद्य᳘मानस्य त᳘स्मादु हैत᳘दुपतापी᳘ कृश᳘ ऽइव भवति प्राणैर्हि᳘ जग्धो भ᳘वति॥
मूलम् - Weber
त᳘स्मा एत᳘स्मै प्राणा᳘य॥
एताः षो᳘डश कला अ᳘न्नमभि᳘हरन्ति ता᳘ यदा᳘नभिहर्तुं ध्रियन्ते᳘ऽथैता᳘ 22 एव᳘ जग्ध्वो᳘त्क्रामति त᳘स्मादु हैतद᳘शिशिषतस्तृप्र᳘मिव भवति प्राणै᳘रद्य᳘मानस्य त᳘स्मादु हैत᳘दुपतापी᳘ कृश᳘-इव भवति प्राणैर्हि᳘ जग्धो भ᳘वति॥
मूलम् - विस्वरम्
तस्मा एतस्मै प्राणायैताः षोडश कला अन्नमभिहरन्ति । ता यदा ऽनभिहर्तुं ध्रियन्ते- अथैता एव जग्ध्वोत्क्रामति । तस्मादु हैतदशिशिषतस्तृप्तमिव भवति- प्राणैरद्यमानस्य । तस्मादु हैतदुपतापी कृश इव भवति । प्रणैर्हि जग्धो भवति ॥ १८ ॥
सायणः
तस्मा एतस्मै प्राणाय- इत्यादेरयमर्थः- ‘तस्मै’ पुरुषशरीरमध्यवर्तिने पञ्चवृत्त्यात्मकप्राणाय ‘एताः’ उक्ताः ‘षोडश कलाः’ ‘अन्नमभिहरन्ति’ अर्प्पयन्ति । यदा ताः कला अन्नमभिहर्तुं ‘न’ ‘ध्रियन्ते’ न समर्थाः तदा प्राण एताः कलाः ‘जग्ध्वा’ भक्षयित्वा ‘उत्क्रामति’ देहान्निर्गच्छति । ‘तस्मात्’ लोके ‘अशिशिषतः’ अशितुं भोक्तुमिच्छतः क्षुधितस्य ‘प्राणैरद्यमानस्य’ पुरुषस्य ‘तृप्तमिव’ संतप्तमिव भवति । “तृप तृप्तौ संदीपने इत्येके” (धा. पा. चु. २८६) इति धातुः । बुभुक्षितशरीरे धातुसंक्षयेण सदा व्यग्रता दृश्यत इत्यर्थः । यतः प्राणैरद्यते तस्माल्लोके ‘उपतापी’ ज्वरार्दितः कृशो भवति ॥ १८ ॥
Eggeling
- These sixteen digits convey the food to that vital air; and when they take to conveying no food to it, then it consumes them and departs (from the body): hence he who is hungry here, feels very
restless, consumed as he is by his vital airs; and hence he who suffers from fever becomes very thin, for he is consumed by his vital airs.
१९
विश्वास-प्रस्तुतिः
त᳘स्मा ऽएत᳘स्मै सप्तदशा᳘य प्रजा᳘पतये॥
(य ऽ) एत᳘त्सप्तदशम᳘न्नᳫँ᳭ स᳘मस्कुर्व्वन्य᳘ ऽएष᳘ सौ᳘म्यो ऽध्वरो᳘ ऽथ या᳘ ऽअस्य ताः षो᳘डश कला᳘ ऽएते ते षो᳘डश ऽर्त्वि᳘जस्त᳘स्मान्न᳘ सप्तदश᳘मृत्वि᳘जं कुर्व्वीत ने᳘दतिरेच᳘यानीत्य᳘थ य᳘ ऽएवा᳘त्र र᳘सो या ऽआ᳘हुतयो हूय᳘न्ते त᳘देव᳘ सप्तदशम᳘न्नम्॥
मूलम् - श्रीधरादि
त᳘स्मा ऽएत᳘स्मै सप्तदशा᳘य प्रजा᳘पतये॥
(य ऽ) एत᳘त्सप्तदशम᳘न्नᳫँ᳭ स᳘मस्कुर्व्वन्य᳘ ऽएष᳘ सौ᳘म्यो ऽध्वरो᳘ ऽथ या᳘ ऽअस्य ताः षो᳘डश कला᳘ ऽएते ते षो᳘डश ऽर्त्वि᳘जस्त᳘स्मान्न᳘ सप्तदश᳘मृत्वि᳘जं कुर्व्वीत ने᳘दतिरेच᳘यानीत्य᳘थ य᳘ ऽएवा᳘त्र र᳘सो या ऽआ᳘हुतयो हूय᳘न्ते त᳘देव᳘ सप्तदशम᳘न्नम्॥
मूलम् - Weber
त᳘स्मा एत᳘स्मै सप्तदशा᳘य प्रजा᳘पतये॥
एत᳘त्सप्तदशम᳘न्नᳫं स᳘मस्कुर्वन्य᳘ 23 एष᳘ सौॗम्योऽध्वरो᳘ऽथ या᳘ अस्य ताः षो᳘डश कला᳘ एते ते षो᳘डशर्त्वि᳘जस्त᳘स्मान्न᳘ सप्तदश᳘मृत्वि᳘जं कुर्वीत ने᳘दतिरेच᳘यानीत्य᳘थ य᳘ एवा᳘त्र र᳘सो या आ᳘हुतयो हूय᳘न्ते त᳘देव᳘ सप्तदशम᳘न्नम्॥
मूलम् - विस्वरम्
तस्मा एतस्मै सप्तदशाय प्रजापतय एतत्सप्तदशमन्नं समस्कुर्वन् । य एष सौम्यो ऽध्वरः । अथ या अस्य ताः षोडश कलाः- एते ते षोडशर्त्विजः । तस्मान्न सप्तदशमृत्विजं कुर्वीत- नेदतिरेचयानीति । अथ य एवात्र रसः, या आहुतयो हूयन्ते- तदेव सप्तदशमन्नम् ॥ १९ ॥
सायणः
अथ अग्न्यात्मकस्य प्रजापतेर्भोक्तुः सप्तदशात्मकत्वमुक्तं तद्भोग्यस्याप्यन्नस्य तत्संख्योपेततामाह- तस्मा एतस्मै सप्तदशाय प्रजापतय इति । षोडशर्त्विज अध्वर्यूद्गातृहोतृब्रह्माण उत्तरोत्तरपुरुषत्रयसमेताः । एवं यज्ञस्य ‘षोडश कलाः’ ‘ऋत्विजां’ षोडशकलारूपत्वोक्तेः तेभ्यो ऽन्यः सप्तदश ऋत्विक् न कर्तव्य इत्यर्थः । सप्तदशसंख्यापूरकस्तु सोमरसपुरोडाशाज्याहुत्यात्मकस्तदेवात्र ‘सप्तदशम्’ अन्नम् ॥ १९ ॥
Eggeling
- Now for that seventeenfold Prajāpati they prepared this seventeenfold food, the Soma-sacrifice: those sixteen digits of his are these sixteen officiating priests,–one should not, therefore, take a seventeenth priest 24 lest one should do what is excessive;–and what vital sap there is here–the oblations that are offered–that is the seventeenfold food.
२०
विश्वास-प्रस्तुतिः
(न्ते᳘) ते᳘ यदा᳘ स्तुव᳘ते य᳘दा ऽनुश᳘ᳫँ᳘सति॥
(त्य᳘) अ᳘थास्मिन्नेतं व्व᳘षट्कृते जुहोति व्वौगि᳘ति वा᳘ ऽएष षडि᳘तीदᳫँ᳭ ष᳘ड्विधम᳘न्नं कृ᳘त्वा ऽस्मा ऽअ᳘पिदधात्यात्म᳘संमितं य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति᳘ यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - श्रीधरादि
(न्ते᳘) ते᳘ यदा᳘ स्तुव᳘ते य᳘दा ऽनुश᳘ᳫँ᳘सति॥
(त्य᳘) अ᳘थास्मिन्नेतं व्व᳘षट्कृते जुहोति व्वौगि᳘ति वा᳘ ऽएष षडि᳘तीदᳫँ᳭ ष᳘ड्विधम᳘न्नं कृ᳘त्वा ऽस्मा ऽअ᳘पिदधात्यात्म᳘संमितं य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति᳘ यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - Weber
ते᳘ यदा᳘ स्तुव᳘ते यॗदानुश᳘ᳫं᳘सति॥
अ᳘थास्मिन्नेतं व᳘षट्कृते जुहोति वौगि᳘ति वा᳘ एष षडि᳘तीदं ष᳘ड्विधम᳘न्नं कृॗत्वास्मा अ᳘पिदधात्यात्म᳘सम्मितं य᳘दु वा᳘ आत्म᳘सम्मितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - विस्वरम्
ते यदा स्तुवते, यदा ऽनुशंसति । अथास्मिन्नेतं वषट्कृते जुहोति । वौगिति वा एषः । षडितीदं षड्विधमन्नं कृत्वा ऽस्मा अपिदधात्यात्मसंमितम् । यदु वा आत्मसंमितमन्नम्- तदवति । तन्न हिनस्ति । यद्भूयो हिनस्ति तत् । यत्कनीयो न तदवति ॥ २० ॥
सायणः
यथा पूर्वं देवाः सप्तदशाय प्रजापतये संस्कृतवन्तस्तथा ऽयमध्वर्युः स्तोत्रशस्त्रान्ते अस्मिन्नग्नौ एतं सोमरसादिकं वषट्कृते जुहोति । तत्र वौषडित्यक्षरद्वयस्य अग्न्यन्नरूपतां दर्शयति- वौगिति वा एष इति । पूर्ववद् व्याख्येयम् ॥ २० ॥
Eggeling
- And when they chant the hymn, and when he (the Hotr̥) afterwards recites (the śastra), he (the Adhvaryu) offers to him that food as the Vashaṭ-call is uttered. Now ‘vauk’ is this (Agni), and shaṭ’ this sixfold food: having prepared it, he offers it to him as proportionate to his body; for food which is proportionate to the body satisfies, and does not injure it; but when there is too much it does injure it, and when there is too little, it does not satisfy it.
२१
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ ऽए᳘वार्कः᳘॥
(र्को᳘) यो ऽय᳘मग्नि᳘श्चितस्त᳘स्यैतद᳘न्नं᳘ क्यमेष᳘[[!!]] सौ᳘म्यो ऽध्वरस्त᳘द᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘ᳫँ᳘ सामत᳘ ऽएष᳘ ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते स᳘ ऽएतेना᳘न्नेन स᳘होर्ध्व ऽउ᳘दक्रामत्स यः स᳘ ऽउद᳘क्रामदसौ स᳘ ऽआदित्यो᳘ ऽथ ये᳘न तेना᳘न्नेन स᳘होद᳘क्रामदेष स᳘ चन्द्र᳘माः॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ ऽए᳘वार्कः᳘॥
(र्को᳘) यो ऽय᳘मग्नि᳘श्चितस्त᳘स्यैतद᳘न्नं᳘ क्यमेष᳘[[!!]] सौ᳘म्यो ऽध्वरस्त᳘द᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘ᳫँ᳘ सामत᳘ ऽएष᳘ ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते स᳘ ऽएतेना᳘न्नेन स᳘होर्ध्व ऽउ᳘दक्रामत्स यः स᳘ ऽउद᳘क्रामदसौ स᳘ ऽआदित्यो᳘ ऽथ ये᳘न तेना᳘न्नेन स᳘होद᳘क्रामदेष स᳘ चन्द्र᳘माः॥
मूलम् - Weber
स᳘ एष᳘ एॗवार्कः᳟᳟॥
योऽय᳘मग्नि᳘श्चितस्त᳘स्यैतद᳘न्नं क्य᳘मेष᳘ सौॗम्योऽध्वरस्त᳘दर्क्यं᳘ यजुष्ट᳘ एष᳘ एव᳘ महांस्त᳘स्यैतद᳘न्नं व्रतं त᳘न्महाव्रत᳘ᳫं᳘ सामत᳘ एष᳘ उ एवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫं सत्त्रेधा᳘ख्यायते स᳘ एतेना᳘न्नेन सॗहोर्ध्व उ᳘दक्रामत्स यः स᳘ उद᳘क्रामदसौ स᳘ आदित्यो᳘ऽथ ये᳘न तेना᳘न्नेन सॗहोद᳘क्रामदेष स᳘ चन्द्र᳘माः॥
मूलम् - विस्वरम्
स एष एवार्कः- यो ऽयमग्निश्चितः । तस्यैतदन्नं क्यम् । एष सौम्यो ऽध्वरः । तदयै- यजुष्टः । एष एव महान- तस्यैतदन्नं व्रतम् । तन्महाव्रतम्- सामतः । एष उ एवोक्तस्यैतदन्नं थं तदुक्थम् ऋक्तः । तदेतदेकं सत् त्रेधा ऽ ऽख्यायते । स एतेनान्नेन सहोर्ध्व उदक्रामत् । स यः स उदक्रामत्- असौ स आदित्यः । अथ येन तेनान्नेन सहोदकामदेष स चन्द्रमाः ॥ २१ ॥
सायणः
स एष एवार्को यो ऽयमग्निश्चितः- इत्यादिना- त्रेधा ऽख्यायते- इत्यन्तेनार्क्यादिनामत्रयोक्तिः । अत्र सौम्यो ऽध्वरः क्यमिति पदेनोच्यत इति विशेषः । अग्न्यन्नयोरधिदैवमादित्यचन्द्रार्थपरतामाह- स एतेनान्नेन सहोर्ध्व उदक्रामदिति । ‘सः’ अग्निः प्रजापतिः ‘एतेन’ हुतेन सप्तदशेन ‘अन्नेन’ ‘सह’ ‘ऊर्ध्वम्’ उद्गतः । तत्राग्निः प्रजापतिरादित्यात्मना जातः । अन्नं चन्द्रमसो रूपम् ॥ २१ ॥
Eggeling
- Now that Arka (flame) is this very fire-altar built here; and the Kya is this his food, to wit, the Soma-sacrifice: that (combined) makes the Arkya in respect of the Yajus. And the Great one (mahān) is this (Agni), and this rite (vrata) is his food: that makes the Mahāvrata in respect of the Sāman. And ‘uk’ is this (Agni), and ’tha’ his food: that makes the (Mahad) Uktha in respect of the R̥k. Thus, whilst being only one, this is accounted threefold. With this food he went upwards; and he who
went upwards is yonder sun, and that food wherewith he went up is that moon.
२२
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ ऽए᳘वार्को य᳘ ऽएष त᳘पति॥
त᳘स्यैतद᳘न्नं᳘ क्यमेष᳘[[!!]] चन्द्र᳘मास्त᳘द᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘ᳫँ᳘ सामत᳘ ऽएष ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायत ऽइ᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ ऽए᳘वार्को य᳘ ऽएष त᳘पति॥
त᳘स्यैतद᳘न्नं᳘ क्यमेष᳘[[!!]] चन्द्र᳘मास्त᳘द᳘र्क्यं[[!!]] यजुष्ट᳘ ऽएष᳘ ऽएव᳘ महांस्त᳘स्यैतद᳘न्नं व्व्रतं त᳘न्महाव्व्रत᳘ᳫँ᳘ सामत᳘ ऽएष ऽउ ऽएवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायत ऽइ᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
स᳘ एष᳘ एॗवार्को य᳘ एष त᳘पति॥
त᳘स्यैतद᳘न्नं क्य᳘मेष᳘ चन्द्र᳘मास्त᳘दर्क्यं᳘ यजुष्ट᳘ एष᳘ एव᳘ महांस्त᳘स्यैतद᳘न्नं व्रतं त᳘न्महाव्रत᳘ᳫं᳘ सामत᳘ एष उ एवोक्त᳘स्यैतद᳘न्नं थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫं स᳘त्त्रेधा᳘ख्यायत इ᳘त्यधिदेवत᳘म्॥
मूलम् - विस्वरम्
स एष एवार्को य एष तपति । तस्यैतदन्नं क्यम्- एष चन्द्रमाः । तदर्क्यं यजुष्टः । एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामतः । एष उ एवोक् । तस्यैतदन्नं थम्- तदुक्थम् । ऋक्तः । तदेतदेकं सत् त्रेधा ऽऽख्यायत इत्यधिदेवतम् ॥ २२ ॥
सायणः
अत्रापि अर्क्यादिनामत्रयं योजयति- स एष एवार्क इति । अत्रार्कशब्दो मुख्य इत्याह- य एष तपतीति । तस्य ‘चन्द्रमाः’ ‘अन्नम्’ ‘क्यम्’ इत्युच्यते । एवमादित्यचन्द्रमसोर्युगलं अर्क्यादिनामभिर्वेदत्रयसिद्धैर्व्यवह्रियत ‘इत्यधिदेवतम्’ अर्थः ॥ २२ ॥
Eggeling
- He who shines yonder is indeed that Arka (flame), and that moon is his food, the Kya: that (combined) makes the Arkya in respect of the Yajus. And the Great one (mahān) is this (Agni), and this rite (vrata) is his food: that makes the Mahāvrata in respect of the Sāman. And ‘uk’ is this (Agni), and ’tha’ his food: that makes the (Mahad) Uktha in respect of the R̥k. Thus, whilst being only one, this is accounted threefold. Thus much as to the deity.
२३
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा᳘ ऽअर्कस्तस्या᳘न्नमेव क्यं[[!!]] त᳘द᳘र्क्यं[[!!]] यजुष्टः᳘ प्राण᳘ ऽएव᳘ महांस्तस्या᳘न्नमेव᳘ व्व्रतं त᳘न्महाव्रत᳘ᳫँ᳘ सामतः᳘ प्राण᳘ ऽउ ऽएवोक्तस्या᳘न्नमेव थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते स᳘ ऽएष᳘ ऽए᳘वै᳘षो ऽधिदेवत᳘मय᳘मध्यात्मम्[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राणो वा᳘ ऽअर्कस्तस्या᳘न्नमेव क्यं[[!!]] त᳘द᳘र्क्यं[[!!]] यजुष्टः᳘ प्राण᳘ ऽएव᳘ महांस्तस्या᳘न्नमेव᳘ व्व्रतं त᳘न्महाव्रत᳘ᳫँ᳘ सामतः᳘ प्राण᳘ ऽउ ऽएवोक्तस्या᳘न्नमेव थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫँ᳭ स᳘त्त्रेधा᳘ ऽऽख्यायते स᳘ ऽएष᳘ ऽए᳘वै᳘षो ऽधिदेवत᳘मय᳘मध्यात्मम्[[!!]]॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
प्राणो वा᳘ अर्कस्तस्या᳘न्नमेव क्यं᳘ त᳘दर्क्यं᳘ यजुष्टः᳘ प्राण᳘ एव᳘ माहांस्तस्या᳘न्नमेव᳘ व्रतं त᳘न्महाव्रत᳘ᳫं᳘ सामतः᳘ प्राण᳘ उ एवोक्तस्या᳘न्नमेव थं त᳘दुक्थ᳘मृक्तस्त᳘देतदे᳘कᳫं स᳘त्त्रेधा᳘ख्यायते स᳘ एष᳘ एॗवैॗषोऽधिदेवत᳘मय᳘मध्यात्म᳘म्॥
मूलम् - विस्वरम्
अथाध्यात्मम्- प्राणो वा अर्कस्तस्यान्नमेव क्यं तदर्क्यं यजुष्टः । प्राण एव महान्- तस्यान्नमेव व्रतं तन्महाव्रतं सामतः । प्राण उ एवोक्- तस्यान्नमेव थं तदुक्थं ऋक्तः । तदेकं सत् त्रेधा ऽऽख्यायते । स एष एवैषो ऽधिदेवतमयमध्यात्मम् ॥ २३ ॥
सायणः
अध्यात्ममप्यर्कक्ययोरर्थमाह- अथाध्यात्मं प्राणो वा अर्क इति । प्राण एवार्कशब्देनोच्यते । अत्र मुख्यमन्नं क्यमित्युच्यते । अस्य प्राणान्नयुगलस्यार्क्यादिनामव्यपदेश्यत्वमित्यध्यात्मम् । अधिदैवाध्यात्मद्वयेन समुदितमर्थमुपसंहरति- स एष एवैषो ऽधिदेवतमिति । एष सन्तापक आदित्यो ऽधिदेवतम् । अयं प्राणो ऽध्यात्ममित्यर्थः ॥ २३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे चतुर्थे ऽध्याये प्रथमं ब्राह्मणम् ॥ (१०-४-१) ॥
Eggeling
- Now as to the body. The Arka (flame), doubtless, is the breath (vital air), and the Kya is its food: that makes the Arkya in respect of the Yajus. And the Great one (mahān) is this (Agni), and this rite (vrata) is his food: that makes the Mahāvrata in respect of the Sāman. And ‘uk’ is this (Agni), and ’tha’ his food: that makes the (Mahad) Uktha in respect of the R̥k. Thus, whilst being only one, this is accounted threefold. And, indeed, that (Agni) is that (sun) as to the deity, and this (breath) as to the body.
-
341:2 See IX, 2, 3, 35, where it was stated that the fire should be laid down with the Vashaṭ-call (‘vaushaṭ!’) uttered after the two verses, Vāj. S. XVII, 72. 73. Here, as at I, 7, 2, 21, the sacrificial call, ‘vaushaṭ’–for ‘vashaṭ,’ apparently an irregular subjunctive aorist of ‘vah’: ‘may he bear (the oblation to the gods)!’–is fancifully explained as composed of ‘vauk’ (i.e. vāk, speech), and ‘shaṭ,’ six. ↩︎
-
342:2 That is, what relates to the Arka (the Fire, or Agnicayana). ↩︎
-
342:3 That is, here, the Mahad uktham, or Great Recitation of the Mahāvrata day. ↩︎
-
342:4 Perhaps with the implied sense of ‘fast-food,’ ‘fast-milk,’ the milk taken by the Sacrificer during the initiation as his only food. ↩︎
-
श. प. ७ । १ । २ । अत्र निर्बाधशब्दार्थः स्पष्टः । “यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविंशतिपिण्डम्” का. श्रौ. सू. १६ । १४६ । इति । ↩︎
-
342:5 For the gold plate worn by the Sacrificer whilst carrying about the Ukhya Agni, and ultimately deposited on the lotus-leaf in the centre of the altar-site before the first layer is laid down, see VI, 7, I, 1 seq.; VII, 4, 1, 10 seq. For the gold man placed on the gold plate, VII, 4, 1, 15 seq. Whilst the gold man was indeed identified with Agni-Prajāpati, as well as with the Sacrificer, the gold plate was taken throughout as representing the sun. ↩︎
-
343:1 According to Sāyaṇa, this one brick is the syllable (‘akshara,’ which also means ’the imperishable, indestructible’) ‘vauk’ contained in the ‘Vaushaṭ,’ uttered when the sacred fire is placed on the newly-built altar. ↩︎
-
344:1 Aksharam avinaśvaraṁ sarvagataṁ vā brahma saccidānandaikarasam. Sāyaṇa. ↩︎
-
344:2 Or, perhaps–but since so much of my work has been completed, my race will thereby surpass the Salvas. Cf. Delbrück, Altind. Syntax, p. 266. ↩︎
-
344:3 Sāyaṇa takes this as intended to explain the ‘in both’ ways’ of the quotation, viz. in regard to ‘śrī’ (social distinction) on the one hand, and to ‘yaśas’ (fame) and food (material prosperity) on the other. There is, however, nothing in the text to favour any such grouping of the distinctive objects of aspiration associated with the three classes (varṇatrayātmakatvam upajivya karmaṇaḥ, śrīyaśonnādalakshaṇaṁ phalam. Sāyaṇa), or with men generally (cf. Aitareyār. I, 4, 2, 10). Perhaps it means both in an intellectual and material point of view. The Syāparṇas seem to have been a rather self-assertive family of priests. The Aitareya Brāhmaṇa tells the following story about them (VII, 27):–Viśvantara Saushadmana, setting aside the Śyāparṇas, got up a sacrifice without them. The Syāparṇas, becoming aware of this, came to the sacrifice and sat them down inside the sacrificial ground. On seeing them, Viśvantara said, ‘There sit those doers of evil deeds, those speakers of foul language, the Syāparṇas: turn them out let them not sit inside my sacrificial ground!’–‘So be it!’ they said, and turned them out. In being turned out, they cried aloud, ‘At a sacrifice of Janamejaya, son of Parikshit, performed without the Kaśyapas, the Asitamr̥gas from amongst the Kaśyapas won the Soma-drink from the Bhūtavīras (who were officiating). In them they had heroic men on their side: what hero is there amongst us who will win that Soma-drink?’–‘Here is that hero of yours,’ said Rāma Mārgaveya. Rāma Mārgaveya was a Śyāparṇīya, learned in sacred lore. When they rose to leave, he said, ‘O king, will they turn out of the sacrificial ground even one so learned as me?’–‘Whoever thou art, what knowest thou, vile Brāhman?’–‘When the gods turned Indra away because he had outraged Tvashṭr̥’s son Viśvarūpa, and laid low Vr̥tra, and thrown devotees before the jackals, and slain the Arurmaghas, and retorted on Br̥haspati (the teacher of the gods)–then Indra was deprived of the Soma-cup; and along with him the Kshatriyas were deprived of the Soma-cup. By stealing the Soma from Tvashṭr̥, Indra obtained a share in the Soma-cup, but to this day the Kshatriyas are deprived of the Soma-cup: how can they turn out from the sacrificial ground one who knows how the Kshatriya race can be put in possession of the Soma-cup from which they are deprived?’–‘Knowest thou (how to procure) that drink, O Brāhman?’–‘I know it indeed.’–‘Tell us then, O Brahman?’–‘To thee, O king, I will tell it,’ he said. Ultimately the Śyāparṇas are reinstated in their sacrificial duties. Cf. R. Roth, Zur Litteratur and Geschichte des Weda, p. 118. At VI, 2, I, 39, Syāparṇa Sāyakāyana was stated to have been the last who was in the habit of immolating five victims instead of two, as became afterwards the custom. ↩︎
-
345:1 In the succession of teachers of the doctrine of the fire-altar, given at the end of the present Kāṇḍa, Vāmakakshāyaṇa is said to have received his instruction from Vātsya, and the latter from Śāṇḍilya, who, in his turn, received it from Kuśri. Cf. Weber, Ind. Stud. I, p. 259. ↩︎
-
346:1 Viz. the Mahad uktham (see p. 110, note 3), preceded by the chanting of the Mahāvrata-sāman (see p. 362, note 5) . ↩︎
-
346:2 That is, according as it is flavoured by the six different ‘rasas’ (flavours or tastes)–sweet (madhura), sour (amla), salt (lavaṇa), pungent (kaṭuka), bitter (tikta), and astringent (kashāya). Thus according to Sāyaṇa; but see also paragraph 3, where the sixfold nature of the food is identified with the six-layered altar. Perhaps both explanations are intended to apply. ↩︎
-
प्रजा᳘पतिर्येी वै᳘ A. ↩︎
-
347:1 Or, perhaps, this Prajāpati-Agni is the year. ↩︎
-
347:2 For these two sets of formulas and oblations, see IX, 5, 1, 43 and note. ↩︎
-
347:3 A ‘kalā’ is the sixteenth part of the moon’s diameter, and then a sixteenth part generally. ↩︎
-
347:4 Pronounce ’tu-ak.’ ↩︎
-
347:5 For five of these parts of the body, see X, 1, 3, 4. ↩︎
-
अत्र “यदा नाभिहर्तुम्” इति पाठः साधीयान्प्रतिभाति । ↩︎
-
आहर्तुं न ध्रियन्ते Sây. ↩︎
-
एतत्सप्तदशमन्न सम - here B1. ends. ↩︎
-
348:1 This prohibition is probably directed against the Kaushītakins, who recognise a seventeenth officiating priest, the Sadasya, who seems to have taken no other part in the sacrificial performance except sitting in the Sadas as the permanent custodian thereof. ↩︎