०१

विश्वास-प्रस्तुतिः

अयं वाव य᳘जु᳘र्यो ऽयं प᳘वते॥
(त ऽ) एष हि य᳘न्ने᳘वेदᳫँ᳭ स᳘र्व्वं जन᳘यत्येतं य᳘न्तमिदम᳘नु प्र᳘जायते त᳘स्माद्वायु᳘रेव य᳘जुः॥

मूलम् - श्रीधरादि

अयं वाव य᳘जु᳘र्यो ऽयं प᳘वते॥
(त ऽ) एष हि य᳘न्ने᳘वेदᳫँ᳭ स᳘र्व्वं जन᳘यत्येतं य᳘न्तमिदम᳘नु प्र᳘जायते त᳘स्माद्वायु᳘रेव य᳘जुः॥

मूलम् - Weber

अयं वाव य᳘जुॗर्योऽयम् प᳘वते॥
एष हि य᳘न्नेॗवेदᳫं स᳘र्वं जन᳘यत्येतं य᳘न्तमिदम᳘नु प्र᳘जायते त᳘स्माद्वायु᳘रेव य᳘जुः॥

मूलम् - विस्वरम्

अयं वाव यजुः 1- यो ऽयं पवते । एष यन्नेवेदं सर्वं जनयति । एतं यन्तमिदमनु प्रजायते तस्माद्वायुरेव यजुः ॥ १ ॥

सायणः

अत्र यजुस्तद्विधायकब्राह्मणयोर्निर्वचनपुरःसरमधिदैवाध्यात्मभेदेनार्थः, मन्त्रब्राह्मणप्रसङ्गादुपनिषदः स्तुतिः, तत्स्वरूपं, तद्विदुषः फलमानन्दावाप्तिः, यजुषाम् उपांश्वनुष्ठानं चेति पञ्चमब्राह्मणप्रतिपादितार्थसंग्रहः । यजुःशब्देन वायुं निर्ब्रुवन् अधिदैवमर्थमाह- अयं वाव यजुर्यो ऽयं पवत इति । ‘यः’ अन्तरिक्षे ‘पवते’ सञ्चरति स हि यजुरात्मकः, यजुरित्यत्र द्वे अक्षरे ‘य’ इति ‘जुः’ इति । एष यन्नेवेदमिति । एष वायुः ‘यन्’ सर्वत्र सञ्चरन् ‘इदम् सर्वं जनयति’ उत्पादयति । ‘एतं यन्तम्’ संचरन्तं वायुमनुलक्ष्य सर्वाः प्रजा उत्पद्यन्ते । एतस्य यजुरात्मकस्य वायोर्ज्येष्ठब्रह्मरूपत्वमुत्तरत्रास्मिन् ब्राह्मणे (कं. १० । १४ ।) वक्ष्यते सूत्रात्मश्रुत्यभिप्रायेण । तस्माद्वायुसञ्चारमनु सर्वजगत उत्पत्तिर्युक्तेत्यर्थः । अत्र वायुः ‘यन्’ जनननिमित्तं चेति यजुःशब्दनिर्वचनं कृतमित्यर्थः ॥ १ ॥

Eggeling
  1. Now, the Yajus, indeed, is he who blows here, for even whilst passing along he (Vāyu, the wind) generates (vivifies) everything here, and after him passing along everything is generated: this is why the Yajus is no other than Vāyu.

०२

विश्वास-प्रस्तुतिः

(र) अय᳘मे᳘वाकाशो जूः[[!!]]॥
(र्य᳘) य᳘दिद᳘मन्त᳘रिक्षमेत᳘ᳫँ᳘[[!!]] ह्याकाशम᳘नु ज᳘वते त᳘देतद्य᳘जुर्व्वायु᳘श्चान्त᳘रिक्षं च य᳘च्च जू᳘श्च त᳘स्माद्य᳘जुरेष᳘ ऽएव य᳘देष ह्ये᳘ति त᳘देतद्य᳘जुर्ऋक्साम᳘योः प्र᳘तिष्ठितमृक्सामे᳘ व्वहतस्त᳘स्मात्समानै᳘रे᳘वाध्वर्युर्ग्र᳘हैः क᳘र्म करो᳘त्यन्या᳘न्यन्यानि स्तुतशस्त्रा᳘णि भवन्ति य᳘था पू᳘र्व्वाभ्याᳫँ᳭ स्यन्त्त्वा᳘ पराभ्यां धाव᳘येत्तादृक्त᳘त्॥

मूलम् - श्रीधरादि

(र) अय᳘मे᳘वाकाशो जूः[[!!]]॥
(र्य᳘) य᳘दिद᳘मन्त᳘रिक्षमेत᳘ᳫँ᳘[[!!]] ह्याकाशम᳘नु ज᳘वते त᳘देतद्य᳘जुर्व्वायु᳘श्चान्त᳘रिक्षं च य᳘च्च जू᳘श्च त᳘स्माद्य᳘जुरेष᳘ ऽएव य᳘देष ह्ये᳘ति त᳘देतद्य᳘जुर्ऋक्साम᳘योः प्र᳘तिष्ठितमृक्सामे᳘ व्वहतस्त᳘स्मात्समानै᳘रे᳘वाध्वर्युर्ग्र᳘हैः क᳘र्म करो᳘त्यन्या᳘न्यन्यानि स्तुतशस्त्रा᳘णि भवन्ति य᳘था पू᳘र्व्वाभ्याᳫँ᳭ स्यन्त्त्वा᳘ पराभ्यां धाव᳘येत्तादृक्त᳘त्॥

मूलम् - Weber

अय᳘मेॗवाकाशो जूः᳟॥
य᳘दिद᳘मन्त᳘रिक्षमेॗतᳫं ह्याकाशम᳘नु ज᳘वते त᳘देतद्य᳘जुर्वायु᳘श्चान्त᳘रिक्षं च य᳘च्च जू᳘श्च त᳘स्माद्य᳘जुरेष᳘ एव य᳘देष ह्ये᳘ति त᳘देतद्य᳘जुरृक्साम᳘योः प्र᳘तिष्ठितमृक्सामे᳘ वहतस्त᳘स्मात्समानै᳘रेॗवाध्वयुर्ग्र᳘हैः क᳘र्म करो᳘त्यन्या᳘न्यन्यानि स्तुतशस्त्राणि भवन्ति य᳘था पू᳘र्वाभ्याᳫं स्यन्त्त्वा᳘पराभ्यां 2 धाव᳘येत्तादृक्त᳘त्॥

मूलम् - विस्वरम्

अयमेवाकाशो जूः- यदिदमन्तरिक्षम् । एतं ह्याकाशमनु जवते । तदेतद्यजुर्वायुश्चान्तरिक्षं 1 च यच्च जूश्च । तस्माद्यजुरेष एव । यदेष ह्येति । तदेतद्यजुर्ऋक्सामयोः प्रतिष्ठितम्- ऋक्सामे वहतः । तस्मात्समानैरेवाध्वर्युर्ग्रहैः कर्म करोति । अन्यान्यन्यानि स्तुतशस्त्राणि भवन्ति । यथा पूर्वाभ्यां स्यन्त्त्वा पराभ्यां धावयेत्- तादृक् तत् ॥ २ ॥

सायणः

एवं प्रथमाक्षरधात्वर्थकथनम् उत्तरस्यार्थतो व्याख्यानं च कृतम् । अथ द्वितीयाक्षरस्य धात्वर्थकथनं पूर्वस्यार्थतो व्याख्यानं चाह- अयमेवाकाशो जूरिति । ‘जूः’ इति सौत्रो धातुर्गत्यर्थ । ‘यदिदं’ प्रतीयमानम् ‘अन्तरिक्षम्’ अस्ति तदेव ‘जूः’ इति पदेनोच्यते । ‘एतमाकाशम्’ अनुलक्ष्य जवते ‘वायुः’ गच्छति । वायुजवयोरधिकरणत्वाद् ‘जूः’ आकाशः । जवतेरधिकरणार्थे क्विप् “क्विब्वचि०”- (पा. सू. कृ. उ० २ । ५७) इति दीर्घत्वम् । उक्तमर्थद्वयमक्षरद्वये योजयित्वा दर्शयति- तदेतद्यजुर्वायुश्चारिक्षमिति । ‘यद्’ इति वायुः, ‘जूः’ इति आकाश उच्यत इत्यर्थः । आधाराधेययोर्वाय्वाकाशयोरभेदोपचारेण वायोरेव यजुःशब्दमाह- तस्माद्यजुरेष एवेति । ‘एष’ वायुः ‘यस्माद्’ अन्तरिक्षे ‘एति’ तस्माद् असौ यजुःशब्दा ऽभिधेय इत्यर्थः । तदेतद्यजुर्ऋक्सामयोः प्रतिष्ठितमित्यादेरयमर्थः । अन्तरिक्षलोको हि द्यावापृथिव्योर्मध्यवर्तीति तयोरधिकरणमुपचर्यते, तयोश्च ऋक्सामरूपत्वम् भूःस्वरिति ऋक्सामसारभूतव्याहृतिद्वयकल्पितत्वात् । तथा ऽन्यत्राम्नायते- “स भूरिति व्याहरत्, स भूमिमसृजत । स भुव इति व्याहरत्, सो ऽन्तरिक्षमसृजत । स स्वरिति व्याहरत्, स दिवमसृजत” इति । अतो यजुर्ऋक्सामयोः प्रतिष्ठितं मध्यस्थितमित्यर्थः । तस्यैव विवरणम्- ऋक्सामे वहत इति । ‘तस्मात्’ आधारयोर्नानारूपतो भेदे ऽपि आधेयस्यैकरूपेण भेदाभावात् ‘अध्वर्युणा’ याजुषेण ‘समानैरेव’ ‘ग्रहैः’ प्रकृतिसोमयागगतैरेवैन्द्रवायवादिभिर्विकृतिकर्म क्रियते । सामगबह्वृचैः स्तुतशस्त्राणि स्तोत्रशस्त्राणि, अन्यान्यन्यानि प्रकृतिगतव्यतिरिक्तानि क्रियन्ते । यथा महाव्रतयज्ञे बृहद्रथन्तरयोर्वैकल्पिकयोः प्राकृतयोः पृष्ठसाम्नोः स्थाने पञ्च सामानि, निष्केवल्यस्थाने महदुक्थमित्युक्तम् । ऋक्सामयोस्तत्र क्रतुषु भिन्नरूपत्वं स्तौति- यथा पूर्वाभ्यां स्यन्त्त्वेति । यथा ‘पूर्वाभ्याम्’ अश्वाभ्यां ‘स्यन्त्वा’ गत्वा श्रान्तौ तौ विमुच्य ‘पराभ्याम्’ अन्याभ्यां ‘धावयेत्’ ‘तादृक् तत्’ तत्रान्यस्यान्यस्य स्तुतशस्त्रस्य करणमित्यर्थः । ‘स्यन्त्वा’ इति “स्यन्द् प्रस्रवणे”- (धा. पा. भ्वा. आ. ७६२) क्त्वाप्रत्यये ऊदित्त्वादिडभावपक्षे रूपं, छान्दसो नकारालोपः ॥ २ ॥

Eggeling
  1. And the course 3 (jūḥ) is this space, to wit, this air 4, for along this space it (the wind) courses; and the Yajus is both the wind and the air–the ‘yat’ and the ‘jūḥ’–whence (the name) Yajus. And the ‘yat’ (that which goes) is this (Adhvaiyu) 5, for when he ‘goes’ on (performing), the R̥c and Sāman carry that Yajus established on the R̥c and Sāman. Hence the Adhvaryu performs his work with the very same Grahas (cups of Soma), (while) there are each time 6 different stotras (chants) and śastras (recitations): it is just as if, after driving with a first pair (of horses), one drives with a second pair.

०३

विश्वास-प्रस्तुतिः

(द) अग्नि᳘रेव᳘ पु᳘रः[[!!]]॥
(रो ऽग्निᳫँ᳭) अग्निᳫँ᳭ हि᳘ पुरस्कृ᳘त्येमाः᳘ प्रजा᳘ ऽउपा᳘सत ऽआदित्य᳘ ऽएव च᳘रणं यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थेदᳫँ᳭ स᳘र्व्वं चरति त᳘देतद्य᳘जुः स᳘पुरश्चरणमधिदेवतम्[[!!]]॥

मूलम् - श्रीधरादि

(द) अग्नि᳘रेव᳘ पु᳘रः[[!!]]॥
(रो ऽग्निᳫँ᳭) अग्निᳫँ᳭ हि᳘ पुरस्कृ᳘त्येमाः᳘ प्रजा᳘ ऽउपा᳘सत ऽआदित्य᳘ ऽएव च᳘रणं यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थेदᳫँ᳭ स᳘र्व्वं चरति त᳘देतद्य᳘जुः स᳘पुरश्चरणमधिदेवतम्[[!!]]॥

मूलम् - Weber

अग्नि᳘रेव᳘ पुरः᳟॥
अग्निᳫं हि᳘ पुरस्कृ᳘त्येमाः᳘ प्रजा᳘ उपा᳘सत आदित्य᳘ एव च᳘रणं यदाॗ ह्येॗवैष᳘ उदेत्य᳘थेदᳫं स᳘र्वं चरति त᳘देतद्य᳘जुः स᳘पुरश्चरणमधिदेवतं᳟ 7

मूलम् - विस्वरम्

अग्निरेव पुरः । अग्निं हि पुरस्कृत्येमाः प्रजा उपासते । आदित्य एव चरणम् । यदा ह्येवैष उदेति- अथेदं सर्वं चरति । तदेतद्यजुः सपुरश्चरणमधिदेवतम् ॥ ३ ॥

सायणः

अथ ब्राह्मणापरनामधेयस्य पुरश्चरणशब्दस्य पूर्ववन्निर्वचनपुरःसरमधिदैवमर्थमाह- अग्निरेव पुर इत्यादिना । ‘इमाः’ प्रजा वैदिक्यो ऽग्निं ‘पुरस्कृत्य’ ‘उपासते’ तस्माद्- ‘अग्निः’ पुरःशब्दवाच्यः । ‘आदित्यः’ चरणशब्दवाच्यः । ‘यदा’ असौ ‘उदेति’ तदैव सर्वस्य स्वव्यापारं प्रति चरणात् । अनेन ‘चरति’ गच्छति अस्मिन् उदित इति अधिकरणे ल्युडित्यर्थः । उक्तं शब्दतो निर्वचनं तदर्थं चोपसंहरति- तदेतद्यजुः सपुरश्चरणमिति ॥ ३ ॥

Eggeling
  1. Now Agni is in front 8 (puras), for placing Agni in front (of them) these creatures attend upon him; and the sun is motion (caraṇa), for as soon as he rises everything here moves about. Such is the Yajus with the preparatory performance (puraścaraṇa 9) as regards the deities.

०४

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राण᳘ ऽएव य᳘जुः प्राणो हि य᳘न्ने᳘वेदᳫँ᳭ स᳘र्व्वं जन᳘यति प्राणं[[!!]] य᳘न्तमिदम᳘नु प्र᳘जायते त᳘स्मात्प्राण᳘ ऽएव य᳘जुः॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्रा) प्राण᳘ ऽएव य᳘जुः प्राणो हि य᳘न्ने᳘वेदᳫँ᳭ स᳘र्व्वं जन᳘यति प्राणं[[!!]] य᳘न्तमिदम᳘नु प्र᳘जायते त᳘स्मात्प्राण᳘ ऽएव य᳘जुः॥

मूलम् - Weber

अ᳘थाध्यात्म᳘म्॥
प्राण᳘ एव य᳘जुः प्राणो हि य᳘न्नेॗवेदᳫं स᳘र्वं जन᳘यति प्रा᳘णं य᳘न्तमिदम᳘नु प्र᳘जायते त᳘स्मात्प्राण᳘ एव य᳘जुः॥

मूलम् - विस्वरम्

अथाध्यात्मम्- प्राण एव यजुः । प्राणो हि यन्नेवेदं सर्वं जनयति । प्राणं यन्तमिदमनु प्रजायते । तस्मात्प्राण एव यजुः ॥ ४ ॥

सायणः

एतयोराध्यात्मिको ऽर्थो वक्ष्यत इति प्रतिजानीते- अथाध्यात्मं प्राण एव यजुरिति । प्राणः पंचभूतात्मकः । अन्तरात्मन्नाकाश इति । हृदयमध्यवर्ती देहे एवाकाशः । शिष्टं पूर्ववत् व्याख्येयम् ॥ ४ ॥ ५ ॥

Eggeling
  1. Now as regards the body. The Yajus is the breath, for whilst moving (yat) it generates (vivifies) everything here, and along with the moving breath birth takes place here: hence the Yajus is the breath.

०५

विश्वास-प्रस्तुतिः

(र) अय᳘मे᳘वाकाशो जूः᳘॥
(र्यो) यो ऽय᳘मन्त᳘रात्म᳘न्नाकाश᳘ ऽएत᳘ᳫँ᳘ ह्याकाशम᳘नु ज᳘वते त᳘देतद्य᳘जुः प्राण᳘श्चाकाश᳘श्च य᳘च्च जू᳘श्च त᳘स्माद्य᳘जुः प्राण᳘ ऽएव य᳘त्प्राणो ह्येति[[!!]]॥

मूलम् - श्रीधरादि

(र) अय᳘मे᳘वाकाशो जूः᳘॥
(र्यो) यो ऽय᳘मन्त᳘रात्म᳘न्नाकाश᳘ ऽएत᳘ᳫँ᳘ ह्याकाशम᳘नु ज᳘वते त᳘देतद्य᳘जुः प्राण᳘श्चाकाश᳘श्च य᳘च्च जू᳘श्च त᳘स्माद्य᳘जुः प्राण᳘ ऽएव य᳘त्प्राणो ह्येति[[!!]]॥

मूलम् - Weber

अय᳘मेॗवाकाशो जूः᳟᳟॥
योऽय᳘मन्त᳘रात्म᳘न्नाकाश᳘ एॗतᳫं ह्याकाशम᳘नु ज᳘वते त᳘देतद्य᳘जुः प्राण᳘श्चाकाश᳘श्च य᳘च्च जू᳘श्च त᳘स्माद्य᳘जुः प्राण᳘ एव य᳘त्प्राणो ह्ये᳘ति॥

मूलम् - विस्वरम्

अयमेवाकाशो जूः । यो ऽयमन्तरात्मन्नाकाशः । एतं ह्याकाशमनु जवते । तदेतद्यजुः प्राणश्चाकाशश्च यच्च जूश्च । तस्माद्यजुः प्राण एव यत्प्राणो ह्येति ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. And this course (jūḥ) is space–this space which is inside the body–for along this space it (the breath) courses; and the Yajus is both the breath and space,–the ‘yat’ and the ‘jūḥ’: hence ‘yajus.’ And the ‘yat’ (moving) is the breath, for the breath moves.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘न्नमेव य᳘जुः॥
(र᳘) अ᳘न्नेन हि जा᳘यते᳘ ऽन्नेन[[!!]] ज᳘वते त᳘देतद्य᳘जुर᳘न्ने प्र᳘तिष्ठितम᳘न्नं व्वहति त᳘स्मात्समान᳘ ऽएव᳘ प्रा᳘णे ऽन्य᳘दन्यद᳘न्नं धीयते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘न्नमेव य᳘जुः॥
(र᳘) अ᳘न्नेन हि जा᳘यते᳘ ऽन्नेन[[!!]] ज᳘वते त᳘देतद्य᳘जुर᳘न्ने प्र᳘तिष्ठितम᳘न्नं व्वहति त᳘स्मात्समान᳘ ऽएव᳘ प्रा᳘णे ऽन्य᳘दन्यद᳘न्नं धीयते॥

मूलम् - Weber

अ᳘न्नमेव य᳘जुः॥
अ᳘न्नेन हि जा᳘यते᳘ऽन्ने᳘न ज᳘वते त᳘देतद्य᳘जुर᳘न्ने प्र᳘तिष्ठितम᳘न्नं वहति त᳘स्मात्समान᳘ एव᳘ प्राॗणेऽन्य᳘दन्यद᳘न्नं धीयते॥

मूलम् - विस्वरम्

अन्नमेव यजुः । अन्नेन हि जायते । अन्नेन जवते । तदेतद्यजुरन्ने प्रतिष्ठितम् । अन्नं वहति । तस्मात्समान एव प्राणे ऽन्यदन्यदन्नं धीयते ॥ ६॥

सायणः

अन्नमेव यजुरित्यादेरयमर्थः । यथा यजुः ऋक्सामाधिकरणे प्रतिष्ठितम् एवं प्राणो ऽपि अन्ने प्रतिष्ठितः । आधारस्याप्यन्नस्य जननजीवननिमित्तत्वमाश्रित्य यजुरात्मकत्वकथनम् । “अन्नाद्वै प्रजाः प्रजायंते अन्नेन जातानि जीवंति”- (तै. आ. २ । २) इति श्रुतेः । तदेतद्यजुरिति । ‘प्राणः’ परामृश्यते । ‘यजुः’ यजुरात्मकः ‘प्राणः’ यजुरात्मके ऽन्ने प्रतिष्ठितः । अत्रापि प्राणस्यैकत्वात्तत्पोषकस्यान्नस्य नानात्वादाधेयस्य प्राणस्यैकत्वादेकरूपे प्राणे विषये नानाविधमन्नं धीयते ॥ ६ ॥

Eggeling
  1. The Yajus, indeed, is food, for by food one is produced, and by food one moves. And food carries along that Yajus established on food, whence even different food is introduced into the same (channel of the) breath.

०७

विश्वास-प्रस्तुतिः

म᳘न ऽएव᳘ पुरः[[!!]]॥
(रो) म᳘नो हि᳘ प्रथमं᳘ प्राणा᳘नां च᳘क्षुरेव च᳘रणं च᳘क्षुषा᳘ ह्यय᳘मात्मा[[!!]] च᳘रति त᳘देतद्य᳘जुः स᳘पुरश्चरणमधिदेवतं᳘ चाध्यात्मं᳘ च प्र᳘तिष्ठितᳫँ᳭ स यो᳘ हैत᳘देवं य᳘जुः स᳘पुरश्चरणमधिदेवतं᳘ चाध्यात्मं᳘ च प्रतिष्ठितं व्वेद[[!!]]॥

मूलम् - श्रीधरादि

म᳘न ऽएव᳘ पुरः[[!!]]॥
(रो) म᳘नो हि᳘ प्रथमं᳘ प्राणा᳘नां च᳘क्षुरेव च᳘रणं च᳘क्षुषा᳘ ह्यय᳘मात्मा[[!!]] च᳘रति त᳘देतद्य᳘जुः स᳘पुरश्चरणमधिदेवतं᳘ चाध्यात्मं᳘ च प्र᳘तिष्ठितᳫँ᳭ स यो᳘ हैत᳘देवं य᳘जुः स᳘पुरश्चरणमधिदेवतं᳘ चाध्यात्मं᳘ च प्रतिष्ठितं व्वेद[[!!]]॥

मूलम् - Weber

म᳘न एव᳘ पुरः᳟॥
म᳘नो हि᳘ प्रथम᳘म् प्राणा᳘नां च᳘क्षुरेव च᳘रणं च᳘क्षुषा ह्य᳘य᳘मात्मा च᳘रति त᳘देतद्य᳘जुः स᳘पुरश्चरणमधिदेवतं᳘ चाध्यात्मं᳘ च प्र᳘तिष्ठितᳫं स यो᳘ हैत᳘देवं य᳘जुः स᳘पुरश्चरणमधिदेवतं᳘ चाध्यात्मं᳘ च प्रतिष्ठितं वे᳘द॥

मूलम् - विस्वरम्

मन एव पुरः । मनो हि प्रथमं प्राणानाम् । चक्षुरेव चरणम् । चक्षुषा ह्ययमात्मा चरति । तदेतद्यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितम् । स यो हैतदेवं यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद ॥ ७ ॥

सायणः

पुरश्चरणपदस्याप्यध्यात्मपरतामाह- मन एव पुर प्रति । यस्मात् सर्व- ‘प्राणानाम्’ ‘मनः’ ‘प्रथमम्’ तस्मात् तत्पुरःशब्दाभिधेयम् । चक्षुषा हि सर्वो जनः स्वस्वव्यापारार्थं सञ्चरतीति चक्षुश्चरणशब्दवाच्यमुक्तम् । यजुःपुरश्चरणशब्दयोरधिदैवाध्यात्मभेदेनोक्तमर्थं विदुषः फलमाह- स यो हैतदेवं यजुः सपुरश्चरणमिति ॥ ७ ॥

Eggeling
  1. And the Mind is in front (puras), for the mind is the first of vital airs; and the eye is motion (caraṇa), for it is in accordance with the eye that this

body moves. Such is the Yajus with the preparatory performance, firmly established both as regards the deity and the body; and, indeed, whosoever thus knows this Yajus with the preparatory performance to be firmly established both as regards the deity and the body,–

०८

विश्वास-प्रस्तुतिः

(दा᳘) अ᳘रिष्टो हैवा᳘नार्तः॥
स्वस्ति᳘ यज्ञ᳘स्योदृ᳘चमश्नुते᳘ ऽथो स्वा᳘नाᳫँ᳭ श्रे᳘ष्ठः पुर ऽएता᳘ भवत्यन्नादो᳘ ऽधिपतिर्य᳘ ऽएवं व्वे᳘द॥

मूलम् - श्रीधरादि

(दा᳘) अ᳘रिष्टो हैवा᳘नार्तः॥
स्वस्ति᳘ यज्ञ᳘स्योदृ᳘चमश्नुते᳘ ऽथो स्वा᳘नाᳫँ᳭ श्रे᳘ष्ठः पुर ऽएता᳘ भवत्यन्नादो᳘ ऽधिपतिर्य᳘ ऽएवं व्वे᳘द॥

मूलम् - Weber

अ᳘रिष्टो हैवा᳘नार्तः॥
स्वस्ति᳘ यज्ञ᳘स्योदृ᳘चमश्नुते᳘ स्वा᳘नां श्रे᳘ष्ठः पुरएता᳘ भवत्यन्नादो᳘ऽधिपतिर्य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

अरिष्टो हैवानार्तः स्वस्ति यज्ञस्योदृचमश्नुते । अथो स्वानां श्रेष्ठः पुरएता भवत्यन्नादो ऽधिपतिर्य एवं वेद ॥ ८ ॥

सायणः

अरिष्ट इति । ‘अरिष्टः’ अन्येनाबाधितः ‘अनार्त्तः’ शरीरपीडारहितः अत्र ‘स्वस्ति’ क्षेमेण ‘यज्ञस्योदृचम्’ समाप्तिं ‘अश्नुते’ । तस्यैव फलान्तरं समुच्चिनोति- अथो स्वानां श्रेष्ठ इति । ‘स्वानाम्’ ज्ञातीनां मध्ये स्वयं ‘श्रेष्ठः’ प्रशस्यतमः ‘पुरएता’ पुरतो गन्ता ‘अन्नादः’ ईश्वरो भवति ॥ ८ ॥

Eggeling
  1. He, indeed, reaches successfully the end of the sacrifice, unscathed and uninjured: he who knows this becomes the first, the leader (pura-etr̥), of his own people, an eater of food (i.e. prosperous), and a ruler.

०९

विश्वास-प्रस्तुतिः

य᳘ उ हैवंवि᳘दम्॥
(ᳫँ᳭) स्वे᳘षु प्रति प्रतिर्बु᳘भूषति न᳘ हैवा᳘लं भा᳘र्येभ्यो भवत्य᳘थ य᳘ ऽए᳘वैत᳘मनुभ᳘वति यो᳘ वै तम᳘नु भा᳘र्यान्बु᳘भूर्षति स᳘ हैवा᳘लं भा᳘र्येभ्यो भवति॥

मूलम् - श्रीधरादि

य᳘ उ हैवंवि᳘दम्॥
(ᳫँ᳭) स्वे᳘षु प्रति प्रतिर्बु᳘भूषति न᳘ हैवा᳘लं भा᳘र्येभ्यो भवत्य᳘थ य᳘ ऽए᳘वैत᳘मनुभ᳘वति यो᳘ वै तम᳘नु भा᳘र्यान्बु᳘भूर्षति स᳘ हैवा᳘लं भा᳘र्येभ्यो भवति॥

मूलम् - Weber

य᳘ उ हैवंवि᳘दं॥
स्वे᳘षु प्रतिप्रतिर्बु᳘भूषति 10 न᳘ हैवा᳘लम् भा᳘र्येभ्यो भवत्य᳘थ यॗ एॗवैत᳘मनुभ᳘वति यो᳘ वै तम᳘नु भा᳘र्यान्बु᳘भूर्षति स᳘ हैवा᳘लम् भा᳘र्येभ्यो भवति॥

मूलम् - विस्वरम्

य उ हैवंविदं स्वेषु प्रति प्रतिर्बुभूषति- न हैवालं भार्येभ्यो भवति । अथ य एवैतमनुभवति । यो वै तमनु भार्यान्बुभूषति- स हैवालं भार्य्येभ्यो भवति ॥ ९ ॥

सायणः

विद्वन्निन्दकस्य दोषं तत्स्तावकस्य च फलं दर्शयति- य उ हैवंविदमिति । ‘यः’ पुरुषः ‘स्वेषु’ मध्ये ‘एवंविदम्’ उक्तविद्यां जानानं पुरुषं प्रति ‘प्रतिर्बुभूषति’ प्रातिकूल्यमाचरितुमिच्छति स ‘भार्येभ्यः’ पोषणीयेभ्यः स्वीयेभ्यो ‘नालं’ न पर्याप्तो भवति- पोषणसमर्थो न भवतीत्यर्थः । यस्तु एवंविदमनकूलयेत् सः पोष्यान् पोषयितुं शक्नोति ॥ ९ ॥

Eggeling
  1. And if any one strives to become a rival 11 among his own people to one who knows this, he does not satisfy his dependants; but, indeed, only he satisfies his dependants, who is faithful 12 to that one and who, along with him, strives to support his dependants.

१०

विश्वास-प्रस्तुतिः

त᳘देतज्ज्ये᳘ष्ठम् ब्र᳘ह्म॥
न᳘ ह्येत᳘स्मात्किं᳘ चन ज्यायो᳘ ऽस्ति ज्ये᳘ष्ठो ह वै श्रे᳘ष्ठः स्वा᳘नां भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - श्रीधरादि

त᳘देतज्ज्ये᳘ष्ठम् ब्र᳘ह्म॥
न᳘ ह्येत᳘स्मात्किं᳘ चन ज्यायो᳘ ऽस्ति ज्ये᳘ष्ठो ह वै श्रे᳘ष्ठः स्वा᳘नां भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - Weber

त᳘देतज्ज्ये᳘ष्ठम् ब्र᳘ह्म॥
नॗ ह्येत᳘स्मात्किं᳘ चन ज्यायो᳘ऽस्ति ज्ये᳘ष्ठो ह वै श्रे᳘ष्ठः स्वा᳘नाम् भवति य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

तदेतज्ज्येष्ठं ब्रह्म । न ह्येतस्मात्किं चन ज्यायो ऽस्ति । ज्येष्ठो ह वै श्रेष्ठः स्वानां भवति- य एवं वेद ॥ १० ॥

सायणः

यजुःशब्दस्य वायुप्राणरूपो ऽर्थः उक्तः । तं ज्येष्ठब्रह्मात्मना स्तौति- तदेतज्ज्येष्ठं ब्रह्मेति । ब्रह्मणि ज्येष्ठत्वमाह- न ह्येतस्मादिति । न हि हिरण्यगर्भात्मनः (सूत्रात्मनः) परस्ताज्ज्यायो वस्त्वस्ति तस्यैव सर्वजगदाधारत्वात् । तथा च बृहदारण्यके चतुर्दशकाण्डे समाम्नास्यते- “वायुर्वै गौतम तत् सूत्रम् । वायुना है गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति” (१४ । ६ । ७ । १) इति । वेदितुरपि ज्येष्ठत्वं फलं भवतीत्याह- ज्येष्ठो ह वै श्रेष्ठ इति ॥ १० ॥

Eggeling
  1. And this is the greatest Brahman (n., mystic science), for than this there is no thing greater; and, he who knows this, being himself the greatest, becomes the highest among his own people.

११

विश्वास-प्रस्तुतिः

त᳘देतद्ब्र᳘ह्मापूर्व्व᳘मपरवत्॥
(त्स) स᳘ यो᳘ हैत᳘देवं ब्र᳘ह्मापूर्व्व᳘मपरवद्वे᳘द न᳘ हास्मात्क᳘श्चन श्रे᳘यान्त्समाने᳘षु भवति श्रे᳘याᳫँ᳭सः श्रेयाᳫँ᳭सो 13 है᳘वास्मादपरपुरुषा᳘ जायन्ते त᳘स्मा᳘द्यो ऽस्माज्ज्या᳘यान्त्स्याद्दि᳘शो ऽस्मात्पू᳘र्व्वा ऽइत्यु᳘पासीत त᳘थो हैनं न᳘ हिनस्ति॥

मूलम् - श्रीधरादि

त᳘देतद्ब्र᳘ह्मापूर्व्व᳘मपरवत्॥
(त्स) स᳘ यो᳘ हैत᳘देवं ब्र᳘ह्मापूर्व्व᳘मपरवद्वे᳘द न᳘ हास्मात्क᳘श्चन श्रे᳘यान्त्समाने᳘षु भवति श्रे᳘याᳫँ᳭सः श्रेयाᳫँ᳭सो है᳘वास्मादपरपुरुषा᳘ जायन्ते त᳘स्मा᳘द्यो ऽस्माज्ज्या᳘यान्त्स्याद्दि᳘शो ऽस्मात्पू᳘र्व्वा ऽइत्यु᳘पासीत त᳘थो हैनं न᳘ हिनस्ति॥

मूलम् - Weber

त᳘देतद्ब्र᳘ह्मापूर्व᳘मपरव᳘त्॥
स यो᳘ हैत᳘देवम् ब्र᳘ह्मापूर्व᳘मपरवद्वे᳘द न᳘ हास्मात्क᳘श्चन श्रे᳘यान्त्ममाने᳘षु भवति श्रे᳘यांसः श्रेयांसो हैॗवास्मादपरपुरुषा᳘ जायन्ते त᳘स्माॗद्योऽस्माज्ज्या᳘यान्त्स्याद्दि᳘शोऽस्मात्पू᳘र्वा इत्यु᳘पासीत त᳘थो हैनं न᳘ हिनस्ति॥

मूलम् - विस्वरम्

तदेतद्ब्रह्मापूर्वमपरवत् । स यो हैतदेवं ब्रह्मापूर्वमपरवद्वेद- न हास्मात्कश्चन श्रेयान्त्समानेषु भवति । श्रेयांसः । श्रेयांसो हैवास्मादपरपुरुषा जायन्ते । तस्माद्यो ऽस्माज्ज्यायान्त्स्यात्- दिशो ऽस्मात्पूर्वा इत्युपासीत । तथो हैनं न हिनस्ति ॥ ११ ॥

सायणः

तदेतत् ब्रह्मापूर्वमित्यादेरयमर्थः- यदुक्तं ‘तद्ब्रह्म’ ‘अपूर्वम्’ यस्मात् पूर्वो न विद्यते कारणरहितम् । ‘अपरवत्’ स्रष्टव्यजगद्रूपापरवत् । उक्तगुणद्वयविशिष्टस्योपासनस्य फलमाह- स यो हैतदिति । एवमुपासीतेत्यर्थः । यदि वेदितुः सकाशात् ज्यायसः पुरुषस्य सद्भावे तदा स्वयं बाध्यो भवतीत्याशंक्य- तस्मात् पुरुषादधिकं वस्तु दिशः इत्युपासितव्यमित्याह- यो ऽस्माज्ज्यायानिति । यदि ‘अस्मात्’ उपासकात् ‘यः’ अधिकः स्यात् तर्हि तस्मात् अधिकात् ‘दिशः’ ‘पूर्वाः’ ‘इत्युपासीत’ ततः ज्यायसो ऽपि ज्यायउपासने स्वस्याधिक्यात् बाधको नास्तीत्यर्थः ॥ ११ ॥

Eggeling
  1. This Brahman has nothing before it and nothing after it 14; and whosoever thus knows this Brahman to have nothing before it and nothing

after it, than he there is no one higher among his equals in station; and ever higher will be the descendants that spring from him. Wherefore, if any one would be greater than he, let him reverentially approach the regions in front (to the eastward) of that one in this way, and he will do him no injury 15.

१२

विश्वास-प्रस्तुतिः

त᳘स्य वा᳘ ऽएत᳘स्य य᳘जुषः॥
(षो) र᳘स ऽए᳘वोपनिषत्त᳘स्माद्यावन्मात्रे᳘ण य᳘जुषा ऽध्वर्युर्ग्र᳘हं गृह्णा᳘ति स᳘ ऽउभे᳘ स्तुतशस्त्रे᳘ ऽअनुवि᳘भवत्युभे᳘ स्तुतशस्त्रे᳘ ऽअनुव्यश्नुते[[!!]] त᳘स्माद्यावन्मात्र᳘ ऽइवा᳘न्नस्य र᳘सः स᳘र्व्वम᳘न्नम᳘वति स᳘र्व्वम᳘न्नमनु᳘व्येति॥

मूलम् - श्रीधरादि

त᳘स्य वा᳘ ऽएत᳘स्य य᳘जुषः॥
(षो) र᳘स ऽए᳘वोपनिषत्त᳘स्माद्यावन्मात्रे᳘ण य᳘जुषा ऽध्वर्युर्ग्र᳘हं गृह्णा᳘ति स᳘ ऽउभे᳘ स्तुतशस्त्रे᳘ ऽअनुवि᳘भवत्युभे᳘ स्तुतशस्त्रे᳘ ऽअनुव्यश्नुते[[!!]] त᳘स्माद्यावन्मात्र᳘ ऽइवा᳘न्नस्य र᳘सः स᳘र्व्वम᳘न्नम᳘वति स᳘र्व्वम᳘न्नमनु᳘व्येति॥

मूलम् - Weber

त᳘स्य वा᳘ एत᳘स्य य᳘जुषः॥
र᳘स एॗवोपनिषत्त᳘स्माद्यावन्मात्रे᳘ण य᳘जुषाध्वर्युर्ग्र᳘हं गृह्णा᳘ति स᳘ उभे᳘ स्तुतशस्त्रे᳘ अनुवि᳘भवत्युभे᳘ स्तुतशस्त्रे᳘ अनुव्य᳘श्नुते त᳘स्माद्यावन्मात्र᳘ इवा᳘न्नस्य र᳘सः स᳘र्वम᳘न्नम᳘वति स᳘र्वम᳘न्नमनुॗव्येति॥

मूलम् - विस्वरम्

तस्य वा एतस्य यजुषो रस एवोपनिषत् । तस्माद्यावन्मात्रेण यजुषा ऽध्वर्युर्ग्रहं गृह्णाति- स उभे स्तुतशस्त्रे अनुविभवति । उभे स्तुतशस्त्रे अनुव्यश्नुते । तस्माद्यावन्मात्र- इवान्नस्य रसः- सर्वमन्नमवति । सर्वमन्नमनुव्येति ॥ १२ ॥

सायणः

यजुर्मन्त्रब्राह्मणप्रसङ्गादुपनिषदो ऽर्थं तत्स्वरूपं वेदितुः फलं च दर्शयति- तस्य वा एतस्य यजुष इति । अन्नरूपस्य ‘यजुषो रसः’ सार ‘एव’ ‘उपनिषत्’ । तस्याश्च वेदसारत्वमन्नरसदृष्टान्तेन प्रतिपादयति- तस्माद्यावदिति । यथा ‘अन्नस्य’ यावान् ‘रसः’ तावान् स्वाश्रयभूतं ‘सर्वमन्नम्’ ‘अवति’ तर्पयति भोगयोग्यं करोति, ‘अनुव्येति’ व्याप्नोति व अत उपनिषत् सकलं साङ्गं वेदं व्याप्नोति ॥ १२ ॥

Eggeling
  1. But, indeed, the mystic import (upanishad) is the essence of this Yajus; and thus, if, with ever so small a yajus-formula, the Adhvaryu draws a cup of Soma, that (essence) is equal to both the Stotra and the Śastra, and comes up to both the Stotra and the Śastra: hence, however small the essence (flavour) of food, it benefits (renders palatable) the whole food, and pervades the whole food.

१३

विश्वास-प्रस्तुतिः

तृ᳘प्तिरे᳘वास्य ग᳘तिः॥
(स्त᳘) त᳘स्माद्यदा᳘ ऽन्नस्य तृ᳘प्यत्य᳘थ स᳘ गत᳘ ऽइव मन्यत ऽआनन्द᳘ ऽए᳘वास्य व्विज्ञा᳘नमा᳘त्मा ऽऽनन्दा᳘त्मानो हैव स᳘र्व्वे देवाः सा᳘ है᳘षैव᳘ देवा᳘नामद्धा᳘ व्विद्या स᳘ ह स न᳘ मनु᳘ष्यो य᳘ ऽएवंवि᳘द्देवा᳘नाᳫँ᳭ हैव स ऽए᳘कः॥

मूलम् - श्रीधरादि

तृ᳘प्तिरे᳘वास्य ग᳘तिः॥
(स्त᳘) त᳘स्माद्यदा᳘ ऽन्नस्य तृ᳘प्यत्य᳘थ स᳘ गत᳘ ऽइव मन्यत ऽआनन्द᳘ ऽए᳘वास्य व्विज्ञा᳘नमा᳘त्मा ऽऽनन्दा᳘त्मानो हैव स᳘र्व्वे देवाः सा᳘ है᳘षैव᳘ देवा᳘नामद्धा᳘ व्विद्या स᳘ ह स न᳘ मनु᳘ष्यो य᳘ ऽएवंवि᳘द्देवा᳘नाᳫँ᳭ हैव स ऽए᳘कः॥

मूलम् - Weber

तृ᳘प्तिरेॗवास्य ग᳘तिः॥
त᳘स्माद्यदा᳘न्नस्य तृ᳘प्यत्य᳘थ स᳘ गत᳘ इव मन्यत आनन्द᳘ एॗवास्य विज्ञा᳘नमाॗत्मानन्दा᳘त्मानो हैव स᳘र्वे देवाः सा᳘ हैॗषैव᳘ देवा᳘नामद्धा᳘विद्या स᳘ ह स न᳘ मनुॗष्यो य᳘ एवंवि᳘द्देवा᳘नाᳫं हैव स ए᳘कः॥

मूलम् - विस्वरम्

तृप्तिरेवास्य गतिः । तस्माद्यदा ऽन्नस्य तृप्यति । अथ स गत- इव मन्यते । आनन्द एवास्य विज्ञानमात्मा । आनन्दात्मानो हैव सर्वे देवाः । सा हैषैव देवानामद्धा विद्या । स ह स न मनुष्यो य एवंवित् । देवानां हैव स एकः ॥ १३ ॥

सायणः

अस्य अन्नात्मकस्य यजुषः ‘तृप्तिरेव गतिः’ फलावाप्तिः । यथा लोके अन्नेन तृप्तः पुरुषः गतः प्राप्तप्रयोजन इव मन्यते । उपनिषत्प्रतिपाद्यस्वरूपमाह-आनन्द एवास्य विज्ञानमात्मेति । ‘अस्य’ उपनिषदात्मकस्य रसस्य ‘आनन्दः’ ‘विज्ञानमेव’ ‘आत्मा’ सच्चिदानन्दैकरसमखण्डं वस्तुस्वरूपमित्यर्थः । आनन्दात्मान इत्यादिकेन विद्याप्रशंसा । ‘अद्धा विद्या’ आनन्दात्मकदेवानां प्रतिपादकत्वादेषा उपनिषत् ‘अद्धा’ अपरोक्षा विद्या साक्षादमरत्वात् । तद्वेदितुर्देवत्वमेव फलमित्याह- स ह स न मनुष्य इति । ‘एवम्’ उपनिषदखण्डविज्ञानलक्षणमात्मानं जानानो ‘मनुष्यो न’ भवति किं तु ‘देवानां’ मध्ये ‘एको’ भवतीत्यर्थः ॥ १३ ॥

Eggeling
  1. Satiation (contentment), doubtless, is the successful issue thereof (to wit, of food, and the Yajus): hence when one is satiated by food he feels like one who has succeeded. And joy, the knowledge thereof (viz. of the essence, the mystic import), is its soul (self); and, assuredly, all the gods are of joyful soul; and this, the true knowledge, belongs to the gods alone,–and, indeed, whosoever knows this is not a man, but one of the gods.

१४

विश्वास-प्रस्तुतिः

(ऽ) एत᳘द्ध स्म वै त᳘द्विद्वा᳘न्प्रिय᳘व्व्रतो रौ᳘हिणायन ऽआह॥
व्वायुं व्वा᳘न्तमानन्द᳘स्त ऽआ᳘त्मेतो᳘ वा व्वा᳘हितो वे᳘ति स᳘ ह स्म त᳘थैव᳘ व्वाति त᳘स्माद्यां᳘ देवे᳘ष्वाशि᳘षमिच्छे᳘देते᳘नैवो᳘पतिष्ठेतानन्दो᳘ वा ऽआ᳘त्मा ऽसौ᳘ मे का᳘मः स᳘ मे स᳘मृध्यतामि᳘ति स᳘ᳫँ᳘ है᳘वास्मै स का᳘म ऽऋध्यते य᳘त्कामो भ᳘वत्येता᳘ᳫँ᳘ ह वै तृ᳘प्तिमेतां ग᳘तिमेत᳘मानन्द᳘मेत᳘मात्मा᳘नमभिस᳘म्भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - श्रीधरादि

(ऽ) एत᳘द्ध स्म वै त᳘द्विद्वा᳘न्प्रिय᳘व्व्रतो रौ᳘हिणायन ऽआह॥
व्वायुं व्वा᳘न्तमानन्द᳘स्त ऽआ᳘त्मेतो᳘ वा व्वा᳘हितो वे᳘ति स᳘ ह स्म त᳘थैव᳘ व्वाति त᳘स्माद्यां᳘ देवे᳘ष्वाशि᳘षमिच्छे᳘देते᳘नैवो᳘पतिष्ठेतानन्दो᳘ वा ऽआ᳘त्मा ऽसौ᳘ मे का᳘मः स᳘ मे स᳘मृध्यतामि᳘ति स᳘ᳫँ᳘ है᳘वास्मै स का᳘म ऽऋध्यते य᳘त्कामो भ᳘वत्येता᳘ᳫँ᳘ ह वै तृ᳘प्तिमेतां ग᳘तिमेत᳘मानन्द᳘मेत᳘मात्मा᳘नमभिस᳘म्भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - Weber

एत᳘द्ध स्म वै त᳘द्विद्वा᳘न्प्रिय᳘व्रतो रौ᳘हिणायन आह॥
वायुं वा᳘न्तमानन्द᳘स्त आत्मेतो᳘ वा वाॗहितो वे᳘ति स᳘ ह स्म त᳘थैव᳘ वाति त᳘स्माद्यां᳘ देवे᳘ष्वाशि᳘षमिछे᳘देते᳘नैवो᳘पतिष्ठेतानन्दो᳘ व आॗत्मासौ मे का᳘मः स᳘ मे स᳘मृध्यतामि᳘ति स᳘ᳫं᳘ हैॗवास्मै स का᳘म ऋध्यते य᳘त्कामो भ᳘वत्येता᳘ᳫं᳘ ह वै तृ᳘प्तिमेतां ग᳘तिमेत᳘मानन्द᳘मेत᳘मात्मा᳘नमभिस᳘म्भवति य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

एतद्ध स्म वै तद्विद्वान्प्रियव्रतो रौहिणायन आह- वायुं वान्तम् । आनन्दस्त आत्मा । इतो वा वाहि, इतो वेति । स ह स्म तथैव वाति । तस्माद्यां देवेष्वाशिषमिच्छेद्- एतेनैवोपतिष्ठेत- “आनन्दो वा आत्मा, असौ मे कामः, स मे समृध्यताम्”- इति । सं हैवास्मै म काम ऋध्यते- यत्कामो भवति । एतां ह वै तृप्तिम्, एतां गतिम्, एतमानन्दम्, एतमात्मानम्- अभिसम्भवति- य एवं वेद ॥ १४ ॥

सायणः

उक्तं देवानामानन्दात्मत्वमुपजीव्य यजुरात्मकवायोरानन्दात्मत्वपरिज्ञानफलं पुरावृत्तकथनेन दर्शयति- एतद्ध स्म वै तद्विद्वानिति । ‘एतद्’ देवानामानन्दात्मत्वं यजूरसरूपाया उपनिषद आनन्दविज्ञानरूपं च ‘विद्वान्’ रोहिणपुत्रः ‘प्रियव्रतो’ नामाह ‘वायुं वान्तं’ सञ्चरन्तं वायुमुक्तवान् । किमिति ? हे वायो ‘ते’ तव ‘आत्मा’ स्वरूपम् ‘आनन्दः’ इति । तस्मात् ‘इतः’ अन्यप्रदेशे ‘वाहि’ ‘इतो’ ‘वा’ देशे ‘वाहि’ सञ्चरेति वायुमुक्तवान् । स वायुरपि स्वकीयानन्दलक्षणस्वरूपं वेदितुर्वाक्यमनतिलङ्घयन्निदानीमपि ‘तथैव’ इतस्ततो ‘वाति’ । वायुवशीकरणं तस्य फलमित्युक्तं भवति । तस्माद्यां देवेष्वाशिषम्- इत्यादेरयमर्थः- सर्वत्र देवेष्वानन्दत्वपरिज्ञानेन सर्वकामप्राप्तिर्भवतीति । आनन्दो वा आत्मा- इत्ययं ब्राह्मणप्रतिपादित उपस्थानमन्त्रः । “तस्य वा एतस्य यजुषो रस एवोपनिषद्”- इत्यादिना प्रतिपादितमर्थजातं विदुषः फलमाह- एतां ह वै तृप्तिमेतां गतिमिति ॥ १४ ॥

Eggeling
  1. And Priyavrata Rauhiṇāyana, knowing this (truth), once spake unto the blowing wind, ‘Thy soul 16 is joy: blow thou either hither or thither!’ and so, indeed, it now blows. Wherefore, if one desire to invoke any blessing from the gods, let him approach them with this, ‘Your soul is joy,–my wish is such and such: let it be fulfilled unto me!’ and whatever the wish he entertains, it will be fulfilled to him; for, assuredly, he who knows this attains this contentment, this successful issue, this joy, this soul.

१५

विश्वास-प्रस्तुतिः

त᳘देतद्य᳘जुरुपाᳫँ᳭श्व᳘निरुक्तम्॥
(म्प्रा) प्राणो वै य᳘जुरुपा᳘ᳫँ᳘श्वायतनो वै᳘ प्राणस्तद्य᳘देनं निर्ब्रुव᳘न्तं ब्रूयाद᳘निरुक्तां देव᳘तां नि᳘रवोचत्प्राण᳘ ऽएनᳫँ᳭ हास्यती᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

त᳘देतद्य᳘जुरुपाᳫँ᳭श्व᳘निरुक्तम्॥
(म्प्रा) प्राणो वै य᳘जुरुपा᳘ᳫँ᳘श्वायतनो वै᳘ प्राणस्तद्य᳘देनं निर्ब्रुव᳘न्तं ब्रूयाद᳘निरुक्तां देव᳘तां नि᳘रवोचत्प्राण᳘ ऽएनᳫँ᳭ हास्यती᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

त᳘देतद्य᳘जुरुपांश्व᳘निरुक्तम्॥
प्राणो वै य᳘जुरुपांश्वायतनो वै᳘ प्राणस्तद्य᳘ एनं निर्ब्रुव᳘न्तम् ब्रूयाद᳘निरुक्तां देव᳘तां नि᳘रवोचत्प्राण᳘ एनᳫं हास्यती᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

तदेतद्यजुरुपांश्वनिरुक्तम् । प्राणो वै यजुः । उपांश्वायतनो वै प्राणः । तद् यदेनं निर्ब्रुवन्तं ब्रूयात्- अनिरुक्तां देवतां निरवोचत्प्राण एनं हास्यतीति । तथा हैव स्यात् ॥ १५ ॥

सायणः

एवं वायुप्राणरूपत्वेन स्तुतस्य यजुष उपांश्वनुष्ठानं विधत्ते- तदेतद्यजुरुपांश्वनिरुक्तमिति । इदमीदृक् क्रियत इति निर्वक्तुमनर्हम् ‘अनिरुक्तम्’ तदेवोपांशुत्वलक्षणम् । आन्तरत्वात् प्राणस्योपांशुस्थानत्वम् । उपांशुत्वेनाननुष्ठाने दोषमाह- तद्यदेनं निर्ब्रुवन्तमिति । ‘एनम्’ प्राणरूपं यजुर्मन्त्रं ‘निर्ब्रुवन्तम्’ उच्चैः पठन्तं पुरुषं ‘ब्रूयात्’- विद्वानसौ ‘अनिरुक्ताम्’ उच्चैर्वक्तुमनर्हां ‘देवताम्’ उच्चैरवादीत् । ‘एनं’ निर्ब्रुवन्तं ‘प्राणो’ ‘हास्यति’ त्यक्ष्यति उपांशुत्वविधातादिति ‘यत्’ ब्रूयात् तत् ‘तथैव स्यात्’ इति सम्बन्धः । यावन्तं कालं प्राण उपांशुरान्तरो वर्त्तते तावन्तं जीवति स यदा ऊर्ध्वं निष्क्रामति तदा मरिष्यतीत्यर्थः ॥ १५ ॥

Eggeling
  1. This Yajus is silent 17, indistinct; for the Yajus is the breath, and the breath is of silent (secret) abode; and if any one were to say of that (Adhvaryu) who pronounces (the Yajus) distinctly, ‘He has uttered distinctly the indistinct deity: his breath shall fail him!’ then that would, indeed, come to pass.

१६

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘स्य ह यो नि᳘रुक्तमाविर्भावं व्वे᳘द॥
(दा) आवि᳘र्भवति कीर्त्या य᳘शसोपाᳫँ᳭शु य᳘जुषा ऽध्वर्युर्ग्र᳘हं गृह्णा᳘ति गृहीतः᳘ सन्न᳘ ऽआवि᳘र्भवत्युपाᳫँ᳭शु य᳘जुषा ऽग्निं᳘ चिनो᳘ति चितः सं᳘चित ऽआवि᳘र्भवत्युपाᳫँ᳭शु य᳘जुषा हविर्नि᳘र्व्वपति शृतं नि᳘ष्ठितमावि᳘र्भवत्येवं यत्किं᳘चोपाᳫँ᳭शु᳘ करो᳘ति कृतं नि᳘ष्ठितमावि᳘र्भवति त᳘स्य ह य᳘ ऽएत᳘मेवं नि᳘रुक्तमाविर्भावं व्वे᳘दावि᳘र्भवति कीर्त्या य᳘शसा ब्रह्मवर्चसे᳘न क्षिप्र᳘ ऽउ है᳘वावि᳘दं ग᳘च्छति स᳘ ह य᳘जुरेव᳘ भवति य᳘जुषैनमा᳘चक्षते॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘स्य ह यो नि᳘रुक्तमाविर्भावं व्वे᳘द॥
(दा) आवि᳘र्भवति कीर्त्या य᳘शसोपाᳫँ᳭शु य᳘जुषा ऽध्वर्युर्ग्र᳘हं गृह्णा᳘ति गृहीतः᳘ सन्न᳘ ऽआवि᳘र्भवत्युपाᳫँ᳭शु य᳘जुषा ऽग्निं᳘ चिनो᳘ति चितः सं᳘चित ऽआवि᳘र्भवत्युपाᳫँ᳭शु य᳘जुषा हविर्नि᳘र्व्वपति शृतं नि᳘ष्ठितमावि᳘र्भवत्येवं यत्किं᳘चोपाᳫँ᳭शु᳘ करो᳘ति कृतं नि᳘ष्ठितमावि᳘र्भवति त᳘स्य ह य᳘ ऽएत᳘मेवं नि᳘रुक्तमाविर्भावं व्वे᳘दावि᳘र्भवति कीर्त्या य᳘शसा ब्रह्मवर्चसे᳘न क्षिप्र᳘ ऽउ है᳘वावि᳘दं ग᳘च्छति स᳘ ह य᳘जुरेव᳘ भवति य᳘जुषैनमा᳘चक्षते॥

मूलम् - Weber

त᳘स्य ह यो नि᳘रुक्तमाविर्भावं वे᳘द॥
आवि᳘र्भवति कीर्त्या य᳘शसोपांशु य᳘जुषाध्वर्युर्ग्र᳘हं गृह्णा᳘ति गृहीतः᳘ सन्न᳘ आवि᳘र्भवत्युपांशु य᳘जुषाग्निं᳘ चिनो᳘ति चितः सं᳘चित आवि᳘र्भवत्युपांशु य᳘जुषा हविर्नि᳘र्वपति शृतं नि᳘ष्ठितमावि᳘र्भवत्येवं यत्किं᳘ चोपांशु᳘ करो᳘ति कृतं नि᳘ष्ठितमावि᳘र्भवति त᳘स्य ह य᳘ एत᳘मेवं नि᳘रुक्तमाविर्भावं वे᳘दावि᳘र्भवति कीर्त्या य᳘शसा ब्रह्मवर्चसे᳘न क्षिप्र᳘ उ हैॗवावि᳘दं ग᳘छति स᳘ ह य᳘जुरेव᳘ भवति य᳘जुषैनमा᳘चक्षते 18

मूलम् - विस्वरम्

तस्य ह यो निरुक्तमाविर्भावं वेद- आविर्भवति कीर्त्या, यशसा । उपांशु यजुषा ऽध्वर्युर्ग्रहं गृह्णाति- गृहीतः सन्न आविर्भवति । उपांशु यजुषा ऽग्निं चिनोति- चितः संचित आविर्भवति । उपांशु यजुषा हविर्निर्वपति- शृतं निष्ठितमाविर्भवति । एवं यत्किञ्चोपांशु करोति- कृतं निष्ठितमाविर्भवति । तस्य ह य एतमेवं निरुक्तमाविर्भावं वेद- आविर्भवति कीर्त्या, यशसा, ब्रह्मवर्चसेन । क्षिप्र उ हैवाविदं गच्छति । स ह यजुरेव भवति । यजुषैनमाचक्षते ॥ १६ ॥

सायणः

उपांशुत्वं प्रशस्य निरुक्तत्वं प्रशंसति- तस्य ह यो निरुक्तमिति । अग्नौ उपांशु यजुषा कर्त्तव्यानि संगृह्णाति- उपांशु यजुषा ऽध्वर्युर्ग्रहं गृह्णाति इति । ग्रहणकाले उपांशुत्वं गृहीतस्य ग्रहस्यायतने सादितस्य ‘आविर्भावः’ अयमेष ग्रह इति सर्वैर्ज्ञायते । एवमुत्तरं योज्यम् । शृतं निष्ठितमिति । ‘शृतं’ पक्वम् ‘निष्ठितम्’ प्रयोगार्हमवदानाहमित्यर्थः । यत्किञ्चोपांश्वित्यादिनोपांशुकर्त्तव्यसामान्यसंग्रहः । यद्यदुपांशु क्रियते तत्तत्पश्चादाविर्भूतं सर्वैरिदं कर्म कृतमिति बुध्यते । क्षिप्र उ हैवाविदं गच्छतीति । यो यजुष उपांशुत्वं पश्चादाविर्भावं वेत्ति स आयुःकीर्त्यादियुक्तः ‘क्षिप्रम्’ ‘आविदम्’ प्रसिद्धिं ‘गच्छति’ “अयं महान्पुरुषः”- इति । ‘यजुषैनमाचक्षते’ इति ज्ञातृज्ञेययोरभेदोपचारेण तस्य विदुष एव ‘यजुः’ इति तस्य व्यवहार्यत्वं भवतीत्यर्थः ॥ १६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे तृतीये ऽध्याये पंचमं ब्राह्मणम् ॥ (१०-३-५) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे तृतीयो ऽध्यायः समाप्तः ॥ (१०-३) ॥

Eggeling
  1. And, assuredly, he who knows the indistinct (secret) manifestation of this (Yajus) becomes manifest in fame and glory. Silently the Adhvaryu draws the cup of Soma with the (muttered) Yajus, and, when drawn and deposited, it becomes manifest;–silently he builds the fire-altar with the Yajus, and, when built and completed, it becomes manifest;–silently he takes out (material for) the oblation with the Yajus, and, when cooked and ready (for offering), it becomes manifest: thus, whatever he performs silently, when performed and completed, it becomes manifest. And, assuredly, he who thus knows this secret manifestation of this

(Yajus) becomes manifest in fame, and glory, and sanctity; and quickly, indeed, he becomes known: he becomes the Yajus itself, and by the Yajus people call him 19.


  1. ‘अयं वाव यजुः’ ‘वायुरेव यजुः’- इत्येवमेव श्रौतः पाठः सर्वेष्वेवोपलब्धपुस्तकेषूपलभ्यते । अर्थस्वारस्यात्तु यजुः- शब्दस्थाने ‘यन्’- इति पाठः पुरात्वे भवेत् । वैदिकयाज्ञिकानां लेखदोषात्तु कालक्रमेण यन्नित्यस्य स्थाने यजुरिति पदं प्रक्षिप्तमिति प्रतीमः । एवमेव ‘तदेतद्यजुर्व्वायुश्चा’- इत्यत्रापि यजुःशब्दस्थाने ‘यज्जूः’ इति पाठं साधु मन्यामहे । यजुःशब्दनिर्वचनार्थे प्रकरणे शुद्धस्य यजुःशब्दस्य पाठायोगात् । इह हि यज्जूःशब्दस्य परोक्षवृत्त्या यजुरिति निर्वचनं कृतं दृश्यते इत्यूह्यम् । ↩︎ ↩︎

  2. स्यत्वा᳘ A. B1. B2. According to Sâyaṇa’s explanation read स्वत्त्वा. ibid. पराभ्यां Sây. ↩︎

  3. 336:1 ‘Jūḥ’ would rather seem to mean ’the urger, or speeder.’ ↩︎

  4. 336:2 ‘Yad idam antariksham,’ perhaps, with the double sense–’this air is the “yat (the going, moving thing)”’–made use of in the sequel. The construction, however, is not quite clear. Sāyaṇa explains: ayam evākāśo jūr iti; ju iti sautro dhātur gatyarthaḥ; yad idam pratīyamānam antariksham asti tad eva jūr iti; yad evocyate–etam ākāśam anulakshya javate, vāyur gacchati, vāyujavamādakaraṇa–tvāj jūr ākāśaḥ. ↩︎

  5. 336:3 Or, whence (the name) Yajus, to wit, this (Adhvaryu). ↩︎

  6. 336:4 That is, in different Soma-sacrifices. ↩︎

  7. द्यजुः पुरश्चरण Sây. ↩︎

  8. 337:1 Literally, apparently, ‘The in-front is Agni.’ ↩︎

  9. 337:2 This term, literally, ‘moving in front,’ seems virtually to imply the entire manual work connected with the sacrifice, and which, along with the muttering of the Yajus-formulas, forms the official duty of the Adhvaryu. It would thus include all the sacrificial performances prior to the muttering of a Yajus, as the finishing or consecratory rite. For a somewhat similar discussion, see IV, 6, 7, 20. 21. The commentary introduces the present discussion thus: atha brāhmaṇāparanāmadheyasya puraścaraṇaśabdasya pūrvavan nirvacanapuraḥsaram adhidaivam artham āha. ↩︎

  10. स्वेषु प्रतिबुभूषति Sây. ↩︎

  11. 338:1 Or, tries to make opposition, as Sāyaṇa takes it–yaḥ purushaḥ sveshu madhye evaṁvidam uktavidyāṁ jānānaṁ purushaṁ pratibubhūshati (!) prātikūlyam ācaritum icchati. ↩︎

  12. 338:2 Thus ‘anu-bhū’ is taken by the St. Petersb. Dict. (’to serve, be helpful to’), and by Sāyaṇa–‘yas tv evaṁvidam anukūlayet sa poshyān poshayituṁ śaknoti.’ ↩︎

  13. अत्र “श्रेयान्त्सो ऽश्रेयांसो हैव” इति पाठः साधीयान् प्रतिभाति । ↩︎

  14. 338:3 Sāyaṇa seems to take ‘aparavat’ in the sense of ‘it has (only) something after it’–srashṭavyajagadrūpāparavat–and the use of the word ‘aparapurushāḥ (descendants)’ immediately after might indeed seem to favour that interpretation. ↩︎

  15. 339:1 The MISS. of the commentary (I. O. 613. 149) are unfortunately not in a very satisfactory condition:–sa yo haitad iti, evam upāsītety arthaḥ; yadi vedituḥ sakāśāt gyāyasaḥ purushasya sadbhāve tadā svayam bādhyo bhavatīty āśaṅkya tasmād adhikapurushād adhikam (achādikāt B) [vastu diśyopāsītavyam (!) ity āha, yosmāj jyāyān iti; yadi asmād upāsakāt yodhikaḥ syāt tarhi tasmād adhikāt, om. B] diśaḥ pūrvā ity upāsīta; tataḥ jyāyasopi jyāya-upāsane svasyādhikyāt bādhako nāstiṭy arthaḥ. The commentary would thus seem to take it to mean that by showing reverence to something before, or higher than, his rival, he would turn aside his schemes. ↩︎

  16. 340:1 Or, thine own self, thy nature–tavātmā svarūpam. Sāyaṇa. ↩︎

  17. 340:2 That is, pronounced in an undertone, muttered. ↩︎

  18. यजुषैवैनमाचक्षते Sây. - Sâyaṇa closes this adhyâya with the next brâhmaṇa. ↩︎

  19. 341:1 Yajushaivainam ācakshata iti jñātr̥jñeyayor abhedopacāreṇa tasya vidusha eva yajuḥ tasya vyavahāryatvam bhavatīty arthaḥ. Sāyaṇa. ↩︎