०१
विश्वास-प्रस्तुतिः
श्वेत᳘केतुर्हारुणेयः᳘॥
(यो᳘) यक्ष्य᳘माण ऽआस त᳘ᳫँ᳘ ह पि᳘तोवाच का᳘नृत्वि᳘जो ऽवृथा ऽइ᳘ति स᳘ होवाचायं᳘[[!!]] न्वेव᳘ मे व्वै᳘श्वावसव्यो होते᳘ति त᳘ᳫँ᳘ ह पप्रच्छ व्वे᳘त्थ ब्राह्मण व्वैश्वावसव्य॥
मूलम् - श्रीधरादि
श्वेत᳘केतुर्हारुणेयः᳘॥
(यो᳘) यक्ष्य᳘माण ऽआस त᳘ᳫँ᳘ ह पि᳘तोवाच का᳘नृत्वि᳘जो ऽवृथा ऽइ᳘ति स᳘ होवाचायं᳘[[!!]] न्वेव᳘ मे व्वै᳘श्वावसव्यो होते᳘ति त᳘ᳫँ᳘ ह पप्रच्छ व्वे᳘त्थ ब्राह्मण व्वैश्वावसव्य॥
मूलम् - Weber
श्वेत᳘केतुर्हारुणेयः᳟॥
यक्ष्य᳘माण आस त᳘ᳫं᳘ ह पिॗतोवाच का᳘नृत्वि᳘जोऽवृथा इ᳘ति स᳘ होवाचाॗयं न्वेव᳘ मे वै᳘श्वावसव्यो होते᳘ति त᳘ᳫं᳘ ह पप्रछ वे᳘त्थ ब्राह्मण वैश्वावसव्य॥
मूलम् - विस्वरम्
श्वेतकेतुर्हारुणेयो यक्ष्यमाण आस । तं ह पितोवाच- कानृत्विजो ऽवृथा इति । स होवाच- अयं न्वेव मे वैश्वावसव्यो होतेति । तं ह पप्रच्छ- वेत्थ ब्राह्मण वैश्वावसव्य ॥ १ ॥
सायणः
उत्तरब्राह्मणे ऽग्निवाय्वादित्यपुरुषाणामोषधि-वनस्पत्युदकचन्द्रपशूनां च बहुविधनामव्यपदेश्यत्वेन स्तुतिः । तत्रापि पुरुषस्यार्करूपतया च स्तुतिरनेकैः प्रश्नप्रतिवचनैः प्रतिपाद्यते । तौ प्रष्टृप्रतिवक्तारौ दर्शयितुं तत्प्रसङ्गमादावाह- श्वेतकेतुर्हारुणेय इति । पूर्वं ‘श्वेतकेतुः’ नाम ‘यक्ष्यमाणो’ बभूव । ‘तम्’ पुत्रं ‘पिता’ उक्तवान् । हे पुत्र ! ‘कान्’ कीदृशान् ‘ऋत्विजः’ वृत्तवानसीति- पितुर्वचनम् । ‘स होवाच’ इत्यादिना श्वेतकेतुः ‘अयं न्वेव मे वैश्वावसव्यो होता’ वैश्वावसव्यनामको होता वृत इति उक्तवान् । ‘तं ह पप्रच्छ वेत्थ ब्राह्मण’ इत्यादिना होतारं प्रति पितुः प्रश्नः ॥ १ ॥
Eggeling
- Śvetaketu Āruṇeya 1, once upon a time, was about to offer sacrifice. His father said to him, ‘What priests hast thou chosen to officiate?’ He said, ‘This Vaiśvāvasavya here is my Hotr̥.’ He asked him, ‘Knowest thou, Brāhmaṇa Vaiśvāvasavya,–
०२
विश्वास-प्रस्तुतिः
चत्वा᳘रि महा᳘न्ती३ ऽइ᳘ति॥
व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि महतां᳘ महा᳘न्ती३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवोच व्वे᳘त्थ चत्वा᳘रि व्व्रता᳘नी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि व्व्रता᳘नां व्व्रता᳘नी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि᳘ क्यानी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि क्यानां᳘ क्यानी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चतु᳘रो ऽर्का३नि᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चतु᳘रो ऽर्का᳘णामर्का३नि᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच॥
मूलम् - श्रीधरादि
चत्वा᳘रि महा᳘न्ती३ ऽइ᳘ति॥
व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि महतां᳘ महा᳘न्ती३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवोच व्वे᳘त्थ चत्वा᳘रि व्व्रता᳘नी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि व्व्रता᳘नां व्व्रता᳘नी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि᳘ क्यानी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चत्वा᳘रि क्यानां᳘ क्यानी३ ऽइ᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चतु᳘रो ऽर्का३नि᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच व्वे᳘त्थ चतु᳘रो ऽर्का᳘णामर्का३नि᳘ति व्वे᳘द भो३ ऽइ᳘ति होवाच॥
मूलम् - Weber
चत्वा᳘रि महा᳘न्ती३ इ᳘ति॥
वे᳘द भो३ इ᳘ति होवाच वे᳘त्थ चत्वा᳘रि महता᳘म् महा᳘न्ती३ इ᳘ति वे᳘द भो३ इ᳘ति होवोच वे᳘त्थ चत्वा᳘रि व्रता᳘नि३ इ᳘ति वे᳘द भो३ इ᳘ति होवाच वे᳘त्थ चत्वा᳘रि व्रता᳘नां व्रता᳘नी३ इ᳘ति वे᳘द भो३ इ᳘ति होवाच वे᳘त्थ चत्वा᳘रिॗ क्यानी३ इ᳘ति वे᳘द भो३ इ᳘ति होवाच वे᳘त्थ चत्वा᳘रि क्यानांॗ क्यानी३ इ᳘ति वे᳘द भो३ इ᳘ति होवाच वे᳘त्थ चतु᳘रोऽर्का३नि᳘ति वे᳘द भो३ इ᳘ति होवाच वे᳘त्थ चतु᳘रोऽर्का᳘णामर्का३नि᳘ति वे᳘द भो३ इ᳘ति होवाच॥
मूलम् - विस्वरम्
चत्वारि महान्ती ३ इति- वेद भो३ इति होवाच । वेत्थ चत्वारि महतां महान्ती ३ इति- वेद भो३ इति होवाच । वेत्थ चत्वारि व्रतानी ३ इति- वेद भो३ इति होवाच । वेत्थ चत्वारि व्रतानां व्रतानी ३ इति- वेद भो३ इति होवाच । वेत्थ चत्वारि क्यानी३ इति- वेद भो३ ऽइति होवाच । वेत्थ चत्वारि क्यानां क्यानी३ इति- वेद भो३ इति होवाच । वेत्थ चतुरो ऽर्का ३ निति- वेद भो३ इति होवाच । वेत्थ चतुरो ऽर्काणामर्का३निति- वेद भो ३ इति होवाच ॥ २ ॥
सायणः
‘चत्वारि’ चतुःसंख्यानि ‘महान्ति’ सर्वेभ्यो ऽपि महान्ति वस्तूनि हे होतः ! ‘वेत्थ’ अपि जानासि इति । महान्तीत्यत्र प्रश्नार्थे विचार्यमाणानां प्लुतः ‘वेद भोः’ अत्र प्रतिवचने ऽर्थे प्लुतः । तानि त्वया पृष्टानि महान्ति वेद जानामीति होतुर्वाक्यस्यार्थः । एवमुत्तराणि “वेत्थ चत्वारि महतां महान्ती३” इत्यादीनि सप्त प्रश्नप्रतिवचनानि व्याख्येयानि । ‘वेत्थार्कम्’ इति श्वेतकेतोः पित्रा पृष्टो होता स्वयमर्करूपमजानानस्तस्मात्पितुः सकाशादेव संजिज्ञासुराह- अथ वै नो भवान्वक्ष्यतीति । ‘नः’ अस्माकं ‘भवान्’ ‘वक्ष्यति’ तमर्कमुपदिश इति होतुर्विज्ञापनम् । एवं ‘वेत्थार्कपर्णे’ इत्यादयः सप्त पर्याया व्याख्येयाः । पूर्वाणि पितुः प्रश्नवचनानि, उत्तराणि तत्सकाशाद्धोतुर्विद्याग्रहणप्रार्थनावाक्यानि ॥ २ ॥ ३ ॥
Eggeling
- The four great (things)?’–‘I know them, sir,’ he said.–‘Knowest thou the four great ones of the great?’–‘I know them, sir,’ he said.–‘Knowest thou the four rites (vrata)?’–‘I know them, sir,’ he said.–‘Knowest thou the four rites of rites?’–‘I know them, sir,’ he said.–‘Knowest thou the
four relating to Ka 2?’–‘I know them, sir,’ he said.–‘Knowest thou the four deepest of those relating to Ka 3?’–‘I know them, sir,’ he said.–‘Knowest thou the four flames 4?’–‘I know them, sir,’ he said.–‘Knowest thou the four flames of flames?’–‘I know them, sir,’ he said.
०३
विश्वास-प्रस्तुतिः
व्वे᳘त्थार्कमिति[[!!]]॥
(त्य᳘) अ᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कपर्णे ऽइत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कपुष्पे ऽइत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्ककोश्यावित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कसमुद्गावित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कधाना ऽइत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्काष्ठीलामित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कमूलमित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति॥
मूलम् - श्रीधरादि
व्वे᳘त्थार्कमिति[[!!]]॥
(त्य᳘) अ᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कपर्णे ऽइत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कपुष्पे ऽइत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्ककोश्यावित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कसमुद्गावित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कधाना ऽइत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्काष्ठीलामित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति व्वे᳘त्थार्कमूलमित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति॥
मूलम् - Weber
वे᳘त्थार्कमि᳘ति॥
अ᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति वे᳘त्थार्कपर्णे इत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति वेत्थार्कपुष्पे इत्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति वे᳘त्थार्ककोश्यावित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति वे᳘त्थार्कसमुद्गावित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति वे᳘त्थार्कधाना इत्य᳘थ वै नो भ᳘वान्वक्ष्यती᳘ति वे᳘त्थार्काष्ठीलामित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति वे᳘त्थार्कमूलमित्य᳘थ वै᳘ नो भ᳘वान्वक्ष्यती᳘ति॥
मूलम् - विस्वरम्
वेत्थार्कमिति । अथ वै नो भवान्वक्ष्यतीति । वेत्थार्कपर्णे इति । अथ वै नो भवान्वक्ष्यतीति । वेत्थार्कपुष्पे इति । अथ वै नो भवान्वक्ष्यतीति । वेत्थार्ककोश्याविति । अथ वै नो भवान्वक्ष्यतीति । वेत्थार्कसमुद्गाविति । अथ वै नो भवान्वक्ष्यतीति । वेत्थार्कधाना इति । अथ वै नो भवान्वक्ष्यतीति । वेत्थार्काष्ठीलामिति । अथ वै नो भवान्वक्ष्यतीति । वेत्थार्कमूलमिति । अथ वै नो भवान्वक्ष्यतीति ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- ‘Knowest thou the Arka 5?’–‘Nay, but thou wilt teach us 6, sir!’–‘Knowest thou the two Arka-leaves?’–‘Nay, but thou wilt teach us, sir!’–‘Knowest thou the two Arka-flowers?’–‘Nay, but thou wilt teach us, sir!’–‘Knowest thou the two pod-leaves 7 of the Arka?’–‘Nay, but thou wilt teach us, sir!’–Knowest thou the two coops 8 of the Arka?’–‘Nay, but thou wilt teach us, sir!’–‘Knowest thou the Arka-grains?’–‘Nay, but thou wilt teach us, sir!’–‘Knowest thou the bulge 9 of
the Arka?’–‘Nay, but thou wilt teach us, sir!’–‘Knowest thou the root of the Arka?’–‘Nay, but thou wilt teach us, sir!’
०४
विश्वास-प्रस्तुतिः
स᳘ ह वै यत्त᳘दुवा᳘च॥
व्वे᳘त्थ चत्वा᳘रि महा᳘न्ति व्वे᳘त्थ चत्वा᳘रि महतां᳘ महान्ती᳘त्यग्नि᳘र्महांस्त᳘स्य महतो᳘ महदो᳘षधयश्च व्व᳘नस्प᳘तयश्च त᳘द्ध्यस्या᳘न्नं[[!!]] व्वायु᳘र्महांस्त᳘स्य महतो᳘ महदा᳘पस्त᳘द्ध्यस्या᳘न्नमादित्यो᳘[[!!]] महांस्त᳘स्य महतो᳘ मह᳘च्चन्द्र᳘मास्त᳘द्ध्यस्या᳘न्नं[[!!]] पु᳘रुषो महांस्त᳘स्य महतो᳘ मह᳘त्पश᳘वस्त᳘द्ध्यस्या᳘न्नमेता᳘न्येव᳘[[!!]] चत्वा᳘रि महा᳘न्त्येता᳘नि चत्वा᳘रि महतां᳘ महा᳘न्त्येता᳘न्येव᳘ चत्वा᳘रि व्व्रता᳘न्येता᳘नि चत्वा᳘रि व्व्रता᳘नां व्व्रता᳘न्येता᳘न्येव᳘ चत्वा᳘रि᳘ क्यान्येता᳘नि चत्वा᳘रि᳘ क्यानां᳘ क्यान्येत᳘ ऽएव᳘ चत्वा᳘रो ऽर्का᳘ ऽएते᳘ चत्वा᳘रो ऽर्का᳘णामर्काः[[!!]]॥
मूलम् - श्रीधरादि
स᳘ ह वै यत्त᳘दुवा᳘च॥
व्वे᳘त्थ चत्वा᳘रि महा᳘न्ति व्वे᳘त्थ चत्वा᳘रि महतां᳘ महान्ती᳘त्यग्नि᳘र्महांस्त᳘स्य महतो᳘ महदो᳘षधयश्च व्व᳘नस्प᳘तयश्च त᳘द्ध्यस्या᳘न्नं[[!!]] व्वायु᳘र्महांस्त᳘स्य महतो᳘ महदा᳘पस्त᳘द्ध्यस्या᳘न्नमादित्यो᳘[[!!]] महांस्त᳘स्य महतो᳘ मह᳘च्चन्द्र᳘मास्त᳘द्ध्यस्या᳘न्नं[[!!]] पु᳘रुषो महांस्त᳘स्य महतो᳘ मह᳘त्पश᳘वस्त᳘द्ध्यस्या᳘न्नमेता᳘न्येव᳘[[!!]] चत्वा᳘रि महा᳘न्त्येता᳘नि चत्वा᳘रि महतां᳘ महा᳘न्त्येता᳘न्येव᳘ चत्वा᳘रि व्व्रता᳘न्येता᳘नि चत्वा᳘रि व्व्रता᳘नां व्व्रता᳘न्येता᳘न्येव᳘ चत्वा᳘रि᳘ क्यान्येता᳘नि चत्वा᳘रि᳘ क्यानां᳘ क्यान्येत᳘ ऽएव᳘ चत्वा᳘रो ऽर्का᳘ ऽएते᳘ चत्वा᳘रो ऽर्का᳘णामर्काः[[!!]]॥
मूलम् - Weber
स᳘ ह वै यत्त᳘दुवा᳘च॥
वे᳘त्थ चत्वा᳘रि महा᳘न्ति वे᳘त्थ चत्वा᳘रि महता᳘म् महान्ती᳘त्यग्नि᳘र्महांस्त᳘स्य महतो᳘ महदो᳘षधयश्च व᳘नस्प᳘तयश्च तद्ध्य᳘स्या᳘न्नं वायु᳘र्महांस्त᳘स्य महतो᳘ महदा᳘पस्तद्ध्य᳘स्या᳘न्नमादित्यो᳘ महांस्त᳘स्य महतो᳘ मह᳘च्चन्द्र᳘मास्तद्ध्य᳘स्या᳘न्नम् पु᳘रुषो महांस्त᳘स्य महतो᳘ मह᳘त्पश᳘वस्तद्ध्य᳘स्या᳘न्नमेता᳘न्येव᳘ चत्वा᳘रि महा᳘न्त्येता᳘नि चत्वा᳘रि महता᳘म् महा᳘न्त्येता᳘न्येव᳘ चत्वा᳘रि व्रता᳘न्येता᳘नि चत्वा᳘रि व्रता᳘नां व्रता᳘न्येता᳘न्येव᳘ चत्वा᳘रिॗ क्यान्येता᳘नि चत्वा᳘रिॗ क्यानांॗ क्यान्येत᳘ एव᳘ चत्वा᳘रोऽर्का᳘ एते᳘ चत्वा᳘रोऽर्का᳘णामर्काः᳟॥
मूलम् - विस्वरम्
स ह वै यत्तदुवाच- वेत्थ चत्वारि महान्ति, वेत्थ चत्वारि महतां महान्ति- इति । अग्निर्महान्- तस्य महतो महदोषधयश्च वनस्पतयश्च- तद्ध्यस्यान्नम् । वायुर्महान्- तस्य महतो महदापः- तद्ध्यस्यान्नम् । आदित्यो महान्- तस्य महतो महच्चन्द्रमाः- तद्ध्यस्यान्नम् । पुरुषो महान्- तस्य महतो महत्पशवः- तद्ध्यस्यान्नम्। एतान्येव चत्वारि महान्ति, एतानि चत्वारि महतां महान्ति । एतान्येव चत्वारि व्रतानि, एतानि चत्वारि व्रतानां व्रतानि । एतान्येव चत्वारि क्यानि, एतानि चत्वारि क्यानां क्यानि । एत एव चत्वारो ऽर्काः, एते चत्वारो ऽर्काणामर्काः ॥ ४ ॥
सायणः
वेत्थ चत्वारि महान्तीत्यादेः प्रश्नसमुदायस्याग्न्यादिकमर्थं श्रुतिः स्वयं विरादयति- स ह वै यत्तदुवाच वेत्थ चत्वारि महान्तीति । यदुवाच पिता तस्यार्थो ऽयमिति ‘अग्निर्महान्’ इत्यादिनोच्यते । तत्र महच्छब्देन अग्निवाय्वादित्यपुरुषाश्चत्वार उच्यन्ते । ‘महतां महान्ति’ इति पदेन महतामग्निवाय्वादित्यपुरुषाणामुपजीव्या ओषधि-वनस्पत्युदकचन्द्रपशवश्चत्वार उच्यन्ते । एतेषामोषध्यादीनामग्न्यादिभिरुपजीव्यत्वात्तेषां महच्छब्दवाच्यानामपि एतान्योषध्यादीनि महतां महान्तीत्युच्यन्ते । यो हि उपजीव्यः स महानिति व्यवह्रियते । उक्तमग्निवाय्वादिकमोषधिवनस्पत्युदकादिकं च उत्तरेषां चत्वारि व्रतानीत्यादीनां वाक्यानां क्रमेणार्था इति निरूपयति- एतान्येव चत्वारीत्यादिना अर्काणामर्काः इत्यन्तेन । ‘क्यानि’ । कः प्रजापतिस्तस्मै हितानि क्यानि । ‘अर्काः’ अर्चनीयाः ॥ ४ ॥
Eggeling
- Now, when he said, ‘Knowest thou the four great (things)? Knowest thou the four great of the great?’–the great one is Agni (the fire), and the great (thing) of that great one are the plants and trees, for they are his food; and the great one is Vāyu (the wind), and the great (thing) of that great one are the waters, for they are his (the wind’s) food; and the great one is Āditya (the sun), and the great (thing) of that great one is the moon, for that is his food; and the great one is Man, and the great (thing) of that great one is cattle, for they are his food:–these are the four great things, these the four great of the great;–these are the four rites, these the four rites of rites;–these are the four relating to Ka, these the four deepest relating to Ka;–these are the four flames, these the four flames of flames.
०५
विश्वास-प्रस्तुतिः
(ऽ) अ᳘थ ह वै यत्त᳘दुवा᳘च॥
व्वे᳘त्थार्कमि᳘ति पु᳘रुषᳫँ᳭ हैव त᳘दुवाच व्वे᳘त्थार्कपर्णे ऽइ᳘ति क᳘र्णौ हैव त᳘दुवाच व्वे᳘त्थार्कपुष्पे ऽइत्य᳘क्षिणी हैव त᳘दुवाच व्वे᳘त्थार्ककोश्यावि᳘ति ना᳘सिके हैव त᳘दुवाच व्वे᳘त्थार्कसमुद्गावित्यो᳘ष्ठौ हैव त᳘दुवाच व्वे᳘त्थार्कधाना ऽइ᳘ति द᳘न्तान्हैव त᳘दुवाच व्वे᳘त्थार्काष्ठीलामि᳘ति जिह्वा᳘ᳫँ᳘ हैव त᳘दुवाच व्वे᳘त्थार्कमूलमित्य᳘न्नᳫँ᳭ हैव त᳘दुवाच स᳘ ऽए᳘षो ऽग्नि᳘रर्को यत्पुरुषः[[!!]] स यो᳘ हैत᳘मेव᳘मग्नि᳘मर्कं पु᳘रुषमुपा᳘स्ते ऽय᳘मह᳘मग्नि᳘र᳘र्को ऽस्मी᳘ति व्विद्य᳘या है᳘वास्यैष᳘ ऽआत्म᳘न्नग्नि᳘रर्क᳘श्चितो᳘ भवति॥
मूलम् - श्रीधरादि
(ऽ) अ᳘थ ह वै यत्त᳘दुवा᳘च॥
व्वे᳘त्थार्कमि᳘ति पु᳘रुषᳫँ᳭ हैव त᳘दुवाच व्वे᳘त्थार्कपर्णे ऽइ᳘ति क᳘र्णौ हैव त᳘दुवाच व्वे᳘त्थार्कपुष्पे ऽइत्य᳘क्षिणी हैव त᳘दुवाच व्वे᳘त्थार्ककोश्यावि᳘ति ना᳘सिके हैव त᳘दुवाच व्वे᳘त्थार्कसमुद्गावित्यो᳘ष्ठौ हैव त᳘दुवाच व्वे᳘त्थार्कधाना ऽइ᳘ति द᳘न्तान्हैव त᳘दुवाच व्वे᳘त्थार्काष्ठीलामि᳘ति जिह्वा᳘ᳫँ᳘ हैव त᳘दुवाच व्वे᳘त्थार्कमूलमित्य᳘न्नᳫँ᳭ हैव त᳘दुवाच स᳘ ऽए᳘षो ऽग्नि᳘रर्को यत्पुरुषः[[!!]] स यो᳘ हैत᳘मेव᳘मग्नि᳘मर्कं पु᳘रुषमुपा᳘स्ते ऽय᳘मह᳘मग्नि᳘र᳘र्को ऽस्मी᳘ति व्विद्य᳘या है᳘वास्यैष᳘ ऽआत्म᳘न्नग्नि᳘रर्क᳘श्चितो᳘ भवति॥
मूलम् - Weber
अ᳘थ ह वै यत्त᳘दुवा᳘च॥
वे᳘त्थार्कमि᳘ति पु᳘रुषᳫं हैव त᳘दुवाच॥
वे᳘त्थार्कपर्णे इ᳘ति क᳘र्णौ हैव त᳘दुवाच वे᳘त्थार्कपुष्पे इत्य᳘क्षिणी हैव त᳘दुवाच वे᳘त्थार्ककोश्यावि᳘ति ना᳘सिके हैव त᳘दुवाच वे᳘त्थार्कसमुद्गावित्यो᳘ष्ठौ हैव त᳘दुवाच वे᳘त्थार्कधाना इ᳘ति द᳘न्तान्हैव त᳘दुवाच वे᳘त्थार्काष्ठीलामि᳘ति जिह्वा᳘ᳫं᳘ हैव त᳘दुवाच वे᳘त्थार्कमूलमित्य᳘न्नᳫं हैव त᳘दुवाच स᳘ एॗषोऽग्नि᳘रर्को यत्पु᳘रुषः स यो᳘ हैत᳘मेव᳘मग्नि᳘मर्कम् पु᳘रुषमुपा᳘स्तेऽय᳘मह᳘मग्नि᳘रॗर्कोऽस्मी᳘ति विद्य᳘या हैॗवास्यैष᳘ आत्म᳘न्नग्नि᳘रर्क᳘श्चितो᳘ भवति॥
मूलम् - विस्वरम्
अथ ह वै यत् तदुवाच- वेत्थार्कमिति- पुरुषं हैव तदुवाच । वेत्थार्कपर्णे इति- कर्णौ हैव तदुवाच । वेत्थार्कपुष्पे इति- अक्षिणी हैव तदुवाच । वेत्थार्ककोश्याविति- नासिके हैव तदुवाच । वेत्थार्कसमुद्राविति- ओष्ठौ हैव तदुवाच । वेत्थार्कधाना इति- दन्तान्हैव तदुवाच । वेत्थार्काष्ठीलामिति- जिह्वां हैव तदुवाच । वेत्थार्कमूलमिति- अन्नं हैव तदुवाच । स एषो ऽग्निरर्को यत्पुरुषः । स यो हैतमेवमग्निमर्कं पुरुषमुपास्ते- अयमहमग्निरर्को ऽस्मीति । विद्यया हैवास्यैष आत्मन्नग्निरर्कश्चितो भवति ॥ ५ ॥
सायणः
“वेत्थार्कमि"त्यादिकस्य प्रश्नस्यार्थं दर्शयति- अथ ह वै यत्तदुवाच वेत्थार्कमिति पुरुषमिति । ‘वेत्थार्कमिति’ यत् पृष्टस्तत्रार्कपदेन पुरुष एवोक्तः । ‘अर्कपर्णे’ इति पदेन पुरुषकर्णावुक्तौ । ‘कर्णौ’ अपि पर्णाकारौ तिष्ठत इति मत्वोक्तम् । ‘अर्कपुष्पे’ ‘इत्यक्षिणी’ उक्ते । अर्ककोश्याविति । कोश्याकारे फलके एतत्पदेन पुरुषनासिके उक्ते । ‘अर्ककोश्यौ’ अपि नासिकाकृती । अर्कसमुद्गाविति । अर्ककोशाग्रे विदलितौ ओष्ठभागौ । ‘धाना’ पदेन ‘अर्कबीजानि’ । अर्काष्ठीलामिति । अर्ककोशमध्ये विस्तरेण वर्तमाना तूली जीह्वामूली । अर्कमूलमिति । इत्यनेन ‘अन्नम्’ उक्तम् । अन्नं हि पुरुषस्य मूलम् । स एषो ऽग्निरर्क इति । अर्कपर्णादिभिर्यः पुरुषो निरूपितः ‘सः’ ‘अग्निरर्कः’ । अहंग्रहोपासकस्य फलमाह- स यो हैतमेवमग्निमर्कमिति । ‘अग्निम्’ ‘अर्कम्’ पुरुष इत्युपास्ते । अहम् अग्निरर्कः पुरुषो ऽस्मीत्यहंग्रहणम् । अनेन प्रतीकोपासनं न भवतीत्युक्तं भवति । एष उपासको ‘विद्यया’ एवंरूपज्ञानेनात्मन् स्वशरीरे भाविनि ‘अग्निरर्को भवति । अग्न्यर्कात्मको भवतीत्यर्थः ॥ ५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे तृतीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (१० । ३ । ४) ॥
Eggeling
- And when he said, ‘Knowest thou the Arka?’ he thereby meant man;–‘Knowest thou the two Arka-leaves?’ he thereby meant his ears;–‘Knowest thou the two Arka-flowers?’ he thereby meant his eyes;–‘Knowest thou the pod-leaves of the Arka?’ he thereby meant his nostrils;–‘Knowest thou the two coops of the Arka?’ he thereby meant his lips;–‘Knowest thou the Arka-grains?’ he thereby meant his teeth;–‘Knowest thou the bulge of the Arka?’ he thereby meant his tongue;–‘Knowest thou the root of the Arka?’
he thereby meant his food. Now that Arka, to wit, man, is Agni; and verily, whoso regards Agni as the Arka and the man, in his (altar-) body that Agni, the Arka, will be built up even through the knowledge that ‘I here am Agni, the Arka.’
-
333:2 That is, grandson of Aruṇa (Aupaveśi), and son of (Uddālaka) Āruṇi (II, 3, I, 35. 34; IV, 5, 7, 9). ↩︎
-
334:1 Sāyaṇa takes ‘kya’ to mean ’those useful to, or pleasing to (hita), Ka, i.e. Prajāpati.’ ↩︎
-
334:2 Literally, ’the four Kya of the Kya.’ For more symbolical speculation on these terms, see X, 4, 1, 4. ↩︎
-
334:3 Or, fires (arka), used of the sun, the fire and the lightning, as well as of the Arka plant. Sāyaṇa, however, here explains ‘arkāḥ’ by ‘arcanīyāḥ,’ ‘worthy of being praised, or honoured.’ ↩︎
-
334:4 That is, the Arka plant (Calotropis gigantea), apparently so called (= ‘arka,’ lightning) from the wedge-like shape of its leaves. Cf. IX, 1, 1, 4, where the leaf is used in offering the Śatarudriya oblations. The other meanings of ‘arka,’ especially that of ‘flame, fire,’ however, are likewise implied in these mystic speculations. ↩︎
-
334:5 Or, simply, ‘Thou wilt tell us, then (atha vai), sir.’ ↩︎
-
334:6 ? Or, the pods, sheaths; arkakośyau kośyākāre phale (or puṭake). Sāyaṇa. ↩︎
-
334:7 ? Or, ‘seas’ (samudra). Sāyaṇa explains it as two opened ’lip-parts’ at the top of the Arka-pod (arkakośāgre vidalitaushṭḥabhāgau). ↩︎
-
334:8 That is, according to the St. Petersb. Dict., ’the globular, cake-shaped, hardened cicatrix of the Calotropis gigantea.’ Sāyaṇa explains it by, ‘arkakośamadhye vistareṇa (? v. l. gihvāstāraṇa-) vartamānā tūlī.’ ↩︎