०१

विश्वास-प्रस्तुतिः

धी᳘रो ह शातपर्णेयः᳘॥
(यो᳘) महा᳘शालं जाबाल᳘मुपो᳘त्ससाद त᳘ᳫँ᳘ होवाच किं᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति व्वा᳘चमि᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति व्वाग्ग्मी᳘ भवती᳘ति होवाच᳘ नैनं व्वा᳘ग्जहाती᳘ति॥

मूलम् - श्रीधरादि

धी᳘रो ह शातपर्णेयः᳘॥
(यो᳘) महा᳘शालं जाबाल᳘मुपो᳘त्ससाद त᳘ᳫँ᳘ होवाच किं᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति व्वा᳘चमि᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति व्वाग्ग्मी᳘ भवती᳘ति होवाच᳘ नैनं व्वा᳘ग्जहाती᳘ति॥

मूलम् - Weber

धी᳘रो ह शातपर्णेयः᳟॥
महा᳘शालं जाबाल᳘मुपो᳘त्ससाद त᳘ᳫं᳘ होवाच 1 कि᳘म् मा विद्वा᳘नुपो᳘दसद इ᳘त्यग्निं᳘ वेदे᳘ति क᳘मग्निं᳘ वेत्थे᳘ति वा᳘चमि᳘ति यस्त᳘मग्निं वे᳘द किᳫं स᳘ भवती᳘ति वाग्मी᳘ भवती᳘ति होवाचॗ नैनं वा᳘ग्जहाती᳘ति॥

मूलम् - विस्वरम्

धीरो ह शातपर्णेयो महाशालं जाबालमुपोत्ससाद । तं होवाच- किं मा विद्वानुपोदसद इति । अग्निं वेदेति । कमग्निं वेत्थेति । वाचमिति । यस्तमग्निं वेद- किं स भवतीति । वाग्ग्मी भवतीति- होवाच । नैनं वाग्जहातीति ॥ १ ॥

सायणः

तृतीयब्राह्मणे ऽग्नेः सर्वदेवतासमष्टिरूपप्राणवाय्वात्मकत्वं धीरमहाशालनाम्नोर्महर्ष्योः प्रश्नप्रतिवचनाभ्यां प्रतिपाद्यते । विद्याविषये गुरुशिष्यप्रतिपत्तिः कार्येति वक्तुं तत्प्रतिपत्तिमादौ दर्शयति- धीरो ह शातपर्णेय इति । ‘उपोत्ससाद’ समीपमभ्यागतः । तस्मात् सकाशाद् विद्यां ग्रहीतुमुपसत्तिं कृतवान् । गुरुः शिष्यस्य समीपागमनमात्रं दृष्ट्वा विद्यामुपदेष्टुं नार्हति, किन्तु तस्य बुभुत्साविशेषं परिज्ञाय वक्तुमुचितः इति दर्शयितुं महाशालस्य वचनमाह- तं होवाच किं मा विद्वानिति । स जाबालो महाशालः ‘तं’ धीरमुपसन्नं शिष्यमुवाच- हे धीर ! ‘किं विद्वान्’ कमर्थं जानानो माम् ‘उपोदसदः’ उपसन्नवानसीति । शिष्यस्योत्तरम्- ‘अग्निं वेद’ जानामीति । वेत्तेर्लडुत्तमे मिपो णलादेशे रूपम् । कमग्निं वेत्थेति । अग्निविशेषप्रश्नो महाशालस्य । वाचम् इति । वाग्रूपमग्निं वेदेति शिष्यस्योत्तरम् । अथ महाशालस्य वाग्रूपाग्निपरिज्ञाने किं फलमिति फलप्रश्नः- यस्तमग्निं वेद किं स भवतीति । अत्र वेत्तेर्लट्प्रथमैकवचने तिपो णलादेशे रूपम् । अथ वाग्रूपफलकथनं वाग्ग्मी भवतीत्यादिना । ‘वाग्ग्मी’ प्रशस्तवाग्भवति इत्येवमुवाच धीरः । तदेव विवृणोति- नैनमिति । ‘एनम्’ वाग्रूपमग्निं विद्वांसं ‘वाक् न जहाति’ न त्यजति । सर्वत्र प्रश्नप्रतिवचनसमाप्तिद्योतका इतिशब्दाः ॥ १ ॥

Eggeling
  1. Dhīra Śātaparṇeya once on a time repaired to Mahāśāla 2 Jābāla. He said to him, ‘Knowing what 3, hast thou come to me?’–‘Agni (the fire) I know.’–‘What Agni knowest thou?’–‘Speech.’–‘What becomes of him who knows that Agni?’–‘He becomes eloquent 4,’ he said, ‘speech does not fail him.’

०२

विश्वास-प्रस्तुतिः

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति च᳘क्षुरि᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति च᳘क्षुष्मान्भवती᳘ति होवाच᳘ नैनं च᳘क्षुर्जहाती᳘ति॥

मूलम् - श्रीधरादि

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति च᳘क्षुरि᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति च᳘क्षुष्मान्भवती᳘ति होवाच᳘ नैनं च᳘क्षुर्जहाती᳘ति॥

मूलम् - Weber

वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा विद्वा᳘नुपो᳘दसद इ᳘त्यग्निं᳘ वेदे᳘ति क᳘मग्निं᳘ वेत्थे᳘ति च᳘क्षुरि᳘ति यस्त᳘मग्निं वे᳘द किᳫं स᳘ भवती᳘ति च᳘क्षुष्मान्भवती᳘ति होवाचॗ नैनं च᳘क्षुर्जहाती᳘ति॥

मूलम् - विस्वरम्

वेत्थाग्निमिति होवाच- किमेव मा विद्वानुपोदसद इति । अग्निं वेदेति । कमग्निं वेत्थेति । चक्षुरिति । यस्तमग्निं वेद- किं स भवतीति । चक्षुष्मान्भवतीति होवाच । नैनं चक्षुर्जहातीति ॥ २ ॥

सायणः

वेत्थाग्निमिति होवाचेत्यादयो जाबालस्य धीरं प्रति कृताः प्रश्नाः, एवमुत्तरत्र वागाद्यग्निविशेषविषयप्रश्नप्रतिवचनरूपाः पर्याया व्याख्येयाः ॥ २-४ ॥

Eggeling
  1. ‘Thou knowest Agni,’ he said; ‘knowing what (else) hast thou come to me?’–‘Agni I know.’–‘What Agni knowest thou?’–‘The Eye.’–‘What becomes of him who knows that Agni?’–‘He becomes seeing,’ he said; his eye does not fail him.’

०३

विश्वास-प्रस्तुतिः

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति म᳘न ऽइ᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति मनस्वी᳘ भवती᳘ति होवाच᳘ नैनं म᳘नो जहाती᳘ति॥

मूलम् - श्रीधरादि

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति म᳘न ऽइ᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति मनस्वी᳘ भवती᳘ति होवाच᳘ नैनं म᳘नो जहाती᳘ति॥

मूलम् - Weber

वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा विद्वा᳘नुपो᳘दसद इ᳘त्यग्निं᳘ वेदे᳘ति क᳘मग्निं᳘ वेत्थे᳘ति म᳘न इ᳘ति यस्त᳘मग्निं वे᳘द किᳫं स᳘ भवती᳘ति मनस्वी᳘ भवती᳘ति होवाचॗ नैनम् म᳘नो जहाती᳘ति॥

मूलम् - विस्वरम्

वेत्थाग्निमिति होवाच- किमेव मा विद्वानुपोदसद इति । अग्निं वेदेति । कमग्निं वेत्थेति । मन इति । यस्तमग्निं वेद- किं स भवतीति । मनस्वी भवतीति होवाच । नैनं मनो जहातीति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘Thou knowest Agni,’ he said; ‘knowing what hast thou come to me?’–‘Agni I know.’–‘What Agni knowest thou?’–‘The Mind.’–‘What becomes of him who knows that Agni?’–‘He becomes thoughtful,’ he said; ‘his mind does not fail him.’

०४

विश्वास-प्रस्तुतिः

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति श्रो᳘त्रमि᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति श्रो᳘त्रवान्भवती᳘ति होवाच᳘ नैनᳫँ᳭ श्रो᳘त्रं जहाती᳘ति॥

मूलम् - श्रीधरादि

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति श्रो᳘त्रमि᳘ति यस्त᳘मग्निं व्वे᳘द किᳫँ᳭ स᳘ भवती᳘ति श्रो᳘त्रवान्भवती᳘ति होवाच᳘ नैनᳫँ᳭ श्रो᳘त्रं जहाती᳘ति॥

मूलम् - Weber

वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा विद्वा᳘नुपो᳘दसद इ᳘त्यग्निं᳘ वेदे᳘ति क᳘मग्निं᳘ वेत्थे᳘ति श्रो᳘त्रमि᳘ति यस्त᳘मग्निं वे᳘द किᳫं स᳘ भवती᳘ति श्रो᳘त्रवान्भवती᳘ति होवाचॗ नैनं श्रो᳘त्रं जहाती᳘ति॥

मूलम् - विस्वरम्

वेत्थाग्निमिति होवाच- किमेव मा विद्वानुपोदसद इति । अग्निं वेदेति । कमग्निं वेत्थेति । श्रोत्रमिति । यस्तमग्निं वेद- किं स भवतीति । श्रोत्रवान्भवतीति होवाच । नैनं श्रोत्रं जहातीति ॥ ४ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘Thou knowest Agni,’ he said; ‘knowing what hast thou come to me?’–‘Agni I know.’–‘What Agni knowest thou?’–‘The Ear.’–‘What becomes of him who knows that Agni?’–‘He becomes hearing,’ he said; ‘his ear does not fail him.’

०५

विश्वास-प्रस्तुतिः

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति य᳘ ऽएतत्स᳘र्व्वमग्निस्तं᳘ व्वेदे᳘ति त᳘स्मिन्होक्त᳘ ऽउपा᳘वरुरोहा᳘धीहि भोस्त᳘मग्निमि᳘ति॥

मूलम् - श्रीधरादि

व्वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा व्विद्वा᳘नुपो᳘दसद ऽइ᳘त्यग्निं᳘ व्वेदे᳘ति क᳘मग्निं᳘ व्वेत्थे᳘ति य᳘ ऽएतत्स᳘र्व्वमग्निस्तं᳘ व्वेदे᳘ति त᳘स्मिन्होक्त᳘ ऽउपा᳘वरुरोहा᳘धीहि भोस्त᳘मग्निमि᳘ति॥

मूलम् - Weber

वे᳘त्थाग्निमि᳘ति होवाच॥
कि᳘मेव᳘ मा विद्वा᳘नुपो᳘दसद इ᳘त्यग्निं᳘ वेदे᳘ति क᳘मग्निं᳘ वेत्थे᳘ति य᳘ एतत्स᳘र्वमग्निस्तं᳘ वेदे᳘ति त᳘स्मिन्होक्त᳘ उपा᳘वरुरोहा᳘धीहि भोस्त᳘मग्निमि᳘ति॥

मूलम् - विस्वरम्

वेत्थाग्निमिति होवाच- किमेव मा विद्वानुपोदसद इति । अग्निं वेदेति । कमग्निं वेत्थेति । य एतत्सर्वमग्निस्तं वेदेति । तस्मिन्होक्त ऽउपावरुरोह- अधीहि भोः- तमग्निमिति ॥ ५ ॥

सायणः

य एतत्सर्वमग्निस्तं वेदेति । पुनः जाबालेन कीदृशमग्निं ‘वेत्थेति’ प्रश्ने कृते वागादिसर्वात्मकमग्निं जानामीति धीर उक्तवान् । अथैवमुक्ते सर्वात्मकमग्निमजानानो महाशालस्तस्माद्धीरात् सकाशादग्निं परिजिज्ञासितुमासनादुपावरूढ इत्याह- तस्मिन् होक्त उपावरुरोहेति । हे धीर ! ‘तं’ सर्वात्मकम् ‘अग्निम्’ माम् ‘अधीहि’ अध्यापयेति उपसन्न इत्यर्थः ॥ ५ ॥

Eggeling
  1. ‘Thou knowest Agni,’ he said; ‘knowing what hast thou come to me?’–‘Agni I know.’–‘What Agni knowest thou?’–‘The Agni who is everything here, him I know.’–On (hearing) this said, he stepped down to him and said, ‘Teach me that Agni, sir!’

०६

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
प्राणो वाव᳘ सो ऽग्नि᳘र्यदा वै पु᳘रुषः स्व᳘पिति प्राणं त᳘र्हि व्वाग᳘प्येति प्राणं च᳘क्षुः प्राणं म᳘नः प्राणᳫँ᳭ श्रो᳘त्रं यदा᳘ प्रबु᳘ध्यते प्राणा᳘देवा᳘धि पु᳘नर्जायन्त ऽइ᳘त्यध्यात्मम्[[!!]]॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
प्राणो वाव᳘ सो ऽग्नि᳘र्यदा वै पु᳘रुषः स्व᳘पिति प्राणं त᳘र्हि व्वाग᳘प्येति प्राणं च᳘क्षुः प्राणं म᳘नः प्राणᳫँ᳭ श्रो᳘त्रं यदा᳘ प्रबु᳘ध्यते प्राणा᳘देवा᳘धि पु᳘नर्जायन्त ऽइ᳘त्यध्यात्मम्[[!!]]॥

मूलम् - Weber

स᳘ होवाच॥
प्राणो वावॗ सोऽग्नि᳘र्यदा वै पु᳘रुषः स्व᳘पिति प्राणं त᳘र्हि वाग᳘प्येति प्राणं च᳘क्षुः प्राणम् म᳘नः प्राणं श्रो᳘त्रं यदा᳘ प्रबु᳘ध्यते प्राणा᳘देवा᳘धि पु᳘नर्जायन्त इ᳘त्यध्यात्म᳘म्॥

मूलम् - विस्वरम्

स होवाच- प्राणो वाव सो ऽग्निः । यदा वै पुरुषः स्वपिति- प्राणं तर्हि वागप्येति । प्राणं चक्षुः । प्राणं मनः । प्राणं श्रोत्रम् । यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते । इत्यध्यात्मम् ॥ ६ ॥

सायणः

उपास्याग्नेरध्यात्माधिदेवतभेदेन सर्वात्मकत्वं विशदयति- स होवाच प्राणो वाव सो ऽग्निरिति । ‘सः’ धीरः तम्’ अग्निमुक्तवान् । ‘सो ऽग्निः’ ‘प्राणो वाव’ प्राण एव । प्राणस्य सर्वात्मकत्वमाह- यदा वै पुरुषः स्वपितीति । सुषुप्त्यवस्थामनुभवति तदा वाक्चक्षुःश्रोत्रादीनि ज्ञानकर्मेन्द्रियाणि मनश्चान्तरमिन्द्रियं ‘प्राणमप्येति’- प्राण एकीभवति । केवलं प्राण एव वर्त्तत इत्यर्थः । अथ ‘यदा’ पुरुषः ‘प्रबुध्यते’ ज्ञानवान् भवति तदा प्राणादेवाधि पुनरिन्द्रियाणि जायन्ते अतः प्राणरूपो ऽग्निः सर्वात्मक इत्यध्यात्ममित्यर्थः ॥ ६ ॥

Eggeling
  1. He said,–Verily, that Agni is the breath; for when man sleeps, speech passes into the breath, and so do the eye, the mind, and the ear; and when he awakes, they again issue from the breath. Thus much as to the body.

०७

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाधिदेवतम्[[!!]]॥
या वै सा व्वा᳘गग्नि᳘रेव स यत्तच्च᳘क्षुरसौ स᳘ ऽआदित्यो यत्तन्म᳘न ऽएष स᳘ चन्द्र᳘मा यत्तच्छ्रो᳘त्रं दि᳘श ऽएव तद᳘थ यः स᳘ प्रा᳘णो ऽय᳘मेव स᳘ व्वायु᳘र्यो ऽयं प᳘वते॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाधिदेवतम्[[!!]]॥
या वै सा व्वा᳘गग्नि᳘रेव स यत्तच्च᳘क्षुरसौ स᳘ ऽआदित्यो यत्तन्म᳘न ऽएष स᳘ चन्द्र᳘मा यत्तच्छ्रो᳘त्रं दि᳘श ऽएव तद᳘थ यः स᳘ प्रा᳘णो ऽय᳘मेव स᳘ व्वायु᳘र्यो ऽयं प᳘वते॥

मूलम् - Weber

अ᳘थाधिदेवत᳘म्॥
या वै सा वा᳘गग्नि᳘रेव स यत्तच्च᳘क्षुरसौ स᳘ आदित्यो यत्तन्म᳘न एष स᳘ चन्द्र᳘मा यत्तछ्रो᳘त्रं दि᳘श एव तद᳘थ यः स᳘ प्राॗणोऽय᳘मेव स᳘ वायुॗर्योऽयम् प᳘वते॥

मूलम् - विस्वरम्

अथाधिदेवतम्- या वै सा वाक्-अग्निरेव सः । यत्तचक्षुः- असौ स आदित्यः । यत्तन्मनः- एष स चन्द्रमाः । यत्तच्छ्रोत्रम्- दिश एव तत् । अथ यः स प्राणः-अयमेव स वायुः- यो ऽयं पवते ॥ ७ ॥

सायणः

अधिदैवमाह- अथाधिदेवतमिति । ‘या वै सा वागग्निरेव’- “अग्निर्वाग्भूत्वा मुखं प्राविशद्” (ऐ. आ. २ । ४ । २)- इति श्रुतेः । चक्षुर्मनःश्रोत्रप्राणानामादित्यचन्द्रदिग्वायुरूपत्वमैतरेयके समाम्नायते- “वायुः प्राणो भूत्वा नासिके प्राविशद्, आदित्यश्चक्षुर्भूत्वा ऽक्षिणी प्राविशद्, दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्, चन्द्रमा मनो भूत्वा हृदयं प्राविशद्”- (ऐ. आ. २ । ४ । २) इति । ‘यो ऽयं पवते’ अन्तरिक्षे प्रवहति स वायुः प्राण इत्यर्थः ॥ ७ ॥

Eggeling
  1. Now as to the deity. That speech verily is Agni himself; and that eye is yonder sun; and that

mind is that moon; and that ear is the quarters; and that breath is the wind that blows here.

०८

विश्वास-प्रस्तुतिः

यदा वा᳘ ऽअग्नि᳘रनुग᳘च्छति॥
व्वायुं त᳘र्ह्यनू᳘द्वाति त᳘स्मादेनमु᳘दवासीदि᳘त्याहुर्व्वायु᳘ᳫँ᳘ ह्यनूद्वा᳘ति[[!!]] य᳘दा ऽऽदि᳘त्यो ऽस्तमे᳘ति व्वायुं त᳘र्हि प्र᳘विशति व्वायुं᳘ चन्द्र᳘मा व्वायौ दि᳘शः प्र᳘तिष्ठिता व्वायो᳘रेवा᳘धि पु᳘नर्जायन्ते स᳘ य᳘दैवंवि᳘दस्मा᳘ल्लोकात्प्रै᳘ति व्वा᳘चै᳘वाग्निम᳘प्येति च᳘क्षुषा ऽऽदित्यं म᳘नसा चन्द्रᳫँ᳭ श्रो᳘त्रेण दि᳘शः प्राणे᳘न वायुᳫँ᳭ स᳘ ऽएत᳘न्मय ऽएव भू᳘त्वैता᳘सां देव᳘तानां यां᳘ यां काम᳘यते सा᳘ भू᳘त्वैलयति॥

मूलम् - श्रीधरादि

यदा वा᳘ ऽअग्नि᳘रनुग᳘च्छति॥
व्वायुं त᳘र्ह्यनू᳘द्वाति त᳘स्मादेनमु᳘दवासीदि᳘त्याहुर्व्वायु᳘ᳫँ᳘ ह्यनूद्वा᳘ति[[!!]] य᳘दा ऽऽदि᳘त्यो ऽस्तमे᳘ति व्वायुं त᳘र्हि प्र᳘विशति व्वायुं᳘ चन्द्र᳘मा व्वायौ दि᳘शः प्र᳘तिष्ठिता व्वायो᳘रेवा᳘धि पु᳘नर्जायन्ते स᳘ य᳘दैवंवि᳘दस्मा᳘ल्लोकात्प्रै᳘ति व्वा᳘चै᳘वाग्निम᳘प्येति च᳘क्षुषा ऽऽदित्यं म᳘नसा चन्द्रᳫँ᳭ श्रो᳘त्रेण दि᳘शः प्राणे᳘न वायुᳫँ᳭ स᳘ ऽएत᳘न्मय ऽएव भू᳘त्वैता᳘सां देव᳘तानां यां᳘ यां काम᳘यते सा᳘ भू᳘त्वैलयति॥

मूलम् - Weber

यदा वा᳘ अग्नि᳘रनुग᳘छति॥
वायुं त᳘र्ह्यनू᳘द्वाति त᳘स्मादेनमु᳘दवासीदि᳘त्याहुर्वायुᳫं ह्य᳘नूद्वा᳘ति यॗदादिॗत्योऽस्तमे᳘ति वायुं त᳘र्हि प्र᳘विशति वायुं᳘ चन्द्र᳘मा वायौ दि᳘शः प्र᳘तिष्ठिता वायो᳘रेवा᳘धि पु᳘नर्जायन्ते स᳘ यॗदैवंवि᳘दस्मा᳘ल्लोकात्प्रै᳘ति वाॗचैॗवाग्निम᳘प्येति च᳘क्षुषादित्यम् म᳘नसा चन्द्रं श्रो᳘त्रेण दि᳘शः प्राणे᳘न वायुᳫं स᳘ एत᳘न्मय एव᳘ भूॗत्वैता᳘सां देव᳘तानां यां᳘-यां काम᳘यते सा᳘ भूॗत्वेलयति॥

मूलम् - विस्वरम्

यदा वा अग्निरनुगच्छति- वायुं तर्ह्यनूद्वाति । तस्मादेनमुदवासीदित्याहुः । वायुं ह्यनूद्वाति । यदा ऽऽदित्यो ऽस्तमेति- वायुं तर्हि प्रविशति । वायुं चन्द्रमाः । वायौ दिशः प्रतिष्ठिताः । वायोरेवाधि पुनर्जायन्ते । स यदैवंविदस्माल्लोकात्प्रैति- वाचैवाग्निमप्येति । चक्षुषा ऽऽदित्यम् । मनसा चन्द्रम् । श्रोत्रेण दिशः । प्राणेन वायुम् । स एतन्मय- एव भूत्वैतासां देवतानां यां यां कामयते- सा भूत्वैलयति ॥ ८ ॥

सायणः

तेषामग्न्यादीनां वाय्वधीनतां दर्शयति- यदा वा अग्निरिति । ‘यदा ऽग्निः’ ‘अनुगच्छति’ तदा ‘वायुम्’ अनुलक्ष्य ‘उद्वाति’ नश्यति । वायावधिकं वाति सति अग्निर्विनष्टो भवति । तस्मादेनं नष्टमग्निम् ‘उदवासीदित्याहुः’ नष्टो ऽनुगत उद्वात इति पर्याया इत्यर्थः । यदा ऽऽदित्यो ऽस्तमेतीति । ‘अस्तमेति’ इति पदेन विलयो लक्ष्यते । आदित्यचन्द्रमसोर्वायौ प्रवेशः “ज्योतिष्यापः प्रलीयन्ते तेजो वायौ प्रलीयते”- इति श्रुतेरवगम्यते । ‘वायौ’ सूत्रात्मनि ‘दिशः’ ‘प्रतिष्ठिताः’ वर्त्तन्ते । ‘पुनः’ वायोः सकाशादेवाग्न्यादयो जायन्त इत्यधिदेवतमर्थः । वेदितुः फलमाह- स यदैवंविदस्माल्लोकात्प्रैतीति । वेदिता यदि म्रियेत तदा वाक्चक्षुरादिभिरग्न्यादित्यादीनुपेत्य ‘एतन्मयो’ देवतामयो भूत्वा ‘एतासाम्’ ‘देवतानाम्’ मध्ये या देवता भवामि इति स्वयमिच्छति सा ‘सा’ देवता भूत्वा ‘एलयति’ सञ्चरति चेष्टत इत्यर्थः ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे तृतीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (१०-३-३) ॥

Eggeling
  1. Now, when that fire goes out, it is wafted up in the wind (air), whence people say of it, ‘It has expired 5,’ for it is wafted up in the wind. And when the sun sets it enters the wind, and so does the moon; and the quarters are established in the wind, and from out of the wind they issue again. And when he who knows this passes away from this world, he passes into the fire by his speech, into the sun by his eye, into the moon by his mind, into the quarters by his ear, and into the wind by his breath; and being composed thereof, he becomes whichever of these deities he chooses, and is at rest.

  1. साद स होवाच Sây. ↩︎

  2. 331:2 Literally, one who keeps a large house, a lord. Sāyaṇa, however, treats it as a proper name. ↩︎

  3. 331:3 That is, ‘with what knowledge.’ ↩︎

  4. 331:4 Or, perhaps, possessed of a good voice. To be ‘vāgmin’ is enumerated among the necessary qualifications of the officiating priest by Lāṭy. I, 1, 6, where the commentator, however, explains the term either as ‘ready of speech (vaktuṁ samarthaḥ),’ or as ‘using correct, or elegant, speech (saṁskr̥tavāc).’ ↩︎

  5. 333:1 Literally, ‘it has blown out, or up.’ ↩︎