०१

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
किं छ᳘न्दः का᳘ देव᳘ता ऽग्नेः शि᳘र ऽइ᳘ति गायत्री छ᳘न्दो ऽग्नि᳘र्देव᳘ता शि᳘रः॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
किं छ᳘न्दः का᳘ देव᳘ता ऽग्नेः शि᳘र ऽइ᳘ति गायत्री छ᳘न्दो ऽग्नि᳘र्देव᳘ता शि᳘रः॥

मूलम् - Weber

त᳘दाहुः॥
किं छ᳘न्दः का᳘ देव᳘ताग्नेः शि᳘र इ᳘ति गायत्री छ᳘न्दोऽग्नि᳘र्देव᳘ता शि᳘रः॥

मूलम् - विस्वरम्

तदाहुः- किं छन्दः का देवता ऽग्नेः शिर इति । गायत्री छन्दो ऽग्निर्देवता शिरः ॥ १ ॥

सायणः

एवं चित्याग्नेश्चक्षुरादिसप्तावयवानां छन्दोमयत्वमुक्तम् । अथ शिरोग्रीवादीनां छन्दोमयत्वं वेदवादिप्रश्नोत्तराभ्यां निरूपयति- तदाहुः किं छन्दः का देवता ऽग्नेः शिर इतीति । ‘अग्नेः’ चित्यस्य ‘शिरः इति’ यदस्ति तस्य किं छन्दः का देवतेति प्रश्नः । उत्तरम्- ‘गायत्री छन्दो ऽग्निर्देवता’- “अग्निर्मूर्द्धा दिवः ककुद्”- (वा. सं. १५ । २०) इत्यस्य छन्दस्येष्टकोपधानमन्त्रस्य गायत्रत्वादाग्नेयत्वाच्च (श. प. ७ । ४ । १ । ४१) शिरसस्तदुभयात्मकत्वम् (श. प. । ८ । ६ । २ । ६) अन्यत्र “गायत्रं हि शिरः” इति श्रूयते ॥ १ ॥

Eggeling
  1. As to this they say, ‘What metre and what deity are the head of the fire-altar?’ The metre Gāyatrī and the deity Agni are its head.

०२

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘ता ग्रीवा ऽइ᳘त्युष्णिक्छ᳘न्दः सविता᳘ देव᳘ता ग्रीवाः[[!!]]॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘ता ग्रीवा ऽइ᳘त्युष्णिक्छ᳘न्दः सविता᳘ देव᳘ता ग्रीवाः[[!!]]॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ता ग्रीवा इ᳘त्युष्णिक्छ᳘न्दः सविता᳘ देव᳘ता ग्रीवाः᳟॥

मूलम् - विस्वरम्

किं छन्दः का देवता ग्रीवा इति । उष्णिक्छन्दः सविता देवता ग्रीवाः ॥ २ ॥

सायणः

एवं ग्रीवानूकपक्षादिषु तत्तच्छन्दोमयत्वं तत्तद्देवतामयत्वं च यथायोग्यं मन्तव्यम् ॥ २ ॥

Eggeling
  1. ‘What metre and what deity are its neck?’ The metre Ushṇih and the deity Savitr̥ are its neck.

०३

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देवता᳘ ऽनूकमि᳘ति बृहती छ᳘न्दो बृ᳘हस्प᳘तिर्देवता᳘ ऽनूकम्॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देवता᳘ ऽनूकमि᳘ति बृहती छ᳘न्दो बृ᳘हस्प᳘तिर्देवता᳘ ऽनूकम्॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देवता᳘नूकमि᳘ति बृहती छ᳘न्दो बृ᳘हस्प᳘तिर्देवता᳘नूकम्॥

मूलम् - विस्वरम्

किं छन्दः का देवता ऽनूकमिति । बृहती छन्दो बृहस्पतिर्देवतानूकम् ॥ ३ ॥

सायणः

अनूकशब्दस्य पक्षयोर्मध्यदेहस्य सन्धिः पुच्छमध्ययोश्च सन्धिरित्यर्थः ॥ ३-७ ॥

Eggeling
  1. ‘What metre and what deity are its spine?’ The metre Br̥hatī and the deity Br̥haspati are its spine.

०४

विश्वास-प्रस्तुतिः

(ङ्किं) किं छ᳘न्दः॥
का᳘ देव᳘ता पक्षावि᳘ति बृहद्रथन्तरे च्छ᳘न्दो द्या᳘वापृथिवी᳘ देव᳘ते पक्षौ[[!!]]॥

मूलम् - श्रीधरादि

(ङ्किं) किं छ᳘न्दः॥
का᳘ देव᳘ता पक्षावि᳘ति बृहद्रथन्तरे च्छ᳘न्दो द्या᳘वापृथिवी᳘ देव᳘ते पक्षौ[[!!]]॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ता पक्षावि᳘ति बृहद्रथन्तरे छ᳘न्दो द्या᳘वापृथिवी᳘ देव᳘ते पक्षौ᳟॥

मूलम् - विस्वरम्

किं छन्दः का देवता पक्षाविति । बृहद्रथन्तरे छन्दो द्यावापृथिवी देवते पक्षौ ॥ ४ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘What metre and what deity are its wings?’ The metres Br̥hat and Rathantara and the deities Heaven and Earth are its wings.

०५

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘ता म᳘ध्यमि᳘ति त्रिष्टुप्छ᳘न्द ऽइ᳘न्द्रो देव᳘ता म᳘ध्यम्॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘ता म᳘ध्यमि᳘ति त्रिष्टुप्छ᳘न्द ऽइ᳘न्द्रो देव᳘ता म᳘ध्यम्॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ता म᳘ध्यमि᳘ति त्रिष्टुप्छ᳘न्द इ᳘न्द्रो देव᳘ता म᳘ध्यम्॥

मूलम् - विस्वरम्

किं छन्दः का देवता मध्यमिति । त्रिष्टुप्छन्द इन्द्रो देवता मध्यम् ॥ ५ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘What metre and what deity are its waist?’ The metre Trishṭubh and the deity Indra are its waist.

०६

विश्वास-प्रस्तुतिः

(ङ्किं) किं छ᳘न्दः॥
का᳘ देव᳘ता श्रो᳘णी ऽइ᳘ति ज᳘गती छ᳘न्द ऽआदित्यो᳘ देव᳘ता श्रो᳘णी॥

मूलम् - श्रीधरादि

(ङ्किं) किं छ᳘न्दः॥
का᳘ देव᳘ता श्रो᳘णी ऽइ᳘ति ज᳘गती छ᳘न्द ऽआदित्यो᳘ देव᳘ता श्रो᳘णी॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ता श्रो᳘णी इ᳘ति ज᳘गती छ᳘न्द आदित्यो᳘ देव᳘ता श्रो᳘ णी॥

मूलम् - विस्वरम्

किं छन्दः का देवता श्रोणी इति । जगती छन्द आदित्यो देवता श्रोणी ॥ ६ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘What metre and what deity are its hips?’ The metre Jagatī and the deity Āditya (the sun) are its hips.

०७

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘ता य᳘स्मादिदं᳘ प्राणाद्रे᳘तः सिच्य᳘त ऽइत्य᳘तिच्छ᳘न्दाश्छ᳘न्दः प्रजा᳘पतिर्देव᳘ता॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘ता य᳘स्मादिदं᳘ प्राणाद्रे᳘तः सिच्य᳘त ऽइत्य᳘तिच्छ᳘न्दाश्छ᳘न्दः प्रजा᳘पतिर्देव᳘ता॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ता य᳘स्मादिद᳘म् प्राणाद्रे᳘तः सिच्य᳘त इत्य᳘तिछन्दाश्छ᳘न्दः प्रजा᳘पतिर्देव᳘ता॥

मूलम् - विस्वरम्

किं छन्दः का देवता यस्मादिदं प्राणाद्रेतः सिच्यत- इति । अतिच्छन्दाश्छन्दः, प्रजापतिर्देवता ॥ ७ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘What metre and what deity are the vital air whence the seed flows?’ The metre Atichandas and the deity Prajāpati.

०८

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘ता᳘ यो ऽयम᳘वाङ्प्राण ऽइ᳘ति यज्ञायज्ञि᳘यं छ᳘न्दो व्वैश्वानरो᳘ देव᳘ता॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘ता᳘ यो ऽयम᳘वाङ्प्राण ऽइ᳘ति यज्ञायज्ञि᳘यं छ᳘न्दो व्वैश्वानरो᳘ देव᳘ता॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ताॗ योऽयम᳘वाङ् प्राण इ᳘ति यज्ञायज्ञि᳘यं छ᳘न्दो वैश्वानरो᳘ देव᳘ता॥

मूलम् - विस्वरम्

किं छन्दः का देवता यो ऽयमवाङ् प्राण इति । यज्ञायज्ञियं छन्दो वैश्वानरो देवता ॥ ८ ॥

सायणः

यज्ञायज्ञियमिति । “यज्ञायज्ञा वो अग्नये”- (वा. सं. २७ । ४२) इत्यत्रोत्पन्नं ‘यज्ञायज्ञियं’ तदेव छन्दः बृहतीत्यर्थः ॥ ८ ॥ ९ ॥

Eggeling
  1. ‘What metre and what deity are that downward vital air?’ The metre Yajñāyajñiya and the deity Vaiśvānara.

०९

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘तोरू ऽइ᳘त्यनुष्टुप्छ᳘न्दो व्वि᳘श्वे देवा᳘ देव᳘तोरू[[!!]]॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘तोरू ऽइ᳘त्यनुष्टुप्छ᳘न्दो व्वि᳘श्वे देवा᳘ देव᳘तोरू[[!!]]॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘तोरू इ᳘त्यनुष्टुप्छ᳘न्दो वि᳘श्वे देवा᳘ देव᳘तोरू᳟॥

मूलम् - विस्वरम्

किं छन्दः का देवतोरू ऽइति । अनुष्टुप् छन्दो विश्वे देवा देवतोरू ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. ‘What metre and what deity are the thighs?’ The metre Anushṭubh and that deity, the Viśvedevāḥ, are the thighs.

१०

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘ता ऽष्ठीव᳘न्तावि᳘ति पङ्क्तिश्छ᳘न्दो मरु᳘तो देव᳘ता ऽष्ठीव᳘न्तौ॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘ता ऽष्ठीव᳘न्तावि᳘ति पङ्क्तिश्छ᳘न्दो मरु᳘तो देव᳘ता ऽष्ठीव᳘न्तौ॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ताष्ठीव᳘न्तावि᳘ति पङ्क्तिश्छ᳘न्दो मरु᳘तो देव᳘ताष्ठीव᳘न्तौ॥

मूलम् - विस्वरम्

किं छन्दः का देवता ऽष्ठीवन्ताविति । पंक्तिश्छन्दो मरुतो देवता ऽष्ठीवन्तौ ॥ १० ॥

सायणः

‘अष्ठीवन्तौ’ जानुप्रदेशावित्यर्थः ॥ १० ॥

Eggeling
  1. ‘What metre and what deity are the knees?’ The metre Paṅkti and that deity, the Maruts, are the knees.

११

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘ता प्रतिष्ठे ऽइ᳘ति द्वि᳘पदा च्छ᳘न्दो व्वि᳘ष्णुर्देव᳘ता प्रतिष्ठे᳘॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘ता प्रतिष्ठे ऽइ᳘ति द्वि᳘पदा च्छ᳘न्दो व्वि᳘ष्णुर्देव᳘ता प्रतिष्ठे᳘॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ता प्रतिष्ठे इ᳘ति द्वि᳘पदा छ᳘न्दो वि᳘ष्णुर्देव᳘ता प्रतिष्ठे᳟॥

मूलम् - विस्वरम्

किं छन्दः का देवता प्रतिष्ठे इति । द्विपदा च्छन्दो विष्णुर्देवता प्रतिष्ठे ॥ ११ ॥

सायणः

‘प्रतिष्ठे’ पादौ ॥ ११ ॥

Eggeling
  1. ‘What metre and what deity are the feet?’ The metre Dvipadā and the deity Vishṇu are the feet.

१२

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘ता प्राणा ऽइ᳘ति व्वि᳘च्छन्दाश्छ᳘न्दो व्वायु᳘र्देव᳘ता प्राणाः[[!!]]॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘ता प्राणा ऽइ᳘ति व्वि᳘च्छन्दाश्छ᳘न्दो व्वायु᳘र्देव᳘ता प्राणाः[[!!]]॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘ता प्राणा इ᳘ति वि᳘छन्दाश्छ᳘न्दो वायु᳘र्देव᳘ता प्राणाः᳟॥

मूलम् - विस्वरम्

किं छन्दः का देवता प्राणा इति । विच्छन्दाश्छन्दो वायुर्देवता प्राणाः ॥ १२ ॥

सायणः

विच्छन्दा इति । विविधच्छन्दस्का ऋक् विच्छन्दाः, तादृक् छन्दः ॥ १२ ॥

Eggeling
  1. ‘What metre and what deity are the vital airs?’ The metre Vichandas and the deity Vāyu (the wind) are the vital airs.

१३

विश्वास-प्रस्तुतिः

किं छ᳘न्दः॥
का᳘ देव᳘तोनातिरिक्तानी᳘ति᳘ न्यूनाक्षरा च्छ᳘न्द ऽआ᳘पो देव᳘तोनातिरिक्ता᳘नि᳘ सै᳘षा ऽऽत्मवि᳘द्यै᳘वैतन्म᳘यो है᳘वैता᳘ देव᳘ता ऽएत᳘मात्मा᳘नमभिस᳘म्भवति न हा᳘त्रान्या᳘ लोक्य᳘ताया ऽआशी᳘रस्ति॥

मूलम् - श्रीधरादि

किं छ᳘न्दः॥
का᳘ देव᳘तोनातिरिक्तानी᳘ति᳘ न्यूनाक्षरा च्छ᳘न्द ऽआ᳘पो देव᳘तोनातिरिक्ता᳘नि᳘ सै᳘षा ऽऽत्मवि᳘द्यै᳘वैतन्म᳘यो है᳘वैता᳘ देव᳘ता ऽएत᳘मात्मा᳘नमभिस᳘म्भवति न हा᳘त्रान्या᳘ लोक्य᳘ताया ऽआशी᳘रस्ति॥

मूलम् - Weber

किं छ᳘न्दः॥
का᳘ देव᳘तोनातिरिक्तानी᳘तिॗ न्यूनाक्षरा छ᳘न्द आ᳘पो देव᳘तोनातिरिक्ता᳘निॗ सैॗषात्मविॗद्यैॗवैतन्म᳘यो हैॗवैता᳘ देव᳘ता एत᳘मात्मा᳘नमभिस᳘म्भवति न हा᳘त्रान्या᳘ लोक्य᳘ताया आशी᳘रस्ति॥

मूलम् - विस्वरम्

किं छन्दः का देवतोनातिरिक्तानीति । न्यूनाक्षरा छन्द आपो देवतोनातिरिक्तानि । सैषा ऽऽत्मविद्यैव । एतन्मयो हैवैता देवता एतमात्मानमभिसम्भवति । न हात्रान्या लोक्यताया ऽआशीरस्ति ॥ १३ ॥

सायणः

ऊनातिरिक्तानीति । उक्तेभ्यो ऽङ्गेभ्यो ऽन्यानि न्यूनाधिकपरिमाणान्यङ्गानि च किं छन्दस्कानि किं देवत्यानि- इति प्रश्नः । उत्तरम्- न्यूनाक्षरा छन्दः, आपो देवतेति । “आपो वा इदं सर्वं विश्वा भूतान्यापः प्राणा वा आपः”- इति श्रुतेः अपां सर्वात्मत्वात् न्यूनातिरिक्तान्यङ्गान्यब्देवत्यानीत्यर्थः । यदुक्तम्- अग्नेः शिरोग्रीवादिपरिकल्पनेन छन्दोदेवतास्वरूपत्वं तदेतत्पुण्यलोकसाधनमात्मविद्यैवेति प्रशंसति- सैषा ऽऽत्मविद्यैवेति । आत्मन उदीरितच्छन्दोदेवतासमष्टिरूपविराडात्मकस्य सम्बन्धिनः स्वस्य विद्या । य एवंविधमग्निं चिन्वीत, वेद वा स एतन्मयः । अत्रोक्ताग्निसवित्रादिदेवतास्वरूपः सः ‘एतमात्मानम्’ एवंविधच्छन्दोदेवतारूपावयवयुक्तं शरीरम् ‘अभि’ लक्ष्य सम्भवति उत्पद्यते । अग्निचितो वेदितुश्च सर्वदेवतास्वरूपप्राप्तिरित्युक्तं भवति । न हात्रेति । ‘अत्र’ अग्नौ ‘लोक्यतायै’ पुण्यलोकावाप्तये ‘अन्या’ उक्तव्यतिरिक्ता ‘आशीः’ प्रार्थना नास्तीत्यर्थः ॥ १३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (१०-३-२) ॥

Eggeling
  1. ‘What metre and what deity are the defective and redundant parts?’ The metre (of the verse) wanting a syllable (or syllables) and that deity, the waters, are the defective and redundant parts. This, then, is the knowledge of the body (of the altar), and suchlike is the deity that enters into this body; and, indeed, there is in this (sacrificial performance) no other prayer for the obtainment of heavenly bliss 1

  1. 331:1 Atrāgnau lokyatāyai puṇyalokāvāptaye anyā uktavyatiriktā āśīḥ prārthanā nāsti. Sāyaṇa. ↩︎