०१

विश्वास-प्रस्तुतिः

प्राणो᳘ गायत्री[[!!]]॥
च᳘क्षुरुष्णिग्वा᳘गनुष्टुम्म᳘नो बृहती श्रो᳘त्रं पङ्क्तिर्य᳘ ऽए᳘वायं᳘ प्रज᳘ननः प्राण᳘ ऽएष᳘ त्रिष्टुब᳘थ᳘ यो ऽयम᳘वाङ्प्राण᳘ ऽएष ज᳘गती ता᳘नि वा᳘ ऽएता᳘नि सप्त च्छ᳘न्दाᳫँ᳭सि चतुरुत्तरा᳘ण्यग्नौ᳘ क्रियन्ते॥

मूलम् - श्रीधरादि

प्राणो᳘ गायत्री[[!!]]॥
च᳘क्षुरुष्णिग्वा᳘गनुष्टुम्म᳘नो बृहती श्रो᳘त्रं पङ्क्तिर्य᳘ ऽए᳘वायं᳘ प्रज᳘ननः प्राण᳘ ऽएष᳘ त्रिष्टुब᳘थ᳘ यो ऽयम᳘वाङ्प्राण᳘ ऽएष ज᳘गती ता᳘नि वा᳘ ऽएता᳘नि सप्त च्छ᳘न्दाᳫँ᳭सि चतुरुत्तरा᳘ण्यग्नौ᳘ क्रियन्ते॥

मूलम् - Weber

प्राणो᳘ गायत्री᳟॥
च᳘क्षुरुष्णिग्वा᳘गनुष्टुम्म᳘नो बृहती श्रो᳘त्रम् पङ्क्तिर्य᳘ एॗवाय᳘म् प्रज᳘ननः प्राण᳘ एष᳘ त्रिष्टुब᳘थॗ योऽयम᳘वाङ् प्राण᳘ एष ज᳘गती ता᳘नि वा᳘ एता᳘नि सप्त छ᳘न्दांसि चतुरुत्तरा᳘ण्यग्नौ᳘ क्रियन्ते॥

मूलम् - विस्वरम्

प्राणो गायत्री, चक्षुरुष्णिग्, वागनुष्टुब्, मनो बृहती, श्रोत्रं पङ्क्तिः । य एवायं प्रजननः प्राणः- एष त्रिष्टुब् । अथ यो ऽयमवाङ् प्राणः- एष जगती । तानि वा एतानि सप्त छन्दांसि चतुरुत्तराण्यग्नौ क्रियन्ते ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

चयने पक्वेष्टकाः किञ्चिदधिकैकादशसहस्रसम्मिता उपधेयाः । तथा च कात्यायनः- “अथातः 1 सर्वासां पक्वेष्टकानां समासेन संख्याप्रमाणान्यनुव्याख्यास्यामः” “सहस्राण्येकादश सप्ततिश्च शतम्” (का. श्रौ. सू. परि० पूरणसूत्रे ९ । १-२) इति । यद्यपि दर्भस्तम्बपुष्करपर्णरुक्मपुरुषाः स्रुगुलूखलपशुशीर्षकूर्मादयो यजुष्मदिष्टकामध्ये परिगणितास्तथापि ते पक्वेष्टका न भवंति । अतो न तेषामत्र परिगणनम् तत्रोक्तसंख्यानां मध्ये लोकंपृणेष्टका अष्टशतोत्तरदशसहस्रसंख्याकाः । शिष्टा यजुष्मत्यश्च । तथाच कात्यायनः लोकंपृणानां प्रतिचिति संख्याविशेषं वदन्नेतावत्यः इति सूत्रितवान् । “द्विसाहस्री प्रथमा लोकंपृणानां पञ्चाशदूना,” “उत्तराश्च” “त्रिसाहरुयुत्तमा” “वक्रालिखितानां दक्षिणोत्तरे मध्य इत्तरासाम्” “षट्त्रिंशच्छत्या वा तृतीया” “अष्टादशशत्या इतराः” (का. श्रौ. सू. १७ । १५५–१५९) इति । अयमर्थः- प्रथमा चितिः पञ्चाशदूनद्विसहस्रलोकंपृणेष्टकायुक्ता । एवमुत्तरास्तिस्रो द्वितीयाद्याः । एवं चतसृणां चितीनां शतद्वयोनाष्टासहस्राणि । पञ्चमी चितिस्त्रिसहस्रयुक्ता ऋजुसव्यदक्षिणरेखावदिष्टकायुक्ता इति लोकंपृणानामष्टशतोत्तराणि दश सहस्राणि जातानि । अथवा षट्त्रिंशच्छतसंख्याका तृतीया चितिः । उत्तरा अष्टादशशतसम्मिता इति । अत्रापि पक्षे प्रोक्तसंख्या सम्भवति । तत्र पञ्चम्यां चितावुपधेयानां लोकंपृणानां त्रिसहस्रसम्मितानामृजुदक्षिणसव्यलेखनं समाम्नातम् अत्रैव काण्डे द्वितीयाध्याये “सहस्रमृज्वालिखिता इष्टकाः करोति सहस्रमित्यालिखिताः सहस्रमित्यालिखिताः" (श. प. १० । २ । १ । ८) इति, अत्र इतिशब्दो ऽभिनयप्रदर्शकः । इति दक्षिणावृतः सव्यावृतश्च आलिखिता इति रेखायुक्ता इत्यर्थः । आपस्तम्बेन तु स्पष्टमुक्तम्- “ऋजुलेखा दक्षिणावृतः सव्यावृतः” इति । ताश्च तत्रैवाध्याये (श. प. १० । २ । १ । ९-११) त्रिसहस्रसम्मिताः सुपर्णचित्याग्नेर्मध्यदक्षिणोत्तरभागत्रये लोमरूपत्वेन स्तुता इति तत्सहस्रत्रयं परित्यज्यावशिष्टानां सप्तसहस्राणां शिरःप्रभृति पादपर्यन्तमुपहितानामेव शरीररूपत्वेन स्थितानां गायत्र्यादिसप्तच्छन्दोवीर्यत्वेन स्तुतिस्तृतीयाध्याये प्रथमब्राह्मणे क्रियते । यद्यप्यष्टौ शतान्यतिरिच्यन्ते तथापि सहस्रत्वेन स्तोतुमयोग्यत्वात्तासां स्तुतिरत्र न क्रियते । यद्वा अष्टमकाण्डे चरमचितौ “छन्दस्या उपदधाति” (श. प. । ८ । ६ । २ । १- १९) इति सप्तानां छन्दसामुपधानमुक्तम् । तेषां छन्दसां स्तुतिः- प्राणो गायत्रीति । चित्याग्निरूपस्य प्रजापतेः ‘प्राणो’ ‘गायत्रीति’ गायत्री छन्दः, प्राणः प्राणसंचारस्थानं नासिकोच्यते । शीर्षण्याः प्राणाश्चत्वार उक्ताः । द्वाववाञ्चावाह- य एवायं प्रजननः प्राण इत्यादिना । मनस्तु सर्वेन्द्रियसङ्गतमेकमिति सप्त प्राणा इत्यर्थः । पूर्वमपि प्रजापतिः सप्तभिः प्राणैः सप्तपुरुषात्मक एकः पुरुषः सृष्ट इति विवक्षया सप्तावयवा उक्ता इति तात्पर्यम् । छन्दसामग्नौ प्रसक्तिं दर्शयति- तानि वा एतानीति । चतुरुत्तराणीति । गायत्र्याश्चतुर्विंशतिरक्षराणि, तस्याश्चत्वार्यधिकान्युष्णिहः । तस्याश्चत्वार्यक्षराण्यनुष्टुभ इति सर्वाणि चतुरक्षराधिकानि सप्त च्छन्दांसि अग्नौ क्रियन्ते छन्दस्येष्टकोपधानकरणमन्त्रतया ॥ १ ॥

Eggeling
  1. The Gāyatrī is the breath (of Prajāpati, the altar), the Ushṇih the eye, the Anushṭubh the voice, the Br̥hatī the mind, the Paṅkti the ear; the Trishṭubh is that generative breath; and the Jagatī

that downward breathing;–these are the seven metres increasing by four (syllables) each 2, which are produced in Agni (the fire-altar).

०२

विश्वास-प्रस्तुतिः

प्राणो᳘ गायत्री᳘ति॥
तद्य᳘ ऽएव᳘ प्राण᳘स्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं प्राण᳘स्यै᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य चिन्वतः᳘ प्राण᳘ ऽउत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ गायत्रीः सं᳘चितो भवति॥

मूलम् - श्रीधरादि

प्राणो᳘ गायत्री᳘ति॥
तद्य᳘ ऽएव᳘ प्राण᳘स्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं प्राण᳘स्यै᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य चिन्वतः᳘ प्राण᳘ ऽउत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ गायत्रीः सं᳘चितो भवति॥

मूलम् - Weber

प्राणो᳘ गायत्री᳘ति॥
तद्य᳘ एव᳘ प्राण᳘स्य महिमा य᳘द्वीर्यं᳘ त᳘देत᳘त्सह᳘स्रम् प्राण᳘स्यैॗवैत᳘द्वीर्यं᳘ यद्ध्यस्य चिन्वतः᳘ प्राण उत्क्का᳘मेत्त᳘त एॗवैॗषोऽग्निर्न᳘ चीयेतैते᳘नैॗवास्य रूपे᳘ण सह᳘स्रमेष᳘ गायत्रीः सं᳘चितो भवति॥

मूलम् - विस्वरम्

प्राणो गायत्रीति- तद् य एव प्राणस्य महिमा, यद्वीर्यम्- तदेतत्सहस्रम् । प्राणस्यैवैतद्वीर्यम् । यद्ध्यस्य चिन्वतः प्राण उत्क्रामेत्- तत एवैषो ऽग्निर्न चीयेत, एतेनैवास्य रूपेण सहस्रम् एष गायत्रीः सञ्चितो भवति ॥ २ ॥

सायणः

एवं छन्दसां प्राणाद्यात्मकत्वमुक्तम् । तत्र वियुज्य स्तोतुमनुवदति- प्राणो गायत्रीतीति । ‘यः’ ‘प्राणस्य’ ‘महिमा’ महत्त्वं ‘यद्वीर्यं’ च ‘तदेतद्’ इष्टका- ‘सहस्रं’ प्राणवीर्यात्मकम् । इष्टकानां प्राणात्मकत्वमेव व्यतिरेकमुखेनाह-यद्ध्यस्य चिन्वत इति । यदि ‘चिन्वतो’ यजमानस्य कर्ममध्ये प्राण उत्क्रान्तः स्यात् तर्हि एषो ऽग्निर्न चेतुं योग्यः । कर्तृलोपे कर्मकरणन्यायाभावात् । अतो ऽग्नौ प्राणरूपगायत्रीछन्दो ऽनुवचनेन अस्यानुत्कान्तप्राणस्य ‘एतेनैव रूपेण’ पुनः देहावस्थानलक्षणेन रूपेणात्मना एष चित्याग्निः ‘सहस्रं गायत्रीः’ इष्टकाः ‘सञ्चितः’ । कर्त्तरि क्तः । सञ्चितवान् व्याप्तवान् ‘भवति’ । छन्दस्योपधानस्तुतिपक्षे तदेतत्प्राणवीर्यं सहस्रगुणमिति ॥ २ ॥

Eggeling
  1. ‘The Gāyatrī is the breath,’–thus, whatever power, whatever vigour there is in the breath that is this one thousand; and to the breath, indeed, this vigour belongs; for were the breath of him who builds it to pass away, this fire-altar, assuredly, would not be built: by this its form that (altar) becomes built (so as to contain) a thousand Gāyatrīs.

०३

विश्वास-प्रस्तुतिः

च᳘क्षुरुष्णिगि᳘ति॥
त᳘द्य ऽएव च᳘क्षुषो महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं च᳘क्षुष ऽए᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतश्च᳘क्षुरुत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ ऽउष्णि᳘हः सं᳘चितो भवति॥

मूलम् - श्रीधरादि

च᳘क्षुरुष्णिगि᳘ति॥
त᳘द्य ऽएव च᳘क्षुषो महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं च᳘क्षुष ऽए᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतश्च᳘क्षुरुत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ ऽउष्णि᳘हः सं᳘चितो भवति॥

मूलम् - Weber

च᳘क्षुरुष्णिगि᳘ति॥
त᳘द्य एव च᳘क्षुषो महिमा य᳘द्वीर्यं᳘ त᳘देत᳘त्सह᳘स्रं च᳘क्षुष एॗवैत᳘द्वीर्यं᳘ यद्ध्य᳘स्य चिन्वतश्च᳘क्षुरुत्क्रा᳘मेत्त᳘त एॗवैॗषोऽग्निर्न᳘ चीयेतैते᳘नैॗवास्य रूपे᳘ण सह᳘स्रमेष᳘ उष्णि᳘हः सं᳘चितो भवति॥

मूलम् - विस्वरम्

चक्षुरुष्णिगिति- तद् य एव चक्षुषो महिमा, यद्वीर्यम्- तदेतत्सहस्रम् । चक्षुष एवैतद्वीर्यम् । यद्ध्यस्य चिन्वतश्चक्षुरुत्क्रामेत्- तत एवैषो ऽग्निर्न चीयेत । एतेनैवास्य रूपेण सहस्रम् एष उष्णिहः सञ्चितो भवति ॥ ३ ॥

सायणः

एवमुत्तरे चक्षुरुष्णिगित्यादयः षट्पर्याया व्याख्येयाः । तत्र “चक्षुरुत्क्रामेत्” “वागुत्क्रामेत्” “मन उत्क्रामेत्” “श्रोत्रमुत्क्रामेत्” “एषो ऽग्निर्न चीयेत” इति पठ्यते । तस्यार्थः- अन्धमूकबधिरादीनां यजमानानां कर्मण्यनधिकारादग्निचयनं न स्यादिति । प्रजननः प्राण आलुभ्येदिति । प्रजननशक्तिरहितो भवेत् । ‘एषो ऽग्निर्न चीयेत’ नपुंसकस्य कर्मानधिकारात् । अवाङ्प्राण आलुभ्येदिति । दुश्चिकित्समूलरोगराजयक्ष्मादिगृहीतः पुरुषः कर्मणि नाधिक्रियते ॥ ३-८ ॥

Eggeling
  1. ‘The Ushṇih is the eye,’–thus, whatever power, whatever vigour there is in the eye that is this one thousand; and to the eye, indeed, this vigour belongs, for were the eye-sight of him who builds it to pass away, this fire-altar, assuredly, would not be built: by this its form that (altar) becomes built (so as to contain) a thousand Ushṇihs.

०४

विश्वास-प्रस्तुतिः

व्वा᳘गनुष्टुबि᳘ति॥
तद्य᳘ ऽएव᳘ व्वाचो᳘ महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं व्वाच᳘ ऽए᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतो व्वा᳘गुत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमे᳘षो ऽनुष्टु᳘भः सं᳘चितो भवति॥

मूलम् - श्रीधरादि

व्वा᳘गनुष्टुबि᳘ति॥
तद्य᳘ ऽएव᳘ व्वाचो᳘ महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं व्वाच᳘ ऽए᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतो व्वा᳘गुत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमे᳘षो ऽनुष्टु᳘भः सं᳘चितो भवति॥

मूलम् - Weber

वा᳘गनुष्टुबि᳘ति॥
तद्य᳘ एव᳘ वाचो᳘ महिमा य᳘द्वीर्यं᳘ त᳘देत᳘त्सह᳘स्रं वाच᳘ एॗवैत᳘द्वीर्यं᳘ यद्ध्य᳘स्य चिन्वतो वा᳘गुत्क्रा᳘मेत्त᳘त एॗवैॗषोऽग्निर्न᳘ चीयेतैते᳘नैॗवास्य रूपे᳘ण सह᳘स्रमेॗषोऽनुष्टु᳘भः सं᳘चितो भवति॥

मूलम् - विस्वरम्

वागनुष्टुबिति- तद् य एव वाचो महिमा, यद्वीर्यम्- तदेतत्सहस्रम् । वाच एवैतद्वीर्यम् । यद्ध्यस्य चिन्वतो वागुत्क्रामेत्- तत एवैषो ऽग्निर्न चीयेत । एतेनैवास्य रूपेण सहस्रम् एषो ऽनुष्टुभः सञ्चितो भवति ॥ ४ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘The Anushṭubh is the voice,’–thus, whatever power, whatever vigour there is in the voice that is this one thousand; and to the voice, indeed, this vigour belongs, for were the voice of him who builds it to pass away, this fire-altar, assuredly, would not be built: by this its form that (altar) becomes built (so as to contain) a thousand Anushṭubhs.

०५

विश्वास-प्रस्तुतिः

म᳘नो बृहती᳘ति॥
तद्य᳘ ऽएव म᳘नसो महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं म᳘नस ऽए᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतो म᳘न ऽउत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ बृहतीः सं᳘चितो भवति॥

मूलम् - श्रीधरादि

म᳘नो बृहती᳘ति॥
तद्य᳘ ऽएव म᳘नसो महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रं म᳘नस ऽए᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतो म᳘न ऽउत्क्रा᳘मेत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ बृहतीः सं᳘चितो भवति॥

मूलम् - Weber

म᳘नो बृहती᳘ति॥
तद्य᳘ एव म᳘नसो महिमा य᳘द्वीर्यं᳘ त᳘देत᳘त्सह᳘स्रम् म᳘नस एॗवैत᳘द्वीर्यं᳘ यद्ध्य᳘स्य चिन्वतो म᳘न उत्क्रा᳘मेत्त᳘त एॗवैॗषोऽग्निर्न᳘ चीयेतैते᳘नैॗवास्य रूपे᳘ण सह᳘स्रमेष᳘ बृहतीः सं᳘चितो भवति॥

मूलम् - विस्वरम्

मनो बृहतीति- तद् य एव मनसो महिमा, यद्वीर्यम्- तदेतत्सहस्रम् । मनस एवैतद्वीर्यम् । यद्ध्यस्य चिन्वतो मन उत्क्रामेत्- तत एवैषो ऽग्निर्न चीयेत । एतेनैवास्य रूपेण सहस्रम् एष बृहतीः सञ्चितो भवति ॥ ५ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘The Br̥hatī is the mind,’–thus, whatever power, whatever vigour there is in the mind that is this one thousand; and to the mind, indeed, this vigour belongs, for were the mind of him who builds it to pass away, this fire altar, assuredly,

would not be built: by this its form that (altar) becomes built (so as to contain) a thousand Br̥hatīs.

०६

विश्वास-प्रस्तुतिः

श्रो᳘त्रं पङ्क्तिरि᳘ति॥
तद्य᳘ ऽएव श्रो᳘त्रस्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रᳫँ᳭ श्रो᳘त्रस्यै᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतः श्रो᳘त्रमुत्क्रा᳘मे᳘त्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ पङ्क्तीः सं᳘चितो भवति॥

मूलम् - श्रीधरादि

श्रो᳘त्रं पङ्क्तिरि᳘ति॥
तद्य᳘ ऽएव श्रो᳘त्रस्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रᳫँ᳭ श्रो᳘त्रस्यै᳘वैत᳘द्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वतः श्रो᳘त्रमुत्क्रा᳘मे᳘त्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ पङ्क्तीः सं᳘चितो भवति॥

मूलम् - Weber

श्रो᳘त्रम् पङ्क्तिरि᳘ति॥
तद्य᳘ एव श्रो᳘त्रस्य महिमा य᳘द्वीर्यं᳘ त᳘देत᳘त्सह᳘स्रं श्रो᳘त्रस्यैॗवैत᳘द्वीर्यं᳘ यद्ध्य᳘स्य चिन्वतः श्रो᳘त्रमुत्क्रा᳘मे᳘त्त᳘त एॗवैॗषोऽग्निर्न᳘ चीयेतैते᳘नैॗवास्य रूपे᳘ण सह᳘स्रमेष᳘ पङ्क्तीः सं᳘चितो भवति॥

मूलम् - विस्वरम्

श्रोत्रं पङ्क्तिरिति- तद् य एव श्रोत्रस्य महिमा, यद्वीर्यम्- तदेतत्सहस्रम् । श्रोत्रस्यैवैतद्वीर्यम् । यद्ध्यस्य चिन्वतः श्रोत्रम् उत्क्रामेत्- तत एवैषो ऽग्निर्न चीयेत । एतेनैवास्य रूपेण सहस्रम् एष पङ्क्तीः सञ्चितो भवति ॥ ६॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘The Paṅkti is the ear,’–thus, whatever power, whatever vigour there is in the ear that is this one thousand; and to the ear, indeed, this vigour belongs, for were the power of hearing of him who builds it to pass away, this fire-altar, assuredly, would not be built: by this its form that (altar) becomes built (so as to contain) a thousand Paṅktis.

०७

विश्वास-प्रस्तुतिः

य᳘ ऽए᳘वायं᳘ प्रज᳘ननः प्राणः᳘॥
(ऽ) एष᳘ त्रिष्टुबि᳘ति तद्य᳘ ऽए᳘वैत᳘स्य प्राण᳘स्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रमेत᳘स्यै᳘वैत᳘त्प्राण᳘स्य व्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वत᳘ ऽएष᳘ प्राण᳘ ऽआलु᳘भ्येत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतै᳘ते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ त्रिष्टु᳘भः सं᳘चितो भवति॥

मूलम् - श्रीधरादि

य᳘ ऽए᳘वायं᳘ प्रज᳘ननः प्राणः᳘॥
(ऽ) एष᳘ त्रिष्टुबि᳘ति तद्य᳘ ऽए᳘वैत᳘स्य प्राण᳘स्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रमेत᳘स्यै᳘वैत᳘त्प्राण᳘स्य व्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वत᳘ ऽएष᳘ प्राण᳘ ऽआलु᳘भ्येत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतै᳘ते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ त्रिष्टु᳘भः सं᳘चितो भवति॥

मूलम् - Weber

य᳘ एॗवाय᳘म् प्रज᳘ननः प्राणः᳟॥
एष᳘ त्रिष्टुबि᳘ति तद्य᳘ एॗवैत᳘स्य प्राण᳘स्य महिमा य᳘द्वीर्यं᳘ त᳘देत᳘त्सह᳘स्रमेत᳘स्यैॗवैत᳘त्प्राण᳘स्य वीर्यं᳘ यद्ध्य᳘स्य चिन्वत᳘ एष᳘ प्राण᳘ आलु᳘भ्येत्त᳘त एॗवैॗषोऽग्निर्न᳘ चीयेतै᳘तेॗनैवास्य रूपे᳘ण सह᳘स्रमेष᳘ त्रिष्टु᳘भः सं᳘चितो भवति॥

मूलम् - विस्वरम्

य एवायं प्रजननः प्राण एष त्रिष्टुबिति । तद् य एवैतस्य प्राणस्य महिमा, यद्वीर्यम् । तदेतत्सहस्रम् । एतस्यैवैतत्प्राणस्य वीर्यम् । यद्ध्यस्य चिन्वत एष प्राण आलुभ्येत्- तत एवैषो ऽग्निर्न चीयेत । एतेनैवास्य रूपेण सहस्रम् एष त्रिष्टुभः सञ्चितो भवति ॥ ७ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘The Trishṭubh is that generative (life-giving) breath,’–thus, whatever power, whatever vigour there is in that breath, that is this one thousand; and to that breath, indeed, this vigour belongs, for were that breath of him who builds it to become disordered, this fire-altar, assuredly, would not be built: by this its form that (altar) becomes built (so as to contain) a thousand Trishṭubhs.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ᳘ यो ऽयम᳘वाङ्प्राणः᳘॥
(ऽ) एष ज᳘गती᳘ति तद्य᳘ ऽए᳘वैत᳘स्य प्राण᳘स्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रमेत᳘स्यै᳘वैत᳘त्प्राण᳘स्य व्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वत᳘ ऽएष᳘ प्राण᳘ ऽआलु᳘भ्येत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ जगतीः सं᳘चितो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ᳘ यो ऽयम᳘वाङ्प्राणः᳘॥
(ऽ) एष ज᳘गती᳘ति तद्य᳘ ऽए᳘वैत᳘स्य प्राण᳘स्य महिमा य᳘द्वी᳘र्यं[[!!]] त᳘देत᳘त्सह᳘स्रमेत᳘स्यै᳘वैत᳘त्प्राण᳘स्य व्वी᳘र्यं[[!!]] य᳘द्ध्यस्य[[!!]] चिन्वत᳘ ऽएष᳘ प्राण᳘ ऽआलु᳘भ्येत्त᳘त ऽए᳘वै᳘षो ऽग्निर्न᳘ चीयेतैते᳘नै᳘वास्य रूपे᳘ण सह᳘स्रमेष᳘ जगतीः सं᳘चितो भवति॥

मूलम् - Weber

अ᳘थॗ योऽयम᳘वाङ् प्राणः᳟॥
एष ज᳘गती᳘ति तद्य᳘ एॗवैत᳘स्य प्राण᳘स्य महिमा य᳘द्वीर्यं᳘ त᳘देत᳘त्सह᳘स्रमेत᳘स्यैॗवैत᳘त्प्राण᳘स्य वीर्यं᳘ यद्ध्य᳘स्य चिन्वत᳘ एष᳘ प्रल्ण᳘ आ६उ᳘भ्येत्त᳘त एॗवैॗषोऽग्निर्न᳘ चीयेतैते᳘नैॗवास्य रूपे᳘ण सह᳘स्रमेष᳘ जगतीः सं᳘चितो भवति॥

मूलम् - विस्वरम्

अथ यो ऽयमवाङ् प्राण एष जगतीति- तद् य एवैतस्य प्राणस्य महिमा, यद्वीर्यम्- तदेतत्सहस्रम् । एतस्यैवैतत्प्राणस्य वीर्यम् । यद्ध्यस्य चिन्वत एष प्राण आलुभ्येत्- तत एवैषो ऽग्निर्न चीयेत । एतेनैवास्य रूपेण सहस्रम् एष जगतीः सञ्चितो भवति ॥ ८ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. ‘And the Jagatī is that downward breathing,’–thus, whatever power, whatever vigour there is in that breathing, that is this one thousand; and to that breathing, indeed, this vigour belongs, for were that breathing of him who builds it to become disordered, this fire-altar, assuredly, would not be built: by this its form that (altar) becomes built (so as to include) a thousand Jagatīs.

०९

विश्वास-प्रस्तुतिः

ता᳘नि वा᳘ ऽएता᳘नि॥
सप्त च्छ᳘न्दाᳫँ᳭सि चतुरुत्तरा᳘ण्य᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठितानि स᳘प्तेमे पु᳘रुषे प्राणा᳘ ऽअ᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठितास्तद्या᳘वन्तमेवंविच्छ᳘न्दसां गण᳘मन्वा᳘ह च्छ᳘न्दसश्छन्दसो है᳘वास्य सो᳘ ऽनूक्तो भवति स्तुतो᳘ वा शस्तो वो᳘पहितो वा॥

मूलम् - श्रीधरादि

ता᳘नि वा᳘ ऽएता᳘नि॥
सप्त च्छ᳘न्दाᳫँ᳭सि चतुरुत्तरा᳘ण्य᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठितानि स᳘प्तेमे पु᳘रुषे प्राणा᳘ ऽअ᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठितास्तद्या᳘वन्तमेवंविच्छ᳘न्दसां गण᳘मन्वा᳘ह च्छ᳘न्दसश्छन्दसो है᳘वास्य सो᳘ ऽनूक्तो भवति स्तुतो᳘ वा शस्तो वो᳘पहितो वा॥

मूलम् - Weber

ता᳘नि वा᳘ एता᳘नि॥
सप्त छ᳘न्दांसि चतुरुत्तरा᳘ण्यॗन्योऽन्य᳘स्मिन्प्र᳘तिष्ठितानि सॗप्तेमे पु᳘रुषे प्राणा᳘ अॗन्योऽन्य᳘स्मिन्प्र᳘तिष्ठितास्तद्या᳘वन्तमेवंविच्छ᳘न्दसां गण᳘मन्वा᳘ह छ᳘न्दसश्छन्दसो हैॗवास्य सो᳘ऽनूक्तो भवति स्तुतो᳘ वा शस्तो वो᳘पहितो वा॥

मूलम् - विस्वरम्

तानि वा ऽएतानि सप्त च्छन्दांसि चतुरुत्तराण्यन्यो ऽन्यस्मिन्प्रतिष्ठितानि । सप्तेमे पुरुषे प्राणा अन्यो ऽन्यस्मिन्प्रतिष्ठिताः । तद् यावन्तमेवंवित् छन्दसां गणमन्वाह- छन्दसश्छन्दसो हैवास्य सो ऽनूक्तो भवति । स्तुतो वा, शस्तो वा, उपहितो वा ॥ ९ ॥

सायणः

सम्भूय च्छन्दांसि प्रशंसति- तानि वा एतानि सप्तेति । यतः ‘छन्दांसि’ परस्परम् ‘अन्यो ऽन्यस्मिन्’ प्रतिष्ठितानि गायत्र्यां तावत् सर्वाणि च्छन्दांसि तस्याश्चतुर्विंशत्यक्षराणां सर्वच्छन्दःस्वनुगमात् । तथा जगत्यामन्तिमच्छन्दसि सर्वाणि गायत्र्यादिच्छन्दांसि प्रतिष्ठितानि सकलच्छन्दो ऽक्षरसद्भावात् । एवं मध्यमानि छन्दांस्यूह्यानि । एवं पुरुषे वर्त्तमानाः ‘सप्तेमे प्राणाः’ ‘अन्योन्यस्मिन्’ ‘प्रतिष्ठिताः’ तदुक्तं प्राक् “न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुमिमान् सप्त पुरुषानेकं पुरुषं करवाम” (श. प. ६ । १ । १ । ३) इत्यादिना । अतः सप्तानां छन्दसामग्नौकरणेन एकस्मिन् पुरुषे चित्याग्नौ सप्त प्राणान् प्रतिष्ठापितवान् भवतीति प्रकरणार्थः । वेदितुः फलमाह- तद्यावन्तमेवंविदिति । विद्वान् पुरुषः गायत्र्यादीनां मध्ये ‘यावन्तम्’ छन्दोगणमनुब्रूयात् तेनैवानुवचनेन तस्य विदुषः ‘छन्दसश्छन्दसः’ सर्वच्छन्दसां गणः सम्यग् ‘अनूक्तः’ संस्तुतः शस्तः सम्यगुपहितश्च भवतीत्यर्थः ॥ ९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (१०-३-१) ॥

Eggeling
  1. Now, these seven metres which increase by four (syllables) successively, and are firmly established in one another, are those seven vital airs 3 in man, firmly established in one another: thus, by

as much as the number of metres he utters has that (altar) of him who knows this, prayers uttered upon it in metre after metre, or hymns chanted, or śastras recited, or (bricks) laid down upon it.


  1. एतच्च स्पष्टीकृतं श्लोकैः कात्यायनेनैव पूरणसूत्रे- अयुतं च सहस्रं च शतं च सप्ततिं तथा । एताः पक्वेष्टका ज्ञेया अग्नौ वाजसनेयके ॥ तत्र- अयुतं च शतान्यष्टौ ज्ञेया लोकम्पृणेष्टकाः । इतो ऽन्याश्च यजुष्मत्यस्त्वपक्वाः पंचविंशतिः ॥ इति । १२-१५ ॥ ↩︎

  2. 328:1 The Gāyatrī verse consists of twenty-four syllables; and each of the following increases by four syllables, the Jagatī consisting of 4 × 12, or forty-eight syllables. ↩︎

  3. 329:1 Viz. those enumerated in the preceding paragraphs, including those passing through the eye, ear, &c. ↩︎