०१
विश्वास-प्रस्तुतिः
संव्वत्सरो वै᳘ प्रजा᳘पतिरे᳘कशतविधः॥
(स्त᳘) त᳘स्याहोरात्रा᳘ण्यर्धमासा मा᳘सा ऽऋत᳘वः षष्टिर्मा᳘सस्याहोरात्रा᳘णि मासि वै᳘ संव्वत्सर᳘स्याहोरात्रा᳘ण्याप्यन्ते च᳘तुर्व्विᳫँ᳭शतिरर्धमासास्त्र᳘योदश मा᳘सास्त्र᳘य ऽऋतवस्ताः᳘[[!!]] शतं᳘ व्विधाः᳘ संव्वत्सर᳘ ऽए᳘वैकशततमी᳘ व्विधा[[!!]]॥
मूलम् - श्रीधरादि
संव्वत्सरो वै᳘ प्रजा᳘पतिरे᳘कशतविधः॥
(स्त᳘) त᳘स्याहोरात्रा᳘ण्यर्धमासा मा᳘सा ऽऋत᳘वः षष्टिर्मा᳘सस्याहोरात्रा᳘णि मासि वै᳘ संव्वत्सर᳘स्याहोरात्रा᳘ण्याप्यन्ते च᳘तुर्व्विᳫँ᳭शतिरर्धमासास्त्र᳘योदश मा᳘सास्त्र᳘य ऽऋतवस्ताः᳘[[!!]] शतं᳘ व्विधाः᳘ संव्वत्सर᳘ ऽए᳘वैकशततमी᳘ व्विधा[[!!]]॥
मूलम् - Weber
संवत्सरो वै᳘ प्रजा᳘पतिरे᳘कशतविधः॥
त᳘स्याहोरात्रा᳘ण्यर्धमासा मा᳘सा ऋत᳘वः षष्टिर्मा᳘सस्याहोरात्रा᳘णि मासि वै᳘ संवत्सर᳘स्याहोरात्रा᳘ण्याप्यन्ते च᳘तुर्विंशतिरर्धमासास्त्र᳘योदश मा᳘सास्त्र᳘य ऋत᳘वस्ताः᳘ शतं᳘ विधाः᳘ संवत्सर᳘ एॗवैकशततमी᳘ विधा᳟॥
मूलम् - विस्वरम्
संवत्सरो वै प्रजापतिरेकशतविधः । तस्याहोरात्राणि अर्धमासाः, मासाः, ऋतवः । षष्टिर्मासस्याहोरात्राणि । मासि वै संवत्सरस्याहोरात्राण्याप्यन्ते । चतुर्विंशतिरर्धमासाः, त्रयोदश मासाः, त्रयः ऋतवः । ताः शतं विधाः । संवत्सर एवैकशततमी विधा ॥ १ ॥
सायणः
पूर्वं संवत्सररूपप्रजापतेरेकशतविधाग्नित्वम् (श. प. १० । २ । ४ । १ ।) उक्तम् । तस्यादित्यरूपत्वं शतसंख्याकरश्मिभिर्मण्डलेनैकशतसंख्यापूरकेण सम्पन्नमिति चोक्तम् (श. प. १० । २ । ३) । अधुना प्रकारान्तरेणैकशतसंख्यावत्त्वं सप्तविधाग्निना सम्पत्तिश्च वक्ष्यते चयनस्यामृतत्वप्राप्तिः फलमिति च । संवत्सरो वै प्रजापतिरिति । ‘एकशतविधो’ नामाग्निः संवत्सरात्मकप्रजापतिरूपः । तस्य संवत्सरस्य एकशतत्वेन प्रतिपादनं- तस्याहोरात्राणि इत्यादिना । तस्य संवत्सरस्य तावदेतावन्तः अहोरात्रा अर्द्धमासा मासास्त्रय ऋतव इति । एतेष्वेवोक्तसंख्या सम्पद्यत इति दर्शयितुमेकमासस्थिताहोरात्रा विवक्षिता इति । ऋतवश्च त्रित्वसंख्याका इत्याह- षष्टिर्मासस्येति । सर्वमासाहोरात्रपरिगणने ऽधिका संख्या सम्पद्यते । ये मासगताहोरात्रास्तेषामेव संवत्सरपर्यन्तावर्त्तनादिति न पृथग्गणनेति तात्पर्यम् । एकस्मिन् मासि त्रिंशदहानि त्रिंशद्रात्रय इति षष्टिः सम्पद्यते । अर्द्धमासाश्चतुर्विंशतिः- मलिम्लुचसाहित्येन त्रयोदश मासाः । द्वौ द्वावृतू एकीकृत्य त्रय ऋतव इत्युक्तम् । एवं संवत्सरे शतं विधाः सम्पद्यन्ते संवत्सरः स्वयमेकशतसंख्यापूरक इति तत्संख्यासम्पत्तिः ॥ १ ॥
Eggeling
- The one hundred and one-fold Prajāpati, doubtless, is the year, and thereto belong days and
nights, half-months, months, and seasons. The days and nights of a month are sixty, and in the month, doubtless, the days and nights of the year are obtained; and there are twenty-four half-months, thirteen months, and three seasons (of four months)–that makes a hundred parts, and the year itself is the one hundred and first part.
०२
विश्वास-प्रस्तुतिः
स᳘ ऽऋतु᳘भिरेव सप्त᳘विधः॥
ष᳘डृत᳘वः संव्वत्सर᳘ ऽएव᳘ सप्तमी᳘ व्विधा त᳘स्यैत᳘स्य संवत्सर᳘स्यैतत्ते᳘जो य᳘ ऽएष ऽत᳘पति त᳘स्य रश्म᳘यः शतं᳘ व्विधा म᳘ण्डलमे᳘वैकशततमी᳘ व्विधा[[!!]]॥
मूलम् - श्रीधरादि
स᳘ ऽऋतु᳘भिरेव सप्त᳘विधः॥
ष᳘डृत᳘वः संव्वत्सर᳘ ऽएव᳘ सप्तमी᳘ व्विधा त᳘स्यैत᳘स्य संवत्सर᳘स्यैतत्ते᳘जो य᳘ ऽएष ऽत᳘पति त᳘स्य रश्म᳘यः शतं᳘ व्विधा म᳘ण्डलमे᳘वैकशततमी᳘ व्विधा[[!!]]॥
मूलम् - Weber
स᳘ ऋतु᳘भिरेव᳘ सप्त᳘विधः॥
ष᳘डृत᳘वः संवत्सर᳘ एव᳘ सप्तमी᳘ विधा त᳘स्यैत᳘स्य संवत्सर᳘स्यैतत्ते᳘जो य᳘ एष त᳘पति त᳘स्य रश्म᳘यः शतं᳘ विधा म᳘ण्डलमेॗवैकशततमी᳘ विधा᳟॥
मूलम् - विस्वरम्
स ऋतुभिरेव सप्तविधः- षडृतवः, संवत्सर एव सप्तमी विधा । तस्यैतस्य संवत्सरस्यैतत्तेजो- य एष तपति । तस्य रश्मयः शतं विधाः । मण्डलमेवैकशततमी विधा ॥ २ ॥
सायणः
तस्य संवत्सररूपस्यैकशतविधस्य सप्तविधाग्निना सम्पत्तिमृतुभिर्दर्शयति- स ऋतुभिरेव सप्तविध इति । ‘षड्ऋतवः’ ऋत्वात्मकः संवत्सरः सप्तम इत्यर्थः । सप्तविधस्याप्येकशतविधसंख्यासम्पत्तिमाह- तस्यैतस्येति । ‘यः’ तपति स हि संवत्सरस्य तेजः, तस्य शतं रश्मयः मण्डलमेकशतसंख्यापूरकमिति तयोरन्यो ऽन्यात्मकत्वम् ॥ २ ॥
Eggeling
- By the seasons it is sevenfold,–six seasons (of two months), and the year itself as the seventh part. And he who shines yonder is the light of that year: his rays are a hundredfold, and the (sun’s) disk itself is the one hundred and first part.
०३
विश्वास-प्रस्तुतिः
स᳘ दिग्भि᳘रेव᳘ सप्त᳘विधः॥
(धो) ये प्रा᳘च्यां दिशि᳘ रश्म᳘यः सै᳘का व्विधा ये द᳘क्षिणायाᳫँ᳭ सै᳘का ये᳘ प्रती᳘च्याᳫँ᳭ सै᳘का य ऽउ᳘दीच्याᳫँ᳭ सै᳘का य᳘ ऽऊर्ध्वा᳘याᳫँ᳭ सै᳘का ये᳘ ऽवाच्याᳫँ᳭ सै᳘का म᳘ण्डलमेव᳘ सप्तमी᳘ व्विधा[[!!]]॥
मूलम् - श्रीधरादि
स᳘ दिग्भि᳘रेव᳘ सप्त᳘विधः॥
(धो) ये प्रा᳘च्यां दिशि᳘ रश्म᳘यः सै᳘का व्विधा ये द᳘क्षिणायाᳫँ᳭ सै᳘का ये᳘ प्रती᳘च्याᳫँ᳭ सै᳘का य ऽउ᳘दीच्याᳫँ᳭ सै᳘का य᳘ ऽऊर्ध्वा᳘याᳫँ᳭ सै᳘का ये᳘ ऽवाच्याᳫँ᳭ सै᳘का म᳘ण्डलमेव᳘ सप्तमी᳘ व्विधा[[!!]]॥
मूलम् - Weber
स᳘ दिग्भि᳘रेव᳘ सप्त᳘विधः॥
ये प्रा᳘च्यां दिशि᳘ रश्म᳘यः सै᳘का विधा ये द᳘क्षिणायाᳫं सै᳘का ये᳘ प्रती᳘च्याᳫं सै᳘का य उ᳘दीच्याᳫं सै᳘का य᳘ ऊर्ध्वा᳘याᳫं सै᳘का ये᳘ऽवाच्याᳫं सै᳘का म᳘ण्डलमेव᳘ सप्तमी᳘ विधा᳟॥
मूलम् - विस्वरम्
स दिग्भिरेव सप्तविधः, ये प्राच्यां दिशि रश्मयः सैका विधा । ये दक्षिणायां सैका । ये प्रतीच्यां सैका । य उदीच्यां सैका । य ऊर्ध्वायां सैका । ये ऽवाच्यां सैका । मण्डलमेव सप्तमी विधा ॥ ३ ॥
सायणः
प्रकारान्तरेण सम्पत्तिमाह- स दिग्भिरेव सप्तविध इति । तदुपपादयति- ये प्राच्यां दिशीति । प्राग्दक्षिणपश्चिमोदीच्यश्चतस्रः, ऊर्ध्वावाच्यौ द्वे, रश्मियुक्तं मण्डलं सप्तममित्युक्तसंख्यासम्पत्तिः ॥ ३ ॥
Eggeling
- By the regions it is sevenfold,–the rays which are in the eastern region are one part, and those in the southern are one, and those in the western are one, and those in the northern are one, and those in the upper (region) are one, and those in the lower (region) are one, and the disk itself is the seventh part.
०४
विश्वास-प्रस्तुतिः
त᳘स्यैत᳘स्य पर᳘स्तात्कामप्रो᳘ लो᳘कः[[!!]]॥
(को ऽमृ) अमृ᳘तं वै᳘ कामप्र᳘ममृ᳘तमे᳘वास्य त᳘त्पर᳘स्तात्तद्यत्त᳘दमृ᳘तमेतत्तद्य᳘देत᳘दर्चिर्दी᳘प्यते॥
मूलम् - श्रीधरादि
त᳘स्यैत᳘स्य पर᳘स्तात्कामप्रो᳘ लो᳘कः[[!!]]॥
(को ऽमृ) अमृ᳘तं वै᳘ कामप्र᳘ममृ᳘तमे᳘वास्य त᳘त्पर᳘स्तात्तद्यत्त᳘दमृ᳘तमेतत्तद्य᳘देत᳘दर्चिर्दी᳘प्यते॥
मूलम् - Weber
त᳘स्यैत᳘स्य पुर᳘स्तात्कामप्रो᳘ लोकः᳟॥
अमृ᳘तं वै कामप्र᳘ममृ᳘तमेॗवास्य त᳘त्पर᳘स्तात्तद्यत्त᳘दमृ᳘तमेतत्तद्य᳘देत᳘दर्चिर्दी᳘प्यते॥
मूलम् - विस्वरम्
तस्यैतस्य परस्तात्- कामप्रो लोकः । अमृतं वै कामप्रम् । अमृतमेवास्य तत् परस्तात् । तद्यत्तदमृतम्- एतत्तत्- यदेतदर्चिर्दीप्यते ॥ ४ ॥
सायणः
सप्तविधाद्येकशतपर्यन्ताग्निचयनस्य सूर्यलोकः फलमिति दर्शयति- तस्यैतस्य परस्तात्कामप्र इति । ‘एतस्य’ सवितुर्मण्डलस्य ‘परस्तात्’ उपरिभागे सर्वकामपूरकः ‘अमृतः’ मरणधर्मरहितः ‘लोकः’ अस्ति । अमृतलोकं विशिनष्टि- यदेतदर्चिर्दीप्यत इति । ‘यदेतदर्चिः’ तेजो ‘दीप्यते’ सो ऽमृतलोक इत्यर्थः ॥ ४ ॥
Eggeling
- Beyond this (year) lies the wish-granting world; but the wish-granting one is the immortal (element): it is thus the immortal that lies beyond this (year, temporal existence); and that same immortal (element) is that very light which shines yonder.
०५
विश्वास-प्रस्तुतिः
त᳘देतद्व᳘सु चित्रᳫँ᳭ रा᳘धः॥
(स्त᳘) त᳘देष᳘ सविता᳘ व्विभ᳘क्ताभ्यः᳘ प्रजा᳘भ्यो व्वि᳘भजत्यप्यो᳘षधिभ्यो᳘ ऽपि व्व᳘नस्प᳘तिभ्यो भू᳘य ऽइव ह त्वे᳘काभ्यः प्रय᳘च्छति क᳘नीय ऽइवै᳘काभ्यस्तद्या᳘भ्यो भू᳘यः प्रय᳘च्छति ता᳘ ज्योक्तमां᳘ जीवन्ति या᳘भ्यः क᳘नीयः क᳘नीयस्ताः ᳫँ᳭॥
मूलम् - श्रीधरादि
त᳘देतद्व᳘सु चित्रᳫँ᳭ रा᳘धः॥
(स्त᳘) त᳘देष᳘ सविता᳘ व्विभ᳘क्ताभ्यः᳘ प्रजा᳘भ्यो व्वि᳘भजत्यप्यो᳘षधिभ्यो᳘ ऽपि व्व᳘नस्प᳘तिभ्यो भू᳘य ऽइव ह त्वे᳘काभ्यः प्रय᳘च्छति क᳘नीय ऽइवै᳘काभ्यस्तद्या᳘भ्यो भू᳘यः प्रय᳘च्छति ता᳘ ज्योक्तमां᳘ जीवन्ति या᳘भ्यः क᳘नीयः क᳘नीयस्ताः ᳫँ᳭॥
मूलम् - Weber
त᳘देतद्व᳘सुचित्रं रा᳘धः॥
त᳘देष᳘ सविता᳘ विभॗक्ताभ्यः᳘ प्रजा᳘भ्यो वि᳘भजत्यप्यो᳘षधिभ्यो᳘ऽपि व᳘नस्प᳘तिभ्यो भू᳘य-इव ह त्वे᳘काभ्यः प्रय᳘छति क᳘नीय इवै᳘काभ्यस्तद्या᳘भ्यो भू᳘यः प्रय᳘छति ता᳘ ज्योक्तमां᳘ जीवन्ति या᳘भ्यः क᳘नीयः क᳘नीयस्ताः᳟॥
मूलम् - विस्वरम्
तदेतद् वसु चित्रं राधः । तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजति- अप्योषधिभ्यः, अपि वनस्पतिभ्यः । भूय- इव ह त्वेकाभ्यः प्रयच्छति, कनीय- इवैकाभ्यः । तद् याभ्यो भूयः प्रयच्छति- सा ज्योत्तमां जीवन्ति । याभ्यः कनीयः- कनीयस्ताः ॥ ५ ॥
सायणः
अर्चिषो ऽमृतफलत्वं सवितृसम्बन्धित्वं च प्रदर्शयति- तदेतद्वसु चित्रं राध इति । ‘वसु’ वासयोग्यं ‘चित्रम्’ नानाप्रकारं भूयो ऽल्पभेदेन ‘तदेतद्’ अर्चीरूपं ‘राधः’ दीर्घायूरूपं फलम् ‘एष सविता’ अर्चिष्मान् ‘विभक्ताभ्यः’ स्थावरजङ्गमभेदेन तत्रापि मनुष्यपशुपक्ष्यादिरूपेण ओषधिवनस्पत्यादिरूपेण च ‘विभक्ताभ्यः प्रजाभ्यः’ विभज्य विभज्य प्रयच्छति । “अप्योषधिभ्यो ऽपि वनस्पतिभ्यः” इति ओषध्यादिभ्यो ऽपि प्रयच्छति । अनेन सर्वस्य विभज्य दानं कैमुतिकन्यायसिद्धमित्युक्तं भवति । तत्र दाने विशेषं दर्शयति- भूय इव ह त्वेकाभ्यः प्रयच्छतीति । ‘ह तु’ इति पदद्वयम् । इवशब्द एवार्थे । कतिपयाभ्यः प्रजाभ्यो ‘भूयः’ आयूरूपमेव राधः ‘प्रयच्छति’ । ‘एकाभ्यः कनीयः’ राधः । तत्र यासां भूयोदानम्, ताः ‘ज्योक्तमाम्’ चिरं जीवन्ति । आयुषो भूयस्त्वात्तद्भोगाय चिरकालजीवनम् । यासां कनीयः फलं, सा अल्पकालं जीवन्ति ॥ ५ ॥
Eggeling
- Now that same boon (the immortal light), bright with wealth, he, Savitr̥ (the sun), distributes among the distributed creatures, and among plants and trees, too; and to some, indeed, he gives more of it, and to some less; and they to whom he gives more of it live longest, and they to whom he gives less live less long.
०६
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘देत᳘दृ᳘चा᳘ ऽभ्युक्तम्॥ (म्वि) व्विभक्ता᳘रᳫँ᳭ हवामहे व्व᳘सोश्चित्र᳘स्य रा᳘धसः॥ सविता᳘रं नृच᳘क्षसमि᳘ति त᳘देतत्स᳘र्व्वमा᳘युर्दीर्घ᳘मनन्तᳫँ᳭ हि तद्य᳘दिदमाहु᳘र्दीर्घं᳘[[!!]] त ऽआ᳘युरस्तु स᳘र्व्वमा᳘युरिही᳘त्येष᳘ ते लोक᳘ ऽएत᳘त्ते ऽस्त्वि᳘ति है᳘वैतत्[[!!]]॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘देत᳘दृ᳘चा᳘ ऽभ्युक्तम्॥ (म्वि) व्विभक्ता᳘रᳫँ᳭ हवामहे व्व᳘सोश्चित्र᳘स्य रा᳘धसः॥ सविता᳘रं नृच᳘क्षसमि᳘ति त᳘देतत्स᳘र्व्वमा᳘युर्दीर्घ᳘मनन्तᳫँ᳭ हि तद्य᳘दिदमाहु᳘र्दीर्घं᳘[[!!]] त ऽआ᳘युरस्तु स᳘र्व्वमा᳘युरिही᳘त्येष᳘ ते लोक᳘ ऽएत᳘त्ते ऽस्त्वि᳘ति है᳘वैतत्[[!!]]॥
मूलम् - Weber
त᳘देत᳘दृॗचाॗभ्युक्तं विभक्ता᳘रᳫं हवामहे व᳘सोश्चित्र᳘स्य रा᳘धसः॥
सविता᳘रं नृच᳘क्षसमि᳘ति त᳘देतत्स᳘र्वमा᳘युर्दीर्घ᳘मनन्तᳫं हि तद्य᳘दिदमा᳘हुर्दीर्घं᳘ त आ᳘युरस्तु स᳘र्वमा᳘युरिही᳘त्येष᳘ ते लोक᳘ एत᳘त्तेऽस्त्वि᳘ति हैॗवैत᳘त्॥
मूलम् - विस्वरम्
तदेतदृचा ऽभ्युक्तम्- “विभक्तारं हवामहे वसोश्चित्रस्य राधसः । सवितारं नृचक्षसम्”- (वा. सं. ३० । ३) इति । तदेतत्सर्वमायुर्दीर्घम् । अनन्तं हि तत् । यदिदमाहुः- “दीर्घं त आयुरस्तु । सर्वमायुरिहि”- इति । एष ते लोकः । एतत्ते ऽस्त्विति हैवैतत् ॥ ६ ॥
सायणः
सवितैव सर्वप्रजाभ्यो नानारूपं कामं ददातीत्यर्थं दाशतय्या मन्त्रसंवादेन द्रढयति- तदेतदृचा ऽभ्युक्तमिति । अयमर्थः- ‘वसोः’ वासयोग्यस्य ‘चित्रस्य’ नानाविधस्य ‘राधसः’ आयुर्लक्षणफलस्य विभक्तारं विभज्य प्रदातारम् । ‘नृचक्षसम्’ नृणां द्रष्टारं तत्कर्मसाक्षिणम् । यद्वा चष्टेः कर्मण्यसुन् । नृभिर्दृश्यमानं ‘सवितारं हवामहे’ । सर्वायुष्ट्वमिदानीमाह- तदेतत्सर्वमायुरिति । सर्वपदस्यार्थमाह- दीर्घमनन्तं हि तदिति । तदेतत् राधो लोकलक्षणं ततः सर्वायूरूपं दीर्घायूरूपमित्यर्थः । उक्तमर्थं लोकप्रसिद्ध्या द्रढयति- यदिदमाहुर्दीर्घं त आयुरिति । लोके पूर्ववयोभिरभिवादिता ज्यायांसः पुरुषाः एतामाशिषं कुर्वन्ति- दीर्घं त आयुरस्त्विति । सर्वमायुरिहीति च । इहि गच्छ । इणो लोटि रूपम् । इति यदिदं लोके आयुस्तस्यार्थं श्रुतिः स्वयं दर्शयति- एष ते लोक इति । सर्वमायुरिहीति दीर्घं त आयुरस्त्वित्यनयोः अयमर्थः- तव ‘एषः’ लोकः सावित्रादिरूपो ऽस्तु । ‘ते’ तव ‘एतत्’ सावित्रं तेजः ‘अस्तु’ भवत्विति ॥ ६ ॥
Eggeling
- It is regarding this that it is said in the R̥c (I, 22, 7; Vāj. S. XXX, 4), ‘The distributer of wealth, the bright boon, we invoke, Savitr̥, the beholder of men.’ And that is the full
(measure of) life, for it is long, it is unending 1; and when people here say, ‘May thy life be long! mayest thou reach the full (extent of) life!’ it is as much as to say, ‘May that, world, may that (immortal light) be thine!’
०७
विश्वास-प्रस्तुतिः
(त्प᳘) प᳘श्यन्ती व्वा᳘ग्वदति॥
त᳘देतदे᳘कशतविधेन वै᳘वा ऽऽप्त᳘व्यᳫँ᳭[[!!]] शतायु᳘तया वा य᳘ ऽएवै᳘कशतविधं व्वि᳘धत्ते यो᳘ वा शतं᳘ व्वर्षा᳘णि जी᳘वति स᳘ है᳘वैत᳘दमृ᳘तमाप्नोति त᳘स्माद्ये᳘ चैत᳘द्विदुर्ये᳘ च न[[!!]] लो᳘क्या शतायुते᳘त्येवाहुस्त᳘स्मादु[[!!]] ह न᳘ पुरा᳘ ऽऽयुषः स्वकामी प्रे᳘यादलोक्य᳘ᳫँ᳘ हैत᳘ ऽउ वाव᳘ लोका य᳘दहोरात्रा᳘ण्यर्धमासा मा᳘सा ऽऋत᳘वः संव्वत्सरः[[!!]]॥
मूलम् - श्रीधरादि
(त्प᳘) प᳘श्यन्ती व्वा᳘ग्वदति॥
त᳘देतदे᳘कशतविधेन वै᳘वा ऽऽप्त᳘व्यᳫँ᳭[[!!]] शतायु᳘तया वा य᳘ ऽएवै᳘कशतविधं व्वि᳘धत्ते यो᳘ वा शतं᳘ व्वर्षा᳘णि जी᳘वति स᳘ है᳘वैत᳘दमृ᳘तमाप्नोति त᳘स्माद्ये᳘ चैत᳘द्विदुर्ये᳘ च न[[!!]] लो᳘क्या शतायुते᳘त्येवाहुस्त᳘स्मादु[[!!]] ह न᳘ पुरा᳘ ऽऽयुषः स्वकामी प्रे᳘यादलोक्य᳘ᳫँ᳘ हैत᳘ ऽउ वाव᳘ लोका य᳘दहोरात्रा᳘ण्यर्धमासा मा᳘सा ऽऋत᳘वः संव्वत्सरः[[!!]]॥
मूलम् - Weber
प᳘श्यन्ती वा᳘ग्वदति॥
त᳘देतदे᳘कशतविधेन वैॗवाप्तव्यं᳘ शतायु᳘तया वा य᳘ एवै᳘कशतविधं विधत्ते 2 यो᳘ वा शत᳘म्- वर्षा᳘णि जी᳘वति स᳘ हैॗवैत᳘दमृ᳘तमाप्नोति त᳘स्माद्ये᳘ चैत᳘द्विदुर्ये᳘ च न᳘ लोॗक्या शतायुते᳘त्येॗवाहुस्त᳘स्मादु ह न᳘ पुरा᳘युषः स्वकामी प्रे᳘यादलोक्य᳘ᳫं᳘ हैत᳘ उ वाव᳘ लोका य᳘दहोरात्रा᳘ण्यर्धमासा मा᳘सा ऋत᳘वः संवत्सरः᳟॥
मूलम् - विस्वरम्
पश्यन्ती वाग्वदति । तदेतदेकशतविधेन वैवा ऽऽप्तव्यम्, शतायुतया वा । य एवैकशतविधं विधत्ते । यो वा शतं वर्षाणि जीवति । स हैवैतदमृतमाप्नोति । तस्माद्ये चैतद् विदुः, ये च न- लोक्या- शतायुता इत्येवाहुः । तस्मादु ह न पुरा ऽऽयुषः स्वकामी प्रेयात् । अलोक्यं ह । एत उ वाव लोकाः- यदहोरात्राणि, अर्धमासाः, मासाः, ऋतवः, संवत्सरः ॥ ७ ॥
सायणः
‘एतद्’ अर्थजातं ‘पश्यन्ती’ विचारयन्ती वाक् दीर्घं त आयुरस्त्वित्यादिका वदतीति । तस्यामृतत्वफलसाधनं दर्शयति- तदेतदेकशतविधेन वैवा ऽऽप्तव्यमिति । ‘एकशतविधेन’ अग्निना ‘तत्’ अमृतत्वरूपं राधः ‘आप्तव्यम्’ ‘शतायुतया’ शतवर्षजीवनेन वा ऽऽप्तव्यम् इति साधनप्रश्नः । उभाभ्यामपि तत् फलं लभ्यत इत्युत्तरमाह- य एवैकशतविधं विधत्त इति । शतवर्षजीवनमपि पुण्यलोकहेतुरित्यत्र लोकप्रसिद्धिं दर्शयति- तस्माद्ये चैतद्विदुरिति । उक्तार्थज्ञाः तदनभिज्ञाश्च ‘शतायुता’ शतवर्षजीवनं ‘लोक्या’ लोकहिता पुण्यलोकहेतुरित्याहुः । यस्मात् शतायुर्ज्जीवनं लोकहितं तस्मादस्मादायुषः ‘पुरा’ पूर्वं ‘स्वकामी’ स्वहितमिच्छन् स्वेच्छया ‘न प्रेयात्’ न म्रियेत । तन्मरणम् ‘अलोक्यम्’ अमृतत्वरूपलोकसाधनं न भवति । शतादर्वाचीनेषु वर्षेषु मरणं पुण्यलोकसाधकं न भवतीत्येतमर्थं विशदयति- एत इति । अहोरात्रार्द्धमासमासर्त्तुसंवत्सराः यद्यपि ‘लोकाः’ तथापि ‘अलोक्याः’ अमृतत्वप्रापका न भवन्ति ॥ ७ ॥
Eggeling
- It is Vāc (Speech) that, seeing it, speaks (thus). That same (immortal light), indeed, is to be obtained either by the one hundred and one-fold (altar), or by a life of a hundred years: whosoever builds a one hundred and one-fold (altar), or whosoever lives a hundred years, he, indeed, obtains that immortality. Therefore, whether they know it, or whether they do not, people say, ‘The life of a hundred years makes for heaven.’ Hence one ought not to yield to his own desire and pass away before (he has attained) the full extent of life, for (such shortening of one’s life) does not make for the heavenly world 3; and these are indeed the worlds, to wit, the days and nights, the half-moons, moons, and seasons, and the year.
०८
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘द्ये ऽर्व्वाग्विᳫँ᳭शे᳘षु व्वर्षे᳘षु प्रय᳘न्ति॥
(न्त्य) अहोरात्रे᳘षु ते लोके᳘षु सज्यन्ते᳘ ऽथ ये᳘ परोविᳫँ᳭शे᳘ष्वर्व्वाक्चत्वारिᳫँ᳭शे᳘ष्वर्धमासे᳘षु ते᳘ ऽथ ये᳘ परश्चत्वारिᳫँ᳭शे᳘ष्वर्वाक्षष्टे᳘षु मा᳘सेषु ते᳘ ऽथ ये᳘ परःषष्टे᳘ष्वर्व्वागशीते᳘ष्वृतु᳘षु ते᳘ ऽथ ये᳘ परो ऽशीते᳘ष्वर्व्वाक्छते᳘षु संव्वत्सरे ते᳘ ऽथ य᳘ ऽएव᳘ शतं᳘ व्वर्षाणि यो᳘ वा भू᳘याᳫँ᳭सि जी᳘वति स᳘ है᳘वैत᳘दमृ᳘तमाप्नोति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘द्ये ऽर्व्वाग्विᳫँ᳭शे᳘षु व्वर्षे᳘षु प्रय᳘न्ति॥
(न्त्य) अहोरात्रे᳘षु ते लोके᳘षु सज्यन्ते᳘ ऽथ ये᳘ परोविᳫँ᳭शे᳘ष्वर्व्वाक्चत्वारिᳫँ᳭शे᳘ष्वर्धमासे᳘षु ते᳘ ऽथ ये᳘ परश्चत्वारिᳫँ᳭शे᳘ष्वर्वाक्षष्टे᳘षु मा᳘सेषु ते᳘ ऽथ ये᳘ परःषष्टे᳘ष्वर्व्वागशीते᳘ष्वृतु᳘षु ते᳘ ऽथ ये᳘ परो ऽशीते᳘ष्वर्व्वाक्छते᳘षु संव्वत्सरे ते᳘ ऽथ य᳘ ऽएव᳘ शतं᳘ व्वर्षाणि यो᳘ वा भू᳘याᳫँ᳭सि जी᳘वति स᳘ है᳘वैत᳘दमृ᳘तमाप्नोति॥
मूलम् - Weber
तॗद्येऽर्वाग्विंशे᳘षु वर्षे᳘षु प्रय᳘न्ति॥
अहोरात्रे᳘षु ते लोके᳘षु सज्यन्ते᳘ऽथ ये᳘ परोविंशे᳘ष्वर्वाक्चत्वारिंशे᳘ष्वर्धमासे᳘षु ते᳘ऽथ ये᳘ परश्चत्वारिंशे᳘ष्वर्वाक्षष्टे᳘षु मा᳘सेषु ते᳘ऽथ ये᳘ परःषष्टे᳘ष्वर्वागशीते᳘ष्वृतु᳘षु ते᳘ऽथ ये᳘ परोऽशीते᳘ष्वर्वाक्शते᳘षु संवत्सरे ते᳘ऽथ य᳘ एव᳘ शतं᳘ वर्षाणि यो᳘ वा भू᳘यांसि जी᳘वति स᳘ हैॗवैत᳘दमृ᳘तमाप्नोति॥
मूलम् - विस्वरम्
तद् ये- अर्वाग्विंशेषु वर्षेषु प्रयन्ति- अहोरात्रेषु ते लोकेषु सज्यन्ते । अथ ये परोविंशेष्वर्वाक् चत्वारिंशेषु- अर्धमासेषु ते । अथ ये परश्चत्वारिंशेष्वर्वाक्षष्टेषु- मासेषु ते । अथ ये परःषष्टेष्वर्वागशीतेषु- ऋतुषु ते । अथ ये परो ऽशीतेष्वर्वाक् शतेषु- संवत्सरे ते । अथ य एव शतं वर्षाणि- यो वा भूयांसि जीवति । स हैवैतदमृतमाप्नोति ॥ ८ ॥
सायणः
तत्रैतादृशेषु वर्षेषु मरणमहोरात्रार्द्धमासाद्यात्मकलोकहेतुः नतु अमृतत्वफलप्रापकमित्याह- तद्ये ऽर्वाग्विंशेष्वित्यादिना । ये विंशतिवर्षादर्वाचीनेषु ‘वर्षेषु’ म्रियंते ते अहोरात्ररूपेषु लोकेषु ‘सज्यन्ते’ सम्बध्यन्ते । एवमुत्तरत्र योग्यम् । ‘अर्वाक्षष्टेषु’ षष्टिवर्षादर्वाचीनेषु । शतवर्षजीवनस्य सूक्तमेव फलमिति निगमयति- अथ य एव शतं वर्षाणि, यो वा भूयांसि जीवतीति ॥ ८ ॥
Eggeling
- Those who pass away in the years below twenty are consigned to the days and nights as their worlds; and those who (pass away) in the years above twenty and below forty, to the half-moons; and those who (pass away) in the (years) above forty and below sixty, to the months; and those who (pass away) in the (years) above sixty and below
eighty, to the seasons; and those who (pass away) in the (years) above eighty and below a hundred (are consigned) to the year; and he alone who lives a hundred years or more attains to that immortal (life).
०९
विश्वास-प्रस्तुतिः
बहु᳘भिर्ह वै᳘ यज्ञैः[[!!]]॥
(रे᳘) ए᳘कम᳘हरे᳘का रा᳘त्रिर्मिता स य᳘ ऽएवै᳘कशतविधं व्वि᳘धत्ते यो᳘ वा शतं᳘ व्वर्षा᳘णि जी᳘वति स᳘ है᳘वैनदद्धातमा᳘माप्नोत्येष वा ऽए᳘कशतविधं व्वि᳘धत्ते य᳘ ऽएनᳫँ᳭ संव्वत्सरं᳘[[!!]] बिभ᳘र्ति त᳘स्मादेनᳫँ᳭ संव्वत्सर᳘भृतमेव᳘[[!!]] चिन्वीते᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
बहु᳘भिर्ह वै᳘ यज्ञैः[[!!]]॥
(रे᳘) ए᳘कम᳘हरे᳘का रा᳘त्रिर्मिता स य᳘ ऽएवै᳘कशतविधं व्वि᳘धत्ते यो᳘ वा शतं᳘ व्वर्षा᳘णि जी᳘वति स᳘ है᳘वैनदद्धातमा᳘माप्नोत्येष वा ऽए᳘कशतविधं व्वि᳘धत्ते य᳘ ऽएनᳫँ᳭ संव्वत्सरं᳘[[!!]] बिभ᳘र्ति त᳘स्मादेनᳫँ᳭ संव्वत्सर᳘भृतमेव᳘[[!!]] 4 चिन्वीते᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
बहु᳘भिर्ह वै᳘ यज्ञैः᳟॥
ए᳘कम᳘हरे᳘का रा᳘त्रिर्मिता स य᳘ एवै᳘कशतविधं 5 विधत्ते यो᳘ वा शतं᳘ वर्षा᳘णि जी᳘वति स᳘ हैॗवैनदद्धातमामा᳘प्नोत्येष वा ए᳘कशतविधं वि᳘धत्ते य᳘ एनᳫं सं᳘वत्सरं᳘ बिभ᳘र्ति त᳘स्मादेनᳫं संवत्सर᳘भृ᳘तमेव᳘ चिन्वीते᳘त्यधिदेवत᳘म्॥
मूलम् - विस्वरम्
बहुभिर्ह वै यज्ञैरेकमहरेका रात्रिर्मिता । स य एवैकशतविधं विधत्ते- यो वा शतं वर्षाणि जीवति । स हैवैनदद्धातमामाप्नोति । एष वा एकशतविधं विधत्ते- य एनं संवत्सरं बिभर्ति । तस्मादेनं सम्वत्सरभृतमेव चिन्वीत । इत्यधिदेवतम् ॥ ९ ॥
सायणः
बहुभिर्हेति । ‘बहुभिर्ह वै यज्ञैरेकमहः’ इत्यादेरयमर्थः- ‘एकमहः’ ‘एका रात्रिरपि बहुभिर्यज्ञैः’ ‘मिता’ एकदिनजीवनमेकरात्रिजीवनमपि बहुयज्ञफलं किमुत शतवर्षाणि जीवनवतो ऽमृतत्वप्राप्तिरिति । एवमग्नेरमृतत्वं फलमित्युक्त्वा एकशतविधस्याग्नेः संवत्सरोख्यधारणं नियतमित्याह- एष वा एकशतविधं विधत्त इति । ‘यः’ पुरुषः ‘एनम्’ उख्याग्निं संवत्सरपर्यन्तं बिभर्त्ति- एष एकशतविधं चित्याग्निं विधातुं योग्यः । यस्मात्संवत्सरमुख्याग्निं बिभ्रत एवैकशतविधाग्नेर्विधाने योग्यत्वम् तस्मात् ‘संवत्सरभृतमिव’ । इव-शब्दो ऽवधारणे । वर्षपर्य्यन्तं ‘भृतमेव’ अग्निं ‘चिन्वीत’ ‘इत्यधिदेवतम्’ । इति संवत्सरेण सूर्यात्मना वैकशतसंख्यावत्वं सम्पद्यत इति प्रागुक्तम् । “संवत्सरो वै प्रजापतिरेकशतविधः । तस्याहोरात्राणि, अर्द्धमासाः, मासाः, ऋतवः । षष्टिर्मासस्याहोरात्राणि, मासि वै संवत्सरस्याहोरात्राण्याप्यन्ते चतुर्विंशतिरर्द्धमासाः त्रयोदश मासाः त्रय ऋतवः- ताः शतं विधाः, संवत्सर एवैकशततमी विधा" इति “तस्य रश्मयः शतं विधा मण्डलमेवैकशततमी विधा” (श. प. १० । २ । ६ । १-२) इति चोक्तत्वात् ॥ ९ ॥
Eggeling
- Only by many sacrifices, indeed, is a single day, or a single night (of life) gained; and only he who builds the one hundred and one-fold (altar), or he who lives a hundred years, is certain of his attaining to that immortal (life). But he, indeed, builds a one hundred and one-fold (altar) who carries him (Ukhya Agni) for a year: hence one should only build (an altar for) such an (Agni) who has been carried for a year. Thus much as to the deity.
१०
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाधियज्ञम्[[!!]]॥
या᳘नमूने᳘कशतमु᳘द्बाहून्पु᳘रुषान्मि᳘मीते स᳘ व्विधै᳘कशतविधः स᳘ चिति᳘भिरेव᳘ सप्त᳘विधः ष᳘डृत᳘व्यवत्यश्चि᳘तयो ऽग्नि᳘रेव᳘[[!!]] सप्तमी᳘ व्विधा[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाधियज्ञम्[[!!]]॥
या᳘नमूने᳘कशतमु᳘द्बाहून्पु᳘रुषान्मि᳘मीते स᳘ व्विधै᳘कशतविधः स᳘ चिति᳘भिरेव᳘ सप्त᳘विधः ष᳘डृत᳘व्यवत्यश्चि᳘तयो ऽग्नि᳘रेव᳘[[!!]] सप्तमी᳘ व्विधा[[!!]]॥
मूलम् - Weber
अ᳘थाधियज्ञ᳘म्॥
या᳘नमूने᳘कशतमु᳘द्बाहून्पु᳘रुषान्मि᳘मीते स᳘ विधै᳘कशतविधः स᳘ चिति᳘भिरेव᳘ सप्त᳘विधः ष᳘डृतव्य᳘वत्यश्चि᳘तयोऽग्नि᳘रेव᳘ सप्तमी᳘ विधा᳟॥
मूलम् - विस्वरम्
अथाधियज्ञम्- यानमूनेकशतमुद्बाहून्पुरुषान्मिमीते- स विधैकशतविधः । स चितिभिरेव सप्तविधः । षडृतव्यवत्यश्चितयः । अग्निरेव सप्तमी विधा ॥ १० ॥
सायणः
अथाधियज्ञमिति । अभिधीयते । एकशतसंख्याकोद्बाहुपुरुषमितत्वात्तद्विधाभिः पुरुषैः ‘एकशतविधः’ स भूयः सन्नपि चितिभिः सप्तविधः । चितीनां सप्तत्वमष्टमे काण्डे (श. प. ८ । ७ । ४ । १२-२१) प्रतिपादितम्; तदेव संग्रहेणाह- षडिति । प्रतिचिति ऋतव्ये उपदधातीत्युक्तत्वात् ऋतव्यसंज्ञकेष्टकाद्वयवत्यः षट्चितयस्तत्रोपरि निधीयमान आहवनीयः सप्तमी चितिरित्येको ऽर्थः अधियज्ञमुक्तम् ॥ १० ॥
Eggeling
- Now as to the sacrifice. When he measures out those one hundred and one men (man’s lengths) with upstretched arms, that is a one hundred and one-fold (altar) in form, and a sevenfold one in respect of its layers: the layers contain six seasonal 6 (bricks) and the fire (or altar) itself is the seventh form.
११
विश्वास-प्रस्तुतिः
स᳘ ऽउ वा ऽइ᳘ष्टकैकशतविधः॥
(घो) याः᳘ पञ्चाश᳘त्प्रथमा ऽइ᳘ष्टका या᳘श्चोत्तमास्ताः᳘ शतं᳘ व्विधा ऽअ᳘थ या᳘ ऽएत᳘दन्तरेणे᳘ष्टका ऽउपधीय᳘न्ते᳘ सै᳘वैकशततमी᳘ व्विधा[[!!]]॥
मूलम् - श्रीधरादि
स᳘ ऽउ वा ऽइ᳘ष्टकैकशतविधः॥
(घो) याः᳘ पञ्चाश᳘त्प्रथमा ऽइ᳘ष्टका या᳘श्चोत्तमास्ताः᳘ शतं᳘ व्विधा ऽअ᳘थ या᳘ ऽएत᳘दन्तरेणे᳘ष्टका ऽउपधीय᳘न्ते᳘ सै᳘वैकशततमी᳘ व्विधा[[!!]]॥
मूलम् - Weber
स᳘ उ वा इ᳘ष्टकैकशतविधः॥
याः᳘ पञ्चाश᳘त्प्रथमा इ᳘ष्टका या᳘श्चोत्तमास्ताः᳘ शतं᳘ विधा अ᳘थ या᳘ एत᳘दन्तरेणे᳘ष्टका उपधीय᳘न्तेॗ सैॗवैकशततमी᳘ विधा᳟॥
मूलम् - विस्वरम्
स उ वा इष्टकैकशतविधः । याः पञ्चाशत्प्रथमा इष्टकाः । याश्चोत्तमास्ताः शतं विधाः । अथ या एतदन्तरेणेष्टका उपधीयन्ते- सैवैकशततमी विधा ॥ ११ ॥
सायणः
अपरमाह- सं उ वा इष्टकैकशतविध इति । ‘याः’ ‘प्रथमाः’ प्रथमचिता उपहिताः प्राणभृतः ‘पञ्चाशत्’- इष्टकाः ‘याश्चोत्तमाः’ उत्तमचिता उपहिता विराड्-नाकसत्-पञ्चचूडाख्याः ‘पञ्चाशत्’ ‘ताः’ ‘शतम्’ । आसामाद्यन्तोपहितानां मध्ये याः ‘इष्टकाः उपधीयन्ते’ ताः सर्वा अपि ‘एकशततमी विधा’ इति ॥ ११ ॥
Eggeling
- And, indeed, it is a hundred and one-fold in respect of bricks,–the first fifty bricks and the last fifty 7 which are (laid down) make a hundred forms (parts); and the bricks which are laid down between (those two sets) are the one hundred and first form.
१२
विश्वास-प्रस्तुतिः
स᳘ उ ऽएव य᳘जुस्तेजाः॥
(०) य᳘जुरे᳘कशतविधो या᳘नि पञ्चाश᳘त्प्रथमा᳘नि य᳘जूᳫँ᳭षि या᳘नि चोत्तमा᳘नि ताः᳘ शतं᳘ व्विधा ऽअ᳘थ या᳘न्येत᳘दन्तरेण य᳘जूᳫँ᳭षि क्रिय᳘न्ते᳘ सै᳘वैकशततमी᳘ व्वि᳘धैव᳘मु सप्त᳘विध ऽए᳘कशतविधो भवति स यः᳘ शतायु᳘तायां का᳘मो य ऽए᳘कशतविधे सप्त᳘विधेन हैव त᳘मेवंवि᳘दाप्नोति॥
मूलम् - श्रीधरादि
स᳘ उ ऽएव य᳘जुस्तेजाः॥
(०) य᳘जुरे᳘कशतविधो या᳘नि पञ्चाश᳘त्प्रथमा᳘नि य᳘जूᳫँ᳭षि या᳘नि चोत्तमा᳘नि ताः᳘ शतं᳘ व्विधा ऽअ᳘थ या᳘न्येत᳘दन्तरेण य᳘जूᳫँ᳭षि क्रिय᳘न्ते᳘ सै᳘वैकशततमी᳘ व्वि᳘धैव᳘मु सप्त᳘विध ऽए᳘कशतविधो भवति स यः᳘ शतायु᳘तायां का᳘मो य ऽए᳘कशतविधे सप्त᳘विधेन हैव त᳘मेवंवि᳘दाप्नोति॥
मूलम् - Weber
स᳘ उ एव य᳘जुस्तेजाः॥
य᳘जुरेकशतविधो 8 या᳘नि पञ्चाश᳘त्प्रथमा᳘नि य᳘जूंषि या᳘नि चोत्तमा᳘नि ताः᳘ शतं᳘ विधा अ᳘थ या᳘न्येत᳘दन्तरेण य᳘जूंषि क्रिय᳘न्तेॗ सैॗवैकशततमी᳘ विॗधैव᳘मु सप्त᳘विध ए᳘कशतविधो भवति स यः᳘ शतायु᳘तायां का᳘मो य ए᳘कशतविधे सप्त्!विधेन हैव त᳘मेवंवि᳘दाप्नोति॥
मूलम् - विस्वरम्
स उ एव यजुस्तेजाः । यजुरेकशतविधः । यानि पञ्चाशत्प्रथमानि यजूंषि, यानि चोत्तमानि- ताः शतं विधाः । अथ यान्येतदन्तरेण यजूंषि क्रियन्ते- सैवैकशततमी विधा । एवमु सप्तविध एकशतविधो भवति । स यः शतायुतायां कामः, य एकशतविधे- सप्तविधेन हैव तमेवंविदाप्नोति ॥ १२ ॥
सायणः
उपधानमन्त्रसङ्ख्यया ऽप्येकशतविधत्वमधियज्ञमेव दर्शयति- स उ एव यजुस्तेजा इति । यजूंष्येव तेजो यस्याग्नेः स उ तद्यजुर्मन्त्रैरेकशतसङ्ख्याक इत्यर्थः । ‘यानि’ प्राणभृतामुपधानयजूंषि पंचाशत् ‘यानि’ चोत्तमानामुपधानयजूंषि पञ्चाशत्- तानि शतम् । एतेषां मध्ये यान्युपधानयजूंषि क्रियन्ते तानि सर्वाण्यपि सङ्घात्मनैकशतपूरकाणीति । यदुक्तमिष्टकाभिर्यजुर्भिश्चैकशतविधसप्तविधे प्रतिपादिते एवमु सप्तविध एकशतविधो भवतीति- सप्तविधस्यैकशतविधत्वसम्पादनेन किं जातमिति तदाह-** स यः शतायुतायां काम** इति । यः शतवर्षं जीवने एकशतविधाग्निचयने च काम उक्तः- अमृतत्वप्राप्तिलक्षणः तं कामं सप्तविधेनाग्निना एवमर्थं विद्वान् पुरुष आप्नोति ॥ १२ ॥
Eggeling
- And, having the Yajus for its light, it is a hundred and one-fold in respect of the Yajus (formulas),–the first fifty and the last fifty which are (used) make a hundred forms; and the Yajus which are used between them are the one hundred and first form. In this way also the sevenfold one becomes a hundred and one-fold, and whosoever knows this obtains even by the sevenfold one whatever wish there is both in a life of a hundred years and in the one hundred and one-fold (altar).
१३
विश्वास-प्रस्तुतिः
(त्ये) एवं वाव स᳘र्व्वे यज्ञाः[[!!]]॥
(ऽ) ए᳘कशतविधा᳘ आ ऽग्निहोत्रा᳘दृग्भिर्य᳘जुर्भिः पदै᳘रक्ष᳘रैः क᳘र्मभिः सा᳘मभिः स यः᳘ शतायु᳘तायां का᳘मो य ऽए᳘कशतविधे यः᳘ सप्त᳘विधे यज्ञे᳘नयज्ञेन[[!!]] हैव त᳘मेवंवि᳘दाप्नोती᳘त्यु ऽए᳘वाधियज्ञम्[[!!]]॥
मूलम् - श्रीधरादि
(त्ये) एवं वाव स᳘र्व्वे यज्ञाः[[!!]]॥
(ऽ) ए᳘कशतविधा᳘ आ ऽग्निहोत्रा᳘दृग्भिर्य᳘जुर्भिः पदै᳘रक्ष᳘रैः क᳘र्मभिः सा᳘मभिः स यः᳘ शतायु᳘तायां का᳘मो य ऽए᳘कशतविधे यः᳘ सप्त᳘विधे यज्ञे᳘नयज्ञेन[[!!]] हैव त᳘मेवंवि᳘दाप्नोती᳘त्यु ऽए᳘वाधियज्ञम्[[!!]]॥
मूलम् - Weber
एवं वाव स᳘र्वे यज्ञाः᳟॥
ए᳘कशतविधाॗ आग्निहोत्रा᳘दृग्भिर्य᳘जुर्भिः पदै᳘रक्ष᳘रैः क᳘र्मभिः सा᳘मभिः स यः᳘ शतायु᳘तायां का᳘मो य ए᳘कशतविधे यः᳘ सप्त᳘विधे यज्ञे᳘न यज्ञे᳘न 9 हैव त᳘मेवंवि᳘दाप्नोती᳘त्यु एॗवाधियज्ञ᳘म्॥
मूलम् - विस्वरम्
एवं वाव सर्वे यज्ञाः । एकशतविधा आ ऽग्निहोत्रात्- ऋग्भिः, यजुर्भिः, पदैः, अक्षरैः, कर्मभिः, सामभिः । स यः शतायुतायां कामो, य एकशतविधे, यः सप्तविधे-यज्ञेनयज्ञेन हैव तमेवंविदाप्नोति । इत्यु एवाधियज्ञम् ॥ १३ ॥
सायणः
यथा सप्तविधस्येष्टकायजुरादिसंख्यासम्पत्त्यैकशतविधत्वमुच्यते तथा सर्वयज्ञेष्वपि यथाकथञ्चनैकशतविधत्वं सम्पादयितुं शक्यत इत्याह- एवं वाव सर्वे यज्ञा एकशतविधा आ ऽग्निहोत्रादिति । एवं सप्तविधस्यैकशतत्वसम्पत्तिन्यायवदेकाहाहीनसत्रादिकाश्चाग्निहोत्रावसानाः सर्वे ऽपि यज्ञा एकशतविधा भवन्ति । एतदेव दर्शयति- ऋग्भिर्यजुर्भिरिति । एकस्मिन् यज्ञे आदितः पञ्चाशदृचः, अन्ते च पञ्चाशत्- तन्मध्यवर्त्तिन्यः सर्वा अप्यृच एकशततमी विधा इति । एवमेकस्य यज्ञस्यैकशतविधत्वम् । एवं सर्वेषां यज्ञानां यजुरादिभिरेकशतविधत्वमूह्यम् । तेषामेवमेकशतविधानां सर्वेषां यज्ञानां पूर्वमुक्तं फलमादिशति- स यः शतायुतायां काम इति । ‘यज्ञेन यज्ञेन’- इति वीप्सया सर्वैर्यज्ञैरपि उक्तं फलमाप्नोति । एवमधियज्ञमर्थो ऽभिहितः ॥ १३ ॥
Eggeling
- In this way, indeed, all sacrifices 10 up to the Agnihotra are a hundred and one-fold by way of verses, formulas, words, syllables, rites, and hymn-tunes; and whosoever knows this obtains by every sacrifice whatever wish there is either in a life of a hundred years, or in the one hundred and one-fold (altar), or in the sevenfold one. Thus much as to the sacrifice.
१४
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्मम्[[!!]]॥
प᳘ञ्चेमाश्च᳘तुर्व्विधा ऽअङ्गु᳘लयो द्वे᳘ कल्कुषी दो᳘रᳫँ᳭सफलकं चा᳘क्षश्च तत्प᳘ञ्चविᳫँ᳭शतिरेव᳘मिमानी᳘तराण्य᳘ङ्गानि ताः᳘ शतं᳘ व्विधा᳘ ऽआ᳘त्मै᳘वैकशततमी᳘ व्वि᳘धोक्त᳘ᳫँ᳘ सप्तविध᳘तायै॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्मम्[[!!]]॥
प᳘ञ्चेमाश्च᳘तुर्व्विधा ऽअङ्गु᳘लयो द्वे᳘ कल्कुषी दो᳘रᳫँ᳭सफलकं चा᳘क्षश्च तत्प᳘ञ्चविᳫँ᳭शतिरेव᳘मिमानी᳘तराण्य᳘ङ्गानि ताः᳘ शतं᳘ व्विधा᳘ ऽआ᳘त्मै᳘वैकशततमी᳘ व्वि᳘धोक्त᳘ᳫँ᳘ सप्तविध᳘तायै॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
प᳘ञ्चेमाश्चतुर्विधा अङ्गु᳘लयो द्वे᳘ कल्कुषी दो᳘रंसफलकं चा᳘क्षश्च तत्प᳘ञ्चविंशतिरेव᳘मिमानी᳘तराण्य᳘ङ्गानि ताः᳘ शतं᳘ विधा᳘ आॗत्मैॗवैकशततमी᳘ विॗधोक्त᳘ᳫं᳘ सप्तविध᳘तायै॥
मूलम् - विस्वरम्
अथाध्यात्मम्- पञ्चेमाश्चतुर्विधा अङ्गुलयः, द्वे कल्कुषी, दोः, अंसफलकं चाक्षश्च, तत्पञ्चविंशतिः । एवमिमानीतराण्यङ्गानि । ताः शतं विधाः । आत्मैवैकशततमी विधा । उक्तं सप्तविधतायै ॥ १४ ॥
सायणः
अथाध्यात्ममिति । एकशतविधत्वं तदुच्यत इति शेषः । एकस्मिन् पुरुषे विद्यमानस्यैकहस्तस्य पञ्चाङ्गुलयो ऽपि चतुर्विधा इति-एकैकाङ्गुलिपर्वभेदेन चतुर्विधा इति- पञ्चस्वङ्गुलिषु विंशतिः सम्पन्ना । द्वे कल्कुषी मणिबन्धारत्नी, बाहुरेकः, ‘अंसफलकम्’ एकम् ‘अक्षः’ अंसाग्रे वर्त्तमानं ग्रीवायामक्षवत् प्रोतमस्थि तदेकम् इति पञ्चविंशतिसङ्ख्या । एवमेकस्मिन् हस्ते पञ्चविंशतिः । तथा ऽन्यस्मिन् हस्ते पादद्वये चेति शतं सङ्ख्या सम्पद्यते । ‘आत्मा’ अस्य देह एकशततमी विधेति । एतस्य प्राणैः सप्तविधत्वमुक्तमिति स्मारयति- उक्तं सप्तविधताया इति ॥ १४ ॥
Eggeling
- Now as to the body. There are these four sets of five fingers and toes, the two–wrist and elbow 11,–the arm, the shoulder-blade, and the collarbone,–that makes twenty-five; and in the same way (each of) these other limbs,–that makes a hundred parts, and the trunk itself is the one hundred and first part. As regards the sevenfold state this has been explained 12.
१५
विश्वास-प्रस्तुतिः
स᳘ ऽउ ऽएव᳘ प्राण᳘तेजाः॥
प्राणै᳘कशतविधो ऽन्वङ्गम᳘ङ्गे ऽङ्गे हि᳘ प्राणः स यः᳘ शतायु᳘तायां का᳘मो य ऽए᳘कशतविधे यः᳘ सप्त᳘विधे यः स᳘र्व्वेषु यज्ञे᳘षु विद्य᳘या हैव त᳘मेवंवि᳘दाप्नोति स᳘र्व्वैर्हि᳘ यज्ञै᳘रात्मा᳘नᳫँ᳭ स᳘म्पन्नं व्विदे[[!!]]॥
मूलम् - श्रीधरादि
स᳘ ऽउ ऽएव᳘ प्राण᳘तेजाः॥
प्राणै᳘कशतविधो ऽन्वङ्गम᳘ङ्गे ऽङ्गे हि᳘ प्राणः स यः᳘ शतायु᳘तायां का᳘मो य ऽए᳘कशतविधे यः᳘ सप्त᳘विधे यः स᳘र्व्वेषु यज्ञे᳘षु विद्य᳘या हैव त᳘मेवंवि᳘दाप्नोति स᳘र्व्वैर्हि᳘ यज्ञै᳘रात्मा᳘नᳫँ᳭ स᳘म्पन्नं व्विदे[[!!]]॥
मूलम् - Weber
स᳘ उ एव᳘ प्राण᳘तेजाः॥
प्राणै᳘कशतविधोऽन्वङ्गम᳘ङ्गेऽङ्गे हि᳘ प्राणः स यः᳘ शतायु᳘तायां का᳘मो य ए᳘कशतविधे यः᳘ सप्त᳘विधे यः स᳘र्वेषु यज्ञे᳘षु विद्या᳘या हैव त᳘मेवंवि᳘दाप्नोति स᳘र्वौर्हि᳘ यज्ञै᳘रात्मा᳘नᳫं स᳘म्पन्नं विदे᳟॥
मूलम् - विस्वरम्
स उ एव प्राणतेजाः । प्राणैकशतविधो ऽन्वङ्गम् । अङ्गे ऽङ्गे हि प्राणः । स यः शतायुतायां कामः, य एकशतविधे, यः सप्तविधे, यः सर्वेषु यज्ञेषु । विद्यया हैव तमेवं विदाप्नोति । सर्वैर्हि यज्ञैरात्मानं सम्पन्नं विदे ॥ १५ ॥
सायणः
अध्यात्ममेव प्रकारान्तरेणैकशतविधत्वं निरूपयति- स उ एव प्राणतेजा इति । उक्तरीत्या शतसंख्याकेष्वङ्गेषु प्राणो वर्तत इति सो ऽपि शतसंख्याकः आत्मनि वर्त्तमानः ‘प्राणः’ एकशततमः । “स यः शतायुतायां कामः” इत्यादिना- “आत्मानं सम्पन्नं विदे” इत्यन्तेन वेदितुः फलनिरूपणम् । ‘विदे’ विदतेः- “लोपस्त आत्मनेपदेषु”- (पा. सू. ७ । १ । ४१) इति तलोपः ॥ १५ ॥
Eggeling
- And, having the vital air for its light, it is a hundred and one-fold by the vital airs limb by limb, for there is vital air in each limb: whosoever knows this obtains, even by his knowledge, whatever wish there is in a life of a hundred years, or in the one hundred and one-fold (altar), or in the sevenfold one, or in all sacrifices; for he has obtained a body perfected by all the sacrifices.
१६
विश्वास-प्रस्तुतिः
त्री᳘णि वा᳘ ऽइ᳘मानि प᳘ञ्चविधानि॥
संव्वत्स᳘रो ऽग्निः पु᳘रुषस्ते᳘षां प᳘ञ्च व्विधा ऽअ᳘न्नं पा᳘नᳫँ᳭ श्रीर्ज्यो᳘तिरमृ᳘तं य᳘देव᳘ संव्वत्सरे᳘ ऽन्नं तद᳘न्नं या ऽआ᳘पस्तत्पा᳘नᳫँ᳭ रा᳘त्रिरेव श्रीः᳘ श्रिया᳘ᳫँ᳘ हैतद्रा᳘त्र्याᳫँ᳭ स᳘र्व्वाणि भूता᳘नि संव᳘सन्त्य᳘हर्ज्यो᳘तिरादि᳘त्यो ऽमृ᳘तमि᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
त्री᳘णि वा᳘ ऽइ᳘मानि प᳘ञ्चविधानि॥
संव्वत्स᳘रो ऽग्निः पु᳘रुषस्ते᳘षां प᳘ञ्च व्विधा ऽअ᳘न्नं पा᳘नᳫँ᳭ श्रीर्ज्यो᳘तिरमृ᳘तं य᳘देव᳘ संव्वत्सरे᳘ ऽन्नं तद᳘न्नं या ऽआ᳘पस्तत्पा᳘नᳫँ᳭ रा᳘त्रिरेव श्रीः᳘ श्रिया᳘ᳫँ᳘ हैतद्रा᳘त्र्याᳫँ᳭ स᳘र्व्वाणि भूता᳘नि संव᳘सन्त्य᳘हर्ज्यो᳘तिरादि᳘त्यो ऽमृ᳘तमि᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
त्री᳘णि वा᳘ इ᳘मानि प᳘ञ्चविधानि॥
संवत्सॗरोऽग्निः पु᳘रुषस्ते᳘षाम् प᳘ञ्च विधा अ᳘न्नम् पा᳘नं श्रीर्ज्यो᳘तिरमृ᳘तं य᳘देव᳘ संवत्सरे᳘ऽन्नं तद᳘न्नं या आ᳘पस्तत्पा᳘नं रा᳘त्रिरेव श्रीः᳘ श्रिया᳘ᳫं᳘ हैतद्रा᳘त्र्याᳫं स᳘र्वाणि भूता᳘नि संव᳘सन्त्य᳘हर्ज्यो᳘तिरादिॗत्योऽमृ᳘तमि᳘त्यधिदेवतं᳟॥
मूलम् - विस्वरम्
त्रीणि वा इमानि पञ्चविधानि- संवत्सरः, अग्निः, पुरुषः । तेषां पञ्च विधाः- अन्नम्, पानम्, श्रीः, ज्योतिः, अमृतम् । यदेव संवत्सरे ऽन्नं तदन्नम् । या आपस्तत्पानम् । रात्रिरेव श्रीः । श्रियां हैतद्रात्र्यां सर्वाणि भूतानि संवसन्ति । अहः, ज्योतिः, आदित्यः अमृतम् । इत्यधिदेवतम् ॥ १६ ॥
सायणः
यदुक्तं एकशतविधं विधत्त इत्यत्राधिदैवाधियज्ञाध्यात्मत्रयविषये संवत्सरचित्याग्निपुरुषा इति, तत्र तेषां संवत्सराग्निपुरुषाणां पञ्चविधत्वमिदानीमाह- त्रीणि वा इमानि पञ्चविधानीति । अन्नपानादीनि पञ्च विधाः, तत्र अधिदेवतं संवत्सरे अन्नादीनामर्थमाह- यदेवेति । यत् ‘अन्नम्’ संवत्सरे समुत्पद्यते तदेवान्नशब्दवाच्यम् । या वृष्टा आपस्ता एव पानशब्दवाच्याः । रात्र्याः श्रीत्वं प्रतिपादयति- श्रियां हैतदिति । श्रयन्ति निवसन्त्यस्मिन् काल इति ‘रात्रिः’ श्रीशब्दवाच्या । अह्नि प्रकाशसद्भावात् तदेव ‘अहः ज्योतिः’ ‘आदित्यो ऽमृतमित्यधिदेवतम्’ पञ्चविधार्थाः ॥ १६ ॥
Eggeling
- Now, there are these three fivefold (objects), the year, the fire, and man: their five forms are food, drink, well-being 13, light, and immortality. Whatever food there is in the year, that is its food; whatever water, that is its drink; its well-being is the night, for in the night, as in well-being (contentment or goodness), all beings dwell together 14; its light is the day, and its immortal element the sun. Thus much as to the deity.
१७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाधियज्ञम्[[!!]]॥
य᳘दे᳘वाग्नाव᳘न्नमुपधीय᳘ते तद᳘न्नं या ऽआ᳘पस्तत्पा᳘नं परिश्रि᳘त ऽएव श्रीस्तद्धि रा᳘त्रीणाᳫँ᳭ रूपं य᳘जुष्मत्यो ज्यो᳘तिस्तद्ध्य᳘ह्नाᳫँ᳭ रूप᳘मग्नि᳘रमृ᳘तं त᳘द्ध्यादित्य᳘स्य रूपमि᳘त्यु ऽए᳘वाधियज्ञम्[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाधियज्ञम्[[!!]]॥
य᳘दे᳘वाग्नाव᳘न्नमुपधीय᳘ते तद᳘न्नं या ऽआ᳘पस्तत्पा᳘नं परिश्रि᳘त ऽएव श्रीस्तद्धि रा᳘त्रीणाᳫँ᳭ रूपं य᳘जुष्मत्यो ज्यो᳘तिस्तद्ध्य᳘ह्नाᳫँ᳭ रूप᳘मग्नि᳘रमृ᳘तं त᳘द्ध्यादित्य᳘स्य रूपमि᳘त्यु ऽए᳘वाधियज्ञम्[[!!]]॥
मूलम् - Weber
अ᳘थाधियज्ञ᳘म्॥
य᳘देॗवाग्नाव᳘न्नमुपधीय᳘ते तद᳘न्नं या आ᳘पस्तत्पा᳘नम् परिश्रि᳘त एव श्रीस्तद्धि रा᳘त्रीणां रूपं य᳘जुष्मत्यो ज्यो᳘तिस्तद्ध्य᳘ह्नां रूप᳘मग्नि᳘रं!तं तॗद्ध्यादित्य᳘स्य रूपमि᳘त्यु एॗवाधियज्ञ᳘म्॥
मूलम् - विस्वरम्
अथाधियज्ञम्- यदेवाग्नावन्नमुपधीयते- तदन्नम् । या आपस्तत्पानम् । परिश्रित एव श्रीः । तद्धि रात्रीणां रूपम् । यजुष्मत्यो ज्योतिः । तद्ध्यह्नां रूपम् । अग्निरमृतम् । तद्ध्यादित्यस्य रूपम् । इत्यु एवाधियज्ञम् ॥ १७ ॥
सायणः
अथाधियज्ञमिति । चित्याग्नौ अन्नादीनामर्थ उच्यते, यदेव प्राक् सर्वौषधमुपधीयते तदेवान्नम् । प्रोक्षणार्था आपः पानम् । परिश्रितः श्रीशब्दवाच्याः । यजुष्मत्य इष्टका ज्योतिःशब्दवाच्याः । परिश्रितां रात्रिरूपत्वं, यजुष्मतीनामिष्टकानामहोरूपत्वम् (श. प. १० । ५ । ४ । १०) इति अधस्तात् प्रतिपादितम् । चित्याग्नेरुपरि निधीयमानो ऽग्निराहवनीय एवामृतशब्दवाच्यः । अग्नेः कथममृतत्वमिति तत्राह- तद्ध्यादित्यस्य रूपमिति । आदित्यस्य अमृतत्वं प्रागुक्तम्- “अमृतमेतद्यदेतदर्चिर्दीप्यते”- (श. प. १० । २ । ५ । ४) इति ॥ १७ ॥
Eggeling
- Now as to the sacrifice. Whatever food is placed on the fire, that is its food, and whatever water, that is its water; its well-being is the enclosing-stones, for they are of the nature of nights 15; its light the (bricks) with special formulas, for they are of the nature of days; and its immortal
element the fire, for that is of the nature of the sun. Thus much as to the sacrifice.
१८
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्मम्[[!!]]॥
य᳘देव पु᳘रुषे᳘ ऽन्नं तद᳘न्नं या ऽआ᳘पस्तत्पा᳘नम᳘स्थीन्येव श्रीस्तद्धि᳘ परिश्रि᳘ताᳫँ᳭ रूपं᳘ मज्जा᳘नो ज्यो᳘तिस्तद्धि य᳘जुष्मतीनाᳫँ᳭ रूपं᳘ प्रा᳘णो ऽमृ᳘तं त᳘द्ध्यग्ने᳘[[!!]] रूपं᳘ प्रा᳘णो ऽग्निः᳘ प्रा᳘णो ऽमृ᳘तमि᳘त्यु वा᳘ ऽआहुः॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्मम्[[!!]]॥
य᳘देव पु᳘रुषे᳘ ऽन्नं तद᳘न्नं या ऽआ᳘पस्तत्पा᳘नम᳘स्थीन्येव श्रीस्तद्धि᳘ परिश्रि᳘ताᳫँ᳭ रूपं᳘ मज्जा᳘नो ज्यो᳘तिस्तद्धि य᳘जुष्मतीनाᳫँ᳭ रूपं᳘ प्रा᳘णो ऽमृ᳘तं त᳘द्ध्यग्ने᳘[[!!]] रूपं᳘ प्रा᳘णो ऽग्निः᳘ प्रा᳘णो ऽमृ᳘तमि᳘त्यु वा᳘ ऽआहुः॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
य᳘देव पु᳘रुषे᳘ऽन्नं तद᳘न्नं या आ᳘पस्तत्पा᳘नम᳘स्थीन्येव श्रीस्तद्धि᳘ परिश्रि᳘तां रूप᳘म् मज्जा᳘नो ज्यो᳘तिस्तद्धि य᳘जुष्मतीनां रूप᳘म् प्राॗणोऽमृ᳘तं तद्ध्य᳘ग्ने᳘ रूप᳘म् प्राॗणोऽग्निः᳘ प्राॗणोऽमृ᳘तमि᳘त्यु वा᳘ आहुः॥
मूलम् - विस्वरम्
अथाध्यात्मम्- यदेव पुरुषे ऽन्नम्- तदन्नम् । या आपस्तत्पानम् । अस्थीन्येव श्रीः- तद्धि परिश्रितां रूपम् । मज्जानो ज्योतिः । तद्धि यजुष्मतीनां रूपम् । प्राणो ऽमृतम् । तद्ध्यग्ने रूपम् । प्राणो ऽग्निः । प्राणो ऽमृतम्- इत्यु वा आहुः ॥ १८ ॥
सायणः
अथाध्यात्ममिति । पुरुषे ऽन्नादीनामर्थ उच्यते- ‘यदन्नम्’ अद्यते तदेवान्नम्, ‘याः’ पीयन्ते ‘तत् पानम्’ ‘अस्थीन्येव’ श्रीशब्दवाच्यानि, परिश्रयणहेतुत्वात् । मज्जैव ज्योतिःशब्दवाच्या । अस्थिमज्जरूपयोः परिश्रिद्यजुष्मतीरूपत्वमुपपादितमधस्तात् (श. प. १० । ५ । ४ । १२ ।) । शरीरगतः प्राण एवात्र अमृतशब्दवाच्यः प्राणः । कथं प्राणस्यामृतत्वमिति, तत्र वेदवादिप्रसिद्ध्योपपादयति- तद्ध्यग्ने रूपं प्राणो ऽग्निरिति ॥ १८ ॥
Eggeling
- Now as to the body. Whatever food there is in man, that is his food; whatever water, that is his water; his well-being (safety, strength) is the bones, for they are of the nature of enclosing-stones; his light the marrow, for that is of the nature of the yajushmatī (bricks); his immortal element the breath, for that is of the nature of fire;–and, indeed, people say, ‘The breath is fire, the breath is the immortal.’
१९
विश्वास-प्रस्तुतिः
(र᳘) अ᳘न्नाद्वा᳘ ऽअशनाया नि᳘वर्तते॥
पा᳘नात्पिपासा᳘ श्रियै᳘ पाप्मा ज्यो᳘तिषस्त᳘मो ऽमृ᳘तान्मृत्युर्नि᳘ ह वा᳘ ऽअस्मादेता᳘नि स᳘र्व्वाणि वर्तन्ते᳘ ऽप पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति य᳘ ऽएवं व्वे᳘द तदेत᳘दमृ᳘तमि᳘त्ये᳘वामु᳘त्रोपा᳘सीता᳘युरि᳘तीह᳘ प्राण ऽइ᳘ति है᳘क ऽउ᳘पासते᳘ प्रा᳘णो ऽग्निः᳘ प्रा᳘णो ऽमृतमि᳘ति व्व᳘दन्तो न त᳘था व्विद्याद᳘ध्रुवं वै तद्य᳘त्प्राणस्तं᳘ ते व्वि᳘ष्याम्या᳘युषो न म᳘ध्यादि᳘ति ह्य᳘पि य᳘जुषा᳘ ऽभ्युक्तं त᳘स्मादेनदमृ᳘तमि᳘त्ये᳘वामु᳘त्रोपा᳘सीता᳘युरि᳘तीह त᳘थो ह स स᳘र्व्वमा᳘युरेति॥
मूलम् - श्रीधरादि
(र᳘) अ᳘न्नाद्वा᳘ ऽअशनाया नि᳘वर्तते॥
पा᳘नात्पिपासा᳘ श्रियै᳘ पाप्मा ज्यो᳘तिषस्त᳘मो ऽमृ᳘तान्मृत्युर्नि᳘ ह वा᳘ ऽअस्मादेता᳘नि स᳘र्व्वाणि वर्तन्ते᳘ ऽप पुनर्मृत्युं᳘ जयति स᳘र्व्वमा᳘युरेति य᳘ ऽएवं व्वे᳘द तदेत᳘दमृ᳘तमि᳘त्ये᳘वामु᳘त्रोपा᳘सीता᳘युरि᳘तीह᳘ प्राण ऽइ᳘ति है᳘क ऽउ᳘पासते᳘ प्रा᳘णो ऽग्निः᳘ प्रा᳘णो ऽमृतमि᳘ति व्व᳘दन्तो न त᳘था व्विद्याद᳘ध्रुवं वै तद्य᳘त्प्राणस्तं᳘ ते व्वि᳘ष्याम्या᳘युषो न म᳘ध्यादि᳘ति ह्य᳘पि य᳘जुषा᳘ ऽभ्युक्तं त᳘स्मादेनदमृ᳘तमि᳘त्ये᳘वामु᳘त्रोपा᳘सीता᳘युरि᳘तीह त᳘थो ह स स᳘र्व्वमा᳘युरेति॥
मूलम् - Weber
अ᳘न्नाद्वा᳘ अशनाया नि᳘वर्तते॥
पा᳘नात्पिपासा᳘ श्रियै᳘ पाप्मा ज्यो᳘तिषस्त᳘मोऽमृ᳘तान्मृत्युर्नि᳘ ह वा᳘ अस्मादेता᳘नि स᳘र्वाणि वर्तन्ते᳘ऽप पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति य᳘ एवं वे᳘द तदेतदमृ᳘तमि᳘त्येॗवामु᳘त्रोपा᳘सीता᳘युरि᳘तीह᳘ प्राण इ᳘ति है᳘क उ᳘पासते प्राॗणोऽग्निः᳘ प्राॗणोऽमृतमि᳘ति व᳘दन्तो न त᳘था विद्याद᳘ध्रुवं वै तद्य᳘त्प्राणस्तं᳘ ते वि᳘ष्याम्या᳘युषो न म᳘ध्यादि᳘ति ह्य᳘पि य᳘जुषाॗभ्युक्तं त᳘स्मादेनदमृ᳘तमि᳘त्येॗवामु᳘त्रोपा᳘सीता᳘युरि᳘तीह त᳘थो ह स᳘र्वमा᳘युरेति॥
मूलम् - विस्वरम्
अन्नाद्वा अशनाया निवर्तते । पानात्पिपासा, श्रियै पाप्मा, ज्योतिषस्तमः, अमृतान्मृत्युः । नि ह वा अस्मादेतानि सर्वाणि वर्तन्ते, अप पुनर्मृत्युं जयति, सर्वमायुरेति- य एवं वेद । तदेतदमृतमित्येवामुत्रोपासीत, आयुरितीह । प्राण इति हैक उपासते- प्राणो ऽग्निः, प्राणो ऽमृतमिति वदन्तः । न तथा विद्यात् । अध्रुवं वै तत्- यत्प्राणः । “तं ते विष्याम्यायुषो न मध्यात्”- (वा. सं. १२ । ६५) इति ह्यपि यजुषा ऽभ्युक्तम् । तस्मादेतदमृतमित्येवामुत्रोपासीत- आयुरितीह । तथो ह सर्वमायुरेति ॥ १९ ॥
सायणः
अन्नादिपञ्चकेन निवर्त्यपञ्चकं दर्शयति- अन्नाद्वा अशनायेति । ‘अन्नाद्’ ‘अशनाया’ बुभुक्षा ‘निवर्त्तते’ । पानात्पानेच्छा । श्रियाः पाप्मा दारिद्र्यम् । ज्योतिषः प्रकाशात् तमस्तिमिरम् । अमृतात्मृत्युर्मरणं निवर्तते । अन्नादिपञ्चकं विदुषां फलमाह- नि ह वा अस्मादेतानीति । य एवमन्नादिपञ्चकमधिदैवादित्रयं वेद अस्माद्वेदितुः सकाशाद् ‘एतानि’ अशनायादीनि पञ्चानिष्टानि निवर्त्तन्ते । किञ्चामृतरूपान्तिमविधापरिज्ञानेन ‘मृत्युं’ ‘जयति’ ‘सर्वम्’ अत्यन्तम् ‘आयुः’ अश्नुते । यदुक्तम् अमृतरूपपञ्चमविधापरिज्ञानेन मृत्युं जयति सर्वमायुः प्राप्नोतीति तद्विशदयति- तदेतदमृतमिति । अमुत्रादित्ये अमृतमित्येवोपासनं कुर्यात् । इह आयुरित्येवोपासनं कुर्यात्, अतो ऽग्नेरायुष्ट्वेनोपासनात् सर्वायुःप्राप्तिः फलम् । एके केवलाध्यात्मविषये ऽन्तिमविधाया निरूपणसमये “प्राणो ऽग्निः प्राणो ऽमृतम्” इति समाम्नातत्वादमृतशब्दस्य प्राणो ऽर्थ इति मत्वा तस्यैवोपासनं चित्याग्नौ मन्यन्ते तन्मतमनूद्य निराचष्टे- प्राण इति हैक इति । यस्मात् प्राणः अध्रुवः अनित्यः तस्मात् ‘प्राणः’ अमृतशब्दवाच्यो न भवति, प्राणस्यानित्यत्वं यजुर्मन्त्रेण संवादयति- तं ते विष्याम्यायुषो न मध्यात् (वा. सं. १२ । ६५) इति । अयमर्थः- हे यष्टः ! ‘ते’ तव ‘आयुषो’ जीवनस्य मध्यात् तं प्राणं न विष्यामि न विनाशयामि, “षो ऽन्तकर्मणि” (धा. पा. दि. प. ४१) श्यनि (पा. सू. ३ । १ । ६९) “ओतः श्यनि”- (पा. सू. ७ । ३ । ७१) इति लोपे कृते रूपम् । न विष्यामीति विनाशनिरासोक्त्या विनाशो ऽस्तीति सम्भाव्यत इति यजुषो ऽर्थः । तस्मादुक्त एवार्थ इति निगमयति- तस्मादेतदमृतमित्येवामुत्रेति ॥ १९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे द्वितीये ऽध्याये षष्ठं ब्राह्मणम् ॥ (१०-२-६) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे द्वितीयो ऽध्यायः समाप्तः ॥ (१०-२) ॥
Eggeling
- Now, hunger ceases through food, thirst through drink, evil through well-being (goodness), darkness through light, and death through immortality; and, in truth, whosoever knows this from him all these pass away, and he conquers recurring death, and attains the whole (perfect) life. And let him hold this to be immortality in yonder world and life here below. Some, indeed, hold it to be breath, saying, ‘The breath is fire, the breath is the immortal;’ but let him not believe this, for something uncertain is breath. And regarding this it has also been said in the Yajus (Vāj. S. XII, 65), ‘That (bond) of thine I unloose, as from the middle of Āyus (life):’ let him therefore hold it to be immortality in yonder world, and life here below, and thus, indeed, he attains the whole life.
-
323:1 Thus Sāyaṇa–tad etat sarvam āyur iti sarvapadasyārtham āha, dīrgham anantaṁ hi. ↩︎
-
विधं वि᳘धत्ते A. ibid. चैत᳘द्विदुर्ये᳘ च न लो᳘क्या A. ↩︎
-
323:2 Literally, ‘conducive to the world,’ or, perhaps, ‘conducive to a place (in yonder world).’ Sāyaṇa interprets it by–his death is ‘alokyam,’ that is, not procuring the world consisting of immortality. Some such meaning as ‘(such conduct) is not world-winning’ seems to be implied by the words which follow. ↩︎
-
‘संवत्सरभृतमेव’ इति भाष्यकारसंमतः पाठः । ↩︎
-
य᳘ एवै᳘कशतविधं वि᳘धत्ते A. - ibid. संवत्सरभृतमिव Sây. ↩︎
-
324:1 The five layers contain five sets of two such bricks, each representing the two months of the respective season; except the third layer, which contains four such bricks, only, however, of half the thickness of the others. ↩︎
-
324:2 According to Sāyaṇa, this refers to the fifty Prāṇabhr̥ts in the first, and to the forty Virājs, five Nākasads, and five Pañcacūḍās in the fifth layer. ↩︎
-
य᳘जुरे᳘कशतविधो A. ↩︎
-
यज्ञे᳘न-यज्ञेन. ↩︎
-
325:1 That is, according to Sāyaṇa, all Soma-sacrifices,–ekāhas, ahīnas, sattras, &c. In this case we should perhaps translate, ‘down to the Agnihotra,’ that being the simplest kind of Soma-sacrifice. ↩︎
-
325:2 This meaning is assigned by Sāyaṇa to ‘kalkushī’ (= maṇibandhāratnī); it cannot mean here ’the two wrists’ (? ‘kalyusha,’ Mon. Will. Dict.), as both must be parts of the same limb. ↩︎
-
325:3 Viz. X, 2, 2, 1. 5 (VI, 1, 1, 1 seq.). ↩︎
-
326:1 Or, perhaps, goodness, excellence (śrī). ↩︎
-
326:2 According to Sāyaṇa, this is an etymological play on the word ‘śrī’ (well-being, contentment, peace), as connected with the verb ‘śri’–śriyanti nivasanty asmin kāla iti rātriḥ śrīśabdavācyā. Cf. II, 3, 1, 3, where, with the Kāṇva, we have to read, ‘ilitā hi śere (śerate, K.) saṁjānāḥ’–‘for (when the sun has set) those who are at variance with one another lie quiet (together).’ ↩︎
-
326:3 Viz. inasmuch as they enclose the altar, and protect it on all sides. Cf. VII, 1, 1, 12 seq., where the enclosing-stones are said to represent the womb in which the embryo Agni is contained; and are also compared with the ocean which flows round the earth like a protecting moat. ↩︎