०१

विश्वास-प्रस्तुतिः

(म) अथा᳘तश्च᳘यनस्यै᳘व[[!!]]॥
(वा) अन्त᳘रोपस᳘दौ चिनोत्येतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएताः पु᳘रो ऽपश्यन्नुपस᳘द ऽइमा᳘नेव᳘ लोका᳘निमे वै᳘ लोकाः पुरस्ताः[[!!]] प्रा᳘पद्यन्त ताः᳘ प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘मस्कुर्व्वत त᳘थै᳘वैतद्य᳘जमान ऽएताः पु᳘रः प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘ᳫँ᳭स्कुरुते॥

मूलम् - श्रीधरादि

(म) अथा᳘तश्च᳘यनस्यै᳘व[[!!]]॥
(वा) अन्त᳘रोपस᳘दौ चिनोत्येतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएताः पु᳘रो ऽपश्यन्नुपस᳘द ऽइमा᳘नेव᳘ लोका᳘निमे वै᳘ लोकाः पुरस्ताः[[!!]] प्रा᳘पद्यन्त ताः᳘ प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘मस्कुर्व्वत त᳘थै᳘वैतद्य᳘जमान ऽएताः पु᳘रः प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘ᳫँ᳭स्कुरुते॥

मूलम् - Weber

अथा᳘तश्च᳘यनस्यैव᳟॥
अन्तॗरोपस᳘दौ चिनोत्येतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एताः पु᳘रोऽपश्यन्नुपस᳘द इमा᳘नेव᳘ लोका᳘निमे वै᳘ लोकाः पु᳘रस्ताः प्रा᳘पद्यन्त ताः᳘ प्रपद्या᳘भयेऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫं स᳘मस्कुर्वत त᳘थैॗवैतद्य᳘जमान एताः पु᳘रः प्रपद्या᳘भयेऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫं स᳘ᳫं᳘स्कुरुते॥

मूलम् - विस्वरम्

अथातश्चयनस्यैव । अन्तरोपसदौ चिनोति । एतद्वै देवा अबिभयुः । यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । त एताः पुरो ऽपश्यन्नुपसदः, इमानेव लोकान् । इमे वै लोकाः पुरः । ताः प्रापद्यन्त । ताः प्रपद्याभये ऽनाष्ट्र एतमात्मानं समस्कुर्वत । तथैवैतद्यजमान एताः पुरः प्रपद्याभये ऽनाष्ट्र एतमात्मानं संस्कुरुते ॥ १ ॥

सायणः

एवं चित्याग्नेर्वेदेश्च मानमुक्तम्- अथ चयनविषयविचारो वक्ष्यत इति प्रतिजानीते- अथातश्चयनस्यैवेति । विधिरिति मीमांसेति वा शेषः । तत्र कालं विधत्ते- अन्तरोपसदौ चिनोतीति । पौर्वाह्णिक्यापराह्णिक्योरुपसदोर्मध्ये चिनुयात्, 1 तत्र साग्निकप्रकृतावग्निष्टोमे तिस्र उपसदः । साग्निके ऐकाहिके क्रतौ तिस्र उपसदः । द्वादशाहगवामयनतापश्चितादिषु अहीनसत्रसांवत्सरेषु द्वादशचतुर्विंशतिषष्ट्युत्तरत्रिशतसंख्या उपसद इति वक्ष्यते । ताश्च त्रित्वादिपक्षेष्वपि एकैकस्मिन्दिने पूर्वाह्णापराह्णयोः उपसदः कार्याः । तथा चेतरेयकं ब्राह्मणम्- “त इमास्तिस्रः सतीरुपसदोर्द्विर्द्विरेकैकामुपायन्” इति । “त इमाः षट् सतीरूपसदो द्विर्द्विरेकैकामुपायन्” (ऐ. ब्रा. ४ । ६ । २३) इत्यादि । “तस्मात्सु पूर्वाह्ण एव पूर्वयोपसदा प्रचरितव्यमपि स्वपराह्णे ऽपरया” (ऐ. ब्रा. ४ । ६ । २३) तत्र कालं प्रशंसति- एतद्वै देवा अबिभयुरिति । एतस्मिन् काले ‘देवाः’ भीतवन्तः । इह अस्मिन् काले ‘नः’ अस्मान् ‘नाष्ट्रा’ नाशका राक्षसा यथा ‘नहन्युः’ ‘इति’ भीताः ‘उपसदः’ ‘पुरो ऽपश्यन्’ उपसदां पुरत्वं तद्विशेषलोकात्मकत्वं चैतरेयके समाम्नात्तम्- “इमानेव लोकान् पुरो ऽकुर्वत” इत्युपक्रम्य “ते वा अयस्मयीमेव इमामकुर्वत राजतामन्तरिक्षं हरिणीं दिवम्” (ऐ. ब्रा. ४ । ६ । २३) इति । “ते देवा अब्रुवन्- उपसद उपयामोपसदा वै महापुरं जयन्ति” (ऐ. ब्रा. ४ । ६ । २३) इति । त एवं लोकपुररूपा उपसदः ‘प्रपद्याभये’ भीतिरहिते ‘अनाष्ट्रे’ नाशकरहिते स्थाने देवाः ‘एतमात्मानं’ संस्कृतवन्तः । तथा ऽयं यजमानो ऽपि उपसदोर्मध्ये ऽग्निचयनेनात्मानं संस्कुरुते ॥ १ ॥

Eggeling
  1. Now as to the building itself. He builds between the two (performances of the) Upasads 2. For at that time the gods were afraid lest the fiends, the Rakshas, should destroy that (Agni’s body) of theirs (built) there 3. They saw these strongholds, the Upasads, to wit, these worlds, for these worlds are indeed strongholds. They entered them, and having entered them, they completed that body in a place free from danger and devilry; and in like manner does the Sacrificer now, after entering these strongholds, complete this body in a place free from danger and devilry.

०२

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वान्त᳘रोपस᳘दौ चिनो᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएतान्व᳘ज्रानपश्यन्नुपस᳘दो व्व᳘ज्रा वा᳘ ऽउपस᳘दस्तान्प्रा᳘पद्यन्त ता᳘न्प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘मस्कुर्व्वतत᳘थै᳘वैतद्य᳘जमान ऽएतान्व᳘ज्रान्प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘ᳫँ᳘स्कुरुते॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वान्त᳘रोपस᳘दौ चिनो᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएतान्व᳘ज्रानपश्यन्नुपस᳘दो व्व᳘ज्रा वा᳘ ऽउपस᳘दस्तान्प्रा᳘पद्यन्त ता᳘न्प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘मस्कुर्व्वतत᳘थै᳘वैतद्य᳘जमान ऽएतान्व᳘ज्रान्प्रपद्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘ᳫँ᳘स्कुरुते॥

मूलम् - Weber

य᳘द्वेॗवान्तॗरोपस᳘दौ चिनो᳘ति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एतान्व᳘ज्रानपश्यन्नुपस᳘दो व᳘ज्रा वा᳘ उपस᳘दस्तान्प्रा᳘पद्यन्त ता᳘न्प्रपद्या᳘भयेऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫं स᳘मस्कुर्वत त᳘थैॗवैतद्य᳘जमान एतान्व᳘ज्रान्प्रपद्या᳘भयेऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫं स᳘ᳫं᳘स्कुरुते॥

मूलम् - विस्वरम्

यद्वेवान्तरोपसदौ चिनोति । एतद्वै देवा अबिभयुः- यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । स एतान्वज्रानपश्यन्नुपसदः । वज्रा वा उपसदः- तान्प्रापद्यन्त । तान्प्रपद्याभये ऽनाष्ट्र एतमात्मानं समस्कुर्वत । तथैवैतद्यजमान एतान्वज्रान्प्रपद्याभयेनाष्ट्र एतमात्मानं संस्कुरुते ॥ २ ॥

सायणः

प्रकारान्तरेण तं कालं स्तौति- यद्वेवान्तरोपसदौ चिनोतीति । वज्रा वा उपसद इति । शत्रुनाशकत्वादुपसदां वज्रत्वम् । शिष्टं पूर्ववद् व्याख्येयम् ॥ २ ॥

Eggeling
  1. And, again, as to why he builds between the Upasads. At this time the gods were afraid lest the fiends, the Rakshas, should destroy that (Agni’s body) of theirs (built) there. They saw these thunderbolts, the Upasads, for the Upasads indeed are thunderbolts: they entered them 4, and, having entered them, they completed that body in a place free from danger and devilry; and in like manner does the Sacrificer now, after entering those thunderbolts,

complete this body (of Agni) in a place free from danger and devilry.

०३

विश्वास-प्रस्तुतिः

(त ऽ) एत᳘दु ह यज्ञे त᳘पः॥
(पो) य᳘दुपस᳘दस्त᳘पो वा᳘ ऽउपस᳘दस्तद्यत्त᳘पसि चीय᳘ते त᳘स्मात्तापश्चितस्तद्वै या᳘वदे᳘वोपस᳘द्भिश्च᳘रन्ति ता᳘वत्प्रव᳘र्ग्येण संव्वत्सर᳘मे᳘वोपस᳘द्भिश्च᳘रन्ति संव्वत्सरं᳘ प्रव᳘र्ग्येण॥

मूलम् - श्रीधरादि

(त ऽ) एत᳘दु ह यज्ञे त᳘पः॥
(पो) य᳘दुपस᳘दस्त᳘पो वा᳘ ऽउपस᳘दस्तद्यत्त᳘पसि चीय᳘ते त᳘स्मात्तापश्चितस्तद्वै या᳘वदे᳘वोपस᳘द्भिश्च᳘रन्ति ता᳘वत्प्रव᳘र्ग्येण संव्वत्सर᳘मे᳘वोपस᳘द्भिश्च᳘रन्ति संव्वत्सरं᳘ प्रव᳘र्ग्येण॥

मूलम् - Weber

एत᳘दु ह यज्ञे त᳘पः॥
य᳘दुपस᳘दस्त᳘पो वा᳘ उपस᳘दस्तद्यत्त᳘पसि चीय᳘ते त᳘स्मात्तापश्चितस्तद्वै या᳘वदेॗवोपस᳘द्भिश्च᳘रन्ति ता᳘वत्प्रव᳘र्ग्येण संवत्सर᳘मेॗवोपस᳘द्भिश्च᳘रन्ति संवत्सर᳘म् प्रव᳘र्ग्येण॥

मूलम् - विस्वरम्

एतदु ह यज्ञे तपो- यदुपसदः । तपो वा उपसदः । तद्यत् तपसि चीयते । तस्मात्तापश्चितः । तद्वै यावदेवोपसद्भिश्चरन्ति- तावत्प्रवर्ग्येण । संवत्सरमेवोपसद्भिश्चरन्ति । संवत्सरं प्रवर्ग्येण ॥ ३ ॥

सायणः

तापश्चितो ऽग्निस्तत्रोपसत्सङ्ख्यां दर्शयति- एतदु ह यज्ञे तपो यदुपसद इति । यत् ‘एतद् यज्ञे तपः’ तत्र तप्तव्रतो भवति । ‘मदन्तीभिर्मार्जयन्ते’ इत्यादिनियमविधानात्तासां तपस्त्वम्, यस्मात्तपसि तपोरूपासूपसत्सु चीयते तस्मादग्निस्तापश्चित इत्युच्यते । तत्र यावतीरुपसदः कुर्यात् तावद्भिः प्रवर्ग्यैश्चरितव्यम् । उपसदस्तापश्चिते चयने संवत्सरसम्मिताः । तथा च कात्यायनः- “तापश्चितं दीक्षाः संवत्सरमुपसदश्च तथा सुत्याः ।”- (का. श्रौ. सू. २४ । १५८) इति ॥ ३ ॥

Eggeling
  1. And the Upasads also are the fervour 5 in the sacrifice, for they are indeed fervour; and inasmuch as it is built (ci) in fervour (tapas) it is called ‘Tāpaścita 6.’ As long as they perform the Upasads so long (do they perform) the Pravargya 7: (if) it is for a year. that they perform the Upasads, it is for a year (they perform) the Pravargya.

०४

विश्वास-प्रस्तुतिः

(णा) अहोरात्रा᳘णि वा᳘ ऽउपस᳘दः॥
(ऽ) आदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘महोरात्रे᳘षु प्र᳘तिष्ठापयति त᳘स्मादे᳘षो ऽहोरात्रे᳘षु प्र᳘तिष्ठितः॥

मूलम् - श्रीधरादि

(णा) अहोरात्रा᳘णि वा᳘ ऽउपस᳘दः॥
(ऽ) आदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘महोरात्रे᳘षु प्र᳘तिष्ठापयति त᳘स्मादे᳘षो ऽहोरात्रे᳘षु प्र᳘तिष्ठितः॥

मूलम् - Weber

अहोरात्रा᳘णि वा᳘ उपस᳘दः॥
आदित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्य᳘महोरात्रे᳘षु प्र᳘तिष्ठापयति त᳘स्मादेॗषोऽहोरात्रे᳘षु प्र᳘तिष्ठितः॥

मूलम् - विस्वरम्

अहोरात्राणि वा उपसदः, आदित्यः प्रवर्ग्यः । अमुं तदादित्यमहोरात्रेषु प्रतिष्ठापयति । तस्मादेषो ऽहोरात्रेषु प्रतिष्ठितः ॥ ४ ॥

सायणः

उपसत्सु प्रवर्ग्यचरणं प्रशंसति- अहोरात्राणि वा उपसद इति । यतः संवत्सरं तापश्चित ‘उपसदः’- अतः ‘अहोरात्राणि’ तत्र चैकैकस्मिन् दिने द्वे द्वे इति तयोरहोरात्ररूपत्वम् । तथा चैतरेयकम्- “यामेव पूर्वाह्ण उपसदमुपायंस्तथैवैनानन्हो ऽनुदन्त, यामपराह्णे तया रात्रेस्तांस्तथोभाभ्यामहोरात्राभ्यामन्तरायन्”- (ऐ. ब्रा. ४ । ६ । २३) इति । ‘आदित्यः’ ‘प्रवर्ग्यः’ तदात्मनोपास्यत्वात् । तस्मादुपसत्सु प्रवर्ग्यचरणेन सम्वत्सरसम्बन्धिषु ‘अहोरात्रेषु’ आदिस्यं प्रतिष्ठापितवान् भवति ॥ ४ ॥

Eggeling
  1. The Upasads, indeed, are the days and nights, and the Pravargya is the sun: he thus establishes yonder sun on the days and nights, whence he is established on the days and nights.

०५

विश्वास-प्रस्तुतिः

(तो᳘ ऽथ) अ᳘थ य᳘दि च᳘तुर्व्विᳫँ᳭शतिः॥
(श्च᳘) च᳘तुर्व्विᳫँ᳭शतिर्व्वा᳘ ऽअर्धमासा᳘ ऽअर्द्धमासा᳘ ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘मर्धमासे᳘षु प्र᳘तिष्ठापयति त᳘स्मादे᳘षो ऽर्धमासे᳘षु प्र᳘तिष्ठितः᳘॥

मूलम् - श्रीधरादि

(तो᳘ ऽथ) अ᳘थ य᳘दि च᳘तुर्व्विᳫँ᳭शतिः॥
(श्च᳘) च᳘तुर्व्विᳫँ᳭शतिर्व्वा᳘ ऽअर्धमासा᳘ ऽअर्द्धमासा᳘ ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘मर्धमासे᳘षु प्र᳘तिष्ठापयति त᳘स्मादे᳘षो ऽर्धमासे᳘षु प्र᳘तिष्ठितः᳘॥

मूलम् - Weber

अ᳘थ य᳘दि च᳘तुर्विंशतिः॥
च᳘तुर्विंशतिर्वा᳘ अर्धमासा᳘ अर्धमासा᳘ उपस᳘द आदित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्य᳘मर्धमासे᳘षु प्र᳘तिष्ठापयति त᳘स्मादेॗषोऽर्धमासे᳘षु प्र᳘तिष्ठितः॥

मूलम् - विस्वरम्

अथ यदि चतुर्विंशतिः । चतुर्विंशतिर्वा अर्धमासाः । अर्धमासा उपसदः, आदित्यः प्रवर्ग्यः । अमुं तदादित्यमर्धमासेषु प्रतिष्ठापयति । तस्मादेषो ऽर्धमासेषु प्रतिष्ठितः ॥ ५ ॥

सायणः

न केवलमत्रैव तापश्चितीषु किन्तु यत्र यत्राधिका न्यूना वा उपसदः तत्र तत्र प्रवर्ग्यचरणेनादित्यस्थापनं कृतं भवतीत्याह- अथ यदि चतुर्विंशतिरिति । क्रतुविशेषे चतुर्विंशतिसङ्ख्या ‘उपसदः’ कार्याः । संवत्सरस्य हि तावन्तो ऽर्धमासाः । तत्र प्रवर्ग्यचरणेन तेष्वर्धमासेष्वादित्यं प्रतिष्ठापितवान् भवति ॥ ५ ॥

Eggeling
  1. And ‘if there are twenty-four (Upasad-days 8), there being twenty-four half moons–the Upasads

are the half-moons, and the Pravargya is the sun: he thus establishes yonder sun on the half-moons, whence he is established on the half-moons.

०६

विश्वास-प्रस्तुतिः

(तो᳘ ऽथ) अ᳘थ य᳘दि द्वा᳘दश॥
द्वा᳘दश वै मा᳘सा मा᳘सा ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्यं मा᳘सेषु प्र᳘तिष्ठापयति त᳘स्मादेष मा᳘सेषु प्र᳘तिष्ठितः᳘॥

मूलम् - श्रीधरादि

(तो᳘ ऽथ) अ᳘थ य᳘दि द्वा᳘दश॥
द्वा᳘दश वै मा᳘सा मा᳘सा ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्यं मा᳘सेषु प्र᳘तिष्ठापयति त᳘स्मादेष मा᳘सेषु प्र᳘तिष्ठितः᳘॥

मूलम् - Weber

अ᳘थ य᳘दि द्वा᳘दश॥
द्वा᳘दश वै मा᳘सा मा᳘सा उपस᳘द आदित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्यम् मा᳘सेषु प्र᳘तिष्ठापयति त᳘स्मादेष मा᳘सेषु प्र᳘तिष्ठितः॥

मूलम् - विस्वरम्

अथ यदि द्वादश । द्वादश वै मासाः । मासा उपसदः, आदित्यः प्रवर्ग्यः । अमुं तदादित्यं मासेषु प्रतिष्ठापयति । तस्मादेष मासेषु प्रतिष्ठितः ॥ ६ ॥

सायणः

एवम्- अथ यदि द्वादश इति वाक्यं योज्यम् । द्वादशाहे द्वादशोपसदः ॥ ६ ॥

Eggeling
  1. And if there are twelve (Upasad-days) 9–there being twelve months–the Upasads are the months, and the Pravargya is the sun: he thus establishes yonder sun on the months, whence he is established on the months.

०७

विश्वास-प्रस्तुतिः

(तो᳘ ऽथ) अ᳘थ य᳘दि ष᳘ट्॥
षड्वा᳘ ऽऋत᳘वऽ ऋत᳘व ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘मृतु᳘षु प्र᳘तिष्ठापयति त᳘स्मादेष᳘ ऽऋतु᳘षु प्र᳘तिष्ठितः᳘॥

मूलम् - श्रीधरादि

(तो᳘ ऽथ) अ᳘थ य᳘दि ष᳘ट्॥
षड्वा᳘ ऽऋत᳘वऽ ऋत᳘व ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘मृतु᳘षु प्र᳘तिष्ठापयति त᳘स्मादेष᳘ ऽऋतु᳘षु प्र᳘तिष्ठितः᳘॥

मूलम् - Weber

अ᳘थ य᳘दि ष᳘ट्॥
षड्वा᳘ ऋत᳘व ऋत᳘व उपस᳘द आदित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्य᳘मृतु᳘षु प्र᳘तिष्ठापयति त᳘स्मादेष᳘ ऋतु᳘षु प्र᳘तिष्ठितः॥

मूलम् - विस्वरम्

अथ यदि षट् । षड्वा ऽऋतवः । ऋतव उपसदः, आदित्यः प्रवर्ग्यः । अमुं तदादित्यमृतुषु प्रतिष्ठापयति । तस्मादेष ऋतुषु प्रतिष्ठितः ॥ ७ ॥

सायणः

अथ यदि षडिति । सामान्येन षडुपसदश्चित्याग्नेर्भवन्तीति ॥ ७ ॥

Eggeling
  1. And if there are six (Upasad-days)–there being six seasons–the Upasads are the seasons, and the Pravargya is the sun: he thus establishes yonder sun in the seasons, whence he is established in the seasons.

०८

विश्वास-प्रस्तुतिः

(तो᳘ ऽथ) अ᳘थ य᳘दि तिस्रः[[!!]]॥
(स्त्र᳘) त्र᳘यो वा ऽइमे᳘ लोका᳘ ऽइमे᳘ लोका᳘ ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘मेषु᳘ लोके᳘षु प्र᳘तिष्ठापयति त᳘स्मादेष᳘ ऽएषु᳘ लोके᳘षु प्र᳘तिष्ठितः॥

मूलम् - श्रीधरादि

(तो᳘ ऽथ) अ᳘थ य᳘दि तिस्रः[[!!]]॥
(स्त्र᳘) त्र᳘यो वा ऽइमे᳘ लोका᳘ ऽइमे᳘ लोका᳘ ऽउपस᳘द ऽआदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘मेषु᳘ लोके᳘षु प्र᳘तिष्ठापयति त᳘स्मादेष᳘ ऽएषु᳘ लोके᳘षु प्र᳘तिष्ठितः॥

मूलम् - Weber

अ᳘थ य᳘दि तिस्रः᳟॥
त्र᳘यो वा इमे᳘ लोका᳘ इमे᳘ लोका᳘ उपस᳘द आदित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्य᳘मेषु᳘ लोके᳘षु प्र᳘तिष्ठापयति त᳘स्मादेष᳘ एषु᳘ लोके᳘षु प्र᳘तिष्ठितः॥

मूलम् - विस्वरम्

अथ यदि तिस्रः । त्रयो वा इमे लोकाः । इमे लोका उपसदः, आदित्यः प्रवर्ग्यः । अमुं तदादित्यमेषु लोकेषु प्रतिष्ठापयति । तस्मादेष एषु लोकेषु प्रतिष्ठितः ॥ ८ ॥

सायणः

अथ प्रकृतौ तिस्र उपसदः कार्याः, तत्रापि प्रवर्ग्यचरणमिति दर्शयति- अथ यदि तिस्र इति । तिसृणामुपसदां लोकत्रयात्मकत्वं प्रागुक्तम् “इमानेव लोकान् पुरो ऽकुर्वत” (ऐ. ब्रा. ४ । ६ । २३) इति ॥ ८ ॥

Eggeling
  1. And if there are three (Upasad-days)–there being these three worlds–the Upasads are these three worlds, and the Pravargya is the sun: he thus establishes yonder sun in these worlds, whence he is established in these worlds.

०९

विश्वास-प्रस्तुतिः

(तो᳘ ऽथा) अथा᳘तश्चितिपुरीषा᳘णामेव᳘ मीमाᳫँ᳭सा[[!!]]॥
मा᳘सं प्रथमा चि᳘तिर्मा᳘सं पुरीषमेता᳘वान्वा᳘सन्तिक ऽऋतौ[[!!]] का᳘मस्तद्या᳘वान्वा᳘सन्तिक ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - श्रीधरादि

(तो᳘ ऽथा) अथा᳘तश्चितिपुरीषा᳘णामेव᳘ मीमाᳫँ᳭सा[[!!]]॥
मा᳘सं प्रथमा चि᳘तिर्मा᳘सं पुरीषमेता᳘वान्वा᳘सन्तिक ऽऋतौ[[!!]] का᳘मस्तद्या᳘वान्वा᳘सन्तिक ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - Weber

अथा᳘तश्चितिपुरीषा᳘णामेव᳘ मीमांसा᳟॥
मा᳘सम् प्रथमा चि᳘तिर्मा᳘सम् पु᳘रीषमेता᳘वान्वा᳘सन्तिक ऋतौ का᳘मस्तद्या᳘वान्वा᳘सन्तिक ऋतौ का᳘मस्तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - विस्वरम्

अथातश्चितिपुरीषाणामेव मीमांसा । मासं प्रथमा चितिः । मासं पुरीषम् । एतावान्वासन्तिक ऋतौ कामः । तद् यावान्वासन्तिक ऋतौ कामः- तं तत्सर्वमात्मानमभिसञ्चिनुते ॥ ९ ॥

सायणः

एवमुपसदां मध्ये चयनमित्युक्तम्, तत्रोपसदां मध्ये ऽनुष्ठातव्यस्य चयनस्येष्टकाचितिपुरीषनिवपनयोरनुष्ठानप्रकारं प्रतिजानीते- अथातश्चितिपुरीषाणामेव मीमांसेति । यत उपसदां मध्ये चयनं कर्त्तव्यमित्युक्तमत इत्यर्थः । तत्र त्र्युपसत्कादिकक्रतुषु चितिपुरीषानुष्ठानप्रकारः कात्यायनेन दर्शितः- तथाहि- “त्र्युपसत्के द्वे प्रथमायां तिस्रो मध्यमायां च” “पञ्चगृहीताद्युत्तम ।” “उत्तरासु च” “सपुरीषा षट्स्वेकैका” “द्वादशोपसत्के व्यत्यासं चितिपुरीषे” “विकर्ण्याद्येकादश्याम्”- (का. श्रौ. सू. १७ । १४०-१४५) इति । अयमर्थः- उपसत्त्रय वति क्रतौ प्रथमायामुपसदि द्वे चिती चीयेते, मध्यमायां तिस्रः, पञ्चगृहीतादिरुत्तमोपसद्भवति । “उपवसथीये ऽहन् प्रातरुदित आदित्ये वाचं विसृजते वाचं विसृज्य पञ्चगृहीतमाज्यं गृह्णीते” (श. प. ९ । २ । १ । १ ।) इत्युपक्रम्य “प्रवर्ग्योपसद्भ्यां प्रचरति” (श. प. ९ । २ । १ । १ ८) इति श्रूयते । उत्तरासु चोपसत्सु पञ्चगृहीताद्युत्तमोपसद् भवति । षट्सूपसत्सु सपुरीषा चितिरेकैका स्तोमभागानन्तरं तूष्णीं पुरीषनिवपनम् । तदंता पञ्चमी चितिः । तत ऊर्ध्वं “नाकसत्प्रभृतयः षष्ठी चितिः” इति (श. प. ८ । ५ । ४ । ७-८ भा.) प्राक् प्रतिपादितम् । तद्विवक्षया षडुपसत्के एकैका सपुरीषा चितिरित्युक्तम् । द्वादशोपसत्के क्रतौ व्यत्यासेन चितिपुरीषे भवतः । एकस्मिन् दिने इष्टकाचितिः, द्वितीये पुरीषचितिरेवमुत्तरेष्विति व्यत्यासेन विभज्यानुष्ठानमित्यर्थः । तत्र चैकादश्यामुपसदि विकर्ण्यादि कर्त्तव्यम् । इयं त्रिषडेकादशोपसत्केषु क्रतुषु चितिपुरीषमीमांसा सूत्रसंवादादुक्ता । तापश्चिताख्ये क्रतौ चितिपुरीषानुष्ठानप्रकारं श्रुतिः स्वयमेव दर्शयति- मासं प्रथमा चितिरित्यादिना । अग्नौ षडिष्टकाचितयः । षट् पुरीषचितयस्ताश्च तापश्चिते ऋतौ प्रतिमासमेकैका उपधेयाः । तथा च- वसन्तादिषु षट्सु ऋतुषु योयः कामस्तं ‘सर्वमात्मानम्’ अभिलक्ष्य सम्पादितवान् भवतीति वक्ष्यमाणस्य प्रकरणस्य तात्पर्यम् । अत्र कात्यायनः- “तापश्चिते मासशश्चितिपुरीषे चतसृणाम्" । “पञ्चम्यामसपत्ना विराजः प्रथमे ऽहन्” “स्तोमभागा अन्वहम्” “मासं पुरीषं तूष्णीम्” । “नाकसत्प्रभृति मासम्” । “पुरीषं च”- (का. श्रौ. सू. १७ । १४८-१५३) इति । चकारो मासानुकर्षणार्थः । इति द्वादश मासाः सम्पन्नाः । मासं प्रथमा चितिः । “कालाध्वनोरत्यन्तसंयोगे”- (पा. सू. २ । ३ । ५ ।) इति मासशब्दस्य द्वितीया । मासपर्यन्तं प्रथमा इष्टकाचितिरुपधेया । द्वितीयमासे पुरीषचितिरुपधेया । मासद्वयात्मकश्च ऋतुः । चयनस्य वसन्तले चोदितत्वाद् ‘वासन्तिक ऋतुः’ प्रथमं निर्दिष्टः । तस्मिन्नादिमे ऋतौ ‘एतावान् कामः’ मासद्वयपरिमितः कामः । तत् तेन मासद्वयेन इष्टकापुरीषचित्युपधानेन ‘तं’ ‘सर्वं’ कामम् ‘आत्मानम्’ अभिलक्ष्य ‘संचिनुते’ आपादयति ॥ ९ ॥

Eggeling
  1. Now, then, the inquiry as to the earth-layers of the altar-pile. One month (the building of) the first layer (of bricks takes), and one month the layer of earth 10,–so long desire (lasts) in the spring season (of two months): he thus 11 builds for himself a body so as to obtain all of whatever desire there is in the spring season 12.

१०

विश्वास-प्रस्तुतिः

मा᳘सं द्विती᳘या॥
मा᳘सं पु᳘रीषमेता᳘वान्ग्रै᳘ष्म ऽऋतौ का᳘मस्तद्या᳘वान्ग्रै᳘ष्म ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - श्रीधरादि

मा᳘सं द्विती᳘या॥
मा᳘सं पु᳘रीषमेता᳘वान्ग्रै᳘ष्म ऽऋतौ का᳘मस्तद्या᳘वान्ग्रै᳘ष्म ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - Weber

मा᳘सं द्विती᳘या॥
मा᳘सम् पु᳘रीषमेता᳘वान्ग्रै᳘ष्म ऋतौ का᳘मस्तद्या᳘वान्ग्रै᳘ष्म ऋतौ का᳘मस्तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - विस्वरम्

मासं द्वितीया । मासं पुरीषम् । एतावान् ग्रैष्म ऋतौ कामः । तद् यावान्ग्रैष्म ऋतौ कामः- तं तत्सर्वमात्मानमभिसञ्चिनुते ॥ १० ॥

सायणः

एवं मासं द्वितीयेत्यादिपर्यायत्रयं व्याख्येयम् ॥ १०-१२ ॥

Eggeling
  1. One month the second (layer of bricks takes), and one month the layer of earth,–so long desire (lasts) in the summer season: he thus builds for himself a body so as to obtain all of whatever desire there is in the summer season.

११

विश्वास-प्रस्तुतिः

मा᳘सं तृती᳘या॥
मा᳘सं पु᳘रीषमेता᳘वान्वा᳘र्षिक ऽऋतौ का᳘मस्तद्या᳘वान्वा᳘र्षिक ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - श्रीधरादि

मा᳘सं तृती᳘या॥
मा᳘सं पु᳘रीषमेता᳘वान्वा᳘र्षिक ऽऋतौ का᳘मस्तद्या᳘वान्वा᳘र्षिक ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - Weber

मा᳘सं तृती᳘या॥
मा᳘सम् पु᳘रीषमेता᳘वान्वा᳘र्षिक ऋतौ का᳘मस्तद्या᳘वान्वा᳘र्षिक ऋतौ कामस्तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - विस्वरम्

मासं तृतीया । मासं पुरीषम् । एतावान्वार्षिक ऋतौ कामः । तद्यावान्वार्षिक ऋतौ कामः- तं तत्सर्वमात्मानमभिसञ्चिनुते ॥ ११ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. One month the third (layer of bricks takes), and one month the layer of earth,–so long desire (lasts) in the rainy season: he thus builds for himself a body so as to obtain all of whatever desire there is in the rainy reason.

१२

विश्वास-प्रस्तुतिः

मा᳘सं चतुर्थी[[!!]]॥
मा᳘सं पु᳘रीषमेता᳘वाञ्छारद᳘ ऽऋतौ का᳘मस्तद्या᳘वाञ्छारद᳘ ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - श्रीधरादि

मा᳘सं चतुर्थी[[!!]]॥
मा᳘सं पु᳘रीषमेता᳘वाञ्छारद᳘ ऽऋतौ का᳘मस्तद्या᳘वाञ्छारद᳘ ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - Weber

मा᳘सं चतुर्थी᳟॥
मा᳘सम् पु᳘रीषमेता᳘वाञ्छारद᳘ ऋतौ का᳘मस्तद्या᳘वाञ्छारद᳘ ऋतौ का᳘मस्तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - विस्वरम्

मासं चतुर्थी । मासं पुरीषम् एतावाञ्छारद ऋतौ कामः । तद् यावाञ्छारद ऋतौ कामः- तं तत्सर्वमात्मानमभिसञ्चिनुते ॥ १२ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. One month the fourth (layer of bricks takes), and one month the layer of earth,–so long desire (lasts) in the autumn season: he thus builds for himself a body so as to obtain all of whatever desire there is in the autumn season.

१३

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ पञ्चम्यै चि᳘तेः॥
(र) असपत्ना᳘ व्विरा᳘जश्च प्रथमाहमु᳘पदधाति स्तो᳘मभागा ऽए᳘कैकामन्वहं ताः᳘ स्कृ᳘त्साद᳘यति सकृत्सू᳘ददोहसा᳘ ऽधिवदति तूष्णीं मा᳘सᳫँ᳭ स्तोमभागापुरीष᳘मभि᳘हरन्त्येता᳘वान्है᳘मन्तिक ऽऋतौ का᳘मस्तद्या᳘वान्है᳘मन्तिक ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिस᳘ञ्चिनुते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ पञ्चम्यै चि᳘तेः॥
(र) असपत्ना᳘ व्विरा᳘जश्च प्रथमाहमु᳘पदधाति स्तो᳘मभागा ऽए᳘कैकामन्वहं ताः᳘ स्कृ᳘त्साद᳘यति सकृत्सू᳘ददोहसा᳘ ऽधिवदति तूष्णीं मा᳘सᳫँ᳭ स्तोमभागापुरीष᳘मभि᳘हरन्त्येता᳘वान्है᳘मन्तिक ऽऋतौ 13 का᳘मस्तद्या᳘वान्है᳘मन्तिक ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिस᳘ञ्चिनुते॥

मूलम् - Weber

अ᳘थ पञ्चम्यै चि᳘तेः॥
असपत्ना᳘ विरा᳘जश्च प्रथमाहमु᳘पदधाति स्तो᳘मभागा ए᳘कैकामन्वहं ताः᳘ स्कृ᳘त्साद᳘यति सकृत्सू᳘ददोहसा᳘धिवदति तूष्णीम् मा᳘सᳫं स्तोमभागापुरीष᳘मभि᳘हरन्त्येता᳘वान्है᳘मन्तिक स्तौ का᳘मस्तद्या᳘वान्है᳘मन्तिक ऋतौ का᳘मस्तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - विस्वरम्

अथ पञ्चम्यै चितेरसपत्ना विराजश्च प्रथमाहमुपदधाति । स्तोमभागा एकैकामन्वहम् । ताः सकृत्सादयति । सकृत्सूददोहसा ऽधिवदति । तूष्णीं मासं स्तोमभागापुरीषमभिहरन्ति । एतावान्हैमन्तिक ऋतौ कामः । तद्यावान्हैमन्तिक ऋतौ कामः- तं तत्सर्वमात्मानमभिसञ्चिनुते ॥ १३ ॥

सायणः

पञ्चम्यां चिताविष्टकोपधाने विशेषमाह- अथ पञ्चम्यै चितेरिति । असपत्नानामधेयाः पञ्च, विराट्संज्ञकाश्चत्वारिंशदिष्टकाः ‘प्रथमाहं’ प्रथमदिवसे उपदध्यात् । स्तोमभागानामधेयेष्टका एकोनत्रिंशत्, प्रतिदिवसमेकैकामिष्टकामुपदध्यात् । एवं मासान्ते सर्वासां मासप्रथमदिवसे उपहितानामसपत्नाविराजामेकोनत्रिंशद्दिवसेषु प्रत्येकमुपहितानां स्तोमभागानां च ‘सकृत्’ एकवारं ‘सादनम्’ “तया देवतया”- इति मन्त्रेण तथा ‘ता अस्य सूददोहसः’ इत्यनेन एतासां ‘सकृद्’ अधिवदनम् । एवमिष्टकाचितिं निर्णीय पुरीषचितौ विशेषं दर्शयति- तूष्णीमिति । ‘तूष्णीम्’ मन्त्रवर्जं स्तोमभागानामेष्टका अभिलक्ष्य मासपर्यन्तं पुरीषं हरेयुः । एतावान् हैमन्तिक इत्यादि । पूर्ववत् ॥ १३ ॥

Eggeling
  1. And of the fifth layer (of bricks) he lays down the Asapatnā and Virāj (bricks) on the first day, and of the Stomabhāgās one each day: these he ‘settles’ together once, and pronounces once the sūdadohas-formula over them 14. For a month they silently apply the earth-layer for the Stomabhāgās, for so long desire (lasts) in the winter season: thus he builds for himself a body so as to obtain all of whatever desire there is in the winter season.

१४

विश्वास-प्रस्तुतिः

मा᳘सᳫँ᳭ षष्ठी[[!!]]॥
मा᳘सं पु᳘रीषमेता᳘वाञ्छैशिर᳘ ऽऋतौ का᳘मस्तद्या᳘वाञ्छैशिर᳘ ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुत ऽएता᳘वान्वै᳘ द्वादश᳘सु मा᳘सेषु का᳘मः ष᳘ट्स्वृतु᳘षु तद्या᳘वान्द्वादश᳘सु मा᳘सेषु का᳘मः ष᳘ट्स्वृतु᳘षु तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - श्रीधरादि

मा᳘सᳫँ᳭ षष्ठी[[!!]]॥
मा᳘सं पु᳘रीषमेता᳘वाञ्छैशिर᳘ ऽऋतौ का᳘मस्तद्या᳘वाञ्छैशिर᳘ ऽऋतौ का᳘मस्तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुत ऽएता᳘वान्वै᳘ द्वादश᳘सु मा᳘सेषु का᳘मः ष᳘ट्स्वृतु᳘षु तद्या᳘वान्द्वादश᳘सु मा᳘सेषु का᳘मः ष᳘ट्स्वृतु᳘षु तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - Weber

मा᳘सं षष्ठी᳟॥
मा᳘सम् पु᳘रीषमेता᳘वाञ्छैशिर᳘ ऋतौ का᳘मस्तद्या᳘वाञ्छैशिर᳘ ऋतौ का᳘मस्तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुत एता᳘वान्वै᳘ द्वादश᳘सु मा᳘सेषु का᳘मः षॗट्स्वृतु᳘षु तद्या᳘वान्द्वादश᳘सु मा᳘सेषु का᳘मः षॗट्स्वृतु᳘षु तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - विस्वरम्

मासं षष्ठी । मासं पुरीषम् । एतावाञ्छैशिर ऋतौ कामः । तद् यावाञ्छैशिर ऋतौ कामः- तं तत्सर्वमात्मानमभिसञ्चिनुते । एतावान्वै द्वादशसु मासेषु कामः षट्स्वृतुषु । तद् यावान्द्वादशसु मासेषु कामः षट्स्वृतुषु । तं तत् सर्वमात्मानमभिसञ्चिनुते ॥ १४ ॥

सायणः

मासं षष्ठीति । स्तोमभागानन्तरं तूष्णीं पुरीषनिवापोक्तेः तदन्ता पञ्चमी चितिरिति कृत्वा नाकसत्पञ्चचूडादीष्टकाभिः षष्ठी चितिः सम्पादितेत्यर्थः । तदन्ते मुख्या पुरीषचितिरस्ति । तथा चाष्टमे काण्डे समाम्नातम्- “स्तोमभागा उपधाय पुरीषं निवपति सा पञ्चमी चितिः” । “अथ यदत ऊर्ध्वमापुरीषात्सा षष्ठी” (श. प. । ८ । ५ । ४ । ७ । ८) इति । सर्वमासगतसङ्ख्यां सम्भूय प्रशंसति- एतावान् द्वादशसु मासेषु काम इति ॥ १४ ॥

Eggeling
  1. One month the sixth (layer of bricks takes),

and one month the layer of earth,–so long desire (lasts) in the dewy season: he thus builds for himself a body so as to obtain all of whatever desire there is in the dewy season. So long, indeed, desire (lasts) in the twelve months and the six seasons: he thus builds for himself a body so as to obtain all of whatever desire there is in the twelve months and the six seasons.

१५

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ त्रीण्य᳘हान्युपा᳘तियन्ति॥
यद᳘हः शतरुद्रि᳘यं जुहो᳘ति यद᳘हरुपवसथो यद᳘हः प्र᳘सुतस्तद्यत्तेष्व᳘हःसूपस᳘दा च᳘रन्ति ता᳘नि त᳘स्य मा᳘सस्याहोरात्राण्य᳘थ य᳘त्प्रव᳘र्ग्येण त᳘दु त᳘स्मिन्नृता᳘वादित्यं प्र᳘तिष्ठापयत्येता᳘वान्वै᳘ त्रयोदश᳘सु मा᳘सेषु का᳘मः सप्त᳘स्वृतु᳘षु तद्या᳘वाँस्त्रयोदश᳘सु मा᳘सेषु का᳘मः सप्त᳘स्वृतु᳘षु तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ त्रीण्य᳘हान्युपा᳘तियन्ति॥
यद᳘हः शतरुद्रि᳘यं जुहो᳘ति यद᳘हरुपवसथो यद᳘हः प्र᳘सुतस्तद्यत्तेष्व᳘हःसूपस᳘दा च᳘रन्ति ता᳘नि त᳘स्य मा᳘सस्याहोरात्राण्य᳘थ य᳘त्प्रव᳘र्ग्येण त᳘दु त᳘स्मिन्नृता᳘वादित्यं प्र᳘तिष्ठापयत्येता᳘वान्वै᳘ त्रयोदश᳘सु मा᳘सेषु का᳘मः सप्त᳘स्वृतु᳘षु तद्या᳘वाँस्त्रयोदश᳘सु मा᳘सेषु का᳘मः सप्त᳘स्वृतु᳘षु तं तत्स᳘र्व्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - Weber

अ᳘थ त्रीण्य᳘हान्युपा᳘तियन्ति॥
यद᳘हः शतरुद्रि᳘यं जुहो᳘ति यद᳘हरुपवसथो यद᳘हः प्र᳘सुतस्तद्यत्तेष्व᳘हःसूपस᳘दा च᳘रन्ति ता᳘नि त᳘स्य मा᳘सस्याहोरात्राण्य᳘थ य᳘त्प्रव᳘र्ग्येण त᳘दु त᳘स्मिन्नृता᳘वादित्यम् प्र᳘तिष्ठापयत्येता᳘वान्वै᳘ त्रयोदश᳘सु मा᳘सेषु का᳘मः सप्त᳘स्वृतु᳘षु तद्या᳘वांस्त्रयोदश᳘सु मा᳘सेषु का᳘मः सप्त᳘स्वृतु᳘षु तं तत्स᳘र्वमात्मा᳘नमभिसं᳘चिनुते॥

मूलम् - विस्वरम्

अथ त्रीण्यहान्युपातियन्ति- यदहः शतरुद्रियं जुहोति, यदहरुपवसथः, यदहः प्रसुतः । तद् यत्तेष्वहःसूपसदा चरन्ति- तानि तस्य मासस्याहोरात्राणि । अथ यत्प्रवर्ग्येण, तदु तस्मिन्नृतावादित्यं प्रतिष्ठापयति । एतावान्वै त्रयोदशसु मासेषु कामः सप्तस्वृतुषु । तद् यावांस्त्रयोदशसु मासेषु कामः सप्तस्वृतुषु । तं तत्सर्वमात्मानमभिसञ्चिनुते ॥ १५ ॥

सायणः

अथ त्रीण्यहान्युपातियन्तीति । द्वादशस्य मासस्याष्टाविंशतिसङ्ख्याकैरहोभिः पुरीषनिवपनम् । तत उत्तमे द्वे अहनी परिशिष्येते । एकमेव च सुत्यमहरावृत्त्या संवत्सरो भवतीति तदेकमहरित्युच्यते । तानि त्रीण्यहानि पुरीषचितेरतिरिक्तानि भवन्ति । तान्यहानि विशिनष्टि- यदहः शतरुद्रियमिति । तेष्वतिरिक्तेषु प्रथमे ऽहनि शतरुद्रियकर्मोपलक्षितविकर्ण्याद्यग्न्युक्थ्यशंसनान्तं प्रयोगजातं कर्त्तव्यम् । द्वितीये ऽहनि पञ्चगृहीताज्यग्रहणाद्यौपवसथ्यप्रयोगः । यस्मिन्नहनि प्रसुतः सोमो ऽभिषुतो भवति तत्तृतीयमहः । “तापश्चिते मासशश्चितिपुरीषे” इति प्रक्रम्य सूत्रितम्- “नाकसत्प्रभृति मासं पुरीषं चोत्तमयोरह्नोर्विकर्ण्यादि पूर्वे” (का. श्रौ. सू. १७ । १४८-१५४) इति । अयमर्थः- अन्तिममासस्योत्तमयोरह्नोः पूर्वे ऽहनि विकर्ण्यादि कर्त्तव्यम् । अन्तिमे ऽहनि पञ्चगृहीताद्युत्तमेति परिभावितत्वात् तदादिविकृत्यौपवसथप्रयोग इति । तेष्वहःसु यत्प्रवर्ग्योपसदामनुष्ठानं तेन तस्य संसर्पाहस्पतिसंज्ञकस्य त्रयोदशमासात्मकस्य संबन्धिष्वहोरात्रेषु आदित्यात्मकस्य सप्तमर्तोः स्थापनं कृतं भवतीत्यर्थः । उक्तत्रयोदशमाससाहित्येन पूर्वोक्तां संख्यां प्रशंसति- एतावान् वै त्रयोदशस्विति ॥ १५ ॥

Eggeling
  1. And in addition to these there are three days 15, to wit, the day on which he performs the Śatarudriya offering, the day of preparation, and the day on which the Soma is pressed. When they perform the Upasad on these days, these (days) are the days and nights of that (thirteenth, or intercalary) month: and when (they perform) the Pravargya, he thereby establishes yonder sun also in that (seventh) season,–so long, indeed, desire (lasts) in the thirteen months and the seven seasons: he thus builds for himself a body so as to obtain all of whatever desire there is in thirteen months and seven seasons.

१६

विश्वास-प्रस्तुतिः

स᳘ संव्वत्सरं प्र᳘सुतः स्यात्॥
(त्स᳘) स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वमे᳘कशतविधः स᳘र्व्वेणैव तत्स᳘र्व्वमाप्नोति य᳘दि सं᳘व्वत्सरं न᳘ शक्नुया᳘द्विश्वजि᳘ता स᳘र्व्वपृष्ठेनातिरात्रे᳘ण यजेत त᳘स्मिन्त्सर्व्ववेदसं᳘ दद्यात्स᳘र्व्वं वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठो ऽतिरात्रः स᳘र्व्वᳫँ᳭ सर्व्ववेदसᳫँ᳭ स᳘र्व्वमे᳘कशतविधः स᳘र्व्वेणैव तत्स᳘र्व्वमाप्नोति॥

मूलम् - श्रीधरादि

स᳘ संव्वत्सरं प्र᳘सुतः स्यात्॥
(त्स᳘) स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वमे᳘कशतविधः स᳘र्व्वेणैव तत्स᳘र्व्वमाप्नोति य᳘दि सं᳘व्वत्सरं न᳘ शक्नुया᳘द्विश्वजि᳘ता स᳘र्व्वपृष्ठेनातिरात्रे᳘ण यजेत त᳘स्मिन्त्सर्व्ववेदसं᳘ दद्यात्स᳘र्व्वं वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठो ऽतिरात्रः स᳘र्व्वᳫँ᳭ सर्व्ववेदसᳫँ᳭ स᳘र्व्वमे᳘कशतविधः स᳘र्व्वेणैव तत्स᳘र्व्वमाप्नोति॥

मूलम् - Weber

स᳘ संवत्सरम् प्र᳘सुतः स्यात्॥
स᳘र्वं वै᳘ संवत्सरः स᳘र्वमे᳘कशतविधः स᳘र्वेणैव तत्स᳘र्वमाप्नोति य᳘दि सं᳘वत्सरं न᳘ शक्नुया᳘द्विश्वजि᳘ता स᳘र्वपृष्ठेनातिरात्रे᳘ण यजेत त᳘स्मिन्त्सर्ववेदसं᳘ दद्यात्स᳘र्वं वै᳘ विश्वजित्स᳘र्वपृष्ठोऽतिरात्रः स᳘र्वᳫं सर्ववेदसᳫं स᳘र्वमे᳘कशतविधः स᳘र्वेणैव तत्स᳘र्वमाप्नोति॥

मूलम् - विस्वरम्

स संवत्सरं प्रसुतः स्यात् । सर्वं वै संवत्सरः । सर्वमेकशतविधः । सर्वेणैव तत्सर्वमाप्नोति । यदि सम्वत्सरं न शक्नुयात्- विश्वजिता सर्वपृष्ठेनातिरात्रेण यजेत । तस्मिन्त्सर्ववेदसं दद्यात् । सर्वं वै विश्वजित् । सर्वपृष्ठो ऽतिरात्रः । सर्वं सर्ववेदसम् । सर्वमेकशतविधः । सर्वेणैव तत् सर्वमाप्नोति ॥ १६ ॥

सायणः

तत्र सुत्यानां संख्यां विधत्ते- स संवत्सरं प्रसुतः स्यादिति । संवत्सरपर्यन्तं प्रसुतः सोमयागः स्यादिति प्रतिदिवसमेकैकः सोमयाग इति षष्ट्युत्तरत्रिशतसंख्याकाः सोमयागाः भवन्तीत्यर्थः । तत्र तापश्चिते कर्त्तव्यमग्निविशेषं प्रदर्शयन्स्तौति- सर्वमेकशतविध इति । अतः ‘सर्वेण’ संवत्सरपर्यन्तं क्रियमाणेन एकशतविधा ऽग्निमता सोमयागेन ‘सर्वम्’ आप्तवान् भवति । संवत्सरं सोमयागकरणाशक्तौ पक्षान्तरं दर्शयति- यदि संवत्सरं न शक्नुयादिति । ‘अतिरात्रेण’ अतिरात्रसंस्थेन सर्वपृष्ठवता विश्वजिदाख्येन यजेत । तत्र दक्षिणां विधत्ते- तस्मिन् सर्ववेदसं दद्यादिति । सर्वस्वं देयमित्यर्थः । एतद्यज्ञकरणं सर्वप्राप्तिहेतुत्वेन प्रशंसति- सर्वं वै विश्वजिदिति । अत्र विश्वजिति सर्वेषां पृष्ठानां करणात् सर्वस्वदक्षिणादानात् एकशतविधाग्निचयनाच्च सर्वमाप्तवान् भवति ॥ १६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे द्वितीये ऽध्याये पञ्चमं ब्राह्मणम् ॥ (१०-२-५) ॥

Eggeling
  1. For a year Soma should be pressed,–the year is everything, and the one hundred and one-fold (altar) is everything: by means of everything he thus gains everything. Should he be unable (to press Soma) for a year, he should perform the Viśvajit Atirātra 16 with all the

Pr̥shṭḥas 17, and at that (sacrifice) he should give away all his property 18; for the Viśvajit (all-conquering) Atirātra with all the Pr̥shṭḥas means everything, and all one’s property means everything, and the one hundred and one-fold (altar) means everything: by means of everything he thus gains everything.


  1. उपसत्सु पौर्व्वाह्निक्यापराह्निक्यंतरे चयनपुरीषनिवपने । का० श्रौ० सू० १७ । १३७ । कर्तव्ये इति सूत्रशेषः ॥ ↩︎

  2. 316:1 The Upasads (or sieges) are performed twice a day on at least three days (the regular number for ordinary one day’s Soma-sacrifices) intervening between the end of the Dīkshā (initiation) and the day of the Soma-sacrifice; see part ii, p. 105, note 1. On the first day the first layer is built between the two performances (whilst the final preparation of the altar-site, as well as the building of the Gārhapatya altar and the installation of the Ukhya Agni thereon, takes place before the morning performance of the Upasads), and on the second day the remaining layers are built. ↩︎

  3. 316:2 For the construction in the oraṭio ḍirecṭa, see part iii, p. 34, note 2. ↩︎

  4. 316:3 Or, they went into their shelter (pra-pad). ↩︎

  5. 317:1 Or, austere devotion, see III, 4, 4, 27, where fasting during the Upasad days is recommended as calculated to promote religious fervour. There is also, however, the primary’ meaning ‘heat’ implied, whence the ‘heating’ of the cauldron (gharma–θερμός) at the Pravargya (representing the sun) is connected with the Upasads. ↩︎

  6. 317:2 That is, the fire-altar used at the sacrificial period (ayana) called Tāpaścita, which generally requires a full year (360 days) for the performance of the Upasads (as do also the Dīkshā- before them, and the performance of the Soma-sacrifice after them); cf. XII, 3, 3, 10 seq.; Kāty. XIV, 5, 1.–Āśval. XII, 5, 9; Kāty. XXIV, 5, 7, however, mention a Tāpaścita which only requires four months for each of the three periods, or a year altogether, whilst the maximum duration is by Āśv. fixed at thirty-six years (twelve for each period); and by Kāty. at three years for the Upasads and a year for each of the two other ceremonies. ↩︎

  7. 317:3 See part ii, p. 304. ↩︎

  8. 317:4 Sāyaṇa does not specify what sacrificial performance is intended as requiring twenty-four Upasad-days, but merely says that they are required ‘kratuviśeshe,’ at some special kind of sacrifice. At all events, the Sacrificer would be at liberty to adopt that number of Upasad-days instead of the minimum of days prescribed, if he hoped to derive special benefit therefrom. ↩︎

  9. 318:1 For an ordinary Ekāha, or one day’s Soma-sacrifice, the Upasads may be performed for twelve days instead of the usual three days (Kāty. VIII, 2, 40). It is also the regular number of days for Ahīnas (ib. XIII, i, x; Āśv. IV, 8, 15) and for most sattras. ↩︎

  10. 318:2 That is, when the Upasads last for a whole year, as at the Tāpaścita. ↩︎

  11. 318:3 That is, by building for his Soma-sacrifice an altar the body of which requires a whole year in being laid down, as it does in the Tāpaścita. ↩︎

  12. 318:4 Translated literally, the sentence would run thus: ‘Thus as much desire as there is in the spring season–he builds for himself a body so as to obtain all that (desire).’ Only the building of an altar (body) for a whole year ensures the full fruition of sensual pleasures supplied during the year. ↩︎

  13. ‘स्तोमभागाः’ इति सविसर्गः पाठो युक्तः । ↩︎

  14. 319:1 That is, these three kinds of bricks–the five Asapatnās, and forty Virājs being laid down on the first day, and of the twenty-nine Stomabhāgās one each day,–the three kinds of bricks thus take one month in being laid down, after which the ‘sādanam’ and ‘Sūdadohas’ (cf. part iii, p. 301, note 3) are performed upon them. ↩︎

  15. 320:1 Viz. after the twenty-eight days of the twelfth month two days remain to make up the year, so that the (first) Sutyā day (pressing day) takes place after the expiry of a full year. ↩︎

  16. 320:2 The Viśvajit, as usually performed, is an Agnishṭoma sacrifice, the twelve Stotras of which are chanted in three different stomas or hymn-forms, viz. the first four in the trivr̥t (nine-versed), the next four in the pañcadaśa (fifteen-versed), and the last four in the saptadaśa (seventeen-versed) stoma. For the stotriya-texts see Tāṇḍya-Br. XVI, 5, 1 seq. It is closely united with the Abhijit Soma-day–the stotras of which are performed in four stomas, viz. three in each of those used for the Viśvajit, and the last three in the ekaviṁśa, or twenty-one-versed, stoma–with which it may, indeed, be combined in one and the same performance; and both form part of the sacrificial session called Gavām ayanam (part ii, p. 427). The Viśvajit (as well as the Abhijit) may, however, also be performed as an Atirātra instead of Agnishṭoma, and in that case the sequence of Stomas is entirely different, their order being as follows: the first four stotras are performed in the first four stomas (trivr̥t, pañcadaśa, saptadaśa, ekaviṁśa); the next four stotras in the four stomas beginning with the second stoma (up to triṇava), and the next four stotras in the four stomas beginning with the third stoma (up to trayastr̥ṁśa). Of the three Ukthastotras, the first is performed in the triṇava, and the two others in the ekaviṁśa; the Shoḍaśin in its own (ekaviṁśa) form; the night-chants in the pañcadaśa; and the twilight-chant in the trivr̥t-stoma. See Tāṇḍya-Br. XX, 9. ↩︎

  17. 321:1 On ‘sarvapr̥shṭḥa’ Soma-days, see part iii, introduction, pp. xx seq. ↩︎

  18. 321:2 As an equivalent for one’s ‘whole property (sarvavedasa, sarvasva),’ Kātyāyana (XXII, 2, 26. 27) enumerates ‘cows, oxen, ploughs, sacks of corn (or corn-sacks), pairs of slaves, waggons, animals for riding, houses (or sheds), and couches.’ For other similar enumerations, see A. Weber, Omina and Portenta (Abb. of Berl. Acad. 1858), p. 398. ↩︎