०१
विश्वास-प्रस्तुतिः
संव्वत्सरो वै᳘ प्रजा᳘पतिः॥
(र) अग्नि᳘रु स᳘र्व्वे का᳘माः᳘ सो ऽय᳘ᳫँ᳘ संव्वत्सरः᳘ प्रजा᳘पतिरकामयताग्निᳫँ᳭ स᳘र्व्वान्का᳘मानात्मा᳘नमभिसं᳘चिन्वीये᳘ति स᳘ ऽएकशत᳘धा ऽऽत्मा᳘नं᳘ व्यधत्त[[!!]] स᳘ ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘याग्निᳫँ᳭ स᳘र्वान्का᳘मानात्मा᳘नमभिस᳘मचिनुत स स᳘र्व्वे का᳘मा ऽअभवत्त᳘स्मान्न क᳘श्चन᳘ बहिर्धा का᳘मो ऽभवत्त᳘स्मादाहुः संव्वत्सरः स᳘र्व्वे का᳘मा ऽइ᳘ति न᳘ ह संव्वत्सरात्क᳘श्चन᳘ बहिर्धा का᳘मोऽस्ति॥
मूलम् - श्रीधरादि
संव्वत्सरो वै᳘ प्रजा᳘पतिः॥
(र) अग्नि᳘रु स᳘र्व्वे का᳘माः᳘ सो ऽय᳘ᳫँ᳘ संव्वत्सरः᳘ प्रजा᳘पतिरकामयताग्निᳫँ᳭ स᳘र्व्वान्का᳘मानात्मा᳘नमभिसं᳘चिन्वीये᳘ति स᳘ ऽएकशत᳘धा ऽऽत्मा᳘नं᳘ व्यधत्त[[!!]] स᳘ ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘याग्निᳫँ᳭ स᳘र्वान्का᳘मानात्मा᳘नमभिस᳘मचिनुत स स᳘र्व्वे का᳘मा ऽअभवत्त᳘स्मान्न क᳘श्चन᳘ बहिर्धा का᳘मो ऽभवत्त᳘स्मादाहुः संव्वत्सरः स᳘र्व्वे का᳘मा ऽइ᳘ति न᳘ ह संव्वत्सरात्क᳘श्चन᳘ बहिर्धा का᳘मोऽस्ति॥
मूलम् - Weber
संवत्सरो वै᳘ प्रजा᳘पतिः॥
अग्नि᳘रु स᳘र्वे का᳘माःॗ सोऽय᳘ᳫं᳘ संवत्सरः᳘ प्रजा᳘पतिरकामयताग्निᳫं स᳘र्वान्का᳘मानात्मा᳘नमभिसं᳘चिन्वीये᳘ति स᳘ एकशतॗधात्मा᳘नं व्य᳘धत्त स᳘ एकशतॗधात्मा᳘नं विधा᳘याग्निᳫं स᳘र्वान्का᳘मानात्मा᳘नमभिस᳘मचिनुत स स᳘र्वे का᳘मा अभवत्त᳘स्मान्न क᳘श्चन᳘ बहिर्धा का᳘मोऽभवत्त᳘स्मादाहुः संवत्सरः स᳘र्वे का᳘मा इ᳘ति न᳘ ह संवत्सरात्क᳘श्चन᳘ बहिर्धा का᳘मोऽस्ति॥
मूलम् - विस्वरम्
संवत्सरो वै प्रजापतिः । अग्निरु सर्वे कामाः । सो ऽयं संवत्सरः प्रजापतिरकामयत- अग्निं सर्वान्कामानात्मानमभिसंचिन्वीयेति । स एकशतधा ऽऽत्मानं व्यधत्त । स एकशतधा ऽऽत्मानं विधायाग्निं सर्वान्कामानात्मानमभिसमचिनुत । स सर्वे कामा अभवत् । तस्मात्र कश्चन बहिर्धा कामो ऽभवत् । तस्मादाहुः- संवत्सरः सर्वे कामा इति । न ह संवत्सरात्कश्चन बहिर्धा कामो ऽस्ति ॥ १ ॥
सायणः
चतुर्थब्राह्मणे एकशतविधस्याग्नेः सर्वकामरूपत्वेनादित्यात्मना स्तुतिः, तस्य सप्तविधप्राकृताग्निसंख्यायाः । सम्पत्तिप्रकारः, सप्तविधस्य चैकशतविधसङ्ख्यायाः सम्पत्तिश्च प्रदर्श्यते- संवत्सरो वै प्रजापतिरिति । ‘प्रजापतिः’ हि संवत्सरात्मकः । प्रजापतेः संवत्सररूपत्वं प्रतिपादितम् । ‘अग्निः’ अपि ‘सर्वे कामाः’ सर्वकामरूपः । स सम्वत्सररूपः प्रजापतिः स्वयं सर्वकामप्राप्त्यर्थं तद्रूपम् ‘अग्निम्’ सञ्चिनवानीति निश्चित्य ‘आत्मानम्’ ‘एकशतधा’ विभज्य तावत्संख्याकमग्निं चितवानित्यर्थः । ‘स सर्वे कामा अभवत्’ यतो ऽग्निं सर्वकामात्मकम् ‘आत्मानम्’ अचिनोत्, अतः संवत्सरः सर्वकामरूपः । न हि संवत्सररूपाद् बहिर्धा कामो ऽस्ति । अत इदानीमनुष्ठाता ऽपि एकशतविधमग्निं चित्वा सर्वकामात्मको भवति ॥ १ ॥ २ ॥
Eggeling
- Prajāpati, indeed, is the year, and Agni is all objects of desire. This Prajāpati, the year, desired, ‘May I build up for myself a body so as to contain 1 Agni, all objects of desire.’ He constructed a body one hundred and one-fold; and in constructing a body one hundred and one-fold, he built up for himself a body so as to contain Agni, all objects of desire, and himself became all objects of desire; there was not one object of desire outside of him: whence they say, ‘The year (includes) all objects of desire;’ for, indeed, outside the year there is no object of desire whatever.
०२
विश्वास-प्रस्तुतिः
त᳘थै᳘वैतद्य᳘जमानः॥
(ऽ) एकशतधा ऽऽत्मा᳘नं व्विधा᳘याग्निᳫँ᳭ स᳘र्व्वान्का᳘मानात्मा᳘नमभिसं᳘चिनुते स स᳘र्व्वे का᳘मा भवति त᳘स्मान्न क᳘श्चन᳘ बहिर्धा का᳘मो भवति॥
मूलम् - श्रीधरादि
त᳘थै᳘वैतद्य᳘जमानः॥
(ऽ) एकशतधा ऽऽत्मा᳘नं व्विधा᳘याग्निᳫँ᳭ स᳘र्व्वान्का᳘मानात्मा᳘नमभिसं᳘चिनुते स स᳘र्व्वे का᳘मा भवति त᳘स्मान्न क᳘श्चन᳘ बहिर्धा का᳘मो भवति॥
मूलम् - Weber
त᳘थैॗवैतद्य᳘जमानः॥
एकशतधात्मा᳘नं विधा᳘याग्निᳫं स᳘र्वान्का᳘मानात्मा᳘नमभिसं᳘चिनुते स स᳘र्वे का᳘मा भवति त᳘स्मान्न क᳘श्चन᳘ बहिर्धा का᳘मो भवति॥
मूलम् - विस्वरम्
तथैवैतद्यजमान एकशतधा ऽऽत्मानं विधायाग्निं सर्वान्कामानात्मानमभिसंचिनुते । स सर्वे कामा भवति । तस्मान्न कश्चन बहिर्धा कामो भवति ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- And in like manner does the Sacrificer now, by constructing a body (of the altar) one hundred and one-fold, build for himself a body so as to contain Agni, all objects of desire: he becomes all objects of desire, and not one object of (his) desire is outside of him.
०३
विश्वास-प्रस्तुतिः
स यः स᳘ संव्वत्स᳘रो ऽसौ स᳘ ऽआदित्यः᳘॥
स᳘ ऽएष ऽए᳘कशतविधस्त᳘स्य[[!!]] रश्म᳘यः शतं᳘ व्विधा᳘ ऽएष᳘ ऽए᳘वैकशततमो य᳘ ऽएष त᳘पत्यस्मिन्त्स᳘र्व्वस्मिन्प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘यास्मिन्त्स᳘र्व्वस्मिन्प्र᳘तितिष्ठति᳘॥
मूलम् - श्रीधरादि
स यः स᳘ संव्वत्स᳘रो ऽसौ स᳘ ऽआदित्यः᳘॥
स᳘ ऽएष ऽए᳘कशतविधस्त᳘स्य[[!!]] रश्म᳘यः शतं᳘ व्विधा᳘ ऽएष᳘ ऽए᳘वैकशततमो य᳘ ऽएष त᳘पत्यस्मिन्त्स᳘र्व्वस्मिन्प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘यास्मिन्त्स᳘र्व्वस्मिन्प्र᳘तितिष्ठति᳘॥
मूलम् - Weber
स यः स᳘ संवत्सॗरोऽसौ स᳘ आदित्यः᳟॥
स᳘ एष ए᳘कशतविध᳘स्त᳘स्य रश्म᳘यः शतं᳘ विधा᳘ एष᳘ एॗवैकशततमो य᳘ एष त᳘पत्यस्मिन्त्स᳘र्वस्मिन्प्र᳘तिष्ठितस्त᳘थैॗवैतद्य᳘जमान एकशतॗधात्मा᳘नं विधा᳘यास्मिन्त्स᳘र्वस्मिन्प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
स यः स संवत्सरः- असौ स आदित्यः । स एष एकशतविधः । तस्य रश्मयः शतं विधाः । एष एवैकशततमो- य एष तपति- अस्मिन्त्सर्वस्मिन्प्रतिष्ठितः । तथैवैतद्यजमान एकशतधा ऽऽत्मानं विधायास्मिन्त्सर्वस्मिन्प्रतितिष्ठति ॥ ३ ॥
सायणः
स यः स सम्वत्सरो ऽसौ स आदित्य इति । ‘यः’ संवत्सर इत्युक्तः ‘सः’ ‘आदित्यः’ एकशतविधः । तस्यादित्यस्य एकशतविधत्वं स्फुटयति- तस्य रश्मय इति । शतसंख्याकाः ‘रश्मयः’ एकशतसंख्यापूरकः । स यथा सर्वत्र लोके ‘प्रतिष्ठितः’ एवं तमग्निं चितवान् ‘यजमानः’ अपि सर्वत्र प्रतिष्ठितो भवति ॥ ३ ॥
Eggeling
- Now this year is the same as yonder sun; and he is this one hundred and one-fold (Agni);–his rays are a hundredfold, and he himself who shines
yonder, being the one hundred and first, is firmly established in this universe; and in like manner does the Sacrificer now establish himself in this universe by constructing for himself a body a hundred and one-fold.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ वा ऽए᳘कशतविधः॥
सप्त᳘विधमभिस᳘म्पद्यत ऽएकशतधा वा᳘ ऽअसा᳘वादित्यो व्वि᳘हितः सप्त᳘सु देवलोके᳘षु प्र᳘तिष्ठितः सप्त वै᳘ देवलोकाश्च᳘तस्रो दि᳘शस्त्र᳘य ऽइमे᳘ लोका᳘ ऽएते वै᳘ सप्त᳘ देवलोकास्ते᳘ष्वेष प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘य सप्त᳘सु देवलोके᳘षु प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ वा ऽए᳘कशतविधः॥
सप्त᳘विधमभिस᳘म्पद्यत ऽएकशतधा वा᳘ ऽअसा᳘वादित्यो व्वि᳘हितः सप्त᳘सु देवलोके᳘षु प्र᳘तिष्ठितः सप्त वै᳘ देवलोकाश्च᳘तस्रो दि᳘शस्त्र᳘य ऽइमे᳘ लोका᳘ ऽएते वै᳘ सप्त᳘ देवलोकास्ते᳘ष्वेष प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘य सप्त᳘सु देवलोके᳘षु प्र᳘तितिष्ठति॥
मूलम् - Weber
अ᳘थ वा ए᳘कशतविधः॥
सप्त᳘विधमभिस᳘म्पद्यत एकशतधा वा᳘ असा᳘वादित्यो वि᳘हितः सप्त᳘सु देवलोके᳘षु प्र᳘तिष्ठितः सप्त वै᳘ देवलोकाश्च᳘तस्रो दि᳘शस्त्र᳘य इमे᳘ लोका᳘ एते वै᳘ सप्त᳘ देवलोकास्ते᳘ष्वेष प्र᳘तिष्ठितस्त᳘थैॗवैतद्य᳘जमान एकशतॗधात्मा᳘नं विधा᳘य सप्त᳘सु देवलोके᳘षु प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
अथ वा एकशतविधः सप्तविधमभिसम्पद्यते । एकशतधा वा असावादित्यो विहितः सप्तसु देवलोकेषु प्रतिष्ठितः । सप्त वै देवलोका- चतस्रो दिशः, त्रय इमे लोकाः । एते वै सप्त देवलोकाः । तेष्वेष प्रतिष्ठितः । तथैवैतद्यजमान एकशतधा ऽऽत्मानं विधाय सप्तसु देवलोकेषु प्रतितिष्ठति ॥ ४ ॥
सायणः
अथ वा एकशतविध इत्यादिना सप्तविधसंख्यासम्पत्तिप्रदर्शनं फलविवक्षया । ‘असावादित्यः’ ‘एकशतधा’ शतं रश्मयः स्वात्मा एकशतसंख्यापूरकः । ‘सप्तसु देवलोकेषु’ दिक्षु चतसृषु त्रिषु लोकेष्वित्यर्थः । एवं ‘यजमानो ऽपि’ तेषु सप्तलोकेषु ‘प्रतिष्ठितो’ भवति ॥ ४ ॥
Eggeling
- And, indeed, the one hundred and one-fold passes into (becomes equal to) the sevenfold one; for yonder sun, whilst composed a hundred and one-fold, is established in the seven worlds of the gods, for, indeed, there are seven worlds of the gods,–the four quarters and these three worlds: these are the seven worlds of the gods, and in them that (sun) is established. And in like manner does the Sacrificer now establish himself in the seven worlds of the gods by constructing for himself a body a hundred and one-fold.
०५
विश्वास-प्रस्तुतिः
य᳘द्वेवै᳘कशतविधः॥
सप्त᳘विधमभिसम्प᳘द्यत ऽएकशतधा वा᳘ ऽअसा᳘वादित्यो व्वि᳘हितः सप्त᳘स्वृतु᳘षु सप्त᳘सु स्तो᳘मेषु सप्त᳘सु पृष्ठे᳘षु सप्त᳘सु च्छ᳘न्दःसु सप्त᳘सु प्राणे᳘षु सप्त᳘सु दिक्षु प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘यैत᳘स्मिन्त्स᳘र्व्वस्मिन्प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
य᳘द्वेवै᳘कशतविधः॥
सप्त᳘विधमभिसम्प᳘द्यत ऽएकशतधा वा᳘ ऽअसा᳘वादित्यो व्वि᳘हितः सप्त᳘स्वृतु᳘षु सप्त᳘सु स्तो᳘मेषु सप्त᳘सु पृष्ठे᳘षु सप्त᳘सु च्छ᳘न्दःसु सप्त᳘सु प्राणे᳘षु सप्त᳘सु दिक्षु प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘यैत᳘स्मिन्त्स᳘र्व्वस्मिन्प्र᳘तितिष्ठति॥
मूलम् - Weber
य᳘द्वेवै᳘कशतविधः॥
सप्त᳘विधमभिसम्प᳘द्यत एकशतधा वा असा᳘वादित्यो वि᳘हितः सप्त᳘स्वृतु᳘षु सप्त᳘सु स्तो᳘मेषु सप्त᳘सु पृष्ठे᳘षु सप्त᳘सु छ᳘न्दःसु सप्त᳘सु प्राणे᳘षु सप्त᳘सु दिक्षु प्र᳘तिष्ठितस्त᳘थैॗवैतद्य᳘जमान एकशतॗधात्मा᳘नं विधा᳘यैत᳘स्मिन्त्स᳘र्वस्मिन्प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
यद्वेवैकशतविधः सप्तविधमभिसम्पद्यते । एकशतधा वा असावादित्यो विहितः- सप्तस्वृतुषु, सप्तसु स्तोमेषु, सप्तसु पृष्ठेषु, सप्तसु छन्दःसु सप्तसु प्राणेषु, सप्तसु दिक्षु प्रतिष्ठितः । तथैवैतद्यजमान एकशतधा ऽऽत्मानं विधायैतस्मिन्त्सर्वस्मिन्प्रतितिष्ठति ॥ ५ ॥
सायणः
प्रकारान्तरेण सम्पत्तिः- यद्वेवैकशतेति । एकशतविध आदित्यः “संसर्पकांहस्पतिनामकऋतुना सह सप्तर्त्तवः”- (श. प. । ८ । ४ । १ । १७ । वा. सं. १४ । २३ । “संभरणस्त्रयोविँशः” इत्यत्र) इत्युक्तम् । ‘सप्तसु स्तोमेषु’ त्रिवृत्पञ्चदशसप्तदशैकविंशचतुर्विंशत्रिणवत्रयस्त्रिंशेषु बृहद्रथन्तरवैरूपवैराजशाक्वरादिषु ‘सप्तसु पृष्ठेषु’ गायत्र्यादिषु ‘सप्तसु छन्दःसु’ ‘सप्तसु’ शीर्षण्येषु ‘प्राणेषु’ ‘सप्तसु दिक्षु’ प्राच्यादयश्चतस्रः, ऊर्द्ध्वावाच्यौ द्वे, सूर्यमण्डलमेव सप्तमी दिगिति सप्त दिशः । “स दिग्भिरेव सप्तविध” इतीत्युत्तरत्र (श. प. १० । २ । ५ । ३ ।) एवं सप्त दिशो वक्ष्यन्ते । एतेषु ऋत्वादिसप्तकेष्वादित्यः ‘प्रतिष्ठितः’ एवमेकशतविघं चितवान् ‘यजमानः’ अपि सर्वत्र ऋत्यादिषु प्रतिष्ठितो भवति ॥ ५ ॥
Eggeling
- And, again, as to how the one hundred and one-fold (altar) passes into the sevenfold one:–yonder sun, composed of a hundred and one parts, is established in the seven seasons, in the seven stomas (hymn-forms), in the seven pr̥shṭḥa (-sāmans), in the seven metres, in the seven vital airs, and in the seven regions; and in like manner does the Sacrificer now establish himself in this universe (or, on everything here) by constructing for himself a body one hundred and one-fold.
०६
विश्वास-प्रस्तुतिः
य᳘द्वेवै᳘कशतविधः॥ सप्त᳘विधमभिसम्प᳘द्यत ऽएकशतधा वा᳘ ऽअसा᳘वादित्यो व्वि᳘हितः सप्ता᳘क्षरे ब्र᳘ह्मन्प्र᳘तिष्ठितः सप्ता᳘क्षरं वै ब्रह्म ऽर्गित्ये᳘कमक्ष᳘रं य᳘जुरि᳘ति द्वे सामे᳘ति द्वे ऽअ᳘थ यद᳘तो ऽन्यद्ब्र᳘ह्मैव तद्द्व्य᳘क्षरं वै ब्र᳘ह्म त᳘देतत्स᳘र्व्वᳫँ᳭ सप्ता᳘क्षरं ब्र᳘ह्म त᳘स्मिन्नेष प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘य सप्ता᳘क्षरे ब्र᳘ह्मन्प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
य᳘द्वेवै᳘कशतविधः॥ सप्त᳘विधमभिसम्प᳘द्यत ऽएकशतधा वा᳘ ऽअसा᳘वादित्यो व्वि᳘हितः सप्ता᳘क्षरे ब्र᳘ह्मन्प्र᳘तिष्ठितः सप्ता᳘क्षरं वै ब्रह्म ऽर्गित्ये᳘कमक्ष᳘रं य᳘जुरि᳘ति द्वे सामे᳘ति द्वे ऽअ᳘थ यद᳘तो ऽन्यद्ब्र᳘ह्मैव तद्द्व्य᳘क्षरं वै ब्र᳘ह्म त᳘देतत्स᳘र्व्वᳫँ᳭ सप्ता᳘क्षरं ब्र᳘ह्म त᳘स्मिन्नेष प्र᳘तिष्ठितस्त᳘थै᳘वैतद्य᳘जमान ऽएकशत᳘धा ऽऽत्मा᳘नं व्विधा᳘य सप्ता᳘क्षरे ब्र᳘ह्मन्प्र᳘तितिष्ठति॥
मूलम् - Weber
य᳘द्वेवै᳘कशतविधः सप्त᳘विधमभिसम्प᳘द्यत एकशतधा वा᳘ असा᳘वादित्यो वि᳘हितः सप्ता᳘क्षरे ब्र᳘ह्मन्प्र᳘तिष्ठितः सप्ता᳘क्षरं वै ब्रह्मर्गित्ये᳘कमक्ष᳘रं य᳘जुरि᳘ति द्वे सामे᳘ति द्वे अ᳘थ यद᳘तोऽन्यद्ब्र᳘ह्मैव तद्द्व्य᳘क्षरं वै ब्र᳘ह्म त᳘देतत्स᳘र्वᳫं सप्ता᳘क्षरम् ब्र᳘ह्म त᳘स्मिन्नेष प्र᳘तिष्ठितस्त᳘थैॗवैतद्य᳘जमान एकशतॗधात्मा᳘नं विधा᳘य सप्ता᳘क्षरे ब्र᳘ह्मन्प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
यद्वेवैकशतविधः सप्तविधमभिसम्पद्यते । एकशतधा वा असावादित्यो विहितः- सप्ताक्षरे ब्रह्मन्प्रतिष्ठितः । सप्ताक्षरं वै ब्रह्म- ऋगित्येकमक्षरम्, यजुरिति द्वे, साम- इति द्वे । अथ यदतो ऽन्यद्- ब्रह्मैव तद् | द्व्यक्षरं वै ब्रह्म । तदेतत्सर्व्वं सप्ताक्षरं ब्रह्म । तस्मिन्नेष प्रतिष्ठितः । तथैवैतद्यजमान एकशतधा ऽऽत्मानं विधाय सप्ताक्षरे ब्रह्मन्प्रतितिष्ठति ॥ ६ ॥
सायणः
प्रकारान्तरेण संख्यासम्पत्तिः- एकशतविध आदित्यः ऋग्यजुःसामब्रह्मेत्यस्मिन् सप्ताक्षरे ब्रह्मणि प्रतिष्ठितः । एवं ‘यजमानः’ अपि ‘सप्ताक्षरे’ ब्रह्मणि प्रतिष्ठितः भवति ॥ ६ ॥
Eggeling
- And, again, as to how the one hundred and one-fold passes into the sevenfold one:–yonder sun, composed of a hundred and one parts, is established in the seven-syllabled Brahman, for the Brahman (holy writ or prayer) indeed consists of seven syllables,–‘r̥k’ is one syllable, ‘yajuḥ’ two, and ‘sāma’ two; and what other Brahman there is that is just the ‘brahman’ of two syllables–this
seven-syllabled Brahman is the universe 2: therein that (sun) is established; and in like manner does the Sacrificer now establish himself in the seven-syllabled Brahman by constructing for himself a body one hundred and one-fold.
०७
विश्वास-प्रस्तुतिः
त᳘स्मादु सप्त᳘भिः सप्तभिः प᳘रिश्रयन्ति॥
त᳘स्मादे᳘कशतविधः सप्तविधमभिस᳘म्पद्यते᳘ ऽथ वै᳘ सप्त᳘विध ऽए᳘कशतविधमभिस᳘म्पद्यते॥
मूलम् - श्रीधरादि
त᳘स्मादु सप्त᳘भिः सप्तभिः प᳘रिश्रयन्ति॥
त᳘स्मादे᳘कशतविधः सप्तविधमभिस᳘म्पद्यते᳘ ऽथ वै᳘ सप्त᳘विध ऽए᳘कशतविधमभिस᳘म्पद्यते॥
मूलम् - Weber
त᳘स्मादु सप्त᳘भिः-सप्तभिः प᳘रिश्रयन्ति॥
त᳘स्मादे᳘कशतविधः सप्तविधमभिस᳘म्पद्यते᳘ऽथ वै᳘ सप्त᳘विध ए᳘कशतविधमभिस᳘म्पद्यते॥
मूलम् - विस्वरम्
तस्मादु सप्तभिः- सप्तभिः परिश्रयन्ति । तस्मादेकशतविधः सप्तविधमभिसम्पद्यते । अथ वै सप्तविध एकशतविधमभिसम्पद्यते ॥ ७ ॥
सायणः
सप्तभिः सप्तभिः परिश्रयणेनापि एकशतविधो ऽग्निः ‘सप्तविधम्’ अग्निम् ‘अभिसम्पद्यते’ ॥ ७ ॥
Eggeling
- Therefore, also, they lay down around (the altar) sets of seven (bricks) each time, and hence the one hundred and one-fold passes into the sevenfold one; and, indeed, the sevenfold one passes into the one hundred and one-fold.
०८
विश्वास-प्रस्तुतिः
सप्त᳘विधो वा ऽअ᳘ग्रे प्रजा᳘पतिरसृज्यत॥
स᳘ ऽएत᳘मेकशत᳘धा ऽऽत्मा᳘नं व्वि᳘हितमपश्यत्प्राणभृ᳘त्सु पञ्चाशदि᳘ष्टकाः पञ्चाशद्य᳘जूᳫँ᳭षि त᳘च्छतᳫँ᳭ सा᳘दनं च सू᳘ददोहाश्चैकशततमे त᳘त्समान᳘ᳫँ᳘ सादयित्वा हि सू᳘ददोहसा ऽधिव᳘दति स᳘ ऽएतेनै᳘कशतविधेनात्म᳘नेमां जि᳘तिम᳘जयदिमां᳘ व्यष्टिं᳘ व्याश्नुत त᳘थै᳘वैतद्य᳘जमान ऽएतेनै᳘कशतविधेनात्म᳘नेमां जि᳘तिं ज᳘यतीमां᳘ व्यष्टिं᳘[[!!]] व्यश्नुत ऽएव᳘मु[[!!]] सप्त᳘विध ऽए᳘कशतविधमभिस᳘म्पद्यते स य᳘ ऽएवै᳘कशतविधः स᳘ सप्त᳘विधो यः᳘ सप्त᳘विधः स ऽए᳘कशतविध ऽइ᳘ति नु[[!!]] विधा᳘नम्॥
मूलम् - श्रीधरादि
सप्त᳘विधो वा ऽअ᳘ग्रे प्रजा᳘पतिरसृज्यत॥
स᳘ ऽएत᳘मेकशत᳘धा ऽऽत्मा᳘नं व्वि᳘हितमपश्यत्प्राणभृ᳘त्सु पञ्चाशदि᳘ष्टकाः पञ्चाशद्य᳘जूᳫँ᳭षि त᳘च्छतᳫँ᳭ सा᳘दनं च सू᳘ददोहाश्चैकशततमे त᳘त्समान᳘ᳫँ᳘ सादयित्वा हि सू᳘ददोहसा ऽधिव᳘दति स᳘ ऽएतेनै᳘कशतविधेनात्म᳘नेमां जि᳘तिम᳘जयदिमां᳘ व्यष्टिं᳘ व्याश्नुत त᳘थै᳘वैतद्य᳘जमान ऽएतेनै᳘कशतविधेनात्म᳘नेमां जि᳘तिं ज᳘यतीमां᳘ व्यष्टिं᳘[[!!]] व्यश्नुत ऽएव᳘मु[[!!]] सप्त᳘विध ऽए᳘कशतविधमभिस᳘म्पद्यते स य᳘ ऽएवै᳘कशतविधः स᳘ सप्त᳘विधो यः᳘ सप्त᳘विधः स ऽए᳘कशतविध ऽइ᳘ति नु[[!!]] विधा᳘नम्॥
मूलम् - Weber
सप्त᳘विधो वा अ᳘ग्रे प्रजा᳘पतिरसृज्यत॥
स᳘ एत᳘मेकशतॗधात्मा᳘नं वि᳘हितमपश्यत्प्राणभृ᳘त्सु पञ्चाशदि᳘ष्टकाः पञ्चाशद्य᳘जूंषि 3 त᳘छतᳫं सा᳘दनं च सू᳘ददोहाश्चैक=\अततमे त᳘त्समान᳘ᳫं᳘ सादयित्वा हि सू᳘ददोहसाधिव᳘दति स᳘ एतेनै᳘कशतविधेनात्म᳘नेमां जि᳘तिम᳘जयदिमां व्य᳘ष्टिंॗ व्याश्नुत त᳘थैॗवैतद्य᳘जमान एतेनै᳘कशतविधेनात्म᳘नेमां जि᳘तिं ज᳘यतीमां व्य᳘ष्टिं व्य᳘श्नुत एव᳘मु सप्त᳘विध ए᳘कशतविधमभिस᳘म्पद्यते स य᳘ एवै᳘कशतविधः स᳘ सप्त᳘विधो यः᳘ सप्त᳘विधः स ए᳘कशतविध इ᳘ति नु᳘ विधा᳘नम्॥
मूलम् - विस्वरम्
सप्तविधो वा अग्रे प्रजापतिरसृज्यत । स एतमेकशतधा ऽऽत्मानं विहितमपश्यत् । प्राणभृत्सु पञ्चाशदिष्टकाः, पञ्चाशद्यजूंषि, तच्छतम् । सादनं च सूददोहाश्चैकशततमे । तत् समानम् । सादयित्वा हि सूददोहसा ऽधिवदति । स एतेनैकशतविधेनात्मनेमां जितिमजयत् । इमां व्यष्टिं व्याश्नुत । तथैवैतद्यजमान एतेनैकशतविधेनात्मनेमां जितिं जयति । इमां व्यष्टिं व्यश्नुते । एवमु सप्तविध एकशतविधमभिसम्पद्यते । स य एवैकशतविधः- स सप्तविधः । यः सप्तविधः- स एकशतविधः । इति नु विधानाम् ॥ ८ ॥
सायणः
अथ सप्तविधाग्नेरेकशतविधसंख्यासम्पत्तिं दर्शयति- सप्तविधो वा अग्रे इति । ‘अग्रे’ पूर्वं ‘प्रजापतिः’ ‘सप्तविधः’ सप्तपुरुषात्मकः सृष्टः । स ‘आत्मानम्’ ‘एकशतधा’ प्राणभृन्नामिकास्विष्टकासु दृष्टवान् । तदेवाह- प्राणभृत्स्विति । प्राणभृदिष्टकाः पञ्चाशत्प्रतीष्टकमेकैकमुपधानं यजुरिति ‘पञ्चाशद्यजूंषि’ तदुभयं ‘शतं’ भवति । तासामिष्टकानां “तया देवतया ऽङ्गिरस्वत् ध्रुवा सीद” इत्यनेन सादनं च, “ता अस्य सूददोहसः” इत्यधिवदनं चोभयमेकशतसंख्यापूरकम् । अतः ‘एतेन’ ‘एकशतविधेनात्मना’ ‘इमां जितिम्’ जितवान् । सर्वं जित्वा सर्वां ‘व्यष्टिम्’ नानापदार्थरूपतां ‘व्याश्नुत’ तथा यजमानो ऽपि सप्तविधेन इष्टकायजुःसादनाधिवदनैः एकशतविधेन इमां जितिं जितवान् सर्वात्मकतां स व्याप्तवान् भवति । एवं सप्तविधैकशतविधयोरन्योन्यात्मकत्वमुक्तम् । अग्निविधाविषयं विचारमुपसंहरति- इति नु विधानामिति ॥ ८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे द्वितीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (१० । २ । ४) ॥
Eggeling
- Sevenfold, indeed, Prajāpati was created in the beginning. He saw this body composed of a hundred and one parts–fifty bricks in the Prāṇabhr̥ts 4, and fifty sacrificial formulas, that makes a hundred, and the ‘settling’ and sūdadohas-formula are the two one hundred and first–these two are one and the same, for when he has ‘settled’ (a brick), he pronounces the sūdadohas-formula over it: by means of this one hundred and one-fold body he gained that conquest and obtained that success; and in like manner does the Sacrificer, by means of this one hundred and one-fold body, gain that conquest and obtain that success. And thus, indeed, the sevenfold (altar) passes into the one hundred and one-fold: that which is a hundred and one-fold is sevenfold, and that which is sevenfold is a hundred and one-fold. So much as to the forms (of altars).
-
313:1 Literally, May I build for myself a body (self) with a view to (abhi) Agni; or, perhaps, ‘He builds (a body) so as to become (Agni);’ in which case ‘abhi’ of ‘abhisaṁcinute’ would have the same force as in ‘abhisampadyate.’ See, however, X, 2, 5, 9-12, where Sāyaṇa explains it by ‘yo yaḥ kāmaḥ taṁ sarvam ātmānam abhilakshya sampāditavān bhavati’–‘He brings about (accomplishes) all that desire for his body.’ ↩︎
-
315:1 Or, perhaps, ‘all this (taken together) is the sevenfold Brahman.’ ↩︎
-
प᳘ञ्चाशदि᳘ष्टकाः पञ्चाश A. - ibid. इति नु विधानामथातश्चयनस्यैव ॥ ८ ॥ निरवसानब्राह्मणं ॥ १ ॥ B1. B2. Thus also in A., at the margin, the end of this brahmaṇa and the beginning of the next are joined together: इ᳘ति नु᳘ विधा᳘नामथा᳘तश्च᳘यनस्यै᳘व. ↩︎
-
315:2 In the first layer ten Prāṇabhr̥t bricks were placed along the diagonals in each of the four corners of the body of the altar (or in the intermediate quarters), and as many round the centre. ↩︎