०१

विश्वास-प्रस्तुतिः

या वा᳘ ऽइयं वे᳘दिः सप्त᳘विधस्य॥
(स्यै) एषा व्वे᳘देर्मा᳘त्रा स᳘ देवय᳘जनमध्यवसा᳘य पू᳘र्व्वया द्वारा᳘ पत्नीशा᳘लं प्रप᳘द्य गा᳘र्हपत्या᳘योद्धत्या᳘वोक्षति गा᳘र्हपत्यस्यो᳘द्धतात्सप्त प्रा᳘चः प्रक्रमान्प्र᳘क्रामति त᳘तः प्रा᳘ञ्चं व्यामं व्वि᳘मिमीते त᳘स्य म᳘ध्य ऽआहवनी᳘यायोद्धत्या᳘वोक्षति पूर्व्वार्धा᳘द्व्याम᳘स्य त्रीन्प्रा᳘चः प्रक्रमान्प्र᳘क्रामति स᳘ व्वेद्यन्तः[[!!]]॥ (शतम् ५२००)॥

मूलम् - श्रीधरादि

या वा᳘ ऽइयं वे᳘दिः सप्त᳘विधस्य॥
(स्यै) एषा व्वे᳘देर्मा᳘त्रा स᳘ देवय᳘जनमध्यवसा᳘य पू᳘र्व्वया द्वारा᳘ पत्नीशा᳘लं प्रप᳘द्य गा᳘र्हपत्या᳘योद्धत्या᳘वोक्षति गा᳘र्हपत्यस्यो᳘द्धतात्सप्त प्रा᳘चः प्रक्रमान्प्र᳘क्रामति त᳘तः प्रा᳘ञ्चं व्यामं व्वि᳘मिमीते त᳘स्य म᳘ध्य ऽआहवनी᳘यायोद्धत्या᳘वोक्षति पूर्व्वार्धा᳘द्व्याम᳘स्य त्रीन्प्रा᳘चः प्रक्रमान्प्र᳘क्रामति स᳘ व्वेद्यन्तः[[!!]]॥ (शतम् ५२००)॥

मूलम् - Weber

या वा᳘ इयं वे᳘दिः सप्त᳘विधस्य॥
एषा वे᳘देर्मा᳘त्रा स᳘ देवय᳘जनमध्यवसा᳘य पू᳘र्वया द्वारा᳘ पत्नीशा᳘लम् प्रप᳘द्य गा᳘र्हपत्यायोद्धत्या᳘वोक्षति गा᳘र्हपत्यस्यो᳘द्धतात्सप्त प्रा᳘चः प्रक्रमान्प्र᳘क्रामति त᳘तः प्रा᳘ञ्चं व्यामं वि᳘मिमीते त᳘स्य म᳘ध्य आहवनी᳘यायोद्धत्या᳘वोक्षति पूर्वार्धा᳘द्व्याम᳘स्य त्रीन्प्रा᳘चः प्रक्रमान्प्र᳘क्रामति स᳘ वेद्यन्तः᳟॥

मूलम् - विस्वरम्

या वा इयं वेदिः सप्तविधस्य- एषा वेदेर्मात्रा । स देवयजनमध्यवसाय पूर्वया द्वारा पत्नीशालं प्रपद्य गार्हपत्यायोद्धत्यावोक्षति । गार्हपत्यस्योद्धतात्सप्त प्राचः प्रक्रमान् प्रक्रामति । ततः प्राञ्चं व्यामं विमिमीते । तस्य मध्य आहवनीयायोद्धत्यावोक्षति । पूर्वार्धाद्व्यामस्य त्रीन्प्राचः प्रक्रमान्प्रक्रामति । स वेद्यन्तः ॥ १ ॥

सायणः

प्राकृतस्य सप्तविधस्याग्नेः वैकृतेष्वन्त्यस्यैकशतविधस्याग्नेश्च वेदिमानं तृतीये ब्राह्मणे विधत्ते- या वा इयं वेदिसप्तविधस्यैषा वेदेर्मात्रेति । ‘या इयं वेदिः’ सौमिकी प्रसिद्धा सा सप्तविधस्याग्नेः ‘मात्रा’ भवतीत्यर्थः । वेदिमानस्य कालं कात्यायनः सूत्रितवान्- “दीक्षाणामुत्तमे ऽहनि वेद्यग्निमानम्”- (का. श्रौ. सू. १६ । २२७) इति । महावेदेर्मानं विधातुं प्राचीनवंशगतवेदेर्मानं सेतिकर्तव्यताकं विधत्ते- स देवयजनमध्यवसायेति । ‘सः’ अध्वर्युः ‘देवयजनं’ क्षेत्रं निश्चित्य पूर्वद्वारेण ‘पत्नीशालम्’ प्राग्वंशं प्रविश्य गार्हपत्यार्थमुद्धत्य खात्वा तत्क्षेत्रम् ‘अवोक्षति’ जलेन सिञ्चेत् । गार्हपत्यस्थानं कल्पयेदित्यर्थः। गार्हपत्यार्थं कल्पितात् प्रदेशात् ‘सप्त प्रक्रमान्’ ‘प्राचः’ प्रागायतान् गृह्णीयात् । प्रक्रमलक्षणमुक्तं सूत्रकृता- “पञ्चारत्निः पुरुषो दशपदो द्वादशांगुलं पदं प्रक्रमस्त्रिपदः”- (का. श्रौ. सू. १६ । १४९) इति । सप्त प्रक्रमा गार्हपत्याहवनीययोर्मध्यमित्यर्थः। ‘ततः’ सप्तप्रक्रमेभ्यः ‘प्राञ्चम्’ ‘व्यामम्’ ‘विमिमीते’ । व्यामश्चतुररत्निप्रमाणः । ‘तस्य’ व्यामस्य ‘मध्ये’ आहवनीयस्थानं कल्पयेत् । एष आहवनीयो वक्ष्यमाणायाश्चयनमहावेदेर्गार्हपत्यो भवति । अत एव कात्यायनः- “उख्यस्थाने ऽर्द्धव्यामेन गार्हपत्यस्य मण्डलं परिलिखति”- (का. श्रौ. सू. १६ । २२८) इति । आपस्तम्बो ऽपि- “एतच्छ्रुत्यपेक्षया व्याममात्रेण गार्हपत्यस्य चयनम्”- (आ. श्रौ. सू.) इत्युक्तवान् । “व्याममात्री भवतीति गार्हपत्यचितेर्विज्ञायते” इति । गार्हपत्यचित्यर्थं कल्पितस्य व्यामस्य पूर्वार्द्धात् प्रदेशादारभ्य ‘त्रीन् प्रक्रमान् प्राचः’ क्रमेत् स वेद्यन्तः सप्तक्रमत्रयान्तःप्रदेशो महावेदेः पश्चिमभागस्यान्त इत्यर्थः ॥ १ ॥

Eggeling
  1. Now this Vedi (altar-ground, viz. the Mahāvedi of the Soma-sacrifice) is just that (right) measure for the Vedi of the sevenfold 1 (fire-altar).

Having fixed upon (the place for) the sacrificial ground, he enters the Patnīśāla 2 by the front (east) door, and having thrown up (the ground) for the Gārhapatya, he sprinkles it with water. From the raised (site) of the Gārhapatya he strides seven steps eastward. From there he measures off a fathom 3 towards the east, and having, in the middle thereof, thrown up (the ground) for the Āhavanīya, he sprinkles it with water. From the front part of the fathom he strides three steps eastward: that is the end of the Vedi 4.

०२

विश्वास-प्रस्तुतिः

(स्ते) ते वा᳘ ऽएते᳘॥
व्यामै᳘कादशाः प्रक्रमा᳘ ऽअन्तरा᳘ व्वेद्यन्तं᳘ च गा᳘र्हपत्यं चै᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वी᳘र्यं[[!!]] त्रिष्टुब्व᳘ज्रेणै᳘वैत᳘द्वी᳘र्येण य᳘जमानः पुर᳘स्ताद्यज्ञमुखाद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति[[!!]]॥

मूलम् - श्रीधरादि

(स्ते) ते वा᳘ ऽएते᳘॥
व्यामै᳘कादशाः प्रक्रमा᳘ ऽअन्तरा᳘ व्वेद्यन्तं᳘ च गा᳘र्हपत्यं चै᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वी᳘र्यं[[!!]] त्रिष्टुब्व᳘ज्रेणै᳘वैत᳘द्वी᳘र्येण य᳘जमानः पुर᳘स्ताद्यज्ञमुखाद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति[[!!]]॥

मूलम् - Weber

ते वा᳘ एते᳟॥
व्यामै᳘कादशाः प्रक्रमा᳘ अन्तरा᳘ वेद्यन्तं᳘ च गा᳘र्हपत्यं चै᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टुब्व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानः पुर᳘स्ताद्यज्ञमुखाद्र᳘क्षांसि ना᳘ष्ट्रा अ᳘पहन्ति॥

मूलम् - विस्वरम्

ते वा एते व्यामैकादशाः प्रक्रमाः- अन्तरा वेद्यन्तं च गार्हपत्यं च । एकादशाक्षरा त्रिष्टुप् । वज्रस्त्रिष्टुप् । वीर्यं त्रिष्टुप् । वज्रेणैवैतद्वीर्येण यजमानः पुरस्ताद्यज्ञमुखाद्रक्षांसि नाष्ट्रा अपहन्ति ॥ २ ॥

सायणः

पूर्वं गार्हपत्यादारभ्य प्राञ्चः सप्त प्रक्रमाः गार्हपत्याद्भविष्यत आहवनीयस्य पूर्वार्द्धात् प्राञ्चस्त्रयः प्रक्रमास्ते दश व्याम एकादशस्तामेकादशसंख्यामनूद्य त्रिष्टुबात्मना स्तौति- ते वा एते व्यामैकादशाः प्रक्रमा इति । ‘वेद्यन्तं च गार्हपत्यञ्च अन्तरा’ तयोर्मध्ये “अन्तरा ऽन्तरेणयुक्ते”- (पा. सू. २ । ३ । ४) इति द्वितीया । ‘वज्रस्त्रिष्टुब्’ इत्यस्य विवरणं वीर्यं त्रिष्टुबिति । इन्द्रत्रिष्टुभोः सहोत्पन्नत्वात्तस्या वीर्यत्वम् । एवं व्यामैकादशप्रक्रमकरणेन यजमानो वीर्यात्मना ‘वज्रेण’ पूर्वं ‘यज्ञमुखात्’ नाशकानि रक्षांसि विनाशितवान् भवति ॥ २ ॥

Eggeling
  1. Now, there are here, including the fathom (as one), eleven steps 5 between the end of the Vedi and the (original) Gārhapatya;–the Trishṭubh consists

of eleven syllables, and the Trishṭubh is a thunderbolt, and the Trishṭubh means strength: it is thus by the thunderbolt, and by strength, that the Sacrificer from the very first drives off the fiends, the Rakshas, from the mouth of the sacrifice.

०३

विश्वास-प्रस्तुतिः

सैषा व्वे᳘देर्यो᳘निः॥
(रे) एत᳘स्यै वै यो᳘नेर्देवा व्वे᳘दिं प्रा᳘जनयन्न᳘थ य᳘ ऽएष᳘ व्यामः सा गा᳘र्हपत्यस्य यो᳘निरेत᳘स्यै वै यो᳘नेर्देवा गा᳘र्हपत्यं प्रा᳘जनयन्गा᳘र्हपत्यादाहवनी᳘यम्॥

मूलम् - श्रीधरादि

सैषा व्वे᳘देर्यो᳘निः॥
(रे) एत᳘स्यै वै यो᳘नेर्देवा व्वे᳘दिं प्रा᳘जनयन्न᳘थ य᳘ ऽएष᳘ व्यामः सा गा᳘र्हपत्यस्य यो᳘निरेत᳘स्यै वै यो᳘नेर्देवा गा᳘र्हपत्यं प्रा᳘जनयन्गा᳘र्हपत्यादाहवनी᳘यम्॥

मूलम् - Weber

सैषा वे᳘देर्यो᳘निः॥
एत᳘स्यै वै यो᳘नेर्देवा वे᳘दिम् प्रा᳘जनयन्न᳘थ य᳘ एष᳘ व्यामः सा गा᳘र्हपत्यस्य यो᳘निरेत᳘स्यै वै यो᳘नेर्देवा गा᳘र्हपत्यम् प्रा᳘जनयन्गा᳘र्हपत्यादाहवनी᳘यम्॥

मूलम् - विस्वरम्

सैषा वेदेर्योनिः । एतस्यै वै योनेर्देवा वेदिं प्राजनयन् । अथ य एष व्यामः- सा गार्हपत्यस्य योनिः। एतस्यै वै योनेर्देवा गार्हपत्यं प्राजनयन् । गार्हपत्यादाहवनीयम् ॥ ३ ॥

सायणः

व्यामैकादशप्रक्रमकृतां वेदिं महावेदेर्योनित्वेन प्रशंसति- सैषा वेदेर्योनिरिति । ‘एतस्याः’ दशप्रक्रमपरिमिताया वेदेः सकाशान्महावेदिं ‘देवाः’ जनितवन्तः । ‘यो व्यामः’ स ‘गार्हपत्यस्य योनिः’ ‘एतस्या’ व्यामरूपाया योनेर्गार्हपत्यचित्यात्मकमग्निं जनितवन्तः। गार्हपत्यादाहवनीयं महावेदिगतमाहवनीयचित्यात्मकम् ‘अजनयन्’ ॥ ३ ॥

Eggeling
  1. This is the womb of the Vedi, for it was from that womb that the gods begat the Vedi. And that (space of a) fathom which was (marked off), is the womb of the Gārhapatya 6, for it was from that womb that the gods begat the Gārhapatya; and from the Gārhapatya the Āhavanīya.

०४

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स᳘ व्वेद्यन्तात्[[!!]]॥
(त्ष᳘) ष᳘ट्त्रिᳫँ᳭शत्प्रक्रमां प्रा᳘चीं व्वे᳘दिं व्वि᳘मिमीते त्रिᳫँ᳭श᳘तं पश्चा᳘त्तिर᳘श्चीं च᳘तुर्व्वि᳘शतिं पुर᳘स्तात्त᳘न्नवतिः᳘ सैषा᳘नवति᳘प्रक्रमा व्वे᳘दिस्त᳘स्याᳫँ᳭ सप्त᳘विधमग्निं व्वि᳘दधाति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स᳘ व्वेद्यन्तात्[[!!]]॥
(त्ष᳘) ष᳘ट्त्रिᳫँ᳭शत्प्रक्रमां प्रा᳘चीं व्वे᳘दिं व्वि᳘मिमीते त्रिᳫँ᳭श᳘तं पश्चा᳘त्तिर᳘श्चीं च᳘तुर्व्वि᳘शतिं पुर᳘स्तात्त᳘न्नवतिः᳘ सैषा᳘नवति᳘प्रक्रमा व्वे᳘दिस्त᳘स्याᳫँ᳭ सप्त᳘विधमग्निं व्वि᳘दधाति॥

मूलम् - Weber

स᳘ वेद्यन्ता᳘त्॥
ष᳘ट्त्रिंशत्प्रक्रमाम् प्रा᳘चीं वे᳘दिं वि᳘मिमीते त्रिंश᳘तम् पश्चा᳘त्तिर᳘श्चीं च᳘तुर्विंशतिम् पुर᳘स्तात्त᳘न्नवतिःॗ सैषा᳘ नवति᳘प्रक्रमा वे᳘दिस्त᳘स्याᳫं सप्त᳘विधमग्निं वि᳘दधाति॥

मूलम् - विस्वरम्

स वेद्यन्तात्षट्त्रिंशत्प्रक्रमां प्राचीं वेदिं विमिमीते । त्रिंशतं पश्चात्तिरश्चीम् । चतुर्विंशतिं पुरस्तात् । तन्नवतिः । सैषा नवतिप्रक्रमा वेदिः । तस्यां सप्तविधमग्निं विदधाति ॥ ४ ॥

सायणः

महावेदेर्मानं विधत्ते- स वेद्यन्तात्षट्त्रिंशत्प्रक्रमां प्राचीं वेदिमिति । पूर्वोक्तात् ‘वेद्यन्तात्’ प्रागायतां ‘षट्त्रिंशत्संख्याकप्रक्रमपरिमितां’ ‘वेदिम्’ । ‘मिमीते’ ‘पश्चाद्भागे’ ‘तिरश्चीम्’ । दक्षिणोत्तरगतान् ‘त्रिंशतं’ प्रक्रमान् । वेदेः पूर्वभागे दक्षिणोत्तरगतचतुर्विंशतिसंख्याकान् प्रक्रमान् मिमीते प्राञ्चः षट्त्रिंशत्प्रक्रमाः, पश्चिमभागे तिर्यञ्चः त्रिंशत्, ‘पुरस्तात्’ तिर्यञ्चः चतुर्विंशतिः, मिलित्वा ‘नवतिः’ ‘सम्पद्यते’ । ‘तस्यां’ नवतिप्रक्रमपरिमितायां वेद्यां ‘सप्तविधम्’ सप्तपुरुषप्रमाणम् ‘अग्निम्’ ‘विदधाति’ इष्टकाभिः कुर्यात् ॥ ४ ॥

Eggeling
  1. From the (western) end of the Vedi he measures off the Vedi 7 thirty-six steps long eastward, thirty (steps) broad behind, and twenty-four (steps broad) in front,–that makes ninety. This, then, is the Vedi measuring ninety steps: thereon he lays out the sevenfold Fire-altar.

०५

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कथ᳘मेष᳘ सप्त᳘व्विध ऽएत᳘या व्वे᳘द्या स᳘म्पद्यत ऽइ᳘ति द᳘श वा᳘ ऽइमे पु᳘रुषे प्राणा᳘श्चत्वार्य᳘ङ्गान्यात्मा᳘ पञ्चदश᳘ ऽएवं᳘ द्विती᳘य ऽएवं᳘ तृती᳘ये षट्सु पु᳘रुषेषु नवतिरथै᳘कः पु᳘रुषो᳘ ऽत्येति पा᳘ङ्क्तो वै पु᳘रुषो लो᳘म त्व᳘ङ्माᳫँ᳭सम᳘स्थि मज्जा पा᳘ङ्क्तो ऽइयं व्वे᳘दिश्च᳘तस्रो दि᳘श ऽआत्मा᳘ पञ्च᳘म्येव᳘मेष᳘ सप्त᳘विध ऽएत᳘या व्वे᳘द्या स᳘म्पद्यते॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कथ᳘मेष᳘ सप्त᳘व्विध ऽएत᳘या व्वे᳘द्या स᳘म्पद्यत ऽइ᳘ति द᳘श वा᳘ ऽइमे पु᳘रुषे प्राणा᳘श्चत्वार्य᳘ङ्गान्यात्मा᳘ पञ्चदश᳘ ऽएवं᳘ द्विती᳘य ऽएवं᳘ तृती᳘ये षट्सु पु᳘रुषेषु नवतिरथै᳘कः पु᳘रुषो᳘ ऽत्येति पा᳘ङ्क्तो वै पु᳘रुषो लो᳘म त्व᳘ङ्माᳫँ᳭सम᳘स्थि मज्जा पा᳘ङ्क्तो ऽइयं व्वे᳘दिश्च᳘तस्रो दि᳘श ऽआत्मा᳘ पञ्च᳘म्येव᳘मेष᳘ सप्त᳘विध ऽएत᳘या व्वे᳘द्या स᳘म्पद्यते॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मेष᳘ सप्त᳘विध एत᳘या वे᳘द्या स᳘म्पद्यत इ᳘ति द᳘श वा᳘ इमे पु᳘रुषे प्राणा᳘श्चत्वार्य᳘ङ्गान्यात्मा᳘ पञ्चदश᳘ एवं᳘ द्विती᳘य एवं᳘ तृती᳘ये षट्सु पु᳘रुषेषु नवतिरथै᳘कः पु᳘रुषो᳘ऽत्येति पा᳘ङ्क्तो वै पु᳘रुषो लो᳘म त्व᳘ङ्मांसम᳘स्थि मज्जा पा᳘ङ्क्तो इयं वे᳘दिश्च᳘तस्रो दि᳘श आत्मा᳘ पञ्चॗम्येव᳘मेष᳘ सप्त᳘विध एत᳘या वे᳘द्या स᳘म्पद्यते॥

मूलम् - विस्वरम्

तदाहुः- कथमेष सप्तविध एतया वेद्या सम्पद्यत इति । दश वा इमे पुरुषे प्राणाः, चत्वार्यङ्गानि, आत्मा पञ्चदशः । एवं द्वितीये । एवं तृतीये । षट्सु पुरुषेषु नवतिः । अथैकः पुरुषो ऽत्येति । पाङ्क्तो वै पुरुषः- लोम, त्वग्, मांसम्, अस्थि, मज्जा । पाङ्क्ता उ इयं वेदिः- चतस्रो दिशः, आत्मा पञ्चमी । एवमेष सप्तविध एतया वेद्या संपद्यते ॥ ५ ॥

सायणः

नवतिप्रक्रमवेदेः सप्तविधाग्नेश्च सङ्ख्यासम्पत्तिं वेदवादिविचारमुखेन दर्शयति- तदाहुः कथमेष सप्तविध एतया वेद्या सम्पद्यत इति । एकस्मिन् पुरुषे सप्त शीर्षण्याः, द्वाववाञ्चौ, नाभिर्दशमी, ‘चत्वार्यङ्गानि’, बाहुद्वयम्, पादद्वयम्, ‘आत्मा’ मध्यदेहः पञ्चदशसङ्ख्यापूरक इति पञ्चदशसङ्ख्या ऽस्ति । एवं द्वितीयतृतीयादिषु । एवं ‘षट्सु पुरुषेषु’ नवतिसंख्या सम्पद्यते । अथ ‘एकः’ ‘पुरुषो ऽत्येति’ नवतिसङ्ख्यायाः अतिरिक्तो भवति । तस्यापि वेदिसङ्ख्यायाः सम्पत्तिरुच्यते- पाङ्क्तो वै पुरुष इति । ‘पुरुषः पाङ्क्तः’ पञ्चसङ्ख्यायुक्तः । पंक्तिः पंचपदेति पांक्तवचनेन पंचसंख्यायोग इति । ‘लोम त्वङ्मांसमस्थि मज्जा’ इति पुरुषे पञ्च विद्यन्ते । वेदिरपि पाङ्क्ता पञ्चसङ्ख्यायुक्तैव, वेदेः ‘चतस्रो दिशः’ पूर्वोत्तरे दक्षिणोत्तरे इति चतुःसङ्ख्या, ‘आत्मा’ वेदिः स्वयमेव ‘पञ्चमी,’ अतो नवतिप्रक्रमायाः महावेदेः सङ्ख्यया सप्तपुरुषविधो ऽग्निः सम्पन्नो भवति ॥ ५ ॥

Eggeling
  1. As to this they say, ‘How does this sevenfold (Person, the fire-altar,) correspond to this Vedi (measuring ninety steps)?’ Well, there are these

ten vital airs in a man 8, four limbs, and the trunk as the fifteenth; in the same way in the second, and in the same way in the third (man),–in six men this makes ninety; and one man remains over. Now, (that seventh) man is fivefold–hair, skin, flesh, bone, and marrow (fat), and this Vedi also is fivefold–the four regions (quarters), and the body (of the altar) as the fifth 9: thus this sevenfold (altar) does indeed correspond to this Vedi.

०६

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
(क ऽ) उ᳘त्तरा व्विधा᳘ व्विधास्य᳘न्त ऽएतां᳘श्च प्रक्रमा᳘नेतं᳘ च व्यामम᳘नुवर्धयन्ति यो᳘निम᳘नुवर्धयाम ऽइ᳘ति न त᳘था कुर्यान्न वै᳘ जातं ग᳘र्भं यो᳘निर᳘नुवर्धते या᳘वद्वाव यो᳘नावन्तर्ग᳘र्भो भ᳘वति ता᳘वदेव यो᳘निर्वर्धत ऽएता᳘वत्यु वा ऽअ᳘त्र ग᳘र्भस्य व्वृ᳘द्धिः॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
(क ऽ) उ᳘त्तरा व्विधा᳘ व्विधास्य᳘न्त ऽएतां᳘श्च प्रक्रमा᳘नेतं᳘ च व्यामम᳘नुवर्धयन्ति यो᳘निम᳘नुवर्धयाम ऽइ᳘ति न त᳘था कुर्यान्न वै᳘ जातं ग᳘र्भं यो᳘निर᳘नुवर्धते या᳘वद्वाव यो᳘नावन्तर्ग᳘र्भो भ᳘वति ता᳘वदेव यो᳘निर्वर्धत ऽएता᳘वत्यु वा ऽअ᳘त्र ग᳘र्भस्य व्वृ᳘द्धिः॥

मूलम् - Weber

तद्धै᳘के॥
उ᳘त्तरा विधा᳘ विधास्य᳘न्त एतां᳘श्च प्रक्रमा᳘नेतं᳘ च व्यामम᳘नुवर्धयन्ति यो᳘निम᳘नुवर्धयाम इ᳘ति न त᳘था कुर्यान्न वै᳘ जातं ग᳘र्भं यो᳘निर᳘नुवर्धते या᳘वद्वाव यो᳘नावन्तर्ग᳘र्भो भ᳘वति ता᳘वदेव यो᳘निर्वर्धत एता᳘वत्यु वा अ᳘त्र ग᳘र्भस्य वृ᳘द्धिः॥

मूलम् - विस्वरम्

तद्धैके- उत्तरा विधा विधास्यन्त एतांश्च प्रक्रमान्, एतं च व्याममनुवर्धयन्ति-योनिमनुवर्धयाम इति । न तथा कुर्यात् । न वै जातं गर्भं योनिरनुवर्धते । यावद्वाव योनावन्तर्गर्भो भवति । तावदेव योनिर्वर्धते । एतावत्यु वा अत्र गर्भस्य वृद्धिः ॥ ६ ॥

सायणः

अथ यथा सप्तविधस्य प्राकृताग्नेर्व्यामैकादशाः प्रक्रमाः एवमष्टविधनवविधादिपुरुषप्रमाणानामेकशतविधपर्यन्तानामग्नीनां व्यामैकादशप्रक्रमा प्राकृती वेदिः किं पुरुषसङ्ख्यया वर्द्धयितव्या आहोस्विन्न वेति संशयं व्युदसितुं पूर्वपक्षयति- तद्धैक उत्तरा विधा विधास्यन्त इति । ‘उत्तरा विधाः’ अष्टविधाद्येकशतपर्यन्तानग्निप्रकारान् ‘विधास्यन्तः’ करिष्यन्तः, एतान् ‘प्रक्रमान्’ गार्हपत्यात् प्राचः सप्त, आहवनीयपूर्वार्द्धात् प्राचस्त्रीन्, आहवनीयक्लृप्तमेकं ‘व्यामम्’ ‘च’ अनुवर्द्धयन्ति । तत्र हेतुः- योनिमनुवर्धयाम इतीति । अष्टविधाद्यग्निमहावेदीनां योनिभूतवेदिवृद्धिं विना वृद्धिः कर्तुं न युक्तेत्यतो हेतोः ‘योनिं वर्द्धयाम’ इति वदन्त एके आचार्या योनिभूतवेदिं पुरुषसङ्ख्यया वर्द्धयन्तीति पूर्वः पक्षः । तं पक्षं दूषयति- न तथा कुर्यादिति । हेतुमाह- न वै जातं गर्भमिति । लोके उत्पन्नं गर्भमनुलक्ष्य योनिर्न वर्द्धते किन्तु ‘गर्भो’ वर्धमानो यावान् ‘भवति’ तावती ‘योनिर्वर्धते’ गर्भं स्वतो ऽपसारयितुम् । तर्हि तदा गर्भो ऽपि योनौ वर्धमानो बहुधा वर्धतामित्याशंक्याह- एतावत्यु वा अत्र गर्भस्य वृद्धिरिति । अनेनैतदुक्तं भवति । अग्निः ‘गर्भः’ स हि सप्तपुरुषप्रमाण एव प्राकृते ऽष्टविधादीनामपि भवति । जातस्यैव तस्याष्टविधादिरूपेण वृद्धिः । अतस्तस्य योनिभूता वेदिर्व्यामैकादशप्रक्रममात्रैव । अत उत्तरासु विधास्वपि गर्भस्यैकरूपेण तद्वृद्ध्यभावाद्योनिर्न वर्धते अत उत्तरेष्वग्निषु योनिभूता वेदिर्न वर्द्धयितव्येति तात्पर्यम् ॥ ६ ॥

Eggeling
  1. Now, some, intending to construct higher forms (of altars), increase (the number of) these steps and this fathom accordingly, saying, ‘We enlarge the womb in accordance therewith;’–but let him not do so; for the womb does not enlarge along with the child that has been born 10, but, indeed, only as long as the child is within the womb, does the womb enlarge, and so long, indeed, the growth of the (unborn) child here (lasts) 11.

०७

विश्वास-प्रस्तुतिः

(स्ते) ते ये᳘ ह त᳘था कुर्व्वन्ति॥
(न्त्ये) एत᳘ᳫँ᳘ ह ते᳘ पित᳘रं प्रजा᳘पतिᳫँ᳭ सम्प᳘दश्च्यावयन्ति त᳘ ऽइष्ट्वा पा᳘पीयाᳫँ᳭सो भवन्ति पित᳘रᳫँ᳭ हि᳘ प्रजा᳘पतिᳫँ᳭ सम्प᳘दश्च्याव᳘यन्ति सा या᳘वत्येषा᳘ सप्त᳘विधस्य व्वे᳘दिस्ता᳘वतीं च᳘तुर्दश कृ᳘त्व ऽए᳘कशतविधस्य व्वे᳘दिं व्वि᳘मिमीते᳘॥

मूलम् - श्रीधरादि

(स्ते) ते ये᳘ ह त᳘था कुर्व्वन्ति॥
(न्त्ये) एत᳘ᳫँ᳘ ह ते᳘ पित᳘रं प्रजा᳘पतिᳫँ᳭ सम्प᳘दश्च्यावयन्ति त᳘ ऽइष्ट्वा पा᳘पीयाᳫँ᳭सो भवन्ति पित᳘रᳫँ᳭ हि᳘ प्रजा᳘पतिᳫँ᳭ सम्प᳘दश्च्याव᳘यन्ति सा या᳘वत्येषा᳘ सप्त᳘विधस्य व्वे᳘दिस्ता᳘वतीं च᳘तुर्दश कृ᳘त्व ऽए᳘कशतविधस्य व्वे᳘दिं व्वि᳘मिमीते᳘॥

मूलम् - Weber

ते ये᳘ ह त᳘था कुर्व᳘न्ति॥
एत᳘ᳫं᳘ ह ते᳘ पित᳘रम् प्रजा᳘पतिᳫं सम्प᳘दश्च्यावयन्ति त᳘ इष्ट्वा पा᳘पीयांसो भवन्ति पित᳘रᳫं हि᳘ प्रजा᳘पतिᳫं सम्प᳘दश्च्याव᳘यन्ति सा या᳘वत्येषा᳘ सप्त᳘विधस्य वे᳘दिस्ता᳘वतीं च᳘तुर्दश कृ᳘त्व ए᳘कशतविधस्य वे᳘दिं वि᳘मिमीते॥

मूलम् - विस्वरम्

ते ये ह तथा कुर्वन्ति । एतं ह ते पितरं प्रजापतिं सम्पदश्च्यावयन्ति । त इष्ट्वा पापीयांसो भवन्ति- पितरं हि प्रजापतिं सम्पदश्च्यावयन्ति । सा यावत्येषा सप्तविधस्य वेदिः- तावतीं चतुर्दशकृत्व एकशतविधस्य वेदिं विमिमीते ॥ ७ ॥

सायणः

व्यतिरेकमुखेनाह- ते ये ह तथा कुर्वन्तीति । ‘ये’ ‘तथा कुर्वन्ति’ वेदिं वर्द्धयेयुः ‘ते’ ‘एतम्’ ‘पितरं प्रजापतिं’ ‘सम्पदः’ “एकादशाक्षरा त्रिष्टुब्” इति सङ्ख्यासम्पत्तेः सकाशात् ‘च्यावयन्ति’ अपगमयन्ति । ‘ते’ एवम् ‘इष्ट्वा’ । वेदिवर्द्धनेन यागं कृत्वा पापिष्ठा ‘भवन्ति’- प्रजापतेः सम्पत्तिसकाशात् च्यावनात् । सूत्र्यते हि- “नान्तःपात्यगार्हपत्ययोर्विवृद्धिस्तावदेव योनिर्भवति न वै जातं गर्भं योनिरनुवर्द्धत इति श्रुतेर्वृद्धेरत्यंतप्रतिषेध इति” (का. श्रौ. सू. शुल्बपरिशिष्टं । ६ । ६) तस्मादष्टविधाद्येकशतविधान्तासु विकृतिषु प्राग्वंशगता वेदिर्गार्हपत्यचितिश्च प्रकृतिभूतसप्तविधैकपरिमाणैव कार्या । अग्निक्षेत्रं महावेदिरिष्टका इत्येतत्सर्वमुत्तरोत्तरं वर्द्धते । तद्वृद्धिप्रकारः सूत्रे दर्शितः- “उत्तरेषु पुरुषोच्चयेनैकशतविधादित्येतद्वक्ष्यामः” । “आद्यो ऽग्निर्द्विगुणस्त्रिगुणो भवतीति सर्वसमासः । एकविँ शतिविधो भवतीति पुरुषाभ्यासः" । “पुरुषाभ्यासे यावानग्निः सपक्षपुच्छविशेषस्तावत्समचतुरस्रं कृत्वा तस्मिन् पुरुषप्रमाणमवदध्यात्” । “समस्तं पञ्चदशभागान् कृत्वाद्वावेकसमासेन समस्येत् स पुरुषः” (का. श्रौ. सू. शुल्बपरिशिष्टे । ५ । १-५) इति । अयमर्थः- आद्यो ऽग्निः सार्द्धसप्तपुरुषप्रमाणस्तमग्निं चतुरस्रीकृत्य द्विकरणीसमासेन समस्येत् । त्रिगुणो ऽप्येवं त्रिकरणीसमासेनेति विशेषः । उभयत्राग्निमानाय द्विपुरुषा रज्जुरुपादयितव्या । एवं मानं कुर्वन्नष्टविधादिषु सप्तविधक्षेत्राधिक्येनोत्तरोत्तरमेकैकपुरुषपरिमितक्षेत्रमभ्यस्येत् । अभ्यस्तपुरुषपरिमितक्षेत्रसञ्ज्ञितस्य प्राकृतस्याग्निक्षेत्रस्य पञ्चदशधा भक्तस्य भागद्वय एकः पुरुषस्तेन पुरुषेणाष्टविधादिष्वग्निक्षेत्रमानं कर्त्तव्यम्, तच्च वेदिवृद्धिमन्तरेण न घटत इति तद्वृद्धिप्रकारो ऽप्युक्तः सूत्रे- “यथा ऽग्निवेदीष्टकाप्रमाणं विवर्द्धत इत्येतद् वक्ष्यामः”- (शु. सू. कं. ५ । १ ।) इति प्रक्रम्य “प्रक्रमेण वा सप्तमभागेन” (प्रक्रमार्थः) 12 “आ एकशतविधात्”- (शु. सू. कं. ५ । ४-५ ।) इत्यन्तेनाष्टविधादिषु प्राकृते प्रक्रमे एकैकं प्रक्रमसप्तमांशमधिकं प्रक्षिप्य तत्तदधिकसहितेन प्रक्रमेण षट्त्रिंशत्प्रक्रमां प्राचीमित्युक्तप्रकारेण वेदिमाने तत्तदग्निक्षेत्रपर्याप्ता महावेदिरपि वर्द्धते । एतत्सर्वं न्यायसिद्धमिति कृत्वा चाद्यन्तभूतयोः सप्तविधैकशतविधयोरेवाग्निवेदिमानमुक्तम् । तत्रैकशतविधे त्रिभिः प्रक्रमसप्तमांशैः सहिताश्चतुर्दशप्रक्रमाः सम्भूयैकः प्रक्रमस्तेन वेदिमानं कर्त्तव्यम् । तदिदं सप्तविधप्राकृताग्निवेदेरावृत्तिविशेषणं विधत्ते- सा यावत्येषा सप्तविधस्य वेदिस्तावतीं चतुर्दशकृत्व एकशतविधस्य वदिं विमिमीत इति। सप्तपुरुषाश्चतुर्दशभिर्गुणनेनाष्टानवतिः सम्पद्यन्ते। अत्र त्रिपुरुषप्रमाणयोजनेन एकशतविधो ऽग्निरुत्पाद्यत इति ॥ ७ ॥

Eggeling
  1. Indeed, those who do it in that way, deprive this Father Prajāpati of his due proportions; and they will become the worse for sacrificing, for they deprive Father Prajāpati of his due proportions.

As large as this Vedi 13 of the sevenfold (fire-altar) is, fourteen times as large he measures out the Vedi of the one hundred and one-fold (altar).

०८

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ ष᳘ट्त्रिᳫँ᳭शत्प्रक्रमाᳫँ᳭ र᳘ज्जुं मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्प्रा᳘च ऽउपद᳘धाति निः᳘सृजति चतुरः[[!!]]॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ ष᳘ट्त्रिᳫँ᳭शत्प्रक्रमाᳫँ᳭ र᳘ज्जुं मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्प्रा᳘च ऽउपद᳘धाति निः᳘सृजति चतुरः[[!!]]॥

मूलम् - Weber

अ᳘थ ष᳘ट्त्रिंशत्प्रक्रमां र᳘ज्जुम् मिमीते॥
ता᳘ᳫं᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्प्रा᳘च उपद᳘धाति निः᳘सृजति चतु᳘रः॥

मूलम् - विस्वरम्

अथ षट्त्रिंशत्प्रक्रमां रज्जुं मिमीते । तां सप्तधा समस्यति । तस्यै त्रीन्भागान्प्राच उपदधाति । निःसृजति चतुरः ॥ ८ ॥

सायणः

अथ अग्निमानं वक्ष्यते । सर्वेषां सप्तविधाद्यकशतपर्यन्तानामग्नीनामिष्टकोपधानप्रदेश एतावान् महावेदिषु भवतीति सङ्ग्रहतो दर्शयति- अथ षट्त्रिंशत्प्रक्रमां 14 रज्जुमिति । प्रथमं वेद्यन्तात् प्रागायतषट्त्रिंशत्प्रक्रमां ‘रज्जुम्’ मित्वा ‘ताम्’ सप्तधा विभज्य ‘तस्याः’ रज्ज्वाः सप्तसु भागेषु मध्ये ‘प्राचस्त्रीन् भागान्’ ‘उपदधाति’ इष्टकाभिरुपदध्यात् । अवशिष्टान् ‘चतुरो’ भागान् ‘निःसृजति’ उपधानार्थं न विनियुञ्जीत किन्तु हविर्धानसदःप्रभृत्यर्थं परित्यजेदित्यर्थः ॥ ८ ॥

इत्येषा टिप्पणिरत्र काशीस्थ कै. पं. गौरीनाथ दीक्षित जावजीभट्ट इत्येतेषामानीतादर्शपुस्तके वर्तते ॥

Eggeling
  1. He now measures off a cord thirty-six steps 15 (yards) long, and folds it up into seven (equal) parts: of this he covers (the . space of) the three front (eastern) parts (with bricks), and leaves four (parts) 16 free.

०९

विश्वास-प्रस्तुतिः

(रो᳘ ऽथ) अ᳘थ त्रिᳫँ᳭श᳘त्प्रक्रमा मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागा᳘न्पश्चा᳘दुपद᳘धाति निः᳘सृजति चतुरः[[!!]]॥

मूलम् - श्रीधरादि

(रो᳘ ऽथ) अ᳘थ त्रिᳫँ᳭श᳘त्प्रक्रमा मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागा᳘न्पश्चा᳘दुपद᳘धाति निः᳘सृजति चतुरः[[!!]]॥

मूलम् - Weber

अ᳘थ त्रिंश᳘त्प्रक्रमाम् मिमीते॥
ता᳘ᳫं᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागा᳘न्पश्चा᳘दुपद᳘धाति निः᳘सृजति चतु᳘रः॥

मूलम् - विस्वरम्

अथ त्रिंशत्प्रक्रमां मिमीते । तां सप्तधा समस्यति । तस्यै त्रीन् भागान्पश्चादुपदधाति । निःसृजति चतुरः ॥ ९ ॥

सायणः

एवं त्रिंशत्प्रक्रमायां चतुर्विंशतिप्रक्रमायां रज्ज्वां च सप्तधा विभक्तायामभितो द्वौ द्वौ भागौ विहाय मध्ये भागत्रयपरिग्रहेणाग्निक्षेत्रस्य पश्चात् पुरस्तात्तिर्यग्विस्तार उक्तो भवति । अग्निविषयं वेदिमानमुपसंहरति- इति मु वेदिविमानमिति । ‘इति’ एवं सप्तविधैकशतविधयोः वेद्योर्मानमित्युक्तम् ॥ ९ ॥ १० ॥

Eggeling
  1. He then measures (a cord) thirty steps long, and lays it sevenfold: of this he covers three parts (with bricks) behind, and leaves four (parts) free 17.

१०

विश्वास-प्रस्तुतिः

(रो᳘ ऽथ) अ᳘थ च᳘तुर्व्विᳫँ᳭शतिप्रक्रमां मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागा᳘न्पुर᳘स्तादुपद᳘धाति निः᳘सृजति चतु᳘र ऽइ᳘ति नु[[!!]] व्वेदिविमानम्[[!!]]॥

मूलम् - श्रीधरादि

(रो᳘ ऽथ) अ᳘थ च᳘तुर्व्विᳫँ᳭शतिप्रक्रमां मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागा᳘न्पुर᳘स्तादुपद᳘धाति निः᳘सृजति चतु᳘र ऽइ᳘ति नु[[!!]] व्वेदिविमानम्[[!!]]॥

मूलम् - Weber

अ᳘थ च᳘तुर्विंशतिप्रक्रमाम् मिमीते॥
ता᳘ᳫं᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागा᳘न्पुर᳘स्तादुपद᳘धाति निः᳘सृजति चतु᳘र इ᳘ति नु᳘ वेदिविमान᳘म्॥

मूलम् - विस्वरम्

अथ चतुर्विंशतिप्रक्रमां मिमीते । तां सप्तधा समस्यति । तस्यै त्रीन्भागान्पुरस्तादुपदधाति । निःसृजति चतुरः । इति नु वेदिविमानम् ॥ १० ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He then measures (a cord) twenty-four steps long, and lays it sevenfold: of this he covers three parts in front (with bricks), and leaves four (parts) free 18. This, then, is the measuring out of the Vedi.

११

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाग्ने᳘र्विधाः᳘॥
(ऽ) अष्टा᳘विᳫँ᳭शतिः प्रा᳘ञ्चः पु᳘रुषा ऽअष्टा᳘विᳫँ᳭शतिस्तिर्य᳘ञ्चः स᳘ ऽआत्मा च᳘तुर्दश पु᳘रुषा द᳘क्षिणः पक्षश्च᳘तुर्दशो᳘त्तरश्च᳘तुर्दश पु᳘च्छं च᳘तुर्दशारत्नीन्द᳘क्षिणे पक्ष᳘ ऽउपद᳘धाति च᳘तुर्दशो᳘त्तरे च᳘तुर्दश व्वि᳘तस्तीः पु᳘च्छ ऽइ᳘ति᳘ न्वष्टा᳘नवतेः[[!!]] पु᳘रुषाणां मा᳘त्रा सा᳘धिमानानाम्॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाग्ने᳘र्विधाः᳘॥
(ऽ) अष्टा᳘विᳫँ᳭शतिः प्रा᳘ञ्चः पु᳘रुषा ऽअष्टा᳘विᳫँ᳭शतिस्तिर्य᳘ञ्चः स᳘ ऽआत्मा च᳘तुर्दश पु᳘रुषा द᳘क्षिणः पक्षश्च᳘तुर्दशो᳘त्तरश्च᳘तुर्दश पु᳘च्छं च᳘तुर्दशारत्नीन्द᳘क्षिणे पक्ष᳘ ऽउपद᳘धाति च᳘तुर्दशो᳘त्तरे च᳘तुर्दश व्वि᳘तस्तीः पु᳘च्छ ऽइ᳘ति᳘ न्वष्टा᳘नवतेः[[!!]] पु᳘रुषाणां मा᳘त्रा सा᳘धिमानानाम्॥

मूलम् - Weber

अ᳘थाग्ने᳘र्विधाः᳟॥
अष्टा᳘विंशतिः प्रा᳘ञ्चः पु᳘रुषा अष्टा᳘विंशतिस्तिर्य᳘ञ्चः स᳘ आत्मा च᳘तुर्दश पु᳘रुषा द᳘क्षिणः पक्षश्च᳘तुर्दशो᳘त्तरश्च᳘तुर्दश पु᳘छं च᳘तुर्दशारत्नीन्द᳘क्षिणे पक्ष᳘ उपद᳘धाति च᳘तुर्दशो᳘त्तरे च᳘तुर्दश वि᳘तस्तीः पु᳘छ इ᳘ति न्व᳘ष्टा᳘नवतेः पु᳘रुषाणाम् मा᳘त्रा सा᳘धिमानानाम्॥

मूलम् - विस्वरम्

अथाग्नेर्विधाः- अष्टाविंशतिः प्राञ्चः पुरुषाः । अष्टाविंशतिस्तिर्यञ्चः- स आत्मा । चतुर्दश पुरुषा दक्षिणः पक्षः । चतुर्दशोत्तरः । चतुर्दश पुच्छम् । चतुर्दशारत्नीन् दक्षिँणे पक्ष उपदधाति । चतुर्दशोत्तरे । चतुर्दश वितस्तीः पुच्छे । इति न्वष्टानवतेः पुरुषाणां मात्रा साधिमानानाम् ॥ ११ ॥

सायणः

अथ चित्याग्नेः प्रकारान् प्रतिजानीते- अथाग्नेर्विधा इति । ‘विधा’ प्रकारा उच्यन्त इति शेषः । तत्राष्टानवतिपुरुषप्रमाणस्याग्नेरेतावदात्मपक्षपुच्छप्रमाणमिति दर्शयति- अष्टाविंशतिः प्राञ्चः पुरुषा इति । सप्तपुरुषाणां चतुर्दशकृत्व आवर्त्तने ऽष्टानवतिः । तत्र ‘अष्टाविंशतिः’ ‘प्राञ्चः पुरुषाः,’ तावन्तः ‘तिर्यञ्चः,’ उभये ‘आत्मा’ अष्टानवतेरग्नेर्मध्यदेहो भवति । पक्षपुच्छानि प्रत्येकं चतुर्दशपुरुषपरिमितानि । पूर्वं सप्तविधे पक्षयोरुपहितारत्न्योश्चतुर्दशगुणने चतुर्दशारत्नयः उभयोः पक्षयोर्भवन्ति । वितस्तयो ऽपि तथा पुच्छे भवन्ति । उक्तं प्रमाणमग्निविशेषस्येत्याह- इति न्वष्टानवतेः पुरुषाणामिति । ‘इति’ एवं ‘साधिमानानाम्’ पक्षपुच्छेष्वाधिक्येन निक्षिप्तारत्निवितस्तिप्रमाणसहितानां ‘पुरुषाणां’ ‘मात्रा’ ‘अष्टानवतेः’ अग्नेरुक्तेत्यर्थः ॥ ११ ॥

Eggeling
  1. Now as to the (other) forms of the fire-altar. Twenty-eight man’s lengths long (from west to east) and twenty-eight man’s lengths across is the body (of the altar), fourteen man’s lengths the right, and fourteen the left wing, and fourteen the tail. Fourteen cubits (aratni) he covers (with bricks) on the right, and fourteen on the left wing, and fourteen spans (vitasti) on the tail. Such is the measure of (an altar of) ninety-eight man’s lengths with the additional space (for wings and tail).

१२

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ त्रिपुरुषाᳫँ᳭ र᳘ज्जुं मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै चतु᳘रो भागा᳘नात्म᳘न्नुपद᳘धाति त्री᳘न्पक्षपुच्छेषु᳘[[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ त्रिपुरुषाᳫँ᳭ र᳘ज्जुं मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै चतु᳘रो भागा᳘नात्म᳘न्नुपद᳘धाति त्री᳘न्पक्षपुच्छेषु᳘[[!!]]॥

मूलम् - Weber

अ᳘थ त्रिपुरुषां र᳘ज्जुम् मिमीते॥
ता᳘ᳫं᳘ सप्तधा स᳘मस्यति त᳘स्यै चतु᳘रो भागा᳘नात्म᳘न्नुपद᳘धाति त्री᳘न्पक्षपुछे᳘षु॥

मूलम् - विस्वरम्

अथ त्रिपुरुषां रज्जुं मिमीते- तां सप्तधा समस्यति । तस्यै चतुरो भागानात्मन्नुपदधाति । त्रीन्पक्षपुच्छेषु ॥ १२ ॥

सायणः

अथैकशतविधाग्नेः प्रकारं दर्शयति- अथ 19 त्रिपुरुषां रज्जुं मिमीत इति । पूर्वमुक्ताया अष्टानवतेरुपरि त्रिपुरुषसम्मितां ‘रज्जुम्’ ‘मिमीते’ पुरुषत्रयप्रमाणस्यैकत्र पक्षे पुच्छे चात्मनि योजने पक्षिरूपो ऽग्निः समो न भवति- इत्याशङ्क्य योजनस्थानं विभज्याह- तां सप्तधा समस्यतीति । तस्या रज्ज्वाः ‘चतुरो’ ‘भागान्’ आत्मनि मध्यभागे ‘उपदधाति’ त्रीन् भागान् पक्षपुच्छेषु ॥ १२ ॥

Eggeling
  1. He now measures a cord of three man’s lengths, and lays it sevenfold: of this he covers (the space of) four parts (with bricks) on the body (of the altar), and three parts on the wings and tail.

१३

विश्वास-प्रस्तुतिः

(ष्व᳘) अ᳘थारत्निमात्रीं᳘ मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्द᳘क्षिणे पक्ष᳘ ऽउपद᳘धाति त्री᳘नेवो᳘त्तरे निः᳘सृजति चतुरः[[!!]]॥

मूलम् - श्रीधरादि

(ष्व᳘) अ᳘थारत्निमात्रीं᳘ मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्द᳘क्षिणे पक्ष᳘ ऽउपद᳘धाति त्री᳘नेवो᳘त्तरे निः᳘सृजति चतुरः[[!!]]॥

मूलम् - Weber

अ᳘थारत्निमात्री᳘म् मिमीते॥
ता᳘ᳫं᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्द᳘क्षिणे पक्ष᳘ उपद᳘धाति त्री᳘नेवो᳘त्तरे निः᳘सृजति चतु᳘रः॥

मूलम् - विस्वरम्

अथारत्निमात्रीं मिमीते । तां सप्तधा समस्यति । तस्यै त्रीन्भागान्दक्षिणे पक्ष उपदधाति, त्रीनेवोत्तरे । निःसृजति चतुरः ॥ १३ ॥

सायणः

एवमेकशतपुरुषप्रमाणं मध्यपक्षपुच्छेषु दर्शयित्वा प्राकृताग्निवत्पक्षपुच्छेष्वधिकं योजनीयं प्रमाणमाह- अथारत्निमात्रीमिति । ‘अरत्निमात्रीम्’ रज्जुं मित्वा ‘ताम्’ ‘सप्तधा’ विभज्य ‘त्रीन् भागान् दक्षिणे पक्ष उपदधाति’ एवमुत्तरे पक्षे । अवशिष्टान् ‘चतुरो भागान्’ निःसृजेत् ॥ १३ ॥

Eggeling
  1. He then measures one three cubits long, and lays it sevenfold: of this he covers (the space of) three parts on the right, and three on the left wing, and leaves four (parts) free.

१४

विश्वास-प्रस्तुतिः

(रो᳘ ऽथ) अ᳘थ व्वितस्तिमात्रीं᳘ मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्पु᳘च्छ ऽउपद᳘धाति निः᳘सृजति चतु᳘र ऽएव᳘मेष ऽए᳘कशतविध ऽएत᳘या व्वे᳘द्या स᳘म्पद्यते॥

मूलम् - श्रीधरादि

(रो᳘ ऽथ) अ᳘थ व्वितस्तिमात्रीं᳘ मिमीते॥
ता᳘ᳫँ᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्पु᳘च्छ ऽउपद᳘धाति निः᳘सृजति चतु᳘र ऽएव᳘मेष ऽए᳘कशतविध ऽएत᳘या व्वे᳘द्या स᳘म्पद्यते॥

मूलम् - Weber

अ᳘थ वितस्तिमात्री᳘म् मिमीते॥
ता᳘ᳫं᳘ सप्तधा स᳘मस्यति त᳘स्यै त्री᳘न्भागान्पु᳘छ उपद᳘धाति निः᳘सृजति चतु᳘र एव᳘मेष ए᳘कशतविध एत᳘या वेद्या स᳘म्पद्यते॥

मूलम् - विस्वरम्

अथ वितस्तिमात्रीं मिमीते- तां सप्तधा समस्यति । तस्यै त्रीन्भागान्पुच्छ उपदधाति । निःसृजति चतुरः । एवमेष एकशतविध एतया वेद्या सम्पद्यते ॥ १४ ॥

सायणः

पुच्छे ऽपि वितस्तिमात्रीं रज्जुं मित्वा तां पूर्ववद्विभज्य कुर्यात् 19 । एकस्यैकशतपुरुषप्रमाणस्याग्नेर्नवतिप्रक्रमाया वेद्याः संख्यासम्पत्तिं दर्शयति- एवमेष इति । ‘एषः’ एकशतविधः ‘एतया वेद्या सम्पद्यते’ इति सम्पत्तिः । एवं प्रतिपुरुषं दश प्राणाः- चत्वार्यङ्गानि, आत्मा पञ्चदश इति पञ्चदशसंख्या ऽस्ति । एवं षट्सु पुरुषेषु नवतिः, सप्तमस्य पुरुषस्य वेदिश्चतुर्दिगात्मभिः पञ्चभिः लोमत्वङ्मांसास्थिमज्जाभिश्च संख्यासाम्यात् सप्तविधवेदिसंख्या सम्पद्यते । एवमेकशतविधे प्रथमसप्तविधव्यतिरिक्तेषु त्रयोदशसु पर्यायेषु संख्यासम्पत्तिर्द्रष्टव्या ॥ १४ ॥

Eggeling
  1. He then measures one a span long, and lays it sevenfold: of this he covers (the space of) three parts on the tail, and leaves four (parts) free. In this way does this one hundred and one-fold (Agni) correspond to this Vedi.

१५

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य) यत्त्र᳘योदश पु᳘रुषा ऽअतिय᳘न्ति कथ᳘मेते᳘ सम्प᳘दो न᳘ च्यवन्त ऽइ᳘ति या वा᳘ ऽएत᳘स्य सप्तम᳘स्य पु᳘रुषस्य सम्प᳘त्सै᳘वैते᳘षाᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ सम्पत्[[!!]]॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य) यत्त्र᳘योदश पु᳘रुषा ऽअतिय᳘न्ति कथ᳘मेते᳘ सम्प᳘दो न᳘ च्यवन्त ऽइ᳘ति या वा᳘ ऽएत᳘स्य सप्तम᳘स्य पु᳘रुषस्य सम्प᳘त्सै᳘वैते᳘षाᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ सम्पत्[[!!]]॥

मूलम् - Weber

त᳘दाहुः॥
यत्त्र᳘योदश पु᳘रुषा अतिय᳘न्ति कथ᳘मेते᳘ सम्प᳘दो न᳘ च्यवन्त इ᳘ति या वा᳘ एत᳘स्य सप्तम᳘स्य पु᳘रुषस्य सम्पॗत्सैॗवैते᳘षाᳫं स᳘र्वेषाᳫं सम्प᳘त्॥

मूलम् - विस्वरम्

तदाहुः- यत् त्रयोदश पुरुषा अतियन्ति- कथमेते सम्पदो न च्यवन्त इति । या वा एतस्य सप्तमस्य पुरुषस्य सम्पत्- सैवैतेषां सर्वेषां सम्पत् ॥ १५ ॥

सायणः

अस्तु प्रतिपुरुषं पञ्चदशसंख्यया षट्सु षट्सु पुरुषेषु नवतिसंख्यासम्पत्तिः न त्वधिकेषु त्रयोदशपर्यायाणामन्तिमेषु त्रयोदशसु पुरुषेषु, इति वेदवादिविचारमुद्भाव्य तत्रापि पूर्ववत्सप्तमपुरुषस्य वेदिगतपञ्चसंख्ययैव सम्पत्तिं दर्शयति- तदाहुर्यत्त्रयोदश पुरुषा अतियन्तीति । ‘एते’ त्रयोदशपुरुषाः ‘कथं सम्पदो’ वेदिगतसंख्यासम्पत्तेः ‘न च्यवन्ते ?’- च्यवन्त एवेति प्रश्नः । उत्तरम्- या वा एतस्येति । सप्तमस्य पुरुषस्येति । प्राकृतसप्तविधे सप्तमस्य या संख्यासम्पत्तिरुक्ता । यथा- “अथैकः पुरुषो ऽत्येति पाङ्क्तो वै पुरुषो लोम त्वङ्मांसमस्थि मज्जा पाङ्क्तो इयं वेदिश्चतस्रो दिश आत्मा पञ्चम्येवमेष सप्तविध एतया वेद्या सम्पद्यते”-(श. प. १० । २ । ३ । ५ ।) इति । सा सम्पत्तिरितरेषु त्रयोदशपुरुषेषु द्रष्टव्येत्यर्थः ॥ १५ ॥

Eggeling
  1. As to this they say, ‘When thirteen man’s lengths are over, how is it that these do not deviate

from the right proportions (of the altar) 20?’ Well, what right proportions there were in the case of that seventh man’s length 21, these same proportions (also apply) to all these (redundant man’s lengths).

१६

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरे᳘वात्मा᳘नं व्विधा᳘य त᳘स्य य᳘त्र यत्र᳘ न्यूनमा᳘सीत्त᳘देतैः᳘ समा᳘पूरयत ते᳘नो ऽएवा᳘पि स᳘म्पन्न ऽइ᳘ति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरे᳘वात्मा᳘नं व्विधा᳘य त᳘स्य य᳘त्र यत्र᳘ न्यूनमा᳘सीत्त᳘देतैः᳘ समा᳘पूरयत ते᳘नो ऽएवा᳘पि स᳘म्पन्न ऽइ᳘ति॥

मूलम् - Weber

अ᳘थो आहुः॥
प्रजा᳘पतिरेॗवात्मा᳘नं विधा᳘य त᳘स्य य᳘त्र-यत्रॗ न्यूनमा᳘सीत्त᳘देतैः᳘ समा᳘पूरयत ते᳘नो एवा᳘पि स᳘म्पन्न इ᳘ति॥

मूलम् - विस्वरम्

अथो आहुः- प्रजापतिरेवात्मानं विधाय तस्य यत्र-यत्र न्यूनमासीत्तदेतैः समापूरयत । तेन उ एवापि सम्पन्न- इति ॥ १६ ॥

सायणः

प्रकारान्तरेण सम्पत्तिमाह- अथो आहुः प्रजापतिरेवात्मानमिति । पूर्वं ‘प्रजापतिरात्मानम्’ विधाय ‘यत्र यत्र न्यूनम्’ अङ्गजातं तत्र तत्र ‘एतैः’ त्रयोदशभिः पूरितवान् । अतः संख्या सम्पन्ना भवतीत्याचार्याः आहुरित्यर्थः ॥ १६ ॥

Eggeling
  1. And they also say, ‘When Prajāpati had formed the body he filled it up with these (redundant lengths) wherever there was anything defective in it; and therefore also it is rightly proportioned.

१७

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
(क ऽ) ए᳘कवि᳘धं प्रथमं व्विदधत्यथै᳘कोत्तरमा᳘ ऽपरिमितविधान्न[[!!]] त᳘था कुर्यात्॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
(क ऽ) ए᳘कवि᳘धं प्रथमं व्विदधत्यथै᳘कोत्तरमा᳘ ऽपरिमितविधान्न[[!!]] त᳘था कुर्यात्॥

मूलम् - Weber

तद्धै᳘के॥
ए᳘कविधम् प्रथमं वि᳘दधत्यथै᳘कोत्तरमा᳘परिमितविधान्न त᳘था कुर्यात्॥

मूलम् - विस्वरम्

तद्धैके- एकविधं प्रथमं विदधति । अथैकोत्तरम्- आ अपरिमितविधात् । न तथा कुर्यात् ॥ १७ ॥

सायणः

अथ सर्वेषां चित्याग्नीनां सप्तविध एव प्राकृतः एकशतविध एवान्त इति सिद्धान्तयितुं पूर्वपक्षयति- तद्धैक एकविधं प्रथमं कुर्वन्तीति । ‘एके’ आचार्याः ‘प्रथमम्’ आदौ ‘एकविधम्’ एकपुरुषप्रमाणमग्निं कुर्वन्ति । ततः ‘एकोत्तरं’ द्विपुरुषप्रमाणं त्रिपुरुषप्रमाणमित्येकैकपुरुषाधिक्येन अपरिमितपुरुषप्रमाणपर्यन्तमग्निं वर्द्धयन्ति । तन्मतं दूषयति- न तथा कुर्यादिति ॥ १७ ॥

Eggeling
  1. As to this some say, ‘The first time they construct a simple (altar 22), then the one higher by one (man’s length), up to the one of unlimited size.’ Let him not do so.

१८

विश्वास-प्रस्तुतिः

(त्स) सप्त᳘विधो वा ऽअ᳘ग्रे प्रजा᳘पतिरसृज्यत॥
स᳘ ऽआत्मा᳘नं व्वि᳘दधान ऽऐत्स ऽए᳘कशतविधे ऽतिष्ठत स᳘ यो ऽर्व्वाची᳘नᳫँ᳭ सप्त᳘विधाद्विधत्त᳘ ऽएत᳘ᳫँ᳘ ह स᳘ पित᳘रं प्रजा᳘पतिं व्वि᳘च्छिनत्ति स᳘ ऽइष्ट्वा पा᳘पीयान्भवति य᳘था श्रे᳘याᳫँ᳭सᳫँ᳭ हिᳫँ᳭सित्वा᳘ ऽथ स ऽए᳘कशतविधमतिविध᳘त्ते ऽस्मात्स स᳘र्व्वस्माद्बहिर्धा नि᳘ष्पद्यते स᳘र्व्वमु᳘ हीदं᳘ प्रजा᳘पतिस्त᳘स्मादु सप्त᳘विधमेव᳘ प्रथमं व्वि᳘दधीताथै᳘कोत्तरमै᳘कशतविधादे᳘कशतविधं तु᳘ नातिवि᳘दधीत ना᳘हैतं᳘ पित᳘रं प्रजा᳘पतिं व्विच्छिन᳘त्ति᳘ नो ऽअस्मात्स᳘र्व्वस्माद्बहिर्धा नि᳘ष्पद्यते॥

मूलम् - श्रीधरादि

(त्स) सप्त᳘विधो वा ऽअ᳘ग्रे प्रजा᳘पतिरसृज्यत॥
स᳘ ऽआत्मा᳘नं व्वि᳘दधान ऽऐत्स ऽए᳘कशतविधे ऽतिष्ठत स᳘ यो ऽर्व्वाची᳘नᳫँ᳭ सप्त᳘विधाद्विधत्त᳘ ऽएत᳘ᳫँ᳘ ह स᳘ पित᳘रं प्रजा᳘पतिं व्वि᳘च्छिनत्ति स᳘ ऽइष्ट्वा पा᳘पीयान्भवति य᳘था श्रे᳘याᳫँ᳭सᳫँ᳭ हिᳫँ᳭सित्वा᳘ ऽथ स ऽए᳘कशतविधमतिविध᳘त्ते ऽस्मात्स स᳘र्व्वस्माद्बहिर्धा नि᳘ष्पद्यते स᳘र्व्वमु᳘ हीदं᳘ प्रजा᳘पतिस्त᳘स्मादु सप्त᳘विधमेव᳘ प्रथमं व्वि᳘दधीताथै᳘कोत्तरमै᳘कशतविधादे᳘कशतविधं तु᳘ नातिवि᳘दधीत ना᳘हैतं᳘ पित᳘रं प्रजा᳘पतिं व्विच्छिन᳘त्ति᳘ नो ऽअस्मात्स᳘र्व्वस्माद्बहिर्धा नि᳘ष्पद्यते॥

मूलम् - Weber

सप्त᳘विधो वा अ᳘ग्रे प्रजा᳘पतिरसृज्यत॥
स᳘ आत्मा᳘नं वि᳘दधान ऐत्स ए᳘कशतविधेऽतिष्ठत सॗ योऽर्वाची᳘नᳫं सप्त᳘विधाद्विधत्त᳘ एत᳘ᳫं᳘ ह स᳘ पित᳘रम् प्रजा᳘पतिं वि᳘छिनत्ति स᳘ इष्ट्वा पा᳘पीयान्भवति य᳘था श्रे᳘यांसᳫं हिंसित्वा᳘थ स ए᳘कशतविधमतिविधॗत्तेऽस्मात्स स᳘र्वस्माद्बहिर्धा नि᳘ष्पद्यते स᳘र्वमुॗ हीद᳘म् प्रजा᳘पतिस्त᳘स्मादु सप्त᳘विधमेव प्रथमं वि᳘दधीताथै᳘कोत्तरमै᳘कशतविधादे᳘कशतविधं तुॗ नातिवि᳘दधीत ना᳘हैत᳘म् पित᳘रम् प्रजा᳘पतिं विछिन᳘त्तिॗ नो अस्मात्स᳘र्वस्माद्बहिर्धा नि᳘ष्पद्यते॥

मूलम् - विस्वरम्

सप्तविधो वा अग्रे प्रजापतिरसृज्यत । स आत्मानं विदधान ऐत् । स एकशतविधे ऽतिष्ठत । स यो ऽर्वाचीनं सप्तविधाद्विधत्ते । एतं ह स पितरं प्रजापतिं विच्छिनत्ति । स इष्ट्वा पापीयान्भवति- यथा श्रेयांसं हिंसित्वा । अथ य एकशतविधमतिविधत्ते- अस्मात्स सर्वस्माद्बहिर्धा निष्पद्यते । सर्वमु हीदं प्रजापतिः । तस्मादु सप्तविधमेव प्रथमं विदधीत- अथैकोत्तरम्- आ एकशतविधात् । एकशतविधं तु नातिविदधीत- नाहैतं पितरं प्रजापतिं विच्छिनत्ति । नो अस्मात्सर्वस्माद्बहिर्धा निष्पद्यते ॥ १८ ॥

सायणः

तत्र कारणमाह- सप्तविधो वा अग्रे प्रजापतिरसृज्यतेति । पूर्वं प्रजापतिः सप्तभिः प्राणैः सप्तपुरुषात्मक एकः पुरुषः सृष्टः इति षष्ठे प्रतिपादितम्- “त एतान् सप्त पुरुषानेकं पुरुषमकुर्वन्”- (श. प. ६ । १ । १ । ३) । “स एव पुरुषः प्रजापतिरभवत्” (श. प. ६ । १ । १ । ५) इति । सो ऽयं ‘प्रजापतिरात्मानम्’ एकोत्तरवृद्ध्या ‘विदधान ऐत्’ अगच्छत् ‘स एकशतविधे’ ‘अतिष्ठत’ ततः परं न गतवान् । अतः ‘सप्तविधाद्’ अर्वाचीनपुरुषप्रमाणमग्निं ‘यः’ चिनुयात् ‘सः’ यथा महान्तं ‘हिंसित्वा’ ‘पापीयान् भवति’ तथा ‘श्रेयांसम्’ ‘पितरम्’ ‘प्रजापतिम्’ विच्छिद्य ‘इष्ट्वा’ पापी भवति । तथा ‘यः’ एकशतविधाग्निमतिक्रम्य अधिकपुरुषप्रमाणमग्निं चिनुयात् स सर्वस्मादस्माद्बहिर्भूतो ‘निष्पद्यते,’ यतः ‘इदं सर्वं प्रजापतिः’ ‘तस्मात्’ सप्तविध ‘एव’ ‘प्रथमं’ चेतव्यः । ततः उपरि एकैकपुरुषाभिवृद्ध्या एकशतविधपर्यन्तं चिनुयात् । एवं च न्यूनत्वे जातः प्रजापतेर्विच्छेदः, आधिक्ये तु जातः स्वस्य सर्वस्माद्बहिर्भावः, तावुभावपि न सम्भवत इति तात्पर्यम् ॥ १८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे द्वितीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (१०-२-३) ॥

Eggeling
  1. Sevenfold, indeed, Prajāpati was created in the beginning. He went on constructing (developing) his body, and stopped at the one hundred and one-fold one. He who constructs one lower than a sevenfold one cuts this Father Prajāpati in twain: he will be the worse for sacrificing as one would be by doing injury to his better. And he who constructs one exceeding the one hundred and one-fold one steps beyond this universe, for Prajāpati is this universe. Hence he should first construct the sevenfold (altar), then the next higher up to the one hundred and one-fold one, but he should not construct one exceeding the one hundred and one-fold

one, and thus, indeed, he neither cuts this Father Prajāpati in twain, nor does he step beyond this universe.


  1. 306:3 That is, measuring seven times the length of a man standing with upstretched arms. ↩︎

  2. 307:1 That is, ’the wife’s hall,’–the sacrificial hall or shed, usually called Prācīnavaṁśa or Prāgvaṁśa, measuring 20 cubits by 10 (part ii, p. 3, note 2), in which the original fires and vedi of ishṭis are enclosed at the Soma-sacrifice; see the plan, part ii, p. 475. ↩︎

  3. 307:2 A fathom (vyāma) is the space between the tips of the two middle fingers of a man standing with outstretched arms, this being considered the man’s height. In this paragraph, the author roughly recapitulates the main dimensions of the sacrificial ground used for ishṭis, which will also be required for the present purpose. The dimensions here supplied will give about the distance of eight steps between (the centres of) the Gārhapatya and Āhavanīya fires required by I, 7, 3, 23. In the middle of the space of a fathom here alluded to as the easternmost space of the hall, the (original square) Āhavanīya is laid down, but this ultimately makes way for the new circular Gārhapatya hearth built of bricks and having the whole of this ‘fathom’ for its diameter. ↩︎

  4. 307:3 That is, the hindmost (western) point of the (easterly line of the) Mahāvedi of the Soma-sacrifice, where the peg, called ‘antaḥpātya,’ is driven in, being three steps east from the post of the front door of the Prācīnavaṁśa (and hence three steps from the future circular Gārhapatya hearth built of bricks). ↩︎

  5. 307:4 Literally, these are (ten) steps, having the fathom as an eleventh (space or step). ↩︎

  6. 308:1 That is, the brick-built Gārhapatya of the Agnicayana on which the Ukhya Agni, having been carried about by the Sacrificer for a year, is transferred from the fire-pan (ūkhā), and from which afterwards the fire of the great altar is derived. This new Gārhapatya has been raised on the site of the old (square) Āhavanīya (the so-called ‘śālādvārya’ or hall-door fire), on which the fire in the pan, the Ukhya Agni, was kindled (esha āhavanīyo vakshyamāṇāyāś cayanamahāveder gārhapatyo bhavati; Sāy.). The pan containing this fire was then placed half a fathom south of (the centre of) the old Āhavanīya, and hence so as to stand quite close to the brick-built Gārhapatya raised in its place, and forming a circle with a diameter of one fathom. Thus this ‘space of a fathom’ is here quite correctly referred to as the original source of the fires of the Agnicayana. ↩︎

  7. 308:2 For the dimensions of the Mahāvedi here referred to, see part ii, p. 111 seq. ↩︎

  8. 309:1 That is, in the first of these seven persons or men, making up the sacrificial man (yajña-purusha), Prajāpati; that first man being the Sacrificer himself, as supplying the standard for these measures. ↩︎

  9. 309:2 That is, the fifth region, situated in a vertical direction, this being represented by the fire-altar which rises upwards. ↩︎

  10. 309:3 Somewhat differently Professor Delbrück, Altind. Syntax, p. 444, ‘The womb does not grow in proportion with the embryo produced therein.’ ↩︎

  11. 309:4 The argument of the author apparently is, that the planned enlargement of the fire-altar is an enlargement of the child Agni, after he has been born, and does not involve an increased size of the original sacrificial ground of the Prācīnavaṁśa. ↩︎

  12. इदमत्रत्यं कर्कभाष्यमिति ज्ञेयम् । ↩︎

  13. 310:1 That is, of course, the Mahāvedi on which the (ordinary) fire-altar is raised, and which is enlarged in proportion to the size of the altar. The intermediate sizes of the fire-altar between the two extremes here alluded to increase each by four square ‘man’s lengths’ (the man being measured with upstretched arms), or by one man’s length on each side of the body of the altar; the largest possible altar thus measuring 101 man’s lengths on each side. ↩︎

  14. षट्त्रिंशत्प्रक्रमां रज्जुमित्यादेर्यद्विवेचनम् । कृतं भाष्ये न तत्सूत्रश्रुतियोगार्थसंगतम् ॥ १ ॥ षट्त्रिंशत्प्रक्रमायामे सप्तमांशास्त्रयो ऽत्र ते । प्रक्रमा दश पञ्चाथांगुलानि दश पञ्च च ॥ २ ॥ सप्तमांशास्त्रयो ऽप्येकस्यांगुलस्य भवंति तु । नैतत्पूर्वापरं मानमग्निना व्याप्यते क्वचित् ॥ ३ ॥ नैव तिर्यक्प्रमाणं च भाष्ये प्रोकं यथा तथा । अत्र चैकशतस्याग्नेर्वेदिः श्रुत्योच्यते यथा ॥ ४ ॥ यावत्येषेत्युपक्रम्य षट्त्रिंशत्प्रक्रमामिति ॥ ५ ॥ ↩︎

  15. 310:2 A step, or pace (prakrama) is equal to 3 feet (pada), a foot measuring 12 finger-breadths (aṅgula),–these measures being, however (at least theoretically), relative to the Sacrificer’s height. ↩︎

  16. 310:3 That is to say, he stretches the cord along the ground from the (western) ’end of the Vedi’ eastwards, and marks off on the ground three-sevenths of the cord on the eastern side, that part of the Vedi being afterwards covered by the brick-built altar, whilst the remaining space behind is required for the Sadas and Havirdhāna sheds, &c. If we take the Mahāvedi to be 108 feet long (= 36 prakramas) this would allow 15 3/8 feet for each part, or some 46 feet for the length of the part to be covered with bricks, and this measure, being equal to seven man’s lengths, would allow 6 4/7 feet for a man’s length (including the upstretched arms). Between the altar and the front (eastern) edge of the Vedi a space of one foot is, however, to be left. ↩︎

  17. 310:4 That is, he stretches the cord across (north to south) and marks off the three central divisions of it as forming the hind side of the altar (leaving two-sevenths of the string free on either side). This gives 12 5/7 (out of 90) feet for each part, or 38 4/7 feet for the back, or western, side of the altar. ↩︎

  18. 311:1 This gives 10 2/7 (out of 72) feet for each part, or 30 6/7 feet for the front, or eastern, side of the altar. The measurements here given are intended as a refinement on the usual square shape of the fire-altar. ↩︎

  19. अथ त्रिपुरुषाँ रज्जुं मिमीते ताँ सप्तधा समस्यति तस्यै चतुरो भागानात्मन्नुपदधाति त्रीन् पक्षपुच्छेषु । एवमेव का. श्रौ. सू. परि. शुल्बे- ५ । १२ ॥ ↩︎ ↩︎

  20. 312:1 Or, from the right total (sampad) which the altar ought to obtain. By paragraph 7, the altar is to be made fourteen times as large as the sevenfold one; and the latter being said to be in exact proportion with Prajāpati (in paragraph 3), the larger altar would thus show an excess of thirteen man’s lengths over the rightly proportioned altar. ↩︎

  21. 312:2 Viz. in paragraph 5. ↩︎

  22. 312:3 That is, one of a single man’s length on each side. ↩︎